हस्तिगिरि दर्शनम्  Part 1

|| हस्त्यद्रि सम्बन्धि सन्दोहः ||

|| हस्तिगिरि दर्शनम्  Part 1||

HASTHIGIRI DARSANAM Part 1

(सुप्रभातमङ्गलाशासनप्रपत्तिमाहात्म्यादिअनेकस्तोत्रपुरस्स्कृतम्)

 

श्रीदेवराज सुप्रभातम्

 

कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।

उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥

मातः प्रसन्नवरदप्रियवल्लभे त्वां

फुल्लारविन्दविलसच्चरणैकसेव्याम् ।

कल्हारहस्तकलितात्ममुखानुकारां

अग्रे वराभयकरां शरणं प्रपद्ये ।। १

द्विरदाद्रिसीम्नि वरदाख्यदैवतं

परमं चकास्ति चरमं च वेदिनाम् ।

वहतीह देवि महति त्वया दयां

तनु सुप्रभातमनुतस्य सन्ततम् ।। २

इह जगति मनीषा भूषणानां जनानाम्

अहमहमिकया ये हर्षदानाय वेषाः ।

तदनु गुणतनूनां तत्तदिष्टार्थसिद्ध्यै

दिशतु वरदराजो देवराट् सुप्रभातम् ।। ३

सकल-भुवनसीमा-सार्वभौमस्स विष्णोः

हयमख-वरदीक्षा-दक्षिणे पद्मयोनौ ।

भुवन-नयन-भाग्यात् पुण्यकोट्यामुदीतौ

दिशतु वरदराजो देवराट् सुप्रभातम् ।। ४

भगवति फणिराजे भक्तवात्सल्यसिन्धौ

पद-सरसिज-सेवा  प्राप्ति प्रपन्ने ।

तदभिमतफलार्थं तत्सरस्तीरजातः

दिशतु वरदराजो देवराट् सुप्रभातम् ।। ५

करिगिरिवरभागे कल्पितानेक-भोगे

दिशि दिशि समुदीर्नैः दिग्गजेन्द्रैरशेषैः

अहहरभिजातैः अम्बुजैरर्च्यमानः ।

दिशतु वरदराजो देवराट् सुप्रभातम् ।। ६

अनिल-सुरप -वह्निश्रीद -भूतेशरक्षो

वरुण-महिषवाहैः वन्द्यमानाङ्घ्रिपद्मः ।

तदुचितफलदायी तत्तदैश्वर्यदायी

दिशतु वरदराजो देवराट् सुप्रभातम् ।। ७

अखिल-सुरसमूहैः अस्मदाचार्यवर्यैः

अतिनियमविशेषैः आगमोक्तैरनेकैः ।

अनुदिनमतिमोदैः अर्चितो नित्ययोगैः

दिशतु वरदराजो देवराट् सुप्रभातम् ।। ८

विरचितपतिभावो वेगवद्युत्तरस्याम्

सुचरितपरिपाकैः सूनृतैस्सज्जनानाम् ।

विलसदभयभावो विच्छ्रुतोदारभावो

दिशतु वरदराजो देवराट् सुप्रभातम् ।। ९

इह जनिमुपयाता यत्पदाम्बोजसेवात्

जनित-जनन-भाग्यात् जायमान प्रभोदाः ।

परम-पुरुष-पादाभ्याशमायान्ति सोऽयं

दिशतु वरदराजो देवराट् सुप्रभातम् ।। १०

इति विरचितमेतत् सुप्रभाताष्टकम् यः

पठति सततमादौ प्रातरुत्थाय धीरम् ।

तदभिलषितसिद्धिं दातुमेवात्मपाणौ

वहति वरदमुद्रां देवराजन्तमीडे ।। ११

इति श्रीदेवराजसुप्रभातं समाप्तम्

 

पेरुन्देवित्तायार ध्यानम्

कारुण्यामृतपूर्णलोचनरुचा सन्तर्पयन्तीं हरिं

हस्त्यद्रीशमियं मखाग्निजनितं प्रीत्याभिमुख्यं गतम् ।

पद्मालङ्कृतपाणिकामभयदां ब्रम्हादिभिस्सेवितां

काञ्चीदामपदान्वितामिहमहादेवीं भजेयं श्रियम् ।।

आकारत्रयसम्पन्नां अरविन्दनिवासिनीम

अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ।।

 

श्रीप्रणतार्तिहरस्तोत्रम्

वरदं वरदन्तिह्रुदातपहृ-

च्छरदं शरदंबुजनेत्रयुग्मम् ।

दर-दिव्यरथाङ्गधरं मधुरं

मधुराङ्गजधाममहः कलये ।।

प्रसीद देव प्रणतार्तिनाशन

प्रभावितोऽहं भवताव्ययात्मना ।

तदव्ययं ज्योतिरचिन्त्यमक्षरं

त्वमेव विज्ञानमयं जनार्दन ।। (हस्तिगिरिमाहात्म्ये – ८.१३)

अणोरणीयां समनन्तमव्ययं

महान्तमव्यक्तमनीशमीश्वरम् ।

परात्परं कारणकारणं हरिं

गुणाधिकं त्वां वरदं समाश्रये ।। (हस्तिगिरिमाहात्म्ये – ८.१४)

नमो मत्स्यकूर्मादिनानास्वरूपैः

सदा भक्तकार्योद्यतायार्तिहन्त्रे ।

सुरारातिसंहारहेतोरिहाद्रौ

गुहाग्रे निवेशादहेरुद्गताय ।। (हस्तिगिरिमाहात्म्ये – १०.२९)

चक्राब्जहस्ताय भक्ताभयाय

संवर्तकालानलाभाननाय ।

दंष्ट्राकराळाय विद्युत्षटाय

सिंहाय तुभ्यं नतास्स्मो नतास्स्मः ।। (हस्तिगिरिमाहात्म्ये – १०.३०)

इति श्रीप्रणतार्तिहरस्तोत्रम्

 

श्रीकाञ्चीपुरदर्शनक्रमः

1अयोध्या 2मथुरा 3माया 4काशी 5कांच्यप्य6वन्तिका ।

7 पुरी-द्वारवती चैव सप्तैता मोक्षदायिकाः ।।

सा कामाक्ष स च पुरहरः तस्य सैकाम्रमूर्तिः

काञ्चीक्षेत्रे करिगिरिपदं तून्मतं पुण्यकोट्या ।

यस्येवाङ्ग स्फुरति परितस्स्रोतसा वेगवत्या

क्षेत्राणां तद्दशकमथ तत्सप्तकं योगिदृश्यम् ।।

श्रीमद् द्वारवरं महद्धि बलिपीठाग्र्यं फणीन्द्रहृदं

गोपीनां रमणं वराहवपुषं श्रीभट्टनाथं तथा ।

श्रीमन्तं शठवैरिणं कलिरिपुं श्रीभक्तिसारं मुनिं

पूर्णं लक्ष्मणयोगिनं मुनीवरानाद्यानथ द्वारपौ ॥

श्रीमन्मज्जनमण्डपं सरसिजां हेतीशभोगीश्वरौ

रामं नीलमणिं महानसवरं तार्क्ष्यं नृसिंहं प्रभुम् ।

सेनान्यं करिभूधरं तदुपरि श्रीपुण्यकोटिं  तथा

तन्मध्ये वरदं रमासहचरं वन्दे तदीयैर्वृतम् ॥

देवाधीशनृसिंहपाण्डवमहादूतप्रवालप्रभान्

श्रीवैकुण्ठपतिं त्रिविक्रमहरिं नीरेशमेघेश्वरौ ।

नीलव्योमविभुं महोरगहरिं ज्योत्स्नेन्दुवक्त्रं हरिं

चोरेशं कृतचिन्तभक्तहृदयावासं मुकुन्दाह्वयम् ॥

कामावासपतिं नृकेसरिवरं दीपप्रकाशप्रभुं

श्रीयुक्ताष्टभुजायुधेशमनघं श्रीमद्यथोक्तक्रियम् ।

इत्यष्टादशदिव्यमङ्गलवपुर्देवान् सरोयोगिना

साकं कूपवरेण काञ्चि नगरी नाथान् नमामस्सदा ॥

 

अथ श्रीकाञ्चीपूर्णविरचितं देवराजाष्टकम्

श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् । वरदाङ्घ्रि सदासङ्ग-रसायनपरायणम् ।।

देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् । रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ।।

नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचन ।

शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ (१)

समस्तप्राणिसन्त्राणप्रवीणकरुणोल्बणाः ।

विलसन्तु कटाक्षास्ते मय्यस्मिन् जगतां पते ॥ (२)

निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः ।

पापीयांसममर्यादं पाहि मां वरद प्रभो ॥ (३)

संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषिणे ।

विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ (४)

पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले ।

कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ (५)

अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् ।

क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥ (६)

सन्तप्तं विविधैर्दुःखैर्दुर्वचैरेवमादिभिः ।

देवराज  दयासिन्धो  देवदेव  जगत्पते ॥ (७)

त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः ।

कारुण्यमारुतानीतैश्शीतलैरभिषिञ्च माम् ॥ (८)

इति श्रीकाञ्चीपूर्णविरचितं देवराजाष्टकं सम्पूर्णम्

 

श्रीवत्सचिह्नमिश्रैरनुगृहीतः

॥ वरदराजस्तवः ॥

श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

स्वस्ति हस्तिगिरिमस्तशेखरः सन्तनोतु मयि सन्ततं हरिः । निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥१॥

श्रीनिधिं निधिमपारमर्थिनां अर्थितार्थपरिदानदीक्षितम् । सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥२॥
नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः । अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥ ३ ॥

वल्लिका श्रुतिमतल्लिकामयी येन पल्लवितविश्वशाखया । स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥ ४ ॥

यं परोक्षमुपदेशतस्त्रयी नेति नेति परपर्युदासतः । वक्ति यस्तं अपरोक्षमीक्षयत्येष तं करिगिरिं समाश्रये ॥ ५ ॥

एष ईश इति निर्णयं त्रयी भागधेयरहितेषु नो दिशेत् । हस्तिधामनि न निर्णयेत को देवराजमयीश्वरस्त्विति ॥ ६ ॥
है ! कुदृष्ट्यभिनिविष्टचेतसां निर्विशेषसविशेषताश्रयम् । संशयं करिगिरिर्नुदत्यसौ तुङ्गमङ्गळगुणास्पदे हरौ ॥ ७ ॥
न्यायतर्कमुनिमुख्यभाषितैः शोधितैः सह कथञ्चन त्रयी । जोषयेद्धरिमनंहसो जनान् हस्तिधाम सकलं जनं स्वयम् ॥ ८ ॥
अद्भुतं महदसीमभूमकं किञ्चिदस्ति किल वस्तु निस्तुलम् । इत्यघोषि यदिदं तदग्रतः तथ्यमेव करिधाम्नि दृश्यते ॥ ९ ॥
संवदेत किल यत् प्रमान्तरैः तत् प्रमाणमिति ये हि मेनिरे । तन्मतेऽपि बत मानतां गता हस्तिनाऽद्य परवस्तुनि त्रयी ॥ १० ॥
गुणायत्तं लोके गुणिषु हि मतं मङ्गळपदं विपर्यस्तं हस्तिक्षितिधरपते! तत् त्वयि पुनः । गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥ ११ ॥
निराबाधं नित्यं निरवधि निरंहो निरुपमं सदा शान्तं शुद्धं प्रतिभटमवद्यस्य सततम् । परं ब्रह्माम्नातं श्रुतिशिरसि यत् तद् वरद! ते परं रूपं साक्षात् तदिदमपदं वाङ्मनसयोः ॥ १२ ॥
प्रशान्तानन्तात्मानुभवजमहानन्दमहिमप्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम् । परं यत्ते रूपं स्वसदृशदरिद्रं वरद! तत् त्रयी पिस्प्रक्षन्ती परनिरसने श्राम्यति परम् ॥ १३ ॥
न वक्तुं न श्रोतुं न मनितुमथोपासिसिषितुं न च द्रष्टुं स्प्रष्टुं तदनु न च भोक्तुं हि सुशकम् । परं यद् वस्तूक्तं ननु वरद! साक्षात् तदसि भोः! कथं विश्वस्मै त्वं करिगिरिपुरस्तिष्ठस इह? ॥ १४ ॥
प्रकृष्टं विज्ञानं बलमतुलं ऐश्वर्यमखिलं विमर्यादं वीर्यं वरद! परमा शक्तिरपि च । परं तेजश्चेति प्रवरगुणषट्कं प्रथमजं गुणानां निस्सीम्नां गणनविगुणानां प्रसवभूः ॥ १५ ॥
गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्त्रिस्रस्तेषां त्रियुग! युगलैर्हि त्रिभिरभुः । व्यवस्था या चैषा ननु वरद! साऽऽविष्कृतिवशात् भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः ॥ १६ ॥
इयं वैयूही वै स्थितिरथ किलेच्छाविहृतये विभूतीनां मध्ये सुरनरतिरश्चामवतरन् । सजातीयस्तेषामिति तु विभवाख्यामपि भजन् करीश! त्वं पूर्णो वरगुणगणैस्तान् स्थगयसि ॥ १७ ॥
परो वा व्यूहो वा विभव उत वाऽर्चावतरणः भवान् वाऽन्तर्यामी वरवरद! यो यो भवसि वै । स स त्वं सन् ऐशान् वरगुणगणान् बिभ्रदखिलान् भजद्भ्यो भास्येवं सततं इतरेभ्यस्त्वितरथा ॥ १८ ॥
दयाक्षान्त्यौदार्यम्रदिमसमतासौहृदधृतिप्रसादप्रेमाज्ञाऽऽश्रितसुलभताद्या वरगुणाः । तथा सौन्दर्याद्यास्तव वरदराजोत्तमगुणाः विसीमानोऽसङ्ख्याः प्रणतजनभोगं प्रसुवते ॥ १९ ॥
अनन्याधीनत्वं तव किल जगुर्वैदिकगिरः पराधीनं त्वां तु प्रणतपरतन्त्रं मनुमहे! । उपालम्भोऽयं भोः! श्रयति बत सार्वज्ञ्यमपि ते यतो दोषं भक्तेष्विह वरद! नैवाकलयसि! ॥ २० ॥
पाणिपादवदनेक्षणशब्दैः अम्बुजान्यपदिशन् वरद! त्वम् । बाहुभिस्त्वतिविशालतमालान् आञ्जनं करिगिरेरसि शृङ्गम् ॥ २१ ॥
त्वामुदारभुजं उन्नसमायत् कर्णपाशपरिकर्मसदं सम् । आयताक्षमभिजातकपोलं पारणीयति वरप्रद! दृङ्मे ॥ २२ ॥
नीलमेघनिभं अञ्जनपुञ्ज श्यामकुन्तलं अनन्तशयं त्वाम् । अब्जपाणिपदं अम्बुजनेत्रं नेत्रसात् कुरु करीश! सदा मे ॥ २३ ॥
त्वक् च दृक् च निपिपासति जिह्वा विह्वला श्रवणवत् परवृत्तौ । नासिका त्वयि करीश! तथेति प्राप्नुयां कथमिमां स्विदवस्थाम् ॥ २४ ॥
आधिराज्यमधिकं भुवनानां ईश! ते पिशुनयन् किल मौलिः । चूलिकामणिसहस्रमरीचेः हस्तिभूषण! भवत्युदयाद्रिः ॥ २५ ॥
उद्धरत्युपरि भक्तजनानिति ऊर्ध्वताश्रयणसूचितशक्तिम् । ऊर्ध्वपुण्ड्रतिलकं बहुमानात् किं बिभर्षि वरद! स्वललाटे ॥ २६ ॥
कर्णिका तव करीश! किमेषा कर्णभूषणं? उतासंविभूषा? । अंसलम्ब्यलकभूषणमाहो! मानसस्य मम वा परिकर्म? ॥ २७ ॥
पारिजातविटपान् अभितो या पुष्पसम्पदुदियात् करिनाथ! । तां विडम्बयति तावकबाहुषु आतता तु कटकाङ्गदलक्ष्मीः ॥ २८ ॥

मथ्यमानचलफेनिलसिन्धु प्रोत्थितिक्षणदशां गमितौ ते । वक्षसि स्फुरितमौक्तिकहारे कौस्तुभश्च कमला च करीश! ॥ २९ ॥
अञ्जनक्षितिभृतो यदि नाम उपत्यका वरद! हेममयी स्यात् । तादृशी तव विभाति तु लक्ष्मीः आम्बरी बत विडम्बितविद्युत् ॥ ३० ॥
परभागमियाद् रवेस्तमिस्रा वरदाद्य त्वयि तन्निशामयामः । गमिता तव वक्त्रचित्रभानोः परभागं ननु कौन्तली तमिस्रा ॥ ३१ ॥
उभयोरपि पक्षयोस्तिथिर्या विषमीभावनिरासदाऽष्टमीति । उपमानजसम्पदे हि सेन्दोः वरदाभूद् भवतो ललाटलक्ष्म्या ॥ ३२ ॥
अलकालिचिकीर्षया किलात्ता सुपरीचिक्षिषया ललाटपट्टे । सुमषी निकषीकृता भ्रुवौ ते वरद! स्यादकृतत्वतस्तु नैवम् ॥ ३३ ॥
श्रवसश्च दृशश्च शब्दरूप ग्रहणे ते न हि जीववद् व्यवस्था । उभयोरखिलेक्षणक्षमत्वात् वरदातः! श्रवणाश्रये दृशौ ते ॥ ३४ ॥
करुणारसवाहिवीक्षणोर्मेः वरद! प्रेममयप्रवाहभाजः । तततीरवनावली भ्रुवौ दृक् चलसिन्धोस्तव नासिकेव सेतुः ॥ ३५ ॥
विभवं विवृणोति विस्तृणीते रुचं आविष्कुरुते कृपामपाराम् । अभिवर्षति हर्षं आर्द्रभावं तनुते ते वरदैष दृष्टिपातः ॥ ३६ ॥

अरुणाधरपल्लवे लसन्ती वरदासौ द्विजचन्द्रचन्द्रिका ते । अधिविद्रुमं अस्तनिस्तलालीरुचमाविष्कुरुते हि पुष्कराक्ष! ॥ ३७ ॥
स्मितनिर्झरिका विनिष्पतन्ती तव वक्षस्स्थलभूतले विशीर्णा । वरद! प्रबिभर्ति हारलक्ष्मीं अपि मुक्तावलिका नदीव तज्जा ॥ ३८ ॥
परिमण्डितरासमण्डलाभिः वरदाघ्रातं अभीष्टगोपिकाभिः । अनुवर्तितदातनप्रहर्षात् इव फुल्लं हि कपोलयोर्युगं ते ॥ ३९ ॥
मुखमुन्नसं आयताक्षं उद्यत् स्मितदन्तं रुचिराधरं नतभ्रु । लसदंसविलम्बि कर्णपाशं मयि ते निश्चलमस्तु हस्तिनाथ! ॥ ४० ॥
पद्मायाः प्रणयरसात् समासजन्त्याः स्वं बाहुं सुबहुमतो भुजेन तेन । कां नामान्वभवदहो! दशां तदात्वे कण्ठस्ते करिगिरिनाथ! कम्बुकान्तः ॥ ४१ ॥
सायामा धृतपरिणद्धयोऽब्धयो वा तादृश्यः स्फुटमथ वा दिशश्चतस्रः । चत्वारो वरद! वरप्रदास्त्वदीयाः भासन्ते भुजपरिघास्तमालनीलाः ॥ ४२ ॥

आश्लेषे वरद! भुजास्तवेन्दिरायाः गोपीनामभिमतरासबन्धने वा । बन्धे वा मुदमधिकां यशोदयाऽऽहो! सम्प्राप्तास्तव नवनीतमोषदोषात् ॥ ४३ ॥
सालीया इव विटपाः सपल्लवाग्राः कल्लोला इव जलधेः सविद्रुमाग्राः । भोगीन्द्रा इव च फणामणीद्धवक्त्राः भासन्ते वरद! भुजास्तवारुणाग्राः ॥ ४४ ॥

अम्भोधेः स्वयमभिमन्थनं चकर्थ क्षोणीध्रं पुनरबिभश्च सप्तरात्रम् । सप्तानां विवलयसि स्म कण्ठमुक्ष्णां अम्लाना वरद! तथाऽपि पाणयस्ते ॥ ४५ ॥
रिङ्खातो व्रजसदनाङ्गणेषु किं ते गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् । आलम्बाद्धयनयसूत्रतोत्रयोर्वा पाणीनां वरद! तवारुणत्वमासीत् ॥ ४६ ॥
सर्वज्ञाः समुचितशक्तयः सदैव त्वत्सेवानियमजुषस्त्वदेकभोगाः । हेतीनामधिपतयः सदा किमेतान् शोभार्थं वरद! बिभर्षि? हर्षतो वा? ॥ ४७ ॥
किं धातुर्गगनविधानमातृकाऽभूत् वक्षस्ते वरद! वरेण्य! यत्र नाम । पद्माया मुखमथ कौस्तुभश्च जातौ चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८ ॥
अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद् वरद! कथं नु कार्श्यमस्य? । माहात्म्यं स्वत इह येषु नूनमेषां ऋद्धिः स्यान्महिमकरी न हीतरेषाम् ॥ ४९ ॥
सौन्दर्यामृतरसवाहवेगजः स्यात् आवर्तस्तव किल पद्मनाभ! नाभिः । तत्पद्मं वरद! विभाति कान्तिमय्याः लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५० ॥

या दामोदर इति नामदा तवासीत् सा दामा किल किणकारिणी बभूव । तन्नूनं वरद! वलित्रयच्छलेन त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१ ॥
यादृग्बीजाध्युषितभुवि यद् वस्तु हस्तीश! जातं तत् तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत्। यस्मादण्डाध्युषित उदरे तावके जायमानं पद्मं पद्मानन! किल फलत्यण्डषण्डानखण्डान् ॥५२॥
अज्ञे यज्ञेश्वर! किल जने क्वाप्यदर्शा विमर्शं विश्वाधीशः कतम इति तन्निर्णयं वर्णयामः । व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि ब्रह्माद्यास्ते वरद! जनितास्तुन्दकन्दारविन्दे ॥५३॥
मुष्णन् कृष्णः प्रियनिजजनैः जैय्यहेङ्गवीनं दाम्ना भूम्ना वरद! हि यया त्वं यशोदाकराभ्याम् । बद्धो बन्धक्षपणकरणीं तां किलाद्यापि मातुः प्रेम्णा गात्राभरणं उदराबन्धनाख्यं बिभर्षि ॥५४॥
सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा स्थानाल्पत्वाद् विषमगतिजावर्तगर्ताभनाभिः । प्राप्य प्राप्तप्रथिम जघनं विस्मृता हस्तिनाथ! स्रोतोभेदं भजति भवतः पाददेशापदेशात् ॥५५॥
रम्भास्तम्भाः करिवरकराः कारभाः सारभाजः वेषाश्लेषा अपि मरकतस्तम्भमुख्यास्तुलाख्याः । साम्यं सम्यग् वरद! न दधुः सर्वमुर्वोस्त्वदूर्वोः न ह्यैश्वर्यं दधति न तथा यौवनारम्भजृम्भात्॥५६॥
या ते गात्रे वरद! जनिता कान्तिमय्यापगाऽभूत् तस्याः स्रोतोयुगलमिह तद् याति पादप्रवादम्। तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते स्यादुक्ष्णोर्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥५७॥

प्रेम्णाऽऽघ्रातुं करिगिरिशिरोऽधोमुखीभावभाजोः अङ्घ्रिद्वन्द्वाह्वयकमलयोः दण्डकाण्डायमाने । अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात् द्रष्टुर्दृष्टिर्वरद! किमलं लङ्घितुं जङ्घिके ते ॥५८॥
भक्तानां यद् वपुषि दहरं पण्डितं पुण्डरीकं यच्चाम्लानं वरद! सतताध्यासनादासनाब्जम् । आम्नायानां यदपि च शिरो यश्च मूर्धा शठारेः हस्त्यद्रेर्वा किमति सुखदं तेषु पादाब्जयोस्ते? ॥५९॥
पद्यास्वद्याङ्गुलिषु वरद! प्रान्ततः कान्तिसिन्धोः वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु । विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते छायाच्छद्मा नखविततितां लुम्बितः शुम्भितः सन् ॥६०॥
शम्भोरम्भोरुहमुख! सखा सन् सहाङ्कः शशाङ्कः कुर्वन् सेवां वरद! विकलो वृत्तहीनः सुवक्रः । त्वत्पादाब्जे प्रियमख नखच्छद्मनाश्रित्य नित्यं सद्वृत्तोऽभूत् स तु दशगुणः पुष्कलो निष्कलङ्कः॥६१||

त्वत्पादाब्जे प्रजाता सुरसरिदभवत् प्राक् चतुर्धा ततस्तासु एकां धत्ते ध्रुवः सा त्रिभुवनमपुनात् त्रीन् पथो भावयन्ती ।

तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुनः सत्पधाऽभूत् तास्वेका गां पुनाना वरद! सगरजस्वर्गसर्गं चकार ॥६२॥
परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते । परमपदं अथाण्डान्यात्मदेहस्तथाऽऽत्मा वरद! सकलमेतत् संश्रितार्थं चकर्थ ॥६३॥
अनाप्तं ह्याप्तव्यं न तव किञ्चिद् वरद! ते जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् । तथापि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान् समाश्लेष्टुं पेष्टुं तदसुखकृतां चावतरसि ॥ ६४ ॥
विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत् महत्वभिनिवेशनं किमुत तन्महिम्नस्तव । अहो! विसदृशे जगत्यवततर्थ पार्थादिकं निजं जनमुदञ्चयन् वरद! तं समाश्लेषकः ॥ ६५ ॥
संश्लेषे भजतां त्वरापरवशः कालेन संशोध्य तान् आनीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत ।

अक्षाम्यन् क्षमिणां वरो वरद! सन् अत्रावतीर्णो भवेः किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥६६॥

वरद! यदि न भुव्यवातरिष्यः श्रुतिविहिताः त्वदुपासनार्चनाद्याः । करणपथविदूरगे सति त्वयि अविषयतानिकृताः किलाभविष्यन् ॥६७॥
यदपराधसहस्रं अजस्रजं त्वयि शरण्य! हिरण्य उपावहत् । वरद! तेन चिरं त्वमविक्रियः विकृतिमर्भकनिर्भजनादगाः ॥६८॥
त्वामामनन्ति कवयः करुणामृताब्धे! ज्ञानक्रियाभजनलभ्यं अलभ्यमन्यैः । एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥ ६९ ॥

भजत्सु वात्सल्यवशात् समुत्सुकः प्रकाममत्रावतरेर्वरप्रद! । भवेश्च तेषां सुलभोऽथ किं न्विदं यदङ्ग दाम्ना नियतः पुराऽरुदः! ॥ ७० ॥
नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः । स्तम्भे च सम्भवस्ते पिशुनयति परेशतां वरद! ॥७१॥
तापत्रयीमयदवानलदह्यमानं मुह्यन्तमन्तमवयन्तं अनन्त! नैव । स्थातुं प्रयातुमुपयातुं अनीशं ईश! हस्तीश! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥७२॥

नानाविरुद्धविदिशासु दिशासु चाहो वन्ध्यैर्मनोरथशतैर्युगपद् विकृष्टैः । त्वत्पादयोरनुदितस्पृह एव सोऽहं न स्वस्ति हस्तिगिरिनाथ! निशामयामि ॥ ७३ ॥
है! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ लिप्सामलब्धवति चेतसि दुर्विनीते । दुष्कर्मवर्मपरिकर्मित एष सोऽहं अग्रे वरप्रद! तव प्रलपामि किञ्चित् ॥ ७४ ॥

सव्याधिराधिरवितुष्टिरनिष्टयोगः स्वाभीष्टभञ्जनं अमर्षकरो निकर्षः । कृन्तन्ति सन्ततमिमानि मनो मदीयं हस्तीश! न त्वदभिलाषनिधिप्रहाणिः ॥७५॥

विद्वेषमानमदरागविलोभमोहाद्याजानभूमिरहमत्र भवे निमज्जन् । निर्द्वन्द्व नित्य निरवद्य महागुणं त्वां हस्तीश! कः श्रयितुमीक्षितुमीप्सितुं वा ॥७६॥
पुत्रादयः कथममी मयि संस्थिते स्युः? इत्यप्रतिक्रियनिरर्थकचिन्तनेन । दूये न तु स्वयमहं भवितास्मि कीदृग् इत्यस्ति हस्तिगिरिनाथ! विमर्शलेशः ॥७७॥
शम्पाचलं बहुलदुःखं अनर्थहेतुः अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् । दुर्वासनाद्रढिमतः सुखमिन्द्रियोत्थं हातुं न मे मतिरलं वरदाधिराज! ॥७८॥
बुद्ध्वा च नो च विहिताकरणैर्निषिद्धसंसेवनैस्त्वदपचारशतैरसह्यैः । भक्तागसामपि शतैर्भवताऽप्यगण्यैः हस्तीश! वाक्तनुमनोजनितैर्हतोऽस्मि ॥७९॥
त्वद्दास्यमस्य हि मम स्वरसप्रसक्तं तच्चोरयन्नयमहं किल चस्खल प्राक् । त्वं मामकीन इति मामभिमन्यसे स्म हस्तीश! संशमय नस्तमिमं विवादम् ॥८०॥
भोगा इमे विधिशिवादिपदं च किञ्च स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता । सर्वं तदूषजलजोषमहं जुषेय हस्त्यद्रिनाथ! तव दास्यमहारसज्ञः ॥८१॥
विषयविषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे । अगतिरशरणो भवाब्धौ लुठन् वरद! शरणमित्यहं त्वां वृणे ॥८२॥
अकृतसुकृतकः सुदुष्कृत्तरः शुभगुणलवलेशदेशातिगः । अशुभगुणपरस्सहस्रावृतो वरदमुरुदयं गतिं त्वां वृणे ॥८३॥
शरणवरणवागियं योदिता न भवति बत! साऽपि धीपूर्विका । इति यदि दयनीयता मय्यहो! वरद! तव भवेत्ततः प्राणिमि ॥८४॥
निरवधिषु कृतेषु चागस्स्वहो! मतिरनुशयिनी यदि स्यात्ततः । वरद! हि दयसे न संशेमहे निरनुशयधियो हता है! वयम् ॥८५॥
शरणवरणवागियं याऽद्य मे वरद! तदधिकं न किञ्चिन्मम । सुलभमभिमतार्थदं साधनं तदयमवसरो दयायास्तव ॥ ८६ ॥

विषयविषयिणी स्पृहा भूयसी तव तु चरणयोर्न साऽल्पापि मे । वरद! ननु भरस्तवैव त्वयं यदुत तव पदस्पृहाजन्म मे ॥ ८७ ॥

इयमिह मतिरस्मदुज्जीवनी वरद! तव खलु प्रसादादृते । शरणमिति वचोऽपि मे नोदियात्त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८ ||

वरद! यदिह वस्तु वाञ्छाम्यहं तव चरणलभाविरोधस्ततः । यदि न भवति तत्-प्रदेहि प्रभो! झटिति वितर पादमेवान्यथा ॥ ८९ ॥

तदपि किमपि हन्त! दुर्वासनाशतविवशतया यदभ्यर्थये । तदतुलदय! सार्व! सर्वप्रद! प्रवितर वरद! क्षमाम्भोनिधे ॥ ९० ॥

प्रियमितरदथापि वा यद्यथा वितरसि वरद! प्रभो! त्वं हि मे । तदनुभवनमेव युक्तं तु मे त्वयि निहितभरोऽस्मि सोऽहं यतः ॥ ९१ ॥
यथाऽसि यावानसि योऽसि यद्गुणः करीश! यादृग्विभवो यदिङ्गितः । तथाविधं त्वाऽहमभक्तदुर्ग्रहं प्रपत्तिवाचैव निरीक्षितुं वृणे ॥९२॥
अये! दयालो! वरद! क्षमानिधे! विशेषतो विश्वजनीन! विश्वद! । हितज्ञ! सर्वज्ञ! समग्रशक्तिक! प्रसह्य मां प्रापय दास्यमेव ते  ॥९३॥
स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनाद्भजन्ति ये त्वां त्वयि भक्तितोऽथवा । करीश! तेषामपि तावकी दया तथात्वकृत्सैव तु मे बलं मतम् ॥९४॥
यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो निरुद्यमो निष्कृतदुष्कृतो न च । लभेय पादौ वरद! स्फुटास्ततः क्षमादयाद्यास्तव मङ्गला गुणाः ॥९५॥
विलोकनैर्विभ्रमणैरपि भ्रुवोः स्मितामृतैरिङ्गितमङ्गलैरपि । प्रचोदितस्ते वरद! प्रहृष्टधीः कदा विधास्ये वरिवस्यनं तव ॥९६॥
विविश्य विश्वेन्द्रियतर्षकर्षणीर्मनस्स्थले नित्यनिखातनिश्चलाः । सुधासखीर्हस्तिपते! सुशीतला गिरः श्रवस्याश्शृणुयाम तावकीः ॥९७॥
अशेषदेशाखिलकालयोगिनीष्वहं त्ववस्थास्वखिलास्वनन्यधीः । अशेषदास्यैकरतिस्तदाचरन् करीश! वर्तेय सदा त्वदन्तिके ॥९८॥
इमं जनं हन्त! कदाऽभिषेक्ष्यति त्वदक्षिनद्योर्वरद! श्रमापहा । अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ॥९९॥
सदातनत्वेऽपि तदातनत्ववन्नवीभवत्प्रेमरसप्रवाहया । निषेवितं त्वां सततोत्कया श्रिया करीश! पश्येम परश्शतं समाः ॥१००॥
समाहितैस्साधु सनन्दनादिभिस्सुदुर्लभं भक्तजनैरदुर्लभम् । अचिन्त्यमत्यद्भुतमप्रतर्कणं वरप्रद! त्वत्पदमाप्नुयां कथम्? ॥१०१॥
रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपस्त्वासीत्स यामुनमुनेस्सच नाथवंश्यः । वंश्यः पराङ्कुशमुनेस्सच सोऽपि देव्याः दासस्तवेति वरदास्मि तवेक्षणीयः ॥ १०२ ॥

॥ इति पञ्चस्तव्यां वरदराजस्तवः समाप्तः ।।

 

श्रीमते निगमान्तमहादेशिकाय नमः ॥

श्रीवरदराजपञ्चाशत्

रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् । श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ‍‍॥

 

द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः

तुरग सवन वेद्यां श्यामळो हव्यवाहः ।

कलश जलधि कन्या वल्लरी कल्पशाखी

कलयतु कुशलं नः कोऽपि कारुण्य राशिः ॥

यस्यानुभावमधिगन्तुमशक्नुवन्तो

मुह्मन्त्यभङ्गुरधियो मुनि सार्वभौमाः ।

तस्यैव ते स्तुतिषु साहसमश्नुवानः

क्षन्तव्य एष भवता करि शैल नाथ ॥

जानन्ननादिविहितान् अपराध वर्गान्

स्वामिन् भयात् किमपि वक्तुमहं न शक्तः ।

अव्याज वत्सल तथापि निरङ्कुशं मां

वात्सल्यमेव भवतो मुखरी करोति ॥

किं व्याहरामि वरद स्तुतये कथं वा

खद्योतवत् प्रलघु सङ्कुचित प्रकाशः ।

तन्मे समर्पय मतिं च सरस्वतीं च

त्वामञ्जसा स्तुति पदैर्यदहं धिनोमि ॥

मच्छक्ति मात्र गणने किमिहास्ति शक्यं

शक्येन वा तव करीश किमस्ति साध्यम् ।

यद्यस्ति साधय मया तदपि त्वया वा

किं वा भवेद् भवति किञ्चिदनीहमाने ॥

स्तोत्रं मया विरचितं त्वदधीन वाचा

त्वत्प्रीतये वरद यत् तदिदं न चित्रम् ।

आवर्जयन्ति हृदयं खलु शिक्षकाणां

मञ्जूनि पञ्जर शकुन्त विजल्पितानि ॥

यं चक्षुषामविषयं हयमेध यज्वा

द्राघीयसा सुचरितेन ददर्श वेधाः ।

तं त्वां करीश करुणा परिणामतस्ते

भूतानि हन्त निखिलानि निशामयन्ति ॥

तत्तत्पदैरुपहितेऽपि तुरङ्ग मेधे

शक्रादयो वरद पूर्वमलब्ध भागाः ।

अध्यक्षिते मखपतौ त्वयि चक्षुषैव

हैरण्य गर्भ हविषां रसमन्वभूवन् ॥

सर्ग स्थिति प्रळय विभ्रम नाटिकायां

शैलूषवद् विविध वेष परिग्रहं त्वाम् ।

सं भावयन्ति हृदयेन करीश धन्याः

सं सार वारिनिधि सन्तरणैक पोतम् ॥

प्राप्तोदयेषु वरद त्वदनुप्रवेशात्

पद्मासनादिषु शिवादिषु कञ्चुकेषु ।

तन्मात्र दर्शन विलोभित शेमुषीकाः

तादात्म्य मूढ मतयो निपतन्त्यधीराः ॥

मध्ये विरिञ्चि शिवयोर्विहितावतारः

ख्यातोऽसि तत्समतया तदिदं न चित्रम् ।

माया वशेन मकरादि शरीरिणं त्वां

तानेव पश्यति करीश यदेष लोकः ॥

ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडिति

आत्मेति सर्वमिति सर्व चराचरात्मन् ।

हस्तीश सर्व वचसामवसान सीमां

त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥

आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि

अव्याहता विधि निषेध मयी तवाज्ञा ।

हस्तीश नित्यमनुपालन लङ्घनाभ्यां

पुं सां शुभाशुभ मयानि फलानि सूते ॥

त्रातापदि स्थिति पदं भरणं प्ररोहः

छाया करीश सरसानि फलानि च त्वम् ।

शाखागत त्रिदश बृन्द शकुन्तकानां

किं नाम नासि महतां निगम द्रुमाणाम् ॥

सामान्य बुद्धि जनकाश्च सदादि शब्दाः

तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः ।

नारायणे त्वयि करीश वहन्त्यनन्यम्

अन्वर्थ वृत्ति परिकल्पितमैक कण्ठ्यम् ॥

सञ्चिन्तयन्त्यखिल हेय विपक्ष भूतं

शान्तोदितं शमवता हृदयेन धन्याः ।

नित्यं परं वरद सर्वगतं सुसूक्ष्मं

निष्पन्द नन्दथु मयं भवतः स्वरूपम् ॥

विश्वातिशायि सुखरूप यदात्मकस्त्वं

व्यक्तिं करीश कथयन्ति तदात्मिकां ते ।

येनाधिरोहति मतिस्त्वदुपासकानां

सा किं त्वमेव तव वेति वितर्क डोळाम् ॥

मोहान्धकार विनिवर्तन जागरूके

दोषा दिवापि निरवग्रहमेधमाने ।

त्वत्तेजसि द्विरद शैलपते विमृष्टे

श्लाघ्येत सन्तमस पर्व सहस्र भानोः ॥

रूढस्य चिन्मयतया हृदये करीश

स्तम्बानुकारि परिणाम विशेष भाजः ।

स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः

शाखा विभाग चतुरे तव चातुरात्म्ये ॥

नागाचलेश निखिलोपनिषन्मनीषा-

मञ्जूषिका मरकतं परिचिन्वतां त्वाम् ।

तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां

सौदामनीव निभृता नव मेघ गर्भा ॥

औदन्वते महति सद्मनि भासमाने

श्लाघ्ये च दिव्य सदने तमसः परस्मिन् ।

अन्तः कळेबरमिदं सुषिरं सुसूक्ष्मं

जातं करीश कथमादरणास्पदं ते ॥

बालाकृतेर्वटपलाशमितस्य यस्य

ब्रह्माण्ड मण्डलमभूदुदरैकदेशे ।

तस्यैव तद् वरद हन्त कथं प्रभूतं

वाराहमास्थितवतो वपुरद्भुतं ते ॥

भक्तस्य दानव शिशोः परिपालनाय

भद्रां नृसिं ह कुहनामधिजग्मुषस्ते ।

स्तम्भैक वर्जमधुनाऽपि करीश नूनं

त्रैलोक्यमेतदखिलं नरसिं ह गर्भम् ॥

क्रामन् जगत् कपट वामनतामुपेतः

त्रेधा करीश स भवान् निदधे पदानि ।

अद्यापि जन्तव इमे विमलेन यस्य

पादोदकेन विधृतेन शिवा भवन्ति ॥

येनाचल प्रकृतिना रिपु सं क्षयार्थी

वारां निधिं वरद पूर्वमलङ्घयस्त्वम् ।

तं वीक्ष्य सेतुमधुनापि शरीरवन्तः

सर्वे षडूर्मि बहुळं जलधिं तरन्ति ॥

इत्थं करीश दुरपह्नव दिव्य भव्य-

रूपान्वितस्य विबुधादि विभूति साम्यात् ।

केचिद् विचित्र चरितान् भवतोऽवतारान्

सत्यान् दया परवशस्य विदन्ति सन्तः ॥

सौशील्य भावित धिया भवता कथञ्चित्

सञ्छादितानपि गुणान् वरद त्वदीयान् ।

प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः

पत्युस्त्विषामिव पयोद वृतान् मयूखान् ॥

नित्यं करीश तिमिराविल दृष्टयोऽपि

सिद्धाञ्जनेन भवतैव विभूषिताक्षाः ।

पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं

माया निगूढमनपाय महानिधिं त्वाम् ॥

सद्यस्त्यजन्ति वरद त्वयि बद्ध भावाः

पैतामहादिषु पदेष्वपि भाव बन्धम् ।

कस्मै स्वदेत सुख सञ्चरणोत्सुकाय

कारागृहे कनक शृङ्खलयाऽपि बन्धः ॥

हस्तीश दुः ख विष दिग्ध फलानुबन्धिनि

आब्रह्म कीट मपराहत सं प्रयोगे ।

दुष्कर्म सञ्चयवशाद् दुरतिक्रमे नः

प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥

त्वद्भक्ति पोत मवलम्बितु मक्षमाणां

पारं परं वरद गन्तु मनीश्वराणाम् ।

स्वैरं लिलङ्घयिषतां भव वारि राशिं

त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥

अश्रान्त सं सरण घर्म निपीडितस्य

भ्रान्तस्य मे वरद भोग मरीचिकासु ।

जीवातुरस्तु निरवग्रह मेधमानः

देव त्वदीय करुणामृत दृष्टि पातः ॥

अन्तः प्रविश्य भगवन्नखिलस्य जन्तोः

आसेदुषस्तव करीश भृशं दवीयान् ।

सत्यं भवेयमधुनापि स एव भूयः

स्वाभाविकी तव दया यदि नान्तरायः ॥

अज्ञात निर्गम मनागम वेदिनं माम्

अन्धं न किञ्चि दवलम्बन मश्नुवानम् ।

एतावतीं गमयितुः पदवीं दयाळोः

शेषाध्वलेश नयने क इवातिभारः ॥

भूयोऽपि हन्त वसतिर्यदि मे भवित्री

याम्यासु दुर्विषह वृत्तिषु यातनासु ।

सम्यग् भविष्यति ततः शरणागतानां

सं रक्षितेति बिरुदं वरद त्वदीयम् ॥

पर्याकुलं महति दुः ख पयोनिधौ मां

पश्यन् करीश यदि जोषमवस्थितस्त्वम् ।

स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं

पारे करिष्यति दया तव दुर्निवारा ॥

किं वा करीश कृपणे मयि रक्षणीये

धर्मादि बाह्य सहकारि गवेषणेन ।

नन्वस्ति विश्व परिपालन जागरूकः

सङ्कल्प एव भवतो निपुणः सहायः ॥

निर्यन्त्रणं परिणमन्ति न यावदेते

नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः ।

तावन्न चेत् त्वमुपगच्छसि शार्ङ्गधन्वा

शक्यं त्वयापि न हि वारयितुं करीश ॥

यावन्न पश्यति निकामममर्षणो मां

भ्रू भङ्ग भीषण कराळ मुखः कृतान्तः ।

तावत् पतन्तु मयि ते भगवन् दयाळोः

उन्निद्र पद्म कलिका मधुराः कटाक्षाः ॥

स त्वं स एव रभसो भवदौपवाह्यः

चक्रं तदेव शित धार महं च पाल्यः ।

साधारणे त्वयि करीश समस्त जन्तोः

मातङ्ग मानुष भिदा न विशेष हेतुः ॥

निर्वापयिष्यति कदा करिशैल धामन्

दुर्वार कर्म परिपाक महादवाग्निम् ।

प्राचीन दुः खमपि मे सुखयन्निव त्वत्-

पादारविन्द परिचार रस प्रवाहः ॥

मुक्तः स्वयं सुकृत दुष्कृत शृङ्खलाभ्याम्

अर्चिर्मुखै रधिकृतै रतिवाहिताध्वा ।

स्वच्छन्द किङ्करतया भवतः करीश

स्वाभाविकं प्रतिलभेय महाधिकारम् ॥

त्वं चेत् प्रसीदसि तवास्मि समीपतश्चेत्

त्वय्यस्ति भक्तिरनघा करिशैल नाथ ।

सं सृज्यते यदि च दास जनस्त्वदीयः

सं सार एष भगवन्नपवर्ग एव ॥

आहूयमानमनपाय विभूति कामैः

आलोक लुप्त जगदान्ध्यं अनुस्मरेयम् ।

आलोहितां शुकमनाकुल हेतिजालं

हैरण्यगर्भ हयमेध हविर्भुजं त्वाम् ॥

भूयो भूयः पुळक निचितै रङ्गकै रेधमानाः

स्थूल स्थूलान् नयन मुकुळैर्बिभ्रतो बाष्प बिन्दून् ।

धन्याः केचिद् वरद भवतः सं सदं भूषयन्तः

स्वान्तै रन्तर्विनय निभृतैः स्वादयन्ते पदं ते ॥

वरद तव विलोकयन्ति धन्याः

मरकत भूधर मातृकायमाणम् ।

व्यपगत परिकर्म वारवाणं

मृगमद पङ्क विशेष नीलमङ्गम् ॥

अनिभृत परिरम्भै राहिता मिन्दिरायाः

कनक वलय मुद्रां कण्ठदेशे दधानः ।

फणिपति शयनीया दुत्थितस्त्वं प्रभाते

वरद सतत मन्तर्मानसं सन्निधेयाः ॥

तुरग विहगराज स्यन्दनान्दोळिकादिषु

अधिक मधिक मन्या मात्म शोभां दधानम् ।

अनवधिक विभूतिं हस्तिशैलेश्वरं त्वाम्

अनुदिन मनिमेषैर्लोचनैर्निर्विशेयम् ॥

निरन्तरं निर्विशतस्त्वदीयम्

अस्पृष्ट चिन्तापदमाभिरूप्यम् ।

सत्यं शपे वारण शैलनाथ

वैकुण्ठ वासेऽपि न मेऽभिलाषः ॥

व्यातन्वाना तरुण तुळसी दामभिः स्वामभिख्यां

मातङ्गाद्रौ मरकत रुचिं पुष्णती मानसे नः ।

भोगैश्वर्य प्रिय सहचरैः कापि लक्ष्मी कटाक्षैः

भूयः श्यामा भुवन जननी देवता सन्निधत्ताम् ॥

इति विहितमुदारं वेङ्कटेशेन भक्त्या

श्रुति सुभगमिदं यः स्तोत्रमङ्गीकरोति ।

करिशिखरि विटङ्क स्थायिनः कल्पवृक्षात्

भवति फलमेशषं तस्य हस्तापचेयम् ॥ 26.51 ॥

॥ इति श्रीवरदराजपञ्चाशत् ।।

 

श्रीमते निगमान्तमहादेशिकाय नमः ॥

श्री हस्तिगिरिमाहात्म्यम्

ஸ்ரீ ஹஸ்திகிரி மாஹாத்ம்யம்

रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् । श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ‍‍॥

 मानार्हं महतां महानटजटापर्यन्तनिर्यन्त्रणक्रीडाबन्धुरसिन्धुराजमहिषीजन्मास्पदं तत्पदम् ।

मातङ्गाचलमौळिमण्डनमणेर्वन्दारुबृन्दारकश्रेणीशेखरपारिजातकलिकाचूडालमीडामहे ॥

வாழி அருளாளர் வாழி அணி அத்திகிரி*

வாழி எதிராசன் வாசகத்தோர்* வாழி

சரணாகதியென்னும் சார்வுடன் மற்றொன்றை*

அரணாகக் கொள்ளாதாரன்பு. (1)

எண்டிசையும் கடலேழும் மலைகள் ஏழும்

ஈரேழு வையகமும் படைத்திலங்கும்*

புண்டரீகத்தயன் புணர்த்த பெரிய வேள்விப்

புனித நறும் போக்கியத்தை உகந்து வந்து*

தொண்டையெனும் மண்டலத்தில் நடுவில் பாரில்

தூநில மெய்விரதத்தில் தோன்றி நின்ற*

கொண்டல் அருள்குணமே நாம் கூறுகின்றோம்

கூர்மதியீர்! குறிப்பாகக் கொள்மின் நீரே. (2)

வம்மின் புலவீர் அருளாளப் பெருமாள் என்றும்

அருளாழி அம்மான் என்றும்*

திருமாமகளைப் பெற்றும் என் நெஞ்சம் கோயில்

கொண்ட பேரருளாளர் என்றும்*

வியப்பா விருதூதும்படி கரைபுரண்ட கருணைக் கடலை

எவ்வண்ணம் பேசுவீர் ஈதென்ன பாங்கே (3)

ஒன்றே புகலென்று உணர்ந்தவர் காட்டத் திருவருளால்*

அன்றே அடைக்கலம் கொண்ட நம் அத்திகிரித் திருமால்*

இன்றே இசையில் இணையடி சேர்ப்பர் இனிப்பிறவோம்*

நன்றே வருவதெல்லாம் நமக்குப் பரம் ஒன்றிலதே * (4)

 

வம்பவிழ் போதமர் மாதர் உகந்த அம்மாநிதியை*

தன் பலமே கொண்டு காணக் கருதிய தாமரையோன்*

முன்பல குற்றத்து வல்வினை மொய்க்க முகிழ்மதியாய்*

அம்புலி வேண்டிய பாலனைப் போல அழுதனனே. (5)

அடங்காக் கரணங்கள் ஐந்துடன் ஆறுமடக்கி முன்னம்*

நெடுங்காலம் இந்நிலமே நிலையாய்ப் பூண்டு நீடுறைவான்*

சடங்கார் பெரிய தவங்கள் செய்தேன் என்ன தன்மையிதென்று*

இடங்காத்திருந்த திசைமுகன் தன்னை இகழ்ந்தனனே. (6)

விண்ணுலகில் வீற்றிருந்த மேன்மையாலும்

வேதங்கள் ஈரிரண்டும் விரித்தலாலும்*

கண்ணனை நான் கருத்துறவே காண்பன் என்னக்

காணாமல் விலக்கிய தன் வினையைக் காணா*

எண்ணிய நற்புவனங்கள் ஏழும் ஆறும்

இரு மூன்று தீவமும் எட்டு இடமும் விட்டு*

பண்ணிய நல் விரதமெல்லாம் பலிக்கும் என்று

பாரதத்தைப் பங்கயத்தோன் படிந்திட்டானே. (7)

எத்திசை நிலனுமெய்தி அருந்தவம் செய்த வந்நாள்

சத்திய விரதம் செல்வாய் என்றதோர் உரையின் சார்வால்

அத்திசை சென்றழைத்து அங்கமரரில் எடுப்பான்தன்னை*

உத்தரவேதி செய்யென்று உரையணங்கு இறை உரைத்தான். (8)

உத்தம வமர்த்தலம் அமைத்ததோர்

எழில் தனுவுயர்த்த கணையால்

அத்திர வரக்கன் முடிபத்தும் ஒரு

கொத்தென உதிர்த்த திறலோன்*

மத்துறு மிகுத்த தயிர் மொய்த்த வெணெய்

வைத்ததுணும் அத்தனிடமாம்

அத்திகிரி பத்தர் வினை தொத்தற

அறுக்கும் அணி அத்திகிரியே. (9)

திண்மணிகள் பொன்னுடனே சேர்தலாலும்

சிதையாத நூல்வழியிற் சேர்த்தியாலும்

வண்மை எழும் ஈரிரண்டு வண்ணத்தாலும்

வானவர்க்கும் வியப்பான வகுப்பினாலும்

உண்மையுடை வாசியொளி ஓசையாலும்

ஒரு காலும் அழியாத அழகினாலும்

மண்மகளாற்கு அலங்காரம் என்ன மன்னும்

மதிட்கச்சி நகர் கண்டு மகிழ்ந்திட்டானே. (10)

காமங்கள் பல கொண்ட வேதம் கொண்டு

கைதவமே செய்வார்க்குக் காணகில்லா*

பூமங்கை கேள்வனை நான் கண்டு போற்றப்

புண்ணியத்தின் நிகரில்லா விரதம் பூண்டேன்*

சாமங்கள் கழிவதன் முன் சடக்கெனப் போய்த்

தன்னாற்றில் தனியிருந்து தவம் செய்கின்ற*

நாமங்கை வந்திட நீ அழைப்பாய் என்று

நன்மகனை நான்முகன் தான் நவின்றிட்டானே. (11)

அன்னவடிவாள் அசையுமன்ன நடையாள்

உயருமன்ன வரசேறி வருவாள்*

அத்தனயன் அத்தநயன் உத்திதனை

அத்திதென வுத்தி புரியாள்*

நன்னடை விடா நடமிதென்ன நடவாநடுவுள்

நண்ணு குடகேறி யிழிவாள்*

நற்பதிக ளற்பதிகள் கற்புரள

வற்புத மருக் கதியினால்*

கன்னடை விடா விடமில் உன்னதி சிறாவிகட

மன்னுகிரி கூடமிடிய*

கட்ட விடை யிற்றுவிழ முற்றும் விழி†1

யுற்றடைய விட்டருகுற*

அன்ன நய சீரயனி தென்னென விழாவமரர்

மன்னுபதியேறி மகிழ*

அச்சுதன் அனைத்தனுவில் அத்திசைவரத்

தகைய வற்றணுகினாள். (12)

அன்று நயந்த அயமேத மாவேள்வி*

பொன்ற வுரையணங்கு பூம்புனலாய்*கன்றிவர

ஆதி அயனுக்கருள் செய்தணையானான்

தாதை அரவணையான் தான். (13)

தரணியில் மன்னி அயனார் தனித்தவம் காத்தபிரான்*

கருணையெனும் கடலாடித் திருவணைக் கண்டதற்பின்*

திரணர கெண்ணிய சித்திரகுத்தன் தெரித்துவைத்த*

சுருணையிலேறிய சூழ்வினை முற்றும் துறந்தனமே. (14)

சுகலேசமெண்ணிய சூழ்வினை தீர்க்கத் துணிந்தயனார்*

அகலாத அன்புடன் கொண்ட அயமேத வேதியின் மேல்*

புகலோங்கு பொன்மலை என்றதோர் புண்ணிய கோடியுடன்*

பகலோன் பகல் விளக்காகப் பரம் சுடர் தோன்றியதே. (15)

பெருமையுடை அத்திகிரிப் பெருமாள் வந்தார்

பேராது அருள்பொழியும் பெருமாள் வந்தார்

அருமறையின் உச்சிதனில் நின்றார் வந்தார்

அங்கமுடன் அவையாகும் பெரியோர் வந்தார்

திருவுரையாய்த் தாம் பொருளாய் நிற்பார் வந்தார்*

திருவருளால் செழுங்கலைகள் தந்தார் வந்தார்*

மருவலர்க்கு மயக்குரைக்கும் மாயோன் வந்தார்*

வானேறவழி தந்தார் வந்தார் தாமே. (16)

அத்திகிரி அருளாளப்பெருமாள் வந்தார்*

ஆனை பரி தேரின் மேல் அழகர் வந்தார்

கச்சிதனில் கண்கொடுக்கும் பெருமாள் வந்தார்*

கருத வரம் தரும் தெய்வப் பெருமாள் வந்தார்*

முத்திமழை பொழியும் முகில் வண்ணர் வந்தார்*

மூலமென ஓலமிட வல்லார் வந்தார்*

உத்தர வேதிக்குள்ளே உதித்தார் வந்தார்*

உம்பர் தொழும் கழலுடையார் வந்தார் தாமே. (17)

திருபரிதியிசைந்த மகுடமும்

எழில்மதி திகழ்ந்த வதனமும்*

இருவகை இலங்கு குழல்களில்

எதிர் பொர உகந்த மகரமும்*

ஒரு தகவுயர்ந்த திருமகள்

ஒளிமறுவில் மன்னும் அகலமும்*

உருவரு உமிழ்ந்த உதரமும்

உலகடைய நின்ற கழல்களும்*

மருவினிடை யோங்கு புனலென

மலைகுனிய நின்ற மலையென*

மருளற விளங்கும் ஒளியென

மலரயன் உகந்த பயனென*

அருவில் உறைகின்ற உயிரென

அடியவர் உகந்த அமுதென*

அருமறைகள் ஒன்றி அடிதொழ

அருள் வரதர் நின்றபெருமையே. (18)

சித்தசித்தென விரித்துரைத்தன

அனைத்தமைத் துறையும் இறைவனார்*

சிறியபெரியவுரு வடைய உடலமென

நடலம் இலதிலகு நிலையினார்*

சித்திரத்தொழிலை யொத்த பத்தரொடு

முத்தர் பித்தியெனும் உணர்வினார்*

சிதைவின் மறை நெறியி லெறிய வுருமுறைகள்

முறிய சிறை யரிய நிறைவினார்

கத்துவிக்க வல கத்து வித்தைவழி

கற்றவர்க்கசைவில் மாயனர்*

கபிலர் கணசரணர் சுகதர் சமணரரர்

வழிகள் அழியும் அருள் மொழியினார்*

கத்திலக்கிலும் அருக்குலத்திலும்

அசித்திலொக்கும் ஒருமுதல்வனார்*

கரணமிடு கடிய பதினொரிருடிகமும்

அடையமுடியும் அடியிருடியார்*

ஒத்தனைத்துலகும் ஒற்றியொற்றிவரும்

இப்பவத்திசையும் இசைவினார்*

உருவமருவமெனும் உலகில் முடகிலெனில்

உவமையிலதிலகு தலைவனார்*

உத்தமப்படி வகுத்த வித்தைகளில்

உத்தரிக்க உணர் குணவனார்*

உரிய கிரிசைகளில் அரியதொருவிரகு

தெரிய விரையுமவர் பரிவினார்*

சத்தசெத்தெனும் அனைத்தணைத்தவினை

தொத்தறுக்க வல துணிவினார் *

சரியுமளவில் உரியவரை அறிவரிய

தமனி நெறிசொருகு விரகினார்*

தத்துவத்திரள் உதைத்துதைத் தடைவு

தத்துவிக்குமவர் தலைவனார்*

தருகவுணரு மவர் சரண மணுக

விடலரிய அருள் வரதரடியமே. (19)

திருமகள்மண்மகள் நீளைமுதலா எல்லாத்

தேவியரும் தன்னுடனே திகழ்ந்து நிற்க*

தரும மிரு மூன்றுமுதல் அனைத்தும் தோன்றத்

தன்னனைய சூரிகள்தன் அடிக்கீழ் வாழ*

அருமரைசேர் அளவில்லா அவனியின் கண்

அரவணைமேல் வீற்றிருப்பால் அனைத்தும் காக்கும்

கருமணியைக் கரிகிரிமேல் கண்டேன், என்தன்

கடுவினைகள் அனைத்தும் நான் கண்டிலேனே. (20)

பெடையிரண்டை யொரனமடைந்து

பிரிந்திடா வகை பேசலாம்*

பெருகுமருவிகள் அருகு மருவிய

பெரிய மணிவரை பயிலலாம்*

பிடியிரண்டொடு களபமொன்று

பிணைந்த பேரழகோதலாம்*

பிரிவிலொளியொடு நிழலுமருகுறும்

இரவி யிலகுதல் பரவலாம்*

கொடியிரண்டொடு விடவியொன்று

குளிர்ந்தவாறு குலாவலாம்*

குறைவில் சுருதியும் நினைவுமிலகிய

தருமவருநிலை இதென்னலாம்*

அடியிரண்டையும் அடையுமன்பர்

அறிந்த பேரருளாளனார்*

அணுகு மலர்மகள் அவனிமகளொடு

கரடிகிரியினிலவிர்தலே. (21)

வேரொப்பார் விண்முதலாம் காவுக்கெல்லாம்

விழியொப்பார் வேதமெனும் கண் தனக்குக்

காரொப்பார் கருணைமழை பொழிந்திடுங்கால்

கடலொப்பார் கண்டிடினும் காணாக் கூத்தால்

நீரொப்பார் நிலமளிக்கும் தன்மை தன்னால்

நிலமொப்பார் நெடும்பிழைகள் பொறுக்கும் நேரால்*

ஆரொப்பார் இவர் குணங்கள் அனைத்தும் கண்டால்

அருளாளர் தாமெனினும் தமக்கொவ்வாரே. (22)

எந்நிலமும் குரத்தால் குறி செய்த வெழிற்பரி கொண்டு*

அன்னமுயர்த்த செய்யோன் அன்று வேள்வி செய்வேதியின் மேல்*

முன்னிலையாகிய மூர்த்தியுடன் நான்முக! மற்றுமுனக்கு*

என்னவரம் தருவோமென்று நாதனியம்பினனே. (23)

சென்றுமலர் பறித்து என் நாதன் சேவடிப்போதுகந்து*

நன்றென நீர் சுடர் நன்முகவாச விலைகொடுத்து*

கன்னலிலட்டுவத்தோடு அன்னம் சீடை கறி படைத்து*

பின்னும் செபித்தவன் பாதம் பணிமின்கள் என்றனனே. (24)

ஆழிநிலை வினைகடிவான் அயமேத முடிந்ததற்பின்*

வேழமலை நாயகனார் விடைகொடுக்க விண்ணேறி*

நாழிகையில் வானவரை மாற்றியிடு நான்முகன்தான்*

ஊழியெலா மழியாத உயோகமடைந்திருந்தானே. (25)

ஆதியுகத்தயன் கண்டிட நின்றவருள்வரதர்*

காதலுயர்ந்த களிற்றைத் திரேதையில் காத்தளித்து*

வாதுயர் தேவகுருவுக்கிரங்கித் துவாபரத்தில்*

சோதி அநந்தன் கலியில் தொழுதெழ நின்றனரே. (26)

புண்டரீக முயிர்த்த புராணனார்

பொய்யில் மாமக வுத்தரவேதியில்*

கொண்டலாரருள்மாரி பொழிந்திடக்

கொண்டதோருயர் கூர்மதியன்பினால்*

பண்டை நான்மறை மெளலி படிந்த யான்

பாரில் மெய்விரதக் கவி பாடினேன்*

தொண்டை மண்டல வேதியர் வாழவே

தூய தென்மறை வல்லவர் வாழவே. (27)

உய்விரத மொன்றின்றி அடைந்தார் உய்ய

ஒருவிரதம் தான் கொண்டஉயர்ந்தமாலை*

செய்விரதம் ஒன்றாலும் தெளியகில்லாச்

சிந்தையினால் திசைபடைத்த திசைமுகன் தான்*

பொய் விரத நிலமெல்லாம் போயே மீண்டு

புகலிதுவே புண்ணியத்துக் கென்று சேர்ந்த*

மெய்விரத நன்னிலத்து மேன்மை யேத்தி

வேதாந்த வாசிரியன் விளங்கினானே. (28)

சீராரும் தூப்புல் திருவேங்கடமுடையான்

தாராரருளாளர் தாள் நயந்து* சீராக

மெய்விரத நன்னிலத்து மேன்மையிது மொழிந்தான்*

கையில் கனிபோலக் கண்டு. (29)

कविकथकपञ्चवक्त्रः त्रय्यन्तगुरुस्त्रिलोकमहनीयम् ।

सत्यव्रतमाहात्म्यं व्यतनुत ललितमिति वेङ्कटेशकविः ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु

श्रीहस्तिगिरिमाहात्म्यं संपूर्णम् ॥

 

श्रीहस्तिगिरीश-प्रपत्तिः

आकार त्रय संपन्नाम् अरविन्दनिवासिनीम् ।

अशेष जगतीशित्रीम् वन्दे वरदवल्लभाम् ।। (यामुनमुनेः)

 

यस्य प्रसाद कलया बधिरः श्रणोति

पङ्गुः प्रधावति जवेन च वक्ति मूकः ।

अन्धः प्रपश्यति सुतं लभते च वन्ध्या

तं देवदेववरदं शरणं गतोऽस्मि ।। (यामुनमुनेः)

 

लक्ष्मीकपोलतलकल्पितपत्ररेखा-

कस्तूरिकासुरभि-सस्मित-वक्त्रचन्द्र ।

श्रीहस्तिभूधरसुभूषण तावकेनौ

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

सर्वाभिवाञ्चित समस्तवरप्रदान-

विख्यात ! मद्वरद ! राज महः प्रदान !

सर्वाङसुन्दर ! विमृष्य समाधिकार्थ्य !

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

सान्देन्द्रनीलमणिचारुतनुप्रकाश –

संराजमान-परभागसुवर्णभूष ।

सौदामनी सततयोगघनोपमेय !

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

मूलेति मुक्तगिरिवारिगते करीन्द्रे

वेगागमप्रहततार्क्ष्यगतागतादेः ।

ग्राहक्षतिक्षरदसृक्वप्रमृजाकृतस्ते

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

ब्रह्म-त्रिलोचन-सहस्रविलोचनाद्यैः

अभ्यर्चितौ सुरमहीरुहपुष्पजालैः ।

नीराजतौ च नतमौलिमरीचिभिस्ते

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

काञ्चीपुरीश करुणाकर देवदेव

देवादिदेव गरुडोपरि देवदेव ।

दासापराधसहदेव सदा त्वदीयौ

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

श्रीकाञ्चीपूर्णवचनप्रतिवाक्प्रसादात्

अर्चावतार-समयव्यतिलंघिवृत्तेः ।

लक्ष्यादि-दिव्यमहिषीस्मित-कारिणस्ते

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

शेषस्सहस्रफणरत्नसहस्रदीपः

चक्षुः सहस्रयुगवीक्षण-पुष्पवर्षः

यत्त्वां प्रसादयति नाथ ! कलौ युगे ते

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

सत्तोत्तकैः सततसेव्यपदाम्बुजेन

संसारधारकवयाद्रदृगञ्चलेन ।

सोम्योपयन्त्रुमुनिना मम दर्शितौ ते

श्री देवराज चरणौ शरणं प्रपद्ये ।।

 

श्रीश ! श्रिया घटकया त्वदुपायभावे

प्राप्ते, त्वयीतरदुरापतया स्फुरन्त्या ।

नित्याश्रिताय निरवद्यगुणाय तुभ्यं

स्यां किङ्करः करिगिरीश न जातु मह्यम् ।।

इति श्रीहस्तिगिरीश-प्रपत्तिः

 

अथ श्रीवरवरमुनिभिरनुगृहीतं देवराजमङ्गलम्

श्रीरस्तु

श्रीमते हयग्रीवाय नमः

श्रीमते रामानुजाय नमः

यश्चक्रे देवराजस्य मङ्गलाशासनं मुदा ।

तं वन्दे रम्यजामातृमुनिं विशदवाग्वरम् ॥

मङ्गलं वेधसो वेदिमेदिनीगृहमेधिने ।

वरदाय दयाधाम्ने धीरोदाराय मङ्गलम् ॥ (१)

वाजिमेधे वपाहोमे धातुरुत्तरवेदितः ।

उदिताय हुतादग्नेः उदाराङ्गाय मङ्गलम् ॥ (२)

यजमानं विधिं वीक्ष्य स्मयमानमुखश्रिये ।

दयामानदृशे तस्मै देवराजाय मङ्गलम् ॥ (३)

वारिदश्यामवपुषे विराजत्पीतवाससे ।

वारणाचलवासाय वारिजाक्षाय मङ्गलम् ॥ (४)

अद्यापि सर्वभूतानां अभीष्टफलदायिने ।

प्रणतार्तिहरायास्तु प्रभवे मम मङ्गलम् ॥ (५)

दिव्यावयवसौन्दर्यदिव्याभरणहेतये ।

दन्तावलगिरीशाय देवराजाय मङ्गलम् ॥ (६)

पुरुषाय पुराणाय पुण्यकोटिनिवासिने ।

पुष्पितोदारकल्पद्रुकमनीयाय मङ्गलम् ॥ (७)

काञ्चनाचलश‍ृङ्गाग्रकालमेघानुसारिणे ।

सुपर्णांसावतंसाय सुरराजाय मङ्गलम् ॥ (८)

भोगापवर्गयोरेकं वाञ्छद्भ्यो ददते द्वयम् ।

श्रीमद्वरदराजाय महोदाराय मङ्गलम् ॥ (९)

मतङ्गजाद्रितुङ्गाग्रश‍ृङ्गश‍ृङ्गारवर्ष्मणे ।

महाकृपाय मद्रक्षादीक्षितायास्तु मङ्गलम् ॥ (१०)

श्रीकाञ्चीपूर्णमिश्रेण प्रीत्या सर्वाभिभाषिणे ।

अतीतार्चाव्यवस्थाय हस्त्यद्रीशाय मङ्गलम् ॥ (११)

अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे ।

श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥ (१२)

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।

सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ (१३)

इति देवराजमङ्गलं समाप्तम्

 

 

अथ चोलसिंहपुरं दोड्डय्याचार्यकृतम्

श्रीदेवराजपञ्चकम्

प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान्

आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् ।

मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः

अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥ (१)

मुक्तातपत्रयुगलोभयचामरान्तः

विद्योतमान-विनयातनयाधिरूढम् ।

भक्ताभयप्रदकराम्बुजमंबुजाक्षं

नित्यं नमामि वरदं रमणीयवेषम् ॥ (२)

यद्वेदमौलिगणवेद्यमवेद्यमन्यैः

यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् ।

तत्पद्मनाभपदपद्मयुगं मनुष्यैः

सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥ (३)

केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे

व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् ।

इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥ (४)

प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं

नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम् ।

सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः

कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥ (५)

इति श्रीदेवराजपञ्चकं समाप्तम्

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.