श्रीमद् भूतपुरीमाहात्म्यम् Part 1

|| भूतपुरी दर्शनम् ||

Part 1

(सुप्रभातमङ्गलाशासनप्रपत्तिमाहात्म्यादिअनेकस्तोत्रपुरस्स्कृतम्)

EMPERUMANAR (chithirai – thiruvadhirai)

एम्बेरुमानार्‌, उडैयवर्‌, श्रीभाष्यकारः भगवद्रामानुजः

दर्शनस्थापकाचार्यःउभयवेदान्तप्रवर्तकाचार्यः

उभयविभूतिसाम्राज्यप्रदायकाचार्यःचतुस्सप्ततिपीठाढचः,

पञ्चाचार्यपदाश्रयः

मेषार्द्रासम्भवं विष्णोर्‌ दर्शन-स्थापनोत्सवम्‌।

तुण्डीरमण्डले शेष-मूर्तिम्‌ रामानुजं भजे॥

அத்திகிரி அருளாளர் அடிபணிந்தோன் வாழியே
அருட்கச்சி நம்பியுரை ஆறுபெற்றோன் வாழியே
பத்தியுடன் பாடியத்தைப் பகர்ந்திட்டான் வாழியே
பதின்மர்கலை உட்பொருளைப் பரிந்துகற்றான் வாழியே
சுத்தமகிழ் மாறனடி தொழுதுய்ந்தோன் வாழியே
தொல் பெரிய நம்பி சரண் தோன்றினான் வாழியே
சித்திரையில் ஆதிரை நாள் சிறக்க வந்தோன் வாழியே
சீர் பெரும்பூதூர் முனிவன் திருவடிகள் வாழியே

எண்டிசையெண் இளையாழ்வார் எதிராசன் வாழியே
எழுபத்து நால்வருக்கும் எண்ணான்குரைத்தான் வாழியே
பண்டை மறையைத் தெரிந்த பாடியத்தோன் வாழியே
பரகாலன் அடியிணையைப் பரவுமவன் வாழியே
தண்டமிழ் நூல் நம்மாழ்வார் சரணானான் வாழியே
தாரணியும் விண்ணுலகும் தானுடையோன் வாழியே
தெண்டிரை சூழ்பூதூர் எம்பெருமானார் வாழியே
சித்திரையில் செய்யதிருவாதிரையோன் வாழியே

மாமுனிகள் ஆர்த்தி ப்ரபந்தத்தில் அருளியன:

சீராருமெதிராசர் திருவடிகள் வாழி
திருவரையிற்சாத்திய செந்துவராடை வாழி
ஏராரும் செய்யவடிவெப்பொழுதும் வாழி
இலங்கிய முன்னூல்வாழி இணைத் தோள்கள் வாழி
சோராத துய்யசெய்ய முகச்சோதி வாழி
தூமுறுவல் வாழி துணை மலர்க் கண்கள் வாழி
ஈராறு திருநாமம் அணிந்த எழில் வாழி
இனிதிருப்போடு எழில் ஞானமுத்திரை வாழியே

அறுசமயச் செடியதனை அடியறுத்தான் வாழியே
அடர்ந்து வரும் குதிருட்டிகளை அறத்துறந்தான் வாழியே
செறுகலியைச் சிறிதுமறத் தீர்த்துவிட்டான் வாழியே
தென்னரங்கர் செல்வம் முற்றும் திருத்திவைத்தான் வாழியே
மறை அதனில் பொருளனைத்தும் வாய் மொழிந்தோன் வாழியே
மாறனுரைசெய்த தமிழ்மறை வளர்த்தோன் வாழியே
அறமிகு நற்பெரும்பூதூர் அவதரித்தான் வாழியே
அழகாருமெதிராசர் அடியிணைகள் வாழியே

சங்கர பாற்கர யாதவ பாட்டப் பிரபாகரர் தங்கள்மதம்
சாய்வுற வாதியர் மாய்குவர் என்று சதுமறை வாழ்ந்திடுநாள்
வெங்கலி இங்கினி வீறு நமக்கிலை என்று மிகத் தளர் நாள்
மேதினி நம் சுமை ஆறுமெனத்துயர்விட்டு விளங்கிய நாள்
மங்கையராளி பராங்குச முன்னவர் வாழ்வு முளைத்திடு நாள்
மன்னியதென்னரங்காபுரி மாமலை மற்றும் உவந்திடு நாள்
செங்கயல் வாவிகள் சூழ் வயல் நாளும் சிறந்த பெரும்பூதூர்ச்
சீமானிளையாழ்வார் வந்தருளிய நாள் திருவாதிரை நாளே

 

अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः

. भविष्यदाचार्यःश्रीशठारिसन्दृष्टः दक्षिणकुरुकापुर्याम्

श्रीरामानुजचतुर्वेदिमङ्गलाग्रहारस्थः

शठारि-नाथ-दृष्टाय मेषार्द्रा-भव्य-मूर्तये।

                                            महाभूतपुरीशाय स्व-पूर्वार्चा-भुवे नमः॥

. तानुहन्दतिरुमेनि, श्रीयादवाद्रि यतिराजः उत्सवार्चाविजयदशमी

द्विपञ्चाशद्‌ वैष्णवाग्रे स्वार्थे सम्पत्सुताय यः।

विजयाश्वयुजेऽर्चाभूद्‌-यतिराजाय मङ्गलम्‌॥ – इळैयविल्लिगुरोः

. तमरुहन्दतिुरमेनि, श्रीमन्महाभूतपुरस्था उत्सवार्चातै पुष्यम्

स्वावतारस्थलेऽर्चाभून्‌+मकरे गुरुपुष्यके।

यन्मुदे तु यतीन्द्रस्‌ तं वारणाधीशमाश्रये॥ – तिरुमुडि अहैवु

(रामानुजगुरुं भजे)

. तानानतिरुमेनि श्रीरङ्गबृन्दावनस्था सुधालिप्ता मूर्तिः

माघशुद्‌ध-दशम्यां तु मध्यान्हे मन्दवासरे।

योगिराजस्‌ स्व-भोगीश-भावं स्वे भे समभ्यगात्‌॥

– मिरिलासालग्रामानन्तार्यस्य प्रपन्नामृते

******

श्रीरामानुजसुप्रभातम्  (Version 01)

श्रीमते रामानुजाय नमः

 

जय जय यति सार्व भौमामलस्वान्त ! तुभ्यं नमः

जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः!।

जय जय भजनीय ! कूरेशमुख्यैः प्रसीद प्रभो !

जय जय विदुषां निधे! जागृहि श्रीनिधे! जागृहि॥ १

पूर्णायपूर्णकरुणापरिलब्धबोध !

वैराग्यभक्तिमुखदिव्यगुणामृताब्धे !।

श्रीयामुनार्यपदपङ्कजराजहंस !

रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ २

आनेतुमद्य वरदस्य गजाद्रिभर्तुः

पानीयमच्छमतिशीतमगाधकूपात्।

ध्वान्तं निरस्तमरुणस्य करैस्समन्तात्

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ३

श्रीरङ्गराजपदपङ्कजयोरशेष –

कैकर्यमाकलयितुं सकुतूहलस्त्वम्।

उत्तिष्ठ नित्यकृतिमप्यखिलां च कर्तुं

रामानुजार्य! भगवन् ! तव सुप्रभातम्॥ ४

श्रीमत्कुरङ्गपरिपूर्णविभुस्त्वदुक्तं

श्रीभाष्यशास्त्रममलं त्वयि भक्तियुक्तः।

श्रोतुं समिच्छति यतीन्द्र ! सितोर्ध्वपुण्ड्रः

तं बोधयार्थमखिलं तव सुप्रभातम्॥ ५

श्रीमान् स पूर्णवटुरादरतः प्रगृह्य

श्रीपादुकां यतिपते ! पदयोः प्रयोक्तुम्।

द्वारि स्थितिं वितनुते प्रणतार्तिहारिन् !

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ६

प्रातः पठन्ति परमद्रविडप्रपन्न –

गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्।

श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ७

काषायवस्त्रकटिसूत्रकमण्डलूंश्च –

श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः।

पाणौ निधाय निवसन्ति विशुद्धगात्राः

रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ ८

त्वां बोधयन्ति गुरवः प्रथिता महान्तः

श्रीवैष्णवाश्च यमिनस्तव पादभक्ताः।

एकान्तिनश्च विमलास्त्वदनन्यभावाः

तान् पालयाद्य यतिशेखर ! सुप्रभातम् ॥ ९

ब्राह्मे प्रबुध्य विबुधाः स्वगुरून् प्रणम्य –

रामानुजाय नम इत्यसकृत् ब्रुवाणाः।

अष्टाक्षरं सचरमं द्वयमुच्चरन्ति

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १०

संसेव्य ! सप्तशतसंयमिसार्वभौमैः

सद्देशिकैः सकलशास्त्रविदां वरिष्ठैः।

एकान्तिभिः परमभागवतैर्निषेव्य !

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ११

आराधनं रचयितुं कमलासखस्य –

श्रीयादवाचलपतेः विविधोपचारैः।

पातुं च दृष्टिकमलेन नतानशेषान्

रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ १२

श्रीभाष्यमालिखितुमात्तविशाललेख्यः

श्रीवत्सचिह्नगुरुरानतदिव्यगात्रः।

वेदान्तसूत्रमपि वक्तुममुष्य सर्वं

उत्तिष्ठ लक्ष्मणमुने ! तव सुप्रभातम् ॥ १३

रामानुजार्य! रमणीयगुणाभिराम !

रागादिदूरगगुरो ! गुरुसार्वभौम !।

सत्त्वप्रधान ! शरणागतवत्सल ! त्वत् –

पादाब्जयोरिह परत्र च किङ्करस्याम् ॥ १४

इति श्रीभगवद्रामानुजसुप्रभातं समाप्तम्

श्रीरामानुजसुप्रभातम् (version 02)

 

श्रीमन् संयमिसार्वभौम भगवन् रामानुजार्य प्रभो

याता रात्रिरुपागतं शिवमहस्तेजोनिधे जाग्रहि ।

श्रीमद्यावशैलनित्यवसते श्रीभाष्यकार श्रिया

क्षेमं रङ्ग-वृषाद्रि-हस्ति-यदुशैलाद्येषु संवर्धय ।। (१) (नञ्जीयार्)

जय जय योगिराज जय दीनदयाजलधे

जय जय पुण्डरीकदललोचन लोकपते ।

जय जय शरदेन्दुविमलालन विश्वगुरो

जय जय पाहि मां त्वदवलोकनलास्यलवैः ।। (२)

श्रीमल्लक्ष्मणयोगीन्द्र सुप्रभाताद्य ते निशा ।

उत्तिष्ठोत्तिष्ठ भद्रं ते जितं ते विजयी भव ।। (३)

रामानुजार्य योगीन्द्र विभूतिद्वयनायक ।

श्रीभाष्यकार भगवन् गोदाग्रज जय प्रभो ।। (४)

उत्तिष्ठास्मन्मदाचार्य गोदात्रिंशन्महामुने ।

कृपामात्रप्रसन्नार्य वैदिकाग्रशिखामणे ।। (५)

उत्तिष्ठ शठजित्पाद सम्पत्प्रावण्य जीवन ।

श्रीमद्वेङ्कटशैलेश-शङ्खचक्रप्रद प्रभो ।। (५)

उत्तिष्ठोत्तिष्ठ किं शेषे कालोऽयमतिवर्तते ।

आत्मानं नातिवर्तेथाः स्वामिन् जागृहि जागृहि ।। (६)

ब्राह्मे प्रबुद्ध्य विबुधास्सुगुरून् प्रणम्य

रामानुजाय नम इत्यसकृत् ब्रुवाणाः ।

अष्टाक्षरं सचरमद्वयमुच्चरन्ति

रामानुजार्य भगवंस्तव सुप्रभातम् ।। (७)

प्रातः पठन्ति परमद्रविडप्रपन्न –

गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्।

श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः

रामानुजार्य  भगवन्  तव सुप्रभातम् ॥ (८)

काषायवस्त्रकटिसूत्रकमण्डलूंश्च –

श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः।

पाणौ निधाय निवसन्ति विशुद्धगात्राः

रामानुजार्य भगवन्  तव सुप्रभातम् ॥ ९)

गद्यत्रयं निगमशेखरदीपसारौ

वेदार्थसङ्ग्रहमपि प्रथितं च नित्यम् ।

गीतार्थभाष्यमपि देशिकपुङ्गवेभ्यो

दातुं प्रसीद यतिशेखर सुप्रभातम् ।।  (१०)

जय जय यति सार्व भौमामलस्वान्त  तुभ्यं नमः

जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः।

जय जय भजनीय  कूरेशमुख्यैः प्रसीद प्रभो

जय जय विदुषां निधे जागृहि श्रीनिधे जागृहि ॥ ११ (नञ्जीयर्)

इति श्रीरामानुजसुप्रभातम्

 

अथ श्रीभाष्यकारप्रपत्तिः

 

श्रीवैष्णवागमपयोदधि पूर्णचन्द्र

श्रीशाङ्घ्रिपद्म मकरन्दरसज्ञभृङ्ग ।

गोविन्दवर्यकरसारसपूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१)

श्रीशैलपूर्णमुखदेशिकलब्धबोध

तुर्याश्रमप्रथित मौनिकुल प्रदीप ।

भट्टार्यवर्यकरनीरजपूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (२)

काञ्चीपुरीवरदराजकृपैकपात्र

रङ्गेश पूर्णकरुणा परिणामरूप।

वेदान्तदेशिककराम्बुज पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (३)

श्रीयादवाद्रि पतिपादसरोजहंस

श्रीभूतपट्टणरमेश कटाक्ष धन्य ।

शेषावतार कलिवैरिकरार्चितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (४)

श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य

सर्वज्ञभव्य यतिशेखर सार्वभौम।

वीक्षा वनेशहितकृष्णवनार्चितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (५)

पाषण्डजालतरुपावक सम्यमीन्द्र

जैनेभपञ्चमुखबौद्धतमो दिनेश।

लोकार्यहस्तसरसीरुह पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (६)

चार्वाकशैलपतिवज्र कृपासमुद्र

काणाददानव सुदर्शन मौनिचन्द्र।

श्रीवेङ्कटेशकरपङ्कज पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (७)

मिथ्याकथा कुमतिशीलभुजङ्गतार्थ्य

कापालिकाम्बुधरमारुत वीतराग ।

मन्नाथ केशवगुरूत्तमपूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (८)

त्रय्यन्तदेशिकपते वकुळाभिराम

पादारविन्द रससारस सारसाक्ष।

श्रीमत् शठारि मुनिवल्लभ पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (९)

काषायरम्यकमनीय शिखोपवीत

दण्डत्रयोज्ज्वल करोल्लसितोर्ध्वपुण्ड्र ।

उद्यद्दिनेश रुचिशोभित पाहि मां ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१०)

इति श्रीभाष्यकारप्रपत्तिः समाप्ता

 

अथ श्रीयतिराजमङ्गलानुशानम्

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।

कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ (१) वरवरमुनेः

शेषो वा सैन्यनाथो वा श्रीपति वेति सात्विकैः ।

वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ।। (२) अनन्ताल्वारु-कृतिः

नाथपद्माक्षरामार्यपादपङ्कज सेविने ।

सेव्याय सर्वयमिनां यतिराजाय मङ्गळम् ॥ (३)

श्रीकाञ्चीपूर्णमिश्रोक्त रहस्यार्थविदे सदा ।

देवराजप्रियायास्तु यतिराजाय मङ्गळम् ॥ (४) आचार्याणाम्

सन्यासं कुर्वते काञ्च्यां अनन्तसरसीतटे ।

वरदे न्यस्तभाराय भाष्यकाराय मङ्गळम् ॥ (५)

श्रीपराङ्कुशपादाब्ज सुरभीकृत मौलये ।

श्रीवत्सचिह्ननाथाय यतिराजाय मङ्गळम् ॥ (६) वरवरमुनेः

श्रीरङ्गराजकैङ्कर्य-दिव्यसाम्राज्यरक्षणे ।

विशिष्टाद्वैतदीक्षाय यतिराजाय मङ्गळम् ॥ (७)

गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च ।

अवलोक्यागतायास्तु भाष्यकाराय मङ्गळम् ॥ (८)

परमाणुमृषावादिवादिसंहारकारिणे ।

तस्मै भगवते श्रीमद्भाष्यकाराय मङ्गळम् ॥ (९)

शङ्करादिकुदृष्टीनां बाह्यानां निधनाय च ।

श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गळम् ॥ (१०) वरवरमुनेः

श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयम् ।

पित्रे संपत्सुतस्यापि यतिराजाय मङ्गळम् ॥ (११)

द्रमिडोपनिषद्व्याख्यां कालयेति कृपाबलात् ।

शासते कुरुकेशं तं यतिराजाय मङ्गळम् ॥ (१२) आचार्याणां

यो मन्त्ररत्नं व्यवृणोत् गद्यत्रयसूक्तिभिः ।

तस्मै प्रसन्नधुर्याय  यतिराजाय मङ्गळम् ।। (१३) वरवरमुनेः

कृत्वा यदुगिरीशस्य यौवराज्यं श्रियःपतेः ।

संपत्सुतस्य ताताय यतिराजाय मङ्गळम् ।। (१४)

द्विपञ्चाळद्वैषाग्रे  स्वार्थे संपत्सुताय च ।

अर्चारूपर्ग्रहीतेऽस्याद्य यतिराजाय मङ्गळम् ।। (१५)

दत्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः ।

परमप्रीतियुक्ताय यतिराजाय मङ्गळम् ।। (१६)

गोदा वाङ्मनसप्रोक्तमत-कैङ्कर्यकारिणे ।

गोदाग्रजाय मुनये यतिराजाय मङ्गळम् ।। (१७) वरवरमुनेः

श्रीरङ्गाधीश्वराभीष्ट-दिक्पवनेषु सन्ततम् ।

व्यामुग्धमानसायास्तु यतिराजाय मङ्गळम् ।। (१८)

यात्राव्याजेन जगतीम् अपुनात् यस्स्व पादतः ।

पवित्रमूर्तये तस्मै यतिराजाय मङ्गळम् ।। (१९) आचार्याणां

कूरेशकुरुकानाथदाशरथ्यादिदेशिकाः ।

यच्छिष्या भान्ति ते तस्मै यतिराजाय मङ्गळम् ॥ (२०)

यस्यैश्वर्यं च माता च नित्याचार्यश्रियः पतिः ।

वरं पाराङ्कुशीवात्स्यात् यतिराजाय मङ्गळम् ॥ (२१) वरवरमुनेः

प्राचीनानां च वाक्यानां फलाय तपसां नृणाम् ।

जगज्जीवातवे भूयात् यतिराजाय मङ्गळम् ॥ (२२)

मिथोऽनपेक्ष-मोक्षैकदानदक्षरजोङ्घ्रये ।

करुणावक्ष्मलाक्षाय यतिराजाय मङ्गळम् ॥ (२३)

यद्वचः श्रीदया वापि वेनाक्षरमयं भवेत् ।

सार्वज्ञशालिने तस्मै यतिराजाय मङ्गळम् ॥ (२४)

यत्पादसेविनः पुंसः ज्ञानभक्तिविरक्तयः ।

भूषयन्ति स्वयं तस्मै  यतिराजाय मङ्गळम् ॥ (२५)

सालग्रामगुरुस्राव्यप्राप्त -स्वपादूतीर्थमन्त्रिणे ।

प्रसन्नगायत्रीशाय यतिराजाय मङ्गळम् ॥ (२६)

प्रकृष्टगुणपूर्णाय प्राप्याय स्वाङ्घिसेविनाम् ।

प्रपन्नसार्थवाहाय यतिराजाय मङ्गळम् ॥ (२७) वरवरमुनिः

लक्ष्मणो बलभद्रश्च तिन्त्रिणी पार्थसद्रथः।

यो भूतभव्यावताराय यतिराजाय मङ्गळम् ॥ (२८) आचार्याणां

शेषांशेनावतीर्णाय श्रीरामानुजयोगिने ।

गुरूणां गुरवे भूयान्नित्यश्रूः नित्यमङ्गलम् ।। (२९) अभिरामवरस्य

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।

सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ (३०) वरवरमुनिः

इति श्रीयतिराजमङ्गलानुशानं समाप्तम्

 

श्री रामानुजाष्टकम्

रामानुजाय मुनये नम उक्तिमात्रं
कामातुरोऽपि कुमतिः कलयन्नभीष्टम् ।
यामामनन्ति यमिनां भगवज्जनानां
तामेव विन्दति गतिं तमसः परस्तात् ॥ (१)

सोमावचूड सुरशेखर-दुष्करेण
कामातिगोऽपि तपसा क्षपयन्नघानि ।
रामानुजाय मुनये नम इत्यनुक्त्वा
को वा महीसहचरे कुरुतेऽनुरागम् ॥ (२)

रामानुजाय नम इत्यसकृद्गृणीते
यो मान-मात्सर-मदस्मर-दूषितोऽपि ।
प्रेमातुरः प्रियतमामपहाय पद्मां
भूमा भुजङ्ग-शयनस्तमनुप्रयाति ॥ (३)

वामालका-नयनवागुरिका-गृहीतं
क्षेमाय किञ्चिदपि कर्तुमनीहमानम् ।
रामानुजो यतिपतिर्यदि नेक्षते मां
मा मामकोऽयमिति मुञ्चति माधवोऽपि ॥ (४)

रामानुजेति यदिदं विदितं जगत्यां
नामापि न श्रुतिसमीपमुपैति येषाम् ।
मा मा मदीय इति सद्भिरुपेक्षितास्ते
कामानुविद्धमनसो निपतन्त्यधोऽधः ॥ (५)

नामानुकीर्त्य नरकार्तिहरं यदीयं
व्योमाधिरोहति पदं सकलोऽपि लोकः ।
रामानुजो यतिपतिर्यदि नाविरासीत्
को मादृशः प्रभविता भवमुत्तरीतुम् ॥ (६)

सीमामहीध्रपरिधिं पृथिवीमवाप्तुं
वैमानिकेश्वरपुरीमधिवासितुं वा ।
व्योमाधिरोढुमपि न स्पृहयन्ति नित्यं
रामानुजाङ्घ्रियुगलं शरणं प्रपन्नाः ॥ (७)

मा मा धुनोति मनसोऽपि न गोचरं यत्
भूमासखेन पुरुषेण सहानुभूय ।
प्रेमानुविद्ध-हृदयप्रियभक्त-लभ्ये
रामानुजाङ्घ्रिकमले रमतां मनो मे ॥ (८)

श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् ।
आकारत्रयसम्पन्नः शोकाब्धिं तरति ध्रुवम् ॥ (९)

इति श्री रामानुजाष्टकम्

 

ஶ்ரீமதே ராமானுஜாய நம:

ஶ்ரீஸ்வாமி வடிவழகுக் கட்டியம்

நாயிந்தே, நாயிந்தே!

காஷாயஶோபி கமநீய ஶிகாநிவேஶம்

தண்டத்ரயோஜ் ஜ்வலகரம் விமலோபவீதம்

உத்யத்திநேஶ நிபம் உல்லஸதூர்த்த்வ புண்ட்ரம்

ரூபம் தவாஸ்து யதிராஜ த்ருஶோர்மமாக்ரே ।।

அப்பனுக்குச் சங்காழி அளித்தருளும் பெருமாள்!

அறமிகு நற்பெரும்பூதூர் அவதரித்த பெருமாள்!

அறுசமயச் செடியதனை அடியறுத்த பெருமாள்!

அருளாழி வரிவண்டே என்று ஆழ்வார் அழைக்கும் பெருமாள்!

அருள்மாரி அடியிணைக்கீழ் அன்புபூண்ட பெருமாள்!

அஞ்சுகுடிக்கொரு சந்ததியாம் ஆண்டாள் தமக்கும் அண்ணரான பெருமாள்!

அரங்கர் மௌலி சூழ்கின்ற மாலையைச் சூடிக்கொடுத்தவள் தொல்லருளால் தாழ்வின்றி வாழும் பெருமாள்!

அடியார் வினைத்தொடரை அருளென்னும் ஒள்வாள் உருவி கிட்டிக்கிழங்கொடு வெட்டிக்களைந்த பெருமாள்!

நம் தேசிக சிகாமணிப் பெருமாள்!

தேவரீர் திருவடித் தாமரைகள் தாஸ்யார்ஹ ஸ்வாரஸ்ய தாநார்த்தமாக ஆஸநாரவிந்தத்தில் அழுந்தியிட்ட இடது கழலும்,

இடத்தொடையின்மேல் வளர்த்திக் கண்ணாரக் கண்டு களிப்பதோர் காதலுற்றார்க்குக் காட்டியிட்ட வலது கழலும்,

ஸாக்ஷாத் மன்மத மன்மதாயமான மதுமதன விஜய தூணீரயுகளம் போல் இணைத்துவைத்த கணுக்கால்களும்,

கீழ்நோக்குமொளி வெள்ளம் மறியுண்டு சுழித்தாற்போல் இரண்டருகும் திரண்டுருண்ட மடியுண்ட முழந்தாள்களும்,

கந்தளித கதளீகாண்டகரிகர கரபங்கள்போல் அதிம்ருதுல மாம்ஸதளங்களாய் விளங்குகின்ற திருத்துடைகளும்,

ஸந்த்யா ரஞ்சித ஶாரதாப்ரத்தில் தனித்தெழுந்ததோர் கொடிமின்னல் நிலைநின்று படர்ந்தாப்போல் ஆஜங்கம் தழைத்துடுத்த அரைச்சிவந்த ஆடையின்மேல் வளைந்துவந்து நிகுநிகுவென்ற பொன்னரை நாண் பூண்டவழகும்,

ஸேவாரஸனாச பரிப்ராமித மதிமந்தார மாமத்யமான ஸௌந்தர்ய துக்த ஸிந்தூதரம் நெடுக்குழித்திட்ட சுழிபோல் ஸுந்தரமாம் உந்திமலரும்,

மஞ்சுலதர மாயூரோசீர வாலவ்யஜன வேவீஜ்யமான திவ்ய தூப குங்குமித மந்த கந்தவஹ தோதூயமான திவ்ய லாவண்ய தரங்கிணீ தரங்கங்கள் போல் இருபாலும் திகழ்கின்ற திருவளிகளும்,

அபிநவதர தரவிகஸ்வர ஸரஸிஜவர முகுளதளத்தளாயமான நிஜாஞ்சலி ஶிகாங்குளீ சோபையை நிஜஹ்ருதய ஜலஜதரள ரஸிகஹார்த ஜநார்தனனுக்கு அபிநயித்துக் காட்டுவதுபோல் நெஞ்சுக்கு நேராகக் கொஞ்சம் சாய்த்து அஞ்சலித்த தடக்கைகளும்,

தங்கவளைமேல் தங்கி தொங்குகின்ற சங்கிலிகளோடு இணக்கமுற்ற கணைக்கைகளும்,

முறுக்கியிட்ட முன்கையோடு உள்விம்பிப்புறம்குவிந்து மடியுண்ட முழங்கைகளும்,

கனகமய குலதரங்கள் கடைந்தெடுத்து மடுத்தாற்போல் திரண்ட நீண்ட பாஹுதண்டங்களும்

வைகுண்டாதி ப்ரஹ்ம கோஷங்கள் வந்திருக்கும் மாணிக்கப் பண்டாரமான நெஞ்சமாகிய நீணகர்க்கோர்கனகமய கவாடம்போல் பளபளவென்று அகன்று காடவ்யூடமாய் திகழ்கின்ற திருமார்பினழகும்,

அம்மார்பினழகில் ஆழங்கால் பட்டு மயங்கிவிழும் மனோநயநங்கள் தோளளவில் துவக்கவிடும் அவலம்ப ஸூத்ரம்போல் இலங்குகின்ற முந்நூலழகும்,

ஶேஷ்வர விபூதி த்வயமும், இளைப்பாரும் நிழல் தடமாய் வளர்ந்துயர்ந்த திண்டோள்களும்,

கண்டவ்யக்த தாராக்ஷரங்கள் புறம்பொசிந்து காட்டினாற்போல் ரேகாத்ரய விபக்தாங்கமாய் வலம்புரியின் சுழியொழுங்கைப் பழித்தெழுந்த கழுத்தினழகும்,

மருக்கழத்தின சந்திர மண்டலத்தையும் அப்போதலர்ந்த செந்தாமரைப் பூவையும் அதிகரித்து கிட்டினாரை மையலேற்றி மயக்கும் மாயமந்திரமாய் விளங்குகின்ற ஸ்மயமான முகாரவிந்தமும்,

இசைந்து கனிந்து த்ராக்ஷாத்வயம் போல் வகுப்புண்ட சுபுகவிகாஸமும்,

அதிருசிர பாவ கர்ப்பமானதொரு வார்த்தை சொல்லத் தொடங்கி துடிப்பதுபோல் விளங்குகின்ற திருப்பவளங்களும்

அபிமதன தர்ஶனானந்த வேகத்தால் அர்ச்சாவதார ஸமாதியைக் கடந்து விம்மி வெளிவழிகின்ற அவ்யக்த மதுர மந்தஹாஸ விலாஸமும்,

ஸ்படிகமய முகுர மண்டலங்கள் போல் தளதளவென்ற திவ்ய கபோலங்களும்,

கனகனக மகர குண்டலத்வயத்தால் தழைத்து வளர்ந்து மடிந்து வடிவிட்டு சுருண்டு நீண்டு தோளளவும் தொங்குகின்ற கர்ணபாஶங்களும்,

மாட்டுயர் கற்பகத்தின் வல்லியோ கொழுந்தோ வென்று மிக்க ஸந்தேஹ ஜனகமான கோலநீள் கொடி மூக்கின் அழகும்,

மிதோபத்த ஶ்பர்த ஸ்புரித சபரத்வந்த்வ லலிதங்களாய் புடைபரந்து மிளிர்ந்து நீண்ட தண்டாமரைக் கண்களும்,

குணோத்கர்ஷ குண்டலிதமான திருச்சார்ங்கம் போல் வளைந்த திருப்புருவ வட்டங்களும்,

அஷ்டமீ சந்த்ர அம்ருதப்ரவாஹங்கள் கற்பகக் கொடியடியில் பெருகிவந்து தேங்கினாற்போல் திருநுதல்மேல் இலங்குகின்ற நாஸிகாமூலத்ருத ஶ்ரீராமாநுஜ தீப்ய திவ்யோர்த்வ புண்ட்ரவிஶேஷமும்,

அதனடுவில் உபயவிபூதி ஸாம்ராஜ்ய பட்டாபிஷேக லக்ஷ்மீ விஹார நிக்ஷிப்த பதகமல லாக்ஷாபங்கம்போல் சிவந்து படிந்து விளங்குகின்ற ஶ்ரீசூர்ணரேகையும் உயர்ந்து மலர்ந்த திருமுடியும்,

வளர்ந்து மடிந்துவ்யக்தா வ்யக்தமாய் விளங்குகின்ற திருக்குழலொழுங்கும் சுற்றிச் சுழற்றி குழைத்திட்டு முடித்து தொங்கவிட்ட ஶிகாபந்தமும்,

பின்னெடுத்த பிடரியழகும் திருவநந்தாழ்வான் பின்படம்போல் நடுப்பதிந்து விஶாலமாய் நெறித்திட்ட திருமுதுகும்,

வலவருகில் முன்னாட்டித் தாங்கிட்ட த்ரிதண்டாக்ரமும்,

சீரியதோர் நிதிபோல் திருமுன்பே நோக்கிக்கொண்டு இட்டு வைத்த திருவடி நிலைகளுமாய் இப்போது தேவரீர் திருமஞ்சனம் கொண்டருள எழுந்தருளி இருக்கும் அழகு இது ஏதேனும் சிந்தை மருளோ!

ஜகந்மோஹன மந்த்ரப்ரபாவமோ!, ஸகல ரஸ குளிகா விலாஸமோ!, ஸர்வபோக சிந்தாமணி ப்ரகாஶமோ!, அகில ஜகத் ஸுக்ருத விபாகமோ!, நிகில பல கல்பலதா ப்ரஸரமோ!, ஸமஸ்த ஸம்பத் ஸாம்ராஜ்ய வேஷமோ!, ஸர்வ மங்கள ஸந்தானப்ரஸவமோ!, அகில ஜகஜ்ஜீவன மூலமோ!, அதுலாநந்த கந்தாவதாரமோ!, ஸகலகலா ரஹஸ்ய ஸர்வஸ்வமோ!, ஸர்வேஶ்வர ஆபத்தனமோ!, ஈதெல்லாம் திரண்டெழுந்து கொண்டதோர் வடிவோ!,

இதுமன்றி அப்ரமேய தேஜஸ்ஸோ!, நாங்கள் ஏதொன்றறியா இவ்வழகுடன் தேவரீர் ஊழிதொறும், ஊழிதொறும் வாழ்ந்திடுக வாழ்ந்திடுகவே, யதிஸார்வபௌமனே, திருமஞ்சனம் கொண்டருளவே

ஜய விஜயீ பவ!

 

श्रीरामानुजषट्त्रिंशत्

श्रीमते रामानुजाय नमः

भजयति राजं भजयति राजं भजयति राजं भवभीरो ।।

श्रीरङ्गेश जयाश्रयकेतुः श्रितजन-संरक्षणजीवातुः ।

भवभयजलधेः एष हि हेतुः पद्मानेतुः प्रणतौ हेतुः ।। (१) भज…

आदौ जगदाधारश्शेषस्तदनुसुमित्रादनवेषः ।

तदुपरि धृतहलमुसलविशेष-स्तदनंतरमभवद्गुरुरेषः ।। (२) भज…

भुङ्क्ते वैषयि किं सुखमन्यः प्रचकास्त्येवानश्नन्नन्यः ।

इतीयस्तत्वं प्रहवदान्यस्तस्माधीकः को नु वदान्यः ।। (३) भज…

गुणगुणिनोर्भेदः किल नित्यश्पडि विद्द्वय परभेदस्सत्यः ।

तद्वयदे होहरिरिति तत्वं पश्य विशिष्टाद्वैतं तत्वम् ।। (४) भज…

नष्टे नयने कस्यालोकश्चित्तेमत्ते कस्य विवेकः ।

क्षीणे पुण्ये कस्सुरलोकः कामे धूते कस्तव शोकः ।। (५) भज…

निशि वनितासुख-निद्रालोलः प्रातः परदूषणपटुशीलः ।

अन्तर्याति निजायुः कालः किं जानाति नरः पशुशीलः ।। (६) भज…

केचिल्लीलालसगतयः केचिद्बालालालितरतयः ।

केचिड्डोलायित-हतमतयः केपि न सन्त्यर्पितयति पतयः ।। (७) भज…

यावानबलो जरया देहस्तावान् प्रबलो विषये मोहः ।

वचसि विरक्ति कथापरि वाहो मनसि हितस्त्यपरोपि विवाहः ।। (८) भज…

कलुषनिकायं ललनाकायं पश्यन् मुह्यसि सायं सायम् ।

जहि जहि हेयं तद्व्यवसायं भज निरपायं चरमोपायम् ।। (९) भज…

रात्रं दिवमपि भिक्षाचर्या कलहायै वागच्छति भार्या ।

मध्ये बान्धव सेवा कार्या कथय कदा तव देवसपर्या ।। (१० ) भज…

अन्धं नयनं भूमाशयनं मन्दं वचनं मलिनं वदनम् ।

आसिन्काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम् ।। (११) भज…

ताळच्छद-कृतकुब्जकुटीरः सन्ध्यायोचितकबळाहारः ।

विविधपटच्छरदारः क्रूरः सोऽपि विधातृ समाहङ्कारः (१२) भज…

उपरि महोपलवर्षासारः मार्गे कण्टक-कर्दम-पूरः।

कक्षे भारः शिरसि किशोरः सुखयति घोरः किं संसारः ।। (१३) भज…

भजसि वृथा विषयेषु दुराशां विविध-विचित्र-मनोरथ कोशाम् ।

कियदपि लभसे न हित त्रैकं किन्तु व्रजसि महान्तं शोकम् ।। (१४) भज…

कश्चन लोके करपुटपात्रः पातुं सुतमाश्रितमठसत्रः ।

तस्मिन्वृद्धे सति सकळत्रश्शपति हिरंडासुतः इति पुत्रः ।। (१५) भज…

मनुजपतिं वादिगधिपतिं वा जलजभवं वा जगदधिकं वा ।

ममताऽहङ्कृति-मलिनो लोको निन्दति निन्दति निन्दत्येव  ।। (१६) भज…

चिन्तय सर्वं चिदचिद्रूपं तनुरिति तस्य हरेरनुरूपम् ।

तस्मात्कस्मिन् कलयसि कोपं पश्चात्तापं भजसि दुरापम् ।। (१७) भज…

यमकिङ्कर-करशूले लोले पतदभिमातविफाले फाले ।

दहति तनुं प्रतिकूले काले किं रमयसि तत्काले बाले ।। (१८) भज…

सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् ।

गतजीवित-मतिघोरविकारं दृष्ट्वा गच्छसि दूरं दूरं ।। (१९) भज…

विद्यानिषण्णा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये ।

आद्यकुलीना वयमित्यन्ये तेषु कलिं परिपूर्णम्मन्ये ।। (२० ) भज…

वैष्णवकुलगुण दूषण चिन्तां मा कुरु निजकुलशीलाहनाम् ।

यतिपतिरेव हि गुरुरेतेषां इति जानीहि महत्त्वं तेषाम् ।। (२१) भज…

यश्चतुरक्षरमन्त्र-रहस्यं वेदतमेव वृणीहि सदस्यम् ।

तच्चरणद्वय-दास्यमुपास्यं तदनुपदिष्टं मतमपहास्यम् ।। (२२) भज…

यतिपति-पदजलकणिक-सेकश्चतुरक्षरपदयुग्मविवेकः ।

यस्य तु सालनगर्यवलोकस्तस्यपदेहतो यमलोकः ।। (२३) भज…

नरवाहान-गज-तुरगारूढा नारीसुतपोषणगुणगूढाः ।

नानारञ्जकविद्या प्रौढा नागरिकाः किं यतयो मूढाः ।। (२४) भज…

तस्करजारविदूषकधूर्ता मस्करमौनिदिगम्बरवृत्ताः ।

गुप्तसतीसुतधनमदमत्ता गुरवःकिंपरवञ्चकचित्ताः ।। (२५) भज…

यस्य मुखस्थायतिपतिसूक्ति स्तस्य करस्थाविलसतिमुक्तिः ।

नरके पतितं नवनवयुक्तिः न हि रक्षति सामान्यनिरुक्तिः ।। (२६) भज…

इति श्रीरामानुजषट्त्रिंशत्

 

श्रीरामानुज चतुश्लोकी

श्रीमद्रामानुजाचार्यश्रीपादांभोरुहद्वयम्

सदुत्तमाङ्गसन्धार्यम् अनन्तार्यमहं भजे ।।

अनिशं भजतामनन्यभाजां

चरणांभोरुहमादरेण पुंसाम् ।

वितरन्निभृतं विभूतियुग्मं

जय रामानुज रङ्गधाम्नि नित्यम् ।। (१)

श्रुतिषु स्मृतिषु प्रमाणतत्त्वं

कृपयालोक्य विशुद्धया हि बुद्ध्या ।

आकरोः किल दिव्यभाष्यरत्नं

जय रामानुज शेषशैलशृङ्गे ।। (२)

मलिनान् विमतांस्त्वदीयसूक्तिः

कुलिशीभूय कुदृष्टिभिस्समेतान् ।

शकलीकुरुते विपक्षवृत्तान्

जय रामानुज हस्तिधाम्नि नित्यम् ।। (३)

जय मायिमतान्धकारभानो

जय बाह्य प्रमुखाटवीकृशानो ।

जय संश्रितसिन्धुशीतभानो

जय रामानुज यादवाद्रिशृङ्गे ।। (४)

रामानुजचतुश्लोकीं यः पठेन्नियतस्सदा ।

प्राप्नुयात् परमां भक्तिं यतिराज पदाब्जयोः ।। (५)

धाटी पञ्चकम्

यश्चक्रे भक्तनगरे धाटीपञ्चकमुत्तमम् ।

रामानुजार्यसच्छात्रं वन्दे दाशरथिं गुरुम् ।।

पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः

बौद्धध्वान्तनिरासवासरपतिः जैनेभकण्ठीरवः ।

मायावादिभुजङ्गभङ्ग-गरुडस्त्रैविद्यचूडामणिः

श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ।। (१)

पाषण्डषण्डगिरिखण्डनवज्रदण्डाः

प्रच्छन्न-बौद्ध-मकरालयमन्थदण्डाः ।

वेदान्तसारसुखदर्शनदीपदण्डाः

रामानुजस्य विलसन्ति मुखे त्रिपुण्ड्राः ॥ (२)

चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं

सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् ।

त्रय्यन्तालंबदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं

धत्ते रामानुजर्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम् ।। (३)

त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपदारोहणालंबसूत्रं

सद्विद्यादीपसूत्रं सगुणनयविदां संपदां हारसूत्रम् ।

प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मनीनाळसूत्रं

रक्षासूत्रं मुनीनां जयति यतिपतेः वक्षसि ब्रह्मसूत्रम् ।। (४)

पाषण्डसागरवहा बडबामुखाग्निः

श्रीरङ्गराजचरणांबुजमूलदासः ।

श्रीविष्णु-लोकमणि-मण्टपमार्गदायी

रामानुजो विजयते यतिराजराजः ।। (५)

श्रीवैष्णवशिरोभूषा श्रीरामानुजपादुका

श्रीवाधूलकुलोत्तंसश्रीदाशरथिरेधताम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.