शाल्यपर्वम् अध्यायः 01-20

श्रीः

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

001-अध्यायः

जनमेजय उवाच||

एवं निपातिते कर्णे समरे सव्यसाचिना |

अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ||१||

उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः |

पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ||२||

एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम |

न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||३||

वैशम्पायन उवाच||

ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः |

भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ||४||

हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः |

कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह ||५||

स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः |

राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् ||६||

स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः |

सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ ||७||

शल्यं सेनापतिं कृत्वा विधिवद्राजपुङ्गवः |

रणाय निर्ययौ राजा हतशेषैर्नृपैः सह ||८||

ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः |

बभूव भरतश्रेष्ठ देवासुररणोपमम् ||९||

ततः शल्यो महाराज कृत्वा कदनमाहवे |

पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः ||१०||

ततो दुर्योधनो राजा हतबन्धू रणाजिरात् |

अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात् ||११||

अथापराह्णे तस्याह्नः परिवार्य महारथैः |

ह्रदादाहूय योगेन भीमसेनेन पातितः ||१२||

तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः |

संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् ||१३||

ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः |

प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ||१४||

प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः |

वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् ||१५||

रुरोद च नरव्याघ्र हा राजन्निति दुःखितः |

अहो बत विविग्नाः स्म निधनेन महात्मनः ||१६||

अहो सुबलवान्कालो गतिश्च परमा तथा |

शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः ||१७||

दृष्ट्वैव च पुरो राजञ्जनः सर्वः स सञ्जयम् |

प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् ||१८||

आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः |

आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ||१९||

धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान् |

नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् ||२०||

तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् |

ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ||२१||

दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् |

स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ||२२||

तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः |

तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ||२३||

रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय |

नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा ||२४||

सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ |

मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ||२५||

उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ||२५||

संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह |

म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ||२६||

प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः |

उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप ||२७||

राजानो राजपुत्राश्च सर्वतो निहता नृप ||२७||

दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च |

भग्नसक्थो महाराज शेते पांसुषु रूषितः ||२८||

धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः |

उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः ||२९||

पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः |

तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ||३०||

कर्णपुत्रो हतः शूरो वृषसेनो महाबलः ||३०||

नरा विनिहताः सर्वे गजाश्च विनिपातिताः |

रथिनश्च नरव्याघ्र हयाश्च निहता युधि ||३१||

किञ्चिच्छेषं च शिबिरं तावकानां कृतं विभो |

पाण्डवानां च शूराणां समासाद्य परस्परम् ||३२||

प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् |

सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः ||३३||

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः |

कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ||३४||

तवाप्येते महाराज रथिनो नृपसत्तम |

अक्षौहिणीनां सर्वासां समेतानां जनेश्वर ||३५||

एते शेषा महाराज सर्वेऽन्ये निधनं गताः ||३५||

कालेन निहतं सर्वं जगद्वै भरतर्षभ |

दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत ||३६||

एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः |

निपपात महाराज गतसत्त्वो महीतले ||३७||

तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः |

निपपात महाराज राजव्यसनकर्शितः ||३८||

गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः |

पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः ||३९||

निःसञ्ज्ञं पतितं भूमौ तदासीद्राजमण्डलम् |

प्रलापयुक्ता महती कथा न्यस्ता पटे यथा ||४०||

कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः |

शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ||४१||

लब्ध्वा तु स नृपः सञ्ज्ञां वेपमानः सुदुःखितः |

उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ||४२||

विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ |

ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ||४३||

एवमुक्त्वा ततो भूयो विसञ्ज्ञो निपपात ह ||४३||

तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन |

शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ||४४||

स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः |

तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः ||४५||

निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते ||४५||

सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् |

तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ||४६||

ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् |

धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः ||४७||

गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी |

तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् ||४८||

एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ |

विसर्जयामास शनैर्वेपमानः पुनः पुनः ||४९||

निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ |

सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् ||५०||

ततो नरपतिं तत्र लब्धसञ्ज्ञं परन्तप |

अवेक्ष्य सञ्जयो दीनो रोदमानं भृशातुरम् ||५१||

प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः |

समाश्वासयत क्षत्ता वचसा मधुरेण ह ||५२||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

002-अध्यायः

वैशम्पायन उवाच||

विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः |

विललाप महाराज दुःखाद्दुःखतरं गतः ||१||

सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः |

विचिन्त्य च महाराज ततो वचनमब्रवीत् ||२||

अहो बत महद्दुःखं यदहं पाण्डवान्रणे |

क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ||३||

वज्रसारमयं नूनं हृदयं सुदृढं मम |

यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ||४||

चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय |

अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ||५||

अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् |

पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ||६||

बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम् |

मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ ||७||

तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः |

न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ||८||

एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम् |

त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ||९||

गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा |

अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि ||१०||

सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता |

कथं विनिहतः पार्थैः संयुगेष्वपराजितः ||११||

कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान् |

शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ||१२||

को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति |

महाराजेति सततं लोकनाथेति चासकृत् ||१३||

परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः |

अनुशाधीति कौरव्य तत्साधु वद मे वचः ||१४||

ननु नामाहमश्रौषं वचनं तव पुत्रक |

भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा ||१५||

भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः |

भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः ||१६||

अश्वत्थामा च भोजश्च मागधश्च महाबलः |

बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः ||१७||

म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह |

सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा ||१८||

भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः |

श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् ||१९||

जलसन्धोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः |

अलम्बुसो महाबाहुः सुबाहुश्च महारथः ||२०||

एते चान्ये च बहवो राजानो राजसत्तम |

मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ||२१||

येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः |

योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ||२२||

चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे |

सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ||२३||

एकोऽप्येषां महाराज समर्थः संनिवारणे |

समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् ||२४||

किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ||२४||

अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः |

योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ||२५||

कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान् |

ततो नृपतयो वीराः स्थास्यन्ति मम शासने ||२६||

यश्च तेषां प्रणेता वै वासुदेवो महाबलः |

न स संनह्यते राजन्निति मामब्रवीद्वचः ||२७||

तस्याहं वदतः सूत बहुशो मम संनिधौ |

युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ||२८||

तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः |

व्यायच्छमानाः समरे किमन्यद्भागधेयतः ||२९||

भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् |

शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ||३०||

द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः |

निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ||३१||

भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे |

बाह्लीकश्च महाराज किमन्यद्भागधेयतः ||३२||

सुदक्षिणो हतो यत्र जलसन्धश्च कौरवः |

श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः ||३३||

बृहद्बलो हतो यत्र मागधश्च महाबलः |

आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः ||३४||

संशप्तकाश्च बहवः किमन्यद्भागधेयतः ||३४||

अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः |

आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः ||३५||

नारायणा हता यत्र गोपाला युद्धदुर्मदाः |

म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ||३६||

शकुनिः सौबलो यत्र कैतव्यश्च महाबलः |

निहतः सबलो वीरः किमन्यद्भागधेयतः ||३७||

राजानो राजपुत्राश्च शूराः परिघबाहवः |

निहता बहवो यत्र किमन्यद्भागधेयतः ||३८||

नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय |

निहताः समरे सर्वे किमन्यद्भागधेयतः ||३९||

पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः |

वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ||४०||

भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः |

यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ||४१||

अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह सञ्जय |

कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ||४२||

नान्यदत्र परं मन्ये वनवासादृते प्रभो |

सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसङ्क्षये ||४३||

न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते |

इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ||४४||

दुर्योधनो हतो यत्र शल्यश्च निहतो युधि |

दुःशासनो विशस्तश्च विकर्णश्च महाबलः ||४५||

कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् |

एकेन समरे येन हतं पुत्रशतं मम ||४६||

असकृद्वदतस्तस्य दुर्योधनवधेन च |

दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ||४७||

एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः |

मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ||४८||

विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः |

दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् ||४९||

दुःखेन महता राजा सन्तप्तो भरतर्षभ |

पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ||५०||

भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् |

सेनापतिं प्रणेतारं किमकुर्वत मामकाः ||५१||

यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः |

अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ||५२||

रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना |

एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ||५३||

एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् |

स राजकानां सर्वेषां पश्यतां वः किरीटिना ||५४||

पूर्वमेवाहमुक्तो वै विदुरेण महात्मना |

दुर्योधनापराधेन प्रजेयं विनशिष्यति ||५५||

केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे |

तदिदं मम मूढस्य तथाभूतं वचः स्म ह ||५६||

यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान् |

तत्तथा समनुप्राप्तं वचनं सत्यवादिनः ||५७||

दैवोपहतचित्तेन यन्मयापकृतं पुरा |

अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ||५८||

को वा मुखमनीकानामासीत्कर्णे निपातिते |

अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ||५९||

केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे |

वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः ||६०||

कथं च वः समेतानां मद्रराजो महाबलः |

निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ||६१||

ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् |

यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ||६२||

पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः |

धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ||६३||

पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि |

कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ||६४||

यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् |

अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ||६५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

003-अध्यायः

सञ्जय उवाच||

शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः |

कुरूणां पाण्डवानां च समासाद्य परस्परम् ||१||

निहते सूतपुत्रे तु पाण्डवेन महात्मना |

विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ||२||

विमुखे तव पुत्रे तु शोकोपहतचेतसि |

भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ||३||

ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत |

बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् ||४||

अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे |

पतितान्रथनीडांश्च रथांश्चापि महात्मनाम् ||५||

रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष |

आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम् ||६||

अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः |

कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः ||७||

अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् |

दुर्योधनं मन्युवशाद्वचनं वचनक्षमः ||८||

दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव |

श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ||९||

न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते |

यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ||१०||

पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा |

सम्बन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना ||११||

वधे चैव परो धर्मस्तथाधर्मः पलायने |

ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः ||१२||

तत्र त्वां प्रतिवक्ष्यामि किञ्चिदेव हितं वचः |

हते भीष्मे च द्रोणे च कर्णे चैव महारथे ||१३||

जयद्रथे च निहते तव भ्रातृषु चानघ |

लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ||१४||

येषु भारं समासज्य राज्ये मतिमकुर्महि |

ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ||१५||

वयं त्विह विनाभूता गुणवद्भिर्महारथैः |

कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून् ||१६||

सर्वैरपि च जीवद्भिर्बीभत्सुरपराजितः |

कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ||१७||

इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् |

वानरं केतुमासाद्य सञ्चचाल महाचमूः ||१८||

सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च |

गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः ||१९||

चरन्तीव महाविद्युन्मुष्णन्ति नयनप्रभाम् |

अलातमिव चाविद्धं गाण्डीवं समदृश्यत ||२०||

जाम्बूनदविचित्रं च धूयमानं महद्धनुः |

दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव ||२१||

उह्यमानश्च कृष्णेन वायुनेव बलाहकः |

तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः ||२२||

गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः ||२२||

गाहमानमनीकानि महेन्द्रसदृशप्रभम् |

धनञ्जयमपश्याम चतुर्दन्तमिव द्विपम् ||२३||

विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् |

धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् ||२४||

त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् |

भूय एनमपश्याम सिंहं मृगगणा इव ||२५||

सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् |

आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ||२६||

अद्य सप्तदशाहानि वर्तमानस्य भारत |

सङ्ग्रामस्यातिघोरस्य वध्यतां चाभितो युधि ||२७||

वायुनेव विधूतानि तवानीकानि सर्वशः |

शरदम्भोदजालानि व्यशीर्यन्त समन्ततः ||२८||

तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे |

तव सेनां महाराज सव्यसाची व्यकम्पयत् ||२९||

क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः |

अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु ||३०||

दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु ||३०||

बाणगोचरसम्प्राप्तं प्रेक्ष्य चैव जयद्रथम् |

सम्बन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा ||३१||

सर्वान्विक्रम्य मिषतो लोकांश्चाक्रम्य मूर्धनि |

जयद्रथो हतो राजन्किं नु शेषमुपास्महे ||३२||

को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् |

तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः ||३३||

गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः ||३३||

नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका |

नागभग्नद्रुमा शुष्का नदीवाकुलतां गता ||३४||

ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः |

चरिष्यति महाबाहुः कक्षेऽग्निरिव सञ्ज्वलन् ||३५||

सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः |

दारयेत गिरीन्सर्वाञ्शोषयेत च सागरान् ||३६||

उवाच वाक्यं यद्भीमः सभामध्ये विशां पते |

कृतं तत्सकलं तेन भूयश्चैव करिष्यति ||३७||

प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् |

दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना ||३८||

युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु |

अकारणकृतान्येव तेषां वः फलमागतम् ||३९||

आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः |

स ते संशयितस्तात आत्मा च भरतर्षभ ||४०||

रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् |

भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ||४१||

हीयमानेन वै सन्धिः पर्येष्टव्यः समेन च |

विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ||४२||

ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः |

अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ||४३||

न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते |

स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ||४४||

प्रणिपत्य हि राजानं राज्यं यदि लभेमहि |

श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ||४५||

वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः |

विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ||४६||

यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् |

अर्जुनं भीमसेनं च सर्वं कुर्युरसंशयम् ||४७||

नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह |

धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ||४८||

एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् |

न त्वा ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ||४९||

पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ||४९||

इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः |

दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च ||५०||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

004-अध्यायः

सञ्जय उवाच||

एवमुक्तस्ततो राजा गौतमेन यशस्विना |

निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते ||१||

ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः |

कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ||२||

यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् |

कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ||३||

गाहमानमनीकानि युध्यमानं महारथैः |

पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ||४||

सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् |

न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ||५||

हेतुकारणसंयुक्तं हितं वचनमुत्तमम् |

उच्यमानं महाबाहो न मे विप्राग्र्य रोचते ||६||

राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् |

अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ||७||

स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ||७||

तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः |

प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् ||८||

स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते ||८||

विललाप हि यत्कृष्णा सभामध्ये समेयुषी |

न तन्मर्षयते कृष्णो न राज्यहरणं तथा ||९||

एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ |

पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ||१०||

स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः |

कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् ||११||

अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः |

स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ||१२||

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः |

प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् ||१३||

उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ |

कृतवैरावुभौ वीरौ यमावपि यमोपमौ ||१४||

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह |

तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम ||१५||

दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला |

परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ||१६||

तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः |

न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ||१७||

यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता |

उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ||१८||

स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना ||१८||

निक्षिप्य मानं दर्पं च वासुदेवसहोदरा |

कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ||१९||

इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन |

अभिमन्योर्विनाशेन स सन्धेयः कथं मया ||२०||

कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् |

पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम् ||२१||

उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा |

युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् ||२२||

कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् |

कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ||२३||

नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया |

न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ||२४||

सुनीतमनुपश्यामि सुयुद्धेन परन्तप |

नायं क्लीबयितुं कालः संयोद्धुं काल एव नः ||२५||

इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः |

प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ||२६||

भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः |

यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ||२७||

भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया |

पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः ||२८||

न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः |

इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा ||२९||

गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् |

अधर्मः सुमहानेष यच्छय्यामरणं गृहे ||३०||

अरण्ये यो विमुञ्चेत सङ्ग्रामे वा तनुं नरः |

क्रतूनाहृत्य महतो महिमानं स गच्छति ||३१||

कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः |

म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ||३२||

त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् |

अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् ||३३||

शूराणामार्यवृत्तानां सङ्ग्रामेष्वनिवर्तिनाम् |

धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् ||३४||

शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे |

मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः ||३५||

पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि |

अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ||३६||

पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः |

अपि तैः सङ्गतं मार्गं वयमप्यारुहेमहि ||३७||

पितामहेन वृद्धेन तथाचार्येण धीमता |

जयद्रथेन कर्णेन तथा दुःशासनेन च ||३८||

घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः |

शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ||३९||

उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः |

त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः ||४०||

तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् |

सम्पतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् ||४१||

ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् |

ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे ||४२||

पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् |

जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् ||४३||

कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः |

सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् ||४४||

सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् |

सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा ||४५||

एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः |

साधु साध्विति राजानं क्षत्रियाः सम्बभाषिरे ||४६||

पराजयमशोचन्तः कृतचित्ताश्च विक्रमे |

सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ||४७||

ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः |

ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ||४८||

आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे |

अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् ||४९||

तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः |

पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ||५०||

सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ||५०||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

005-अध्यायः

सञ्जय उवाच||

अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः |

सर्व एव महाराज योधास्तत्र समागताः ||१||

शल्यश्च चित्रसेनश्च शकुनिश्च महारथः |

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ||२||

सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् |

जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः ||३||

रणे कर्णे हते वीरे त्रासिता जितकाशिभिः |

नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ||४||

तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ |

कृतयत्ना रणे राजन्सम्पूज्य विधिवत्तदा ||५||

कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि |

येनाभिगुप्ताः सङ्ग्रामे जयेमासुहृदो वयम् ||६||

ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् |

सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि ||७||

स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् |

व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् ||८||

स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः |

पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् ||९||

जवे बले च सदृशमरुणानुजवातयोः |

आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् ||१०||

कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् |

काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम् ||११||

सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् |

स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् ||१२||

सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम् |

जेतारं तरसारीणामजेयं शत्रुभिर्बलात् ||१३||

दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः |

साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् ||१४||

आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः |

अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः ||१५||

तमप्रतिमकर्माणं रूपेणासदृशं भुवि |

पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् ||१६||

तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ||१६||

यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् |

गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः ||१७||

भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम ||१७||

द्रौणिरुवाच||

अयं कुलेन वीर्येण तेजसा यशसा श्रिया |

सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ||१८||

भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः |

महासेनो महाबाहुर्महासेन इवापरः ||१९||

एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम |

शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् ||२०||

तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः |

परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ||२१||

युद्धाय च मतिं चक्रूरावेशं च परं ययुः ||२१||

ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् |

उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ||२२||

अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल |

यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ||२३||

स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे |

रणं च याते भवति पाण्डवा मन्दचेतसः ||२४||

भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ||२४||

शल्य उवाच||

यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् |

त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ||२५||

दुर्योधन उवाच||

सेनापत्येन वरये त्वामहं मातुलातुलम् |

सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ||२६||

अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः |

जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ||२७||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

006-अध्यायः

सञ्जय उवाच||

एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् |

दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ||१||

दुर्योधन महाबाहो शृणु वाक्यविदां वर |

यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ ||२||

न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ||२||

उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् |

योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ||३||

विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् ||३||

अहं सेनाप्रणेता ते भविष्यामि न संशयः |

तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे ||४||

इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ||४||

एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा |

अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम ||५||

विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते ||५||

अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् |

तव सैन्येष्ववाद्यन्त वादित्राणि च भारत ||६||

हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः |

तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ||७||

जय राजंश्चिरं जीव जहि शत्रून्समागतान् |

तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः ||८||

निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः ||८||

त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् |

मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान् ||९||

एवं संस्तूयमानस्तु मद्राणामधिपो बली |

हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ||१०||

शल्य उवाच||

अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः |

निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः ||११||

अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् |

अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ||१२||

पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः |

धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ||१३||

विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् |

लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ||१४||

अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः |

यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ||१५||

अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः |

प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः ||१६||

अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः |

द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे ||१७||

विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव ||१७||

सञ्जय उवाच||

अभिषिक्ते तदा शल्ये तव सैन्येषु मानद |

न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ||१८||

हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः |

मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् ||१९||

प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ |

तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् ||२०||

सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः |

वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः ||२१||

मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव |

सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ||२२||

एतच्छ्रुत्वा यथाभूतं कुरु माधव यत्क्षमम् |

भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ||२३||

तमब्रवीन्महाराज वासुदेवो जनाधिपम् |

आर्तायनिमहं जाने यथातत्त्वेन भारत ||२४||

वीर्यवांश्च महातेजा महात्मा च विशेषतः |

कृती च चित्रयोधी च संयुक्तो लाघवेन च ||२५||

यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे |

तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम ||२६||

युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत |

योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ||२७||

शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत |

धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ||२८||

मद्रराजो महाराज सिंहद्विरदविक्रमः |

विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ||२९||

तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे |

त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ||३०||

सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् |

मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ||३१||

अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ||३१||

तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् |

अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः ||३२||

तवैव हि जयो नूनं हते मद्रेश्वरे युधि |

तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ||३३||

एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम् |

प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम् ||३४||

जहि चैनं महाबाहो वासवो नमुचिं यथा ||३४||

न चैवात्र दया कार्या मातुलोऽयं ममेति वै |

क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् ||३५||

भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसम्भवम् |

मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ||३६||

यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव |

तद्दर्शय रणे सर्वं जहि चैनं महारथम् ||३७||

एतावदुक्त्वा वचनं केशवः परवीरहा |

जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ||३८||

केशवे तु तदा याते धर्मराजो युधिष्ठिरः |

विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् ||३९||

सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ||३९||

ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा |

कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ||४०||

गतज्वरं महेष्वासं तीर्णपारं महारथम् |

बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि ||४१||

सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष ||४१||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

007-अध्यायः

सञ्जय उवाच||

व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा |

अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः ||१||

राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः |

अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे ||२||

अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः |

हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ||३||

वादित्राणां च निनदः प्रादुरासीद्विशां पते |

बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् ||४||

ततो बलानि सर्वाणि सेनाशिष्टानि भारत |

संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् ||५||

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः |

प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ||६||

ततः सर्वे समागम्य पुत्रेण तव सैनिकाः |

कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ||७||

अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा |

न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ||८||

यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् |

स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः ||९||

अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ||९||

एवं ते समयं कृत्वा सर्वे तत्र महारथाः |

मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ||१०||

तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे |

अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः ||११||

तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् |

समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् ||१२||

धृतराष्ट्र उवाच||

द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् |

पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ||१३||

कथं रणे हतः शल्यो धर्मराजेन सञ्जय |

भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ||१४||

सञ्जय उवाच||

क्षयं मनुष्यदेहानां रथनागाश्वसङ्क्षयम् |

शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ||१५||

आशा बलवती राजन्पुत्राणां तेऽभवत्तदा |

हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते ||१६||

शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ||१६||

तामाशां हृदये कृत्वा समाश्वास्य च भारत |

मद्रराजं च समरे समाश्रित्य महारथम् ||१७||

नाथवन्तमथात्मानममन्यत सुतस्तव ||१७||

यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे |

तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् ||१८||

तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् |

व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ||१९||

प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् |

विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ||२०||

रथप्रवरमास्थाय सैन्धवाश्वं महारथः |

तस्य सीता महाराज रथस्थाशोभयद्रथम् ||२१||

स तेन संवृतो वीरो रथेनामित्रकर्शनः |

तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ||२२||

प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः |

मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ||२३||

सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः |

गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ||२४||

अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः |

दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ||२५||

हयानीकेन महता सौबलश्चापि संवृतः |

प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ||२६||

पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः |

त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् ||२७||

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः |

शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे ||२८||

ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः |

शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ ||२९||

हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा |

संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे ||३०||

गौतमं भीमसेनो वै सोमकाश्च महारथाः |

अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ||३१||

माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ |

ससैन्यौ सहसेनौ तावुपतस्थतुराहवे ||३२||

तथैवायुतशो योधास्तावकाः पाण्डवान्रणे |

अभ्यद्रवन्त सङ्क्रुद्धा विविधायुधपाणयः ||३३||

धृतराष्ट्र उवाच||

हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे |

कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ||३४||

सुसंरब्धेषु पार्थेषु पराक्रान्तेषु सञ्जय |

मामकानां परेषां च किं शिष्टमभवद्बलम् ||३५||

सञ्जय उवाच||

यथा वयं परे राजन्युद्धाय समवस्थिताः |

यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ||३६||

एकादश सहस्राणि रथानां भरतर्षभ |

दश दन्तिसहस्राणि सप्त चैव शतानि च ||३७||

पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ |

नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ||३८||

रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः |

दश चाश्वसहस्राणि पत्तिकोटी च भारत ||३९||

एतद्बलं पाण्डवानामभवच्छेषमाहवे |

एत एव समाजग्मुर्युद्धाय भरतर्षभ ||४०||

एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः |

पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ||४१||

तथैव पाण्डवाः शूराः समरे जितकाशिनः |

उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ||४२||

एवमेते बलौघेन परस्परवधैषिणः |

उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ||४३||

ततः प्रववृते युद्धं घोररूपं भयानकम् |

तावकानां परेषां च निघ्नतामितरेतरम् ||४४||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

008-अध्यायः

सञ्जय उवाच||

ततः प्रववृते युद्धं कुरूणां भयवर्धनम् |

सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ||१||

नरा रथा गजौघाश्च सादिनश्च सहस्रशः |

वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ||२||

नागानां भीमरूपाणां द्रवतां निस्वनो महान् |

अश्रूयत यथा काले जलदानां नभस्तले ||३||

नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् |

व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः ||४||

हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः |

शरैः सम्प्रेषयामासुः परलोकाय भारत ||५||

सादिनः शिक्षिता राजन्परिवार्य महारथान् |

विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ||६||

धन्विनः पुरुषाः केचित्संनिवार्य महारथान् |

एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम् ||७||

नागं रथवरांश्चान्ये परिवार्य महारथाः |

सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम् ||८||

तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् |

नागा जघ्नुर्महाराज परिवार्य समन्ततः ||९||

नागो नागमभिद्रुत्य रथी च रथिनं रणे |

शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह ||१०||

पादातानवमृद्नन्तो रथवारणवाजिनः |

रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ||११||

हयाश्च पर्यधावन्त चामरैरुपशोभिताः |

हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ||१२||

तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते |

अशोभत यथा नारी करजक्षतविक्षता ||१३||

वाजिनां खुरशब्देन रथनेमिस्वनेन च |

पत्तीनां चापि शब्देन नागानां बृंहितेन च ||१४||

वादित्राणां च घोषेण शङ्खानां निस्वनेन च |

अभवन्नादिता भूमिर्निर्घातैरिव भारत ||१५||

धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् |

कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन ||१६||

बहवो बाहवश्छिन्ना नागराजकरोपमाः |

उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् ||१७||

शिरसां च महाराज पततां वसुधातले |

च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ||१८||

शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा |

तपनीयनिभैः काले नलिनैरिव भारत ||१९||

उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः |

व्यभ्राजत महाराज पुण्डरीकैरिवावृता ||२०||

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः |

पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव ||२१||

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे |

हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् ||२२||

कबन्धशतसङ्कीर्णं छत्रचामरशोभितम् |

सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ||२३||

तत्र योधा महाराज विचरन्तो ह्यभीतवत् |

दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ||२४||

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः |

पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे ||२५||

गजानीकं महाराज वध्यमानं महात्मभिः |

व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव ||२६||

ते गजा घनसङ्काशाः पेतुरुर्व्यां समन्ततः |

वज्ररुग्णा इव बभुः पर्वता युगसङ्क्षये ||२७||

हयानां सादिभिः सार्धं पतितानां महीतले |

राशयः सम्प्रदृश्यन्ते गिरिमात्रास्ततस्ततः ||२८||

सञ्जज्ञे रणभूमौ तु परलोकवहा नदी |

शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ||२९||

भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला |

मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ||३०||

कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा |

चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता ||३१||

शूराणां हर्षजननी भीरूणां भयवर्धिनी |

प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्कुला ||३२||

तां नदीं पितृलोकाय वहन्तीमतिभैरवाम् |

तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ||३३||

वर्तमाने तथा युद्धे निर्मर्यादे विशां पते |

चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे ||३४||

अक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप |

क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे ||३५||

निर्मर्यादे तथा युद्धे वर्तमाने भयानके |

अर्जुनो भीमसेनश्च मोहयां चक्रतुः परान् ||३६||

सा वध्यमाना महती सेना तव जनाधिप |

अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ||३७||

मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ |

दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः ||३८||

श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ |

धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ||३९||

तत्राश्चर्यमपश्याम घोररूपं विशां पते |

शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः ||४०||

माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ |

अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ||४१||

ततो न्यवर्तत बलं तावकं भरतर्षभ |

शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ||४२||

वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव |

भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः ||४३||

हाहाकारो महाञ्जज्ञे योधानां तव भारत ||४३||

तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम् |

क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम् ||४४||

आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः ||४४||

त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् |

मातुलान्भागिनेयांश्च तथा सम्बन्धिबान्धवान् ||४५||

हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः |

आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ||४६||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

009-अध्यायः

सञ्जय उवाच||

तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् |

उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ||१||

एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः |

छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ||२||

अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् |

न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ||३||

एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः |

यत्र राजा सत्यसन्धो धर्मराजो युधिष्ठिरः ||४||

आपतन्तं च सहसा पाण्डवानां महद्बलम् |

दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ||५||

पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष |

व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ||६||

मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् |

कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ||७||

तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः |

प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः ||८||

समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ||८||

तौ परस्परमासाद्य चित्रकार्मुकधारिणौ |

मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ||९||

शरतोयैः सिषिचतुस्तौ परस्परमाहवे |

नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ||१०||

उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ |

परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ||११||

चित्रसेनस्तु भल्लेन पीतेन निशितेन च |

नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ||१२||

अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः |

त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समर्पयत् ||१३||

हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे |

तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ||१४||

स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः |

नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ||१५||

स छिन्नधन्वा विरथः खड्गमादाय चर्म च |

रथादवातरद्वीरः शैलाग्रादिव केसरी ||१६||

पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् |

नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ||१७||

चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः |

आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ||१८||

सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् |

चित्रसेनशिरः कायादपाहरत पाण्डवः ||१९||

स पपात रथोपस्थाद्दिवाकरसमप्रभः ||१९||

चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः |

साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ||२०||

विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ |

सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ||२१||

ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् |

जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ||२२||

तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् |

शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ||२३||

स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः |

अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ||२४||

अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ||२४||

तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः |

रथं विशकलीकर्तुं समारब्धौ विशां पते ||२५||

ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे |

जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ||२६||

ततः सन्धाय नाराचं रुक्मपुङ्खं शिलाशितम् |

धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ||२७||

अथान्यं रथमास्थाय धनुरादाय चापरम् |

सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ||२८||

अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् |

द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ||२९||

सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः |

चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ||३०||

अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः |

सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ||३१||

सत्यसेनस्य च धनुर्हस्तावापं च मारिष |

चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ||३२||

अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् |

शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् ||३३||

संनिवार्य तु तान्बाणान्नकुलः परवीरहा |

सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ||३४||

तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः |

सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ||३५||

सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा |

पृथक्षराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ||३६||

स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् |

स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ||३७||

लेलिहानामिव विभो नागकन्यां महाविषाम् |

समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ||३८||

सा तस्य हृदयं सङ्ख्ये बिभेद शतधा नृप |

स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ||३९||

भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः |

अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ||४०||

नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः |

सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ||४१||

ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् |

शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ||४२||

सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ||४२||

तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् |

परस्परवधे यत्नं चक्रतुः सुमहारथौ ||४३||

सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः |

सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ||४४||

ततः क्रुद्धो महाराज नकुलः परवीरहा |

शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ||४५||

ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् |

स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ||४६||

तस्य तेन शिरः कायाज्जहार नृपसत्तम |

पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ||४७||

स हतः प्रापतद्राजन्नकुलेन महात्मना |

नदीवेगादिवारुग्णस्तीरजः पादपो महान् ||४८||

कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् |

प्रदुद्राव भयात्सेना तावकी भरतर्षभ ||४९||

तां तु सेनां महाराज मद्रराजः प्रतापवान् |

अपालयद्रणे शूरः सेनापतिररिंदमः ||५०||

विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् |

सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् ||५१||

तावकाः समरे राजन्रक्षिता दृढधन्वना |

प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः ||५२||

मद्रराजं महेष्वासं परिवार्य समन्ततः |

स्थिता राजन्महासेना योद्धुकामाः समन्ततः ||५३||

सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |

युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम् ||५४||

परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे |

बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः ||५५||

तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा |

परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ||५६||

ततः प्रववृते युद्धं भीरूणां भयवर्धनम् |

तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ||५७||

यथा देवासुरं युद्धं पूर्वमासीद्विशां पते |

अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् ||५८||

ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे |

अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ||५९||

तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः |

अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् ||६०||

पाण्डवैरवकीर्णानां संमोहः समजायत |

न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा ||६१||

आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः |

हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः ||६२||

कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ||६२||

तथैव पाण्डवी सेना शरै राजन्समन्ततः |

रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ||६३||

ते सेने भृशसन्तप्ते वध्यमाने परस्परम् |

व्याकुले समपद्येतां वर्षासु सरिताविव ||६४||

आविवेश ततस्तीव्रं तावकानां महद्भयम् |

पाण्डवानां च राजेन्द्र तथाभूते महाहवे ||६५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

010-अध्यायः

सञ्जय उवाच||

तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् |

द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु ||१||

कूजतां स्तनतां चैव पदातीनां महाहवे |

विद्रुतेषु महाराज हयेषु बहुधा तदा ||२||

प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम् |

नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ||३||

हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने |

गाहमानेषु योधेषु परस्परवधैषिषु ||४||

प्राणादाने महाघोरे वर्तमाने दुरोदरे |

सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने ||५||

पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः |

तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ||६||

तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे |

पूर्वाह्णे चैव सम्प्राप्ते भास्करोदयनं प्रति ||७||

लब्धलक्षाः परे राजन्रक्षिताश्च महात्मना |

अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ||८||

बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः |

कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला ||९||

तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् |

उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुचमूं प्रति ||१०||

मद्रराजस्तु सङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् |

अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः ||११||

पाण्डवाश्च महाराज समरे जितकाशिनः |

मद्रराजं समासाद्य विव्यधुर्निशितैः शरैः ||१२||

ततः शरशतैस्तीक्ष्णैर्मद्रराजो महाबलः |

अर्दयामास तां सेनां धर्मराजस्य पश्यतः ||१३||

प्रादुरासंस्ततो राजन्नानारूपाण्यनेकशः |

चचाल शब्दं कुर्वाणा मही चापि सपर्वता ||१४||

सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः |

उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ||१५||

मृगाश्च माहिषाश्चापि पक्षिणश्च विशां पते |

अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ||१६||

ततस्तद्युद्धमत्युग्रमभवत्सङ्घचारिणाम् |

तथा सर्वाण्यनीकानि संनिपत्य जनाधिप ||१७||

अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम् ||१७||

शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् |

अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम् ||१८||

भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितः |

द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ ||१९||

धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च |

एकैकं दशभिर्बाणैर्विव्याध च महाबलः ||२०||

ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ||२०||

ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः |

पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ||२१||

भ्रमराणामिव व्राताः शलभानामिव व्रजाः |

ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ||२२||

द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा |

शल्यस्य बाणैर्न्यपतन्बभ्रमुर्व्यनदंस्तथा ||२३||

आविष्ट इव मद्रेशो मन्युना पौरुषेण च |

प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः ||२४||

विनर्दमानो मद्रेशो मेघह्रादो महाबलः ||२४||

सा वध्यमाना शल्येन पाण्डवानामनीकिनी |

अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ||२५||

तां समर्प्य ततः सङ्ख्ये लघुहस्तः शितैः शरैः |

शरवर्षेण महता युधिष्ठिरमपीडयत् ||२६||

तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः |

अवारयच्छरैस्तीक्ष्णैर्मत्तं द्विपमिवाङ्कुशैः ||२७||

तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् |

सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ||२८||

ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः |

पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ||२९||

द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः |

अभ्यवर्षन्महाभागं मेघा इव महीधरम् ||३०||

ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः |

कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ||३१||

उलूकश्च पतत्री च शकुनिश्चापि सौबलः |

स्मयमानश्च शनकैरश्वत्थामा महारथः ||३२||

तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ||३२||

भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः |

बाणवर्षेण महता क्रुद्धरूपमवारयत् ||३३||

धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरपीडयत् |

द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ||३४||

दुर्योधनो युधां श्रेष्ठावाहवे केशवार्जुनौ |

समभ्ययादुग्रतेजाः शरैश्चाभ्यहनद्बली ||३५||

एवं द्वंद्वशतान्यासंस्त्वदीयानां परैः सह |

घोररूपाणि चित्राणि तत्र तत्र विशां पते ||३६||

ऋश्यवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे |

सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः ||३७||

कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ||३७||

प्रमुखे सहदेवस्य जघानाश्वांश्च मद्रराट् |

ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ||३८||

गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् |

असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् ||३९||

द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः |

अविध्यदाचार्यसुतो नातिक्रुद्धः स्मयन्निव ||४०||

शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् |

पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ||४१||

तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः |

विनाशायाभिसन्धाय गदामादत्त वीर्यवान् ||४२||

यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् |

गजवाजिमनुष्याणां प्राणान्तकरणीमपि ||४३||

हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव |

शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम् ||४४||

चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव |

वसामेदोसृगादिग्धां जिह्वां वैवस्वतीमिव ||४५||

पटुघण्टारवशतां वासवीमशनीमिव |

निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ||४६||

त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम् |

मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम् ||४७||

यया कैलासभवने महेश्वरसखं बली |

आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् ||४८||

यया मायाविनो दृप्तान्सुबहून्धनदालये |

जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः ||४९||

निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ||४९||

तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम् |

समुद्यम्य महाबाहुः शल्यमभ्यद्रवद्रणे ||५०||

गदया युद्धकुशलस्तया दारुणनादया |

पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ||५१||

ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् |

निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात् ||५२||

वृकोदरस्त्वसम्भ्रातस्तमेवोद्धृत्य तोमरम् |

यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि ||५३||

स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः |

पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् ||५४||

कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः |

गदामाश्रित्य धीरात्मा प्रत्यमित्रमवैक्षत ||५५||

ततः सुमनसः पार्था भीमसेनमपूजयन् |

तद्दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ||५६||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

011-अध्यायः

सञ्जय उवाच||

पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् |

आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ||१||

तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् |

सशृङ्गमिव कैलासं सवज्रमिव वासवम् ||२||

सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् |

जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ||३||

ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः |

सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ||४||

प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ |

तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन् ||५||

न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् |

सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ||६||

तथा मद्राधिपस्यापि गदावेगं महात्मनः |

सोढुमुत्सहते नान्यो योधो युधि वृकोदरात् ||७||

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः |

आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ ||८||

मण्डलावर्तमार्गेषु गदाविहरणेषु च |

निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ||९||

तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी |

अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा ||१०||

तथैव चरतो मार्गान्मण्डलेषु महात्मनः |

विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा ||११||

ताडिता मद्रराजेन भीमस्य गदया गदा |

दीप्यमानेव वै राजन्ससृजे पावकार्चिषः ||१२||

तथा भीमेन शल्यस्य ताडिता गदया गदा |

अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ||१३||

दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ |

तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः ||१४||

तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ |

प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ||१५||

गदया मद्रराजेन सव्यदक्षिणमाहतः |

भीमसेनो महाबाहुर्न चचालाचलो यथा ||१६||

तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः |

शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः ||१७||

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः |

गदानिपातसंह्रादो वज्रयोरिव निस्वनः ||१८||

निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ |

पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ||१९||

अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः |

उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ||२०||

प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः |

क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ||२१||

अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ |

तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ ||२२||

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ |

युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव ||२३||

उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन् |

भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ ||२४||

ततः सगदमारोप्य मद्राणामृषभं रथे |

अपोवाह कृपः शल्यं तूर्णमायोधनादपि ||२५||

क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः |

भीमसेनो गदापाणिः समाह्वयत मद्रपम् ||२६||

ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः |

नानावादित्रशब्देन पाण्डुसेनामयोधयन् ||२७||

भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः |

अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ||२८||

तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः |

प्रययुः सिंहनादेन दुर्योधनवधेप्सया ||२९||

तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ |

प्रासेन चेकितानं वै विव्याध हृदये भृशम् ||३०||

स पपात रथोपस्थे तव पुत्रेण ताडितः |

रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ||३१||

चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः |

प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः ||३२||

तावकानामनीकेषु पाण्डवा जितकाशिनः |

व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ||३३||

कृपश्च कृतवर्मा च सौबलश्च महाबलः |

अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ||३४||

भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् |

दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ||३५||

त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः |

अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः ||३६||

विजये धृतसङ्कल्पाः समभित्यक्तजीविताः |

प्राविशंस्तावका राजन्हंसा इव महत्सरः ||३७||

ततो युद्धमभूद्घोरं परस्परवधैषिणाम् |

अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ||३८||

तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये |

अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ||३९||

श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात् |

परस्परं विजानीमो ये चायुध्यन्नभीतवत् ||४०||

तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् |

दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते ||४१||

तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके |

तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ||४२||

ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि |

सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ||४३||

भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः |

स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ||४४||

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः |

अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ||४५||

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत |

इति स्म वाचः श्रूयन्ते तव तेषां च वै बले ||४६||

ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् |

विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ||४७||

तस्य पार्थो महाराज नाराचान्वै चतुर्दश |

मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ||४८||

तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः |

विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ||४९||

अथ भूयो महाराज शरेण नतपर्वणा |

युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ||५०||

धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महायशाः |

विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ||५१||

चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः |

द्रुमसेनं चतुःषष्ट्या निजघान महारथः ||५२||

चक्ररक्षे हते शल्यः पाण्डवेन महात्मना |

निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ||५३||

सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः |

माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ||५४||

एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम |

सम्प्रेषयच्छितान्पार्थः शरानाशीविषोपमान् ||५५||

ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः |

प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् ||५६||

पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना |

निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ||५७||

ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् |

सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ||५८||

शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् |

अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः ||५९||

सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ |

एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ||६०||

ततो बाणमयं जालं विततं पाण्डवोरसि |

अपश्याम महाराज मेघजालमिवोद्गतम् ||६१||

तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः |

दिशः प्रच्छादयामास प्रदिशश्च महारथः ||६२||

ततो युधिष्ठिरो राजा बाणजालेन पीडितः |

बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ||६३||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

012-अध्यायः

सञ्जय उवाच||

पीडिते धर्मराजे तु मद्रराजेन मारिष |

सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ||१||

परिवार्य रथैः शल्यं पीडयामासुराहवे ||१||

तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः |

साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ||२||

आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः ||२||

भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे |

एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ||३||

सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया |

मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ||४||

नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः |

विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः ||५||

स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः |

विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् ||६||

सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष |

भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा ||७||

ततः सविशिखं चापं सहदेवस्य धन्विनः |

छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ||८||

सहदेवस्तु समरे मातुलं भूरिवर्चसम् |

सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् ||९||

शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः ||९||

सारथिं चास्य समरे शरेणानतपर्वणा |

विव्याध भृशसङ्क्रुद्धस्तं च भूयस्त्रिभिः शरैः ||१०||

भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः |

धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् ||११||

ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः |

सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ||१२||

तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः |

विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ||१३||

ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष |

धनुश्चिच्छेद समरे सज्यं स सुमहारथः ||१४||

अथान्यद्धनुरादाय धर्मपुत्रो महारथः |

साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ||१५||

स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः |

युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ||१६||

सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते |

मद्राणामधिपं शूरं शरौघैः समवारयत् ||१७||

स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः |

भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ||१८||

तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः |

तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् ||१९||

भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् |

नकुलः समरे शक्तिं सहदेवो गदां शुभाम् ||२०||

धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे ||२०||

तानापतत एवाशु पञ्चानां वै भुजच्युतान् |

सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ||२१||

भीमेन प्रहितं चापि शरं कनकभूषणम् |

द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ||२२||

नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् |

गदां च सहदेवेन शरौघैः समवारयत् ||२३||

शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत |

पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ||२४||

नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे ||२४||

अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः |

द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ||२५||

ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः |

विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् ||२६||

ते वार्यमाणाः समरे मद्रराज्ञा महारथाः |

न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः ||२७||

ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् |

निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् ||२८||

ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् |

सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ||२९||

नकुलः सहदेवश्च सात्यकिश्च महारथः |

परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ||३०||

स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः |

वृतस्तान्योधयामास मद्रराजः प्रतापवान् ||३१||

तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे |

चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव ||३२||

तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे |

मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः ||३३||

समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान् |

चिन्तयामास समरे धर्मराजो युधिष्ठिरः ||३४||

कथं नु न भवेत्सत्यं तन्माधववचो महत् |

न हि क्रुद्धो रणे राजा क्षपयेत बलं मम ||३५||

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज |

मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः ||३६||

नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् |

व्यधमत्समरे राजन्महाभ्राणीव मारुतः ||३७||

ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् |

शरवृष्टिमपश्याम शलभानामिवाततिम् ||३८||

ते शरा मद्रराजेन प्रेषिता रणमूर्धनि |

सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ||३९||

मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः |

निरन्तरमिवाकाशं सम्बभूव जनाधिप ||४०||

न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत |

बाणान्धकारे महति कृते तत्र महाभये ||४१||

मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः |

लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् ||४२||

विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ||४२||

स तु तान्सर्वतो यत्ताञ्शरैः सम्पीड्य मारिष |

धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ||४३||

ते छन्नाः समरे तेन पाण्डवानां महारथाः |

न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् ||४४||

धर्मराजपुरोगास्तु भीमसेनमुखा रथाः |

न जहुः समरे शूरं शल्यमाहवशोभिनम् ||४५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

013-अध्यायः

सञ्जय उवाच||

अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः |

तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ||१||

द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ||१||

तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः |

भूयश्चैव महाबाहुः शरवर्षैरवाकिरत् ||२||

शरकण्टकितास्ते तु तावका भरतर्षभ |

न जहुः समरे पार्थं वध्यमानाः शितैः शरैः ||३||

तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः |

अयोधयन्त समरे परिवार्य महारथाः ||४||

तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः |

अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ||५||

तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् |

शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ ||६||

कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो |

युगं चैवानुकर्षं च शरभूतमभूत्तदा ||७||

नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम् |

यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ||८||

स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः |

उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ||९||

ततोऽर्जुनो महाराज शरैः संनतपर्वभिः |

अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् ||१०||

ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः |

पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ||११||

ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान् |

सेनेन्धनं ददाहाशु तावकं पार्थपावकः ||१२||

चक्राणां पततां चैव युगानां च धरातले |

तूणीराणां पताकानां ध्वजानां च रथैः सह ||१३||

ईषाणामनुकर्षाणां त्रिवेणूनां च भारत |

अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः ||१४||

शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् |

भुजानां च महाराज स्कन्धानां च समन्ततः ||१५||

छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः |

समदृश्यन्त पार्थस्य रथमार्गेषु भारत ||१६||

अगम्यरूपा पृथिवी मांसशोणितकर्दमा |

बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ||१७||

भीरूणां त्रासजननी शूराणां हर्षवर्धनी ||१७||

हत्वा तु समरे पार्थः सहस्रे द्वे परन्तप |

रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ||१८||

यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् |

विधूमो दृश्यते राजंस्तथा पार्थो महारथः ||१९||

द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् |

रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ||२०||

तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ |

समीयतुस्तदा तूर्णं परस्परवधैषिणौ ||२१||

तयोरासीन्महाराज बाणवर्षं सुदारुणम् |

जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ ||२२||

अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः |

ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव ||२३||

तयोर्युद्धं महाराज चिरं सममिवाभवत् |

अस्त्राणां सङ्गमश्चैव घोरस्तत्राभवन्महान् ||२४||

ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः |

वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ||२५||

ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः |

मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे ||२६||

व्यश्वसूतरथं चक्रे सव्यसाची महारथः |

मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः ||२७||

हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् |

मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ||२८||

तमापतन्तं सहसा हेमपट्टविभूषितम् |

चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ||२९||

स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः |

आददे परिघं घोरं नगेन्द्रशिखरोपमम् ||३०||

चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ||३०||

तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः |

अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ||३१||

स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे |

दारयन्पृथिवीन्द्राणां मनः शब्देन भारत ||३२||

ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः |

सोऽतिविद्धो बलवता पार्थेन सुमहाबलः ||३३||

न सम्भ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ||३३||

सुधर्मा तु ततो राजन्भारद्वाजं महारथम् |

अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ||३४||

ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः |

रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ||३५||

विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् |

ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ||३६||

सुरथं तु ततः क्रुद्धमापतन्तं महारथम् |

चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ||३७||

त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् |

उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च ||३८||

मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् ||३८||

स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः |

शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् ||३९||

ततस्तं पतितं भूमौ नाराचेन समाहतम् |

वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् ||४०||

तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् |

आरुरोह रथं तूर्णं तमेव रथिनां वरः ||४१||

ततः सज्जो महाराज द्रौणिराहवदुर्मदः |

अर्जुनं योधयामास संशप्तकवृतो रणे ||४२||

तत्र युद्धं महच्चासीदर्जुनस्य परैः सह |

मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् ||४३||

तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् |

यदेको युगपद्वीरान्समयोधयदर्जुनः ||४४||

विमर्दस्तु महानासीदर्जुनस्य परैः सह |

शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया ||४५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

014-अध्यायः

सञ्जय उवाच||

दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः |

चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ||१||

तयोरासन्महाराज शरधाराः सहस्रशः |

अम्बुदानां यथा काले जलधाराः समन्ततः ||२||

राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः |

द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः ||३||

धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः |

सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ||४||

पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ |

महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ||५||

स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् |

व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् ||६||

शिखण्डी कृतवर्माणं गौतमं च महारथम् |

प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ||७||

तत्रापि सुमहद्युद्धं घोररूपं विशां पते |

प्राणान्सन्त्यजतां युद्धे प्राणद्यूताभिदेवने ||८||

शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् |

पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ||९||

तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ |

योधयामास राजेन्द्र वीर्येण च बलेन च ||१०||

शल्यसायकनुन्नानां पाण्डवानां महामृधे |

त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ||११||

ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते |

अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ||१२||

सञ्छाद्य समरे शल्यं नकुलः परवीरहा |

विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ||१३||

सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः |

स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ||१४||

शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना |

नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ||१५||

ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः |

सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् ||१६||

तानापतत एवाशु पूरयानान्रथस्वनैः |

दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् ||१७||

प्रतिजग्राह समरे सेनापतिरमित्रजित् ||१७||

युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः |

सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ||१८||

ततस्तु सशरं चापं नकुलस्य महात्मनः |

मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष ||१९||

तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः ||१९||

अथान्यद्धनुरादाय माद्रीपुत्रो महारथः |

मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ||२०||

युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष |

दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ||२१||

भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः |

मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ||२२||

मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः |

विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ||२३||

अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष |

हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ||२४||

विरथं सात्यकिं कृत्वा मद्रराजो महाबलः |

विशिखानां शतेनैनमाजघान समन्ततः ||२५||

माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् |

युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ||२६||

तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् |

यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ||२७||

अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः |

पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ||२८||

अभिदुद्राव वेगेन मद्राणामधिपं बली ||२८||

आपतन्तं रथं तस्य शल्यः समितिशोभनः |

प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ||२९||

स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः |

सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ||३०||

यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ||३०||

सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् |

विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् ||३१||

मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना |

सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ||३२||

ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् |

अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया ||३३||

तत आसीत्परामर्दस्तुमुलः शोणितोदकः |

शूराणां युध्यमानानां सिंहानामिव नर्दताम् ||३४||

तेषामासीन्महाराज व्यतिक्षेपः परस्परम् |

सिंहानामामिषेप्सूनां कूजतामिव संयुगे ||३५||

तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् |

अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ||३६||

शरान्धकारं बहुधा कृतं तत्र समन्ततः |

अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ||३७||

तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः |

स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा ||३८||

तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः |

यदेकः समरे शूरो योधयामास वै बहून् ||३९||

मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः |

सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ||४०||

तत्र शल्यरथं राजन्विचरन्तं महाहवे |

अपश्याम यथा पूर्वं शक्रस्यासुरसङ्क्षये ||४१||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

015-अध्यायः

सञ्जय उवाच||

ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः |

पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे ||१||

पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः |

क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन् ||२||

ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे |

निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः ||३||

ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः |

अवाकिरच्छरौघेण कृतवर्माणमेव च ||४||

शकुनिं सहदेवस्तु सहसैन्यमवारयत् |

नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत ||५||

द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन् |

द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ||६||

भीमसेनस्तु राजानं गदापाणिरवारयत् |

शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ||७||

ततः समभवद्युद्धं संसक्तं तत्र तत्र ह |

तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ||८||

तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे |

यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत ||९||

व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः |

रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ||१०||

पीडयित्वा तु राजानं शरैराशीविषोपमैः |

अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ||११||

तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् |

अपूजयन्ननीकानि परेषां तावकानि च ||१२||

पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः |

प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ||१३||

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः |

अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ||१४||

ततः पौरुषमास्थाय मद्रराजमपीडयत् ||१४||

जयो वास्तु वधो वेति कृतबुद्धिर्महारथः |

समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् ||१५||

भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः |

कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः ||१६||

यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः |

भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ||१७||

सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम् |

तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ||१८||

चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ |

अजेयौ वासवेनापि समरे वीरसंमतौ ||१९||

साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ |

मदर्थं प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ ||२०||

मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः |

इति सत्यामिमां वाणीं लोकवीरा निबोधत ||२१||

योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः |

स्वयं समभिसन्धाय विजयायेतराय वा ||२२||

तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च |

संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः ||२३||

शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् |

पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ||२४||

पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः |

एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ||२५||

एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः |

ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप ||२६||

पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः |

प्रतिज्ञां तां च सङ्ग्रामे धर्मराजस्य पूरयन् ||२७||

ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् |

अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ||२८||

तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः |

महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ||२९||

ह्रादेन गजघण्टानां शङ्खानां निनदेन च |

तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ||३०||

तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् |

महामेघानिव बहूञ्शैलावस्तोदयावुभौ ||३१||

शल्यस्तु समरश्लाघी धर्मराजमरिंदमम् |

ववर्ष शरवर्षेण वर्षेण मघवानिव ||३२||

तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः |

द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ||३३||

ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च |

न चास्य विवरं कश्चिद्ददर्श चरतो रणे ||३४||

तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् |

शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ||३५||

भीमस्तु तव पुत्रेण रणशौण्डेन सङ्गतः |

पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ||३६||

शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ||३६||

तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् |

तावकानां परेषां च राजन्दुर्मन्त्रिते तव ||३७||

दुर्योधनस्तु भीमस्य शरेणानतपर्वणा |

चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमविभूषितम् ||३८||

सकिङ्किणीकजालेन महता चारुदर्शनः |

पपात रुचिरः सिंहो भीमसेनस्य नानदन् ||३९||

पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् |

क्षुरेण शितधारेण प्रचकर्त नराधिपः ||४०||

स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव |

बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ||४१||

तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः |

यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ||४२||

हतसूता हयास्तस्य रथमादाय भारत |

व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् ||४३||

तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः |

कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः ||४४||

तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः |

गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ||४५||

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः |

स्वयं सञ्चोदयन्नश्वान्दन्तवर्णान्मनोजवान् ||४६||

तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे |

पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ||४७||

विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना |

चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ||४८||

यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः |

शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ||४९||

साश्वसूतध्वजरथान्रथिनः पातयन्बहून् |

आक्रीडदेको बलवान्पवनस्तोयदानिव ||५०||

साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः |

व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ||५१||

शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः |

अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् ||५२||

तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः |

वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ||५३||

ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ |

समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः ||५४||

शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत् |

मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत् ||५५||

व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे |

उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ||५६||

पुष्पिताविव रेजाते वने शल्मलिकिंशुका |

दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ ||५७||

दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् |

हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् ||५८||

शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् |

इतीव निश्चयो नाभूद्योधानां तत्र भारत ||५९||

प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः |

ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे |

धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत ||६१||

सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः |

अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ||६२||

अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः |

द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी ||६३||

ततोऽस्य दीप्यमानेन पीतेन निशितेन च |

प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ||६४||

ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम ||६४||

ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम् |

आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ||६५||

मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे |

स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ||६६||

विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् |

सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ||६७||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

016-अध्यायः

सञ्जय उवाच||

अथान्यद्धनुरादाय बलवद्वेगवत्तरम् |

युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ||१||

ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् |

अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ||२||

सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः |

सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ||३||

तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् |

कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ||४||

रथांश्च रथिभिः सार्धं जघान रथिनां वरः ||४||

बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च |

चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ||५||

तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् |

परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ||६||

तं भीमसेनश्च शिनेश्च नप्ता; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ |

समागतं भीमबलेन राज्ञा; पर्यापुरन्योन्यमथाह्वयन्तः ||७||

ततस्तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम् |

आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिरुग्रवेगैः ||८||

संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्यामथ माधवेन |

मद्राधिपं पत्रिभिरुग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने ||९||

ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम् |

पर्यावव्रुः प्रवराः सर्वशश्च; दुर्योधनस्यानुमते समन्तात् ||१०||

ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिरभ्यविध्यत् |

तं चापि पार्थो नवभिः पृषत्कै; र्विव्याध राजंस्तुमुले महात्मा ||११||

आकर्णपूर्णायतसम्प्रयुक्तैः; शरैस्तदा संयति तैलधौतैः |

अन्योन्यमाच्छादयतां महारथौ; मद्राधिपश्चापि युधिष्ठिरश्च ||१२||

ततस्तु तूर्णं समरे महारथौ; परस्परस्यान्तरमीक्षमाणौ |

शरैर्भृशं विव्यधतुर्नृपोत्तमौ; महाबलौ शत्रुभिरप्रधृष्यौ ||१३||

तयोर्धनुर्ज्यातलनिस्वनो महा; न्महेन्द्रवज्राशनितुल्यनिस्वनः |

परस्परं बाणगणैर्महात्मनोः; प्रवर्षतोर्मद्रपपाण्डुवीरयोः ||१४||

तौ चेरतुर्व्याघ्रशिशुप्रकाशौ; महावनेष्वामिषगृद्धिनाविव |

विषाणिनौ नागवराविवोभौ; ततक्षतुः संयुगजातदर्पौ ||१५||

ततस्तु मद्राधिपतिर्महात्मा; युधिष्ठिरं भीमबलं प्रसह्य |

विव्याध वीरं हृदयेऽतिवेगं; शरेण सूर्याग्निसमप्रभेण ||१६||

ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि; सुसम्प्रयुक्तेन शरेण राजन् |

जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम् ||१७||

ततो मुहूर्तादिव पार्थिवेन्द्रो; लब्ध्वा सञ्ज्ञां क्रोधसंरक्तनेत्रः |

शतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः ||१८||

त्वरंस्ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैः |

भित्त्वा ह्युरस्तपनीयं च वर्म; जघान षड्भिस्त्वपरैः पृषत्कैः ||१९||

ततस्तु मद्राधिपतिः प्रहृष्टो; धनुर्विकृष्य व्यसृजत्पृषत्कान् |

द्वाभ्यां क्षुराभ्यां च तथैव राज्ञ; श्चिच्छेद चापं कुरुपुङ्गवस्य ||२०||

नवं ततोऽन्यत्समरे प्रगृह्य; राजा धनुर्घोरतरं महात्मा |

शल्यं तु विद्ध्वा निशितैः समन्ता; द्यथा महेन्द्रो नमुचिं शिताग्रैः ||२१||

ततस्तु शल्यो नवभिः पृषत्कै; र्भीमस्य राज्ञश्च युधिष्ठिरस्य |

निकृत्य रौक्मे पटुवर्मणी तयो; र्विदारयामास भुजौ महात्मा ||२२||

ततोऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुरुन्ममाथ |

कृपश्च तस्यैव जघान सूतं; षड्भिः शरैः सोऽभिमुखं पपात ||२३||

मद्राधिपश्चापि युधिष्ठिरस्य; शरैश्चतुर्भिर्निजघान वाहान् |

वाहांश्च हत्वा व्यकरोन्महात्मा; योधक्षयं धर्मसुतस्य राज्ञः ||२४||

तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्मा |

छित्त्वा धनुर्वेगवता शरेण; द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ||२५||

अथापरेणास्य जहार यन्तुः; कायाच्छिरः संनहनीयमध्यात् |

जघान चाश्वांश्चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः ||२६||

तमग्रणीः सर्वधनुर्धराणा; मेकं चरन्तं समरेऽतिवेगम् |

भीमः शतेन व्यकिरच्छराणां; माद्रीपुत्रः सहदेवस्तथैव ||२७||

तैः सायकैर्मोहितं वीक्ष्य शल्यं; भीमः शरैरस्य चकर्त वर्म |

स भीमसेनेन निकृत्तवर्मा; मद्राधिपश्चर्म सहस्रतारम् ||२८||

प्रगृह्य खड्गं च रथान्महात्मा; प्रस्कन्द्य कुन्तीसुतमभ्यधावत् |

छित्त्वा रथेषां नकुलस्य सोऽथ; युधिष्ठिरं भीमबलोऽभ्यधावत् ||२९||

तं चापि राजानमथोत्पतन्तं; क्रुद्धं यथैवान्तकमापतन्तम् |

धृष्टद्युम्नो द्रौपदेयाः शिखण्डी; शिनेश्च नप्ता सहसा परीयुः ||३०||

अथास्य चर्माप्रतिमं न्यकृन्त; द्भीमो महात्मा दशभिः पृषत्कः |

खड्गं च भल्लैर्निचकर्त मुष्टौ; नदन्प्रहृष्टस्तव सैन्यमध्ये ||३१||

तत्कर्म भीमस्य समीक्ष्य हृष्टा; स्ते पाण्डवानां प्रवरा रथौघाः |

नादं च चक्रुर्भृशमुत्स्मयन्तः; शङ्खांश्च दध्मुः शशिसंनिकाशान् ||३२||

तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलमप्रहृष्टम् |

स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसञ्ज्ञकल्पं च तथा विषण्णम् ||३३||

स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवयोधमुख्यैः |

युधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रयातः ||३४||

स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम् |

दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत्तमरिं बलेन ||३५||

गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनाय |

स धर्मराजो निहताश्वसूते; रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ||३६||

तच्चापि शल्यस्य निशम्य कर्म; महात्मनो भागमथावशिष्टम् |

स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तमिन्द्रावरजस्य चक्रे ||३७||

स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम् |

नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् ||३८||

निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेण |

अभून्न यद्भस्मसान्मद्रराज; स्तदद्भुतं मे प्रतिभाति राजन् ||३९||

ततस्तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम् |

चिक्षेप वेगात्सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम् ||४०||

दीप्तामथैनां महता बलेन; सविस्फुलिङ्गां सहसा पतन्तीम् |

प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीमिवोल्काम् ||४१||

तां कालरात्रीमिव पाशहस्तां; यमस्य धात्रीमिव चोग्ररूपाम् |

सब्रह्मदण्डप्रतिमाममोघां; ससर्ज यत्तो युधि धर्मराजः ||४२||

गन्धस्रगग्र्यासनपानभोजनै; रभ्यर्चितां पाण्डुसुतैः प्रयत्नात् |

संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्यामथर्वाङ्गिरसीमिवोग्राम् ||४३||

ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणामसुदेहभक्षाम् |

भूम्यन्तरिक्षादिजलाशयानि; प्रसह्य भूतानि निहन्तुमीशाम् ||४४||

घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीयदण्डाम् |

त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां; ब्रह्मद्विषामन्तकरीममोघाम् ||४५||

बलप्रयत्नादधिरूढवेगां; मन्त्रैश्च घोरैरभिमन्त्रयित्वा |

ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेस्तदानीम् ||४६||

हतोऽस्यसावित्यभिगर्जमानो; रुद्रोऽन्तकायान्तकरं यथेषुम् |

प्रसार्य बाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्निव धर्मराजः ||४७||

तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम् |

प्रतिग्रहायाभिननर्द शल्यः; सम्यग्घुतामग्निरिवाज्यधाराम् ||४८||

सा तस्य मर्माणि विदार्य शुभ्र; मुरो विशालं च तथैव वर्म |

विवेश गां तोयमिवाप्रसक्ता; यशो विशालं नृपतेर्दहन्ती ||४९||

नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसम्भवेन |

संसिक्तगात्रो रुधिरेण सोऽभू; त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ||५०||

प्रसार्य बाहू स रथाद्गतो गां; सञ्छिन्नवर्मा कुरुनन्दनेन |

महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गमिवाचलस्य ||५१||

बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् |

ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ||५२||

स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः |

प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ||५३||

प्रियया कान्तया कान्तः पतमान इवोरसि |

चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः ||५४||

सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ||५४||

धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना |

सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ||५५||

शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् |

संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ||५६||

ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् |

व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् ||५७||

देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ||५७||

ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव |

निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः ||५८||

संन्यस्तकवचा देहैर्विपत्रायुधजीविताः ||५८||

ततः शल्ये निपतिते मद्रराजानुजो युवा |

भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ||५९||

विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् |

हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ||६०||

तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव |

कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ||६१||

ततोऽस्य दीप्यमानेन सुदृढेन शितेन च |

प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ||६२||

सकुण्डलं तद्ददृशे पतमानं शिरो रथात् |

पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ||६३||

तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् |

रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ||६४||

विचित्रकवचे तस्मिन्हते मद्रनृपानुजे |

हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ||६५||

शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः |

वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् ||६६||

तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ |

शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ||६७||

तमायान्तं महेष्वासमप्रसह्यं दुरासदम् |

हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ||६८||

तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ |

हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ||६९||

इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् |

अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ||७०||

चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः |

आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ||७१||

सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः |

चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ||७२||

तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः |

अन्यदादत्त वेगेन वेगवत्तरमायुधम् ||७३||

तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् |

हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ||७४||

ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः |

अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ||७५||

मद्रराजे हते राजन्विरथे कृतवर्मणि |

दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||७६||

तत्परे नावबुध्यन्त सैन्येन रजसा वृते |

बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ||७७||

ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् |

विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ||७८||

ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् |

जवेनापततः पार्थानेकः सर्वानवारयत् ||७९||

पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् |

आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ||८०||

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् |

अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ||८१||

ततो युधिष्ठिरो राजा त्वरमाणो महारथः |

चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ||८२||

विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ||८२||

अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् |

समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ||८३||

ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् |

विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ||८४||

एवमेतन्महाराज युद्धशेषमवर्तत |

तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ||८५||

तस्मिन्महेष्वासवरे विशस्ते; सङ्ग्राममध्ये कुरुपुङ्गवेन |

पार्थाः समेताः परमप्रहृष्टाः; शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ||८६||

युधिष्ठिरं च प्रशशंसुराजौ; पुरा सुरा वृत्रवधे यथेन्द्रम् |

चक्रुश्च नानाविधवाद्यशब्दा; न्निनादयन्तो वसुधां समन्तात् ||८७||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

017-अध्यायः-ह्रदप्रवेशपर्व

सञ्जय उवाच||

शल्ये तु निहते राजन्मद्रराजपदानुगाः |

रथाः सप्तशता वीरा निर्ययुर्महतो बलात् ||१||

दुर्योधनस्तु द्विरदमारुह्याचलसंनिभम् |

छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः ||२||

न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ||२||

दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः |

युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ||३||

ते तु शूरा महाराज कृतचित्ताः स्म योधने |

धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ||४||

श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् |

मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ||५||

आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः |

पूरयन्रथघोषेण दिशः सर्वा महारथः ||६||

ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ |

सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ||७||

धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः |

युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ||८||

ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः |

क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा ||९||

पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी |

अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः ||१०||

प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः |

वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ||११||

बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः |

भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन ||१२||

पाञ्चालानां महावीर्याः शिखण्डी च महारथः |

धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः ||१३||

एवं तान्वादिनः शूरान्द्रौपदेया महारथाः |

अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ||१४||

चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः |

प्रत्यदृश्यन्त समरे तावका निहताः परैः ||१५||

आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः |

वार्यमाणा ययुर्वेगात्तव पुत्रेण भारत ||१६||

दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन् |

न चास्य शासनं कश्चित्तत्र चक्रे महारथः ||१७||

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् |

दुर्योधनं महाराज वचनं वचनक्षमः ||१८||

किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् |

न युक्तमेतत्समरे त्वयि तिष्ठति भारत ||१९||

सहितैर्नाम योद्धव्यमित्येष समयः कृतः |

अथ कस्मात्परानेव घ्नतो मर्षयसे नृप ||२०||

दुर्योधन उवाच||

वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम |

एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ||२१||

शकुनिरुवाच||

न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः |

अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् ||२२||

यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः |

परित्रातुं महेष्वासान्मद्रराजपदानुगान् ||२३||

अन्योन्यं परिरक्षामो यत्नेन महता नृप |

एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ||२४||

सञ्जय उवाच||

एवमुक्तस्ततो राजा बलेन महता वृतः |

प्रययौ सिंहनादेन कम्पयन्वै वसुन्धराम् ||२५||

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत |

इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ||२६||

पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् |

सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् ||२७||

ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते |

निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ||२८||

ततो नः सम्प्रयातानां हतामित्रास्तरस्विनः |

हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ||२९||

अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः |

पपात महती चोल्का मध्येनादित्यमण्डलम् ||३०||

रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः |

अश्वैर्निपतितैश्चैव सञ्छन्नाभूद्वसुन्धरा ||३१||

वातायमानैस्तुरगैर्युगासक्तैस्तुरङ्गमैः |

अदृश्यन्त महाराज योधास्तत्र रणाजिरे ||३२||

भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे |

रथार्धं केचिदादाय दिशो दश विबभ्रमुः ||३३||

तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः ||३३||

रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम |

गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये ||३४||

निहतेषु च शूरेषु मद्रराजानुगेषु च |

अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ||३५||

अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः |

बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः ||३६||

अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः |

शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ||३७||

ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् |

मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् ||३८||

दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||३८||

वध्यमानं महाराज पाण्डवैर्जितकाशिभिः |

दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ||३९||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

018-अध्यायः

सञ्जय उवाच||

पातिते युधि दुर्धर्षे मद्रराजे महारथे |

तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ||१||

वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे |

अपारे पारमिच्छन्तो हते शूरे महात्मनि ||२||

मद्रराजे महाराज वित्रस्ताः शरविक्षताः |

अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ||३||

वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव |

मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना ||४||

न सन्धातुमनीकानि न च राजन्पराक्रमे |

आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ||५||

भीष्मे द्रोणे च निहते सूतपुत्रे च भारत |

यद्दुःखं तव योधानां भयं चासीद्विशां पते ||६||

तद्भयं स च नः शोको भूय एवाभ्यवर्तत ||६||

निराशाश्च जये तस्मिन्हते शल्ये महारथे |

हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः ||७||

मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ||७||

अश्वानन्ये गजानन्ये रथानन्ये महारथाः |

आरुह्य जवसम्पन्नाः पादाताः प्राद्रवन्भयात् ||८||

द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः |

सम्प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ||९||

ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः |

धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ||१०||

तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् |

अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ||११||

बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः |

शङ्खशब्दश्च शूराणां दारुणः समपद्यत ||१२||

दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् |

अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ||१३||

अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः |

अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ||१४||

अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः |

निःसञ्ज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ||१५||

अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् |

अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ||१६||

अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ||१६||

अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् |

विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ||१७||

अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः |

अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ||१८||

अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे |

अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ||१९||

हते दुर्योधने युद्धे शक्रेणेवासुरे मये |

यत्कृतं भीमसेनेन दुःशासनवधे तदा ||२०||

नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ||२०||

जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् |

मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ||२१||

अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ महाबलौ |

निहते सौबले शूरे गान्धारेषु च सर्वशः ||२२||

कथं तेषां जयो न स्याद्येषां योद्धा धनञ्जयः |

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ||२३||

द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ |

शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ||२४||

येषां च जगतां नाथो नाथः कृष्णो जनार्दनः |

कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ||२५||

भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च |

तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ||२६||

कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् |

यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ||२७||

इत्येवं वदमानास्ते हर्षेण महता युताः |

प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ||२८||

धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् |

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ||२९||

तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् |

दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव ||३०||

न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् |

जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ||३१||

जघने युध्यमानं हि कौन्तेयो मां धनञ्जयः |

नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ||३२||

पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् |

सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ||३३||

सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् |

तस्माद्याहि शनैः सूत जघनं परिपालय ||३४||

मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु |

पुनरावर्तते तूर्णं मामकं बलमोजसा ||३५||

तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः |

सारथिर्हेमसञ्छन्नाञ्शनैरश्वानचोदयत् ||३६||

गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः |

एकविंशतिसाहस्राः संयुगायावतस्थिरे ||३७||

नानादेशसमुद्भूता नानारञ्जितवाससः |

अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ||३८||

तेषामापततां तत्र संहृष्टानां परस्परम् |

संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ||३९||

भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् |

बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ||४०||

भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः |

प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ||४१||

आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः |

धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् ||४२||

परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ||४२||

स वध्यमानः समरे पदातिगणसंवृतः |

न चचाल रथोपस्थे मैनाक इव पर्वतः ||४३||

ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् |

निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ||४४||

अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः |

सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ||४५||

जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् |

अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ||४६||

रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली |

एकविंशतिसाहस्रान्पदातीनवपोथयत् ||४७||

हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः |

धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ||४८||

पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः |

सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ||४९||

नानापुष्पस्रजोपेता नानाकुण्डलधारिणः |

नानाजात्या हतास्तत्र नानादेशसमागताः ||५०||

पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् |

निकृत्तं विबभौ तत्र घोररूपं भयानकम् ||५१||

युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः |

अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ||५२||

ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् |

नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् ||५३||

तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् |

यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ||५४||

नातिदूरापयातं तु कृतबुद्धिं पलायने |

दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ||५५||

न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा |

यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ||५६||

अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ |

यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् ||५७||

विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् |

अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् ||५८||

शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः |

यदा शूरं च भीरुं च मारयत्यन्तकः सदा ||५९||

को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः ||५९||

श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् |

सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ||६०||

जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ||६०||

न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः |

अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते ||६१||

श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः |

पुनरेवान्ववर्तन्त पाण्डवानाततायिनः ||६२||

तानापतत एवाशु व्यूढानीकाः प्रहारिणः |

प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः ||६३||

धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् |

विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ||६४||

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः |

जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् ||६५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

019-अध्यायः

सञ्जय उवाच||

संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः |

अभ्यवर्तत सङ्क्रुद्धः पाण्डूनां सुमहद्बलम् ||१||

आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् |

दृप्तमैरावतप्रख्यममित्रगणमर्दनम् ||२||

योऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम् |

सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदोपवाह्यः समरेषु राजन् ||३||

तमास्थितो राजवरो बभूव; यथोदयस्थः सविता क्षपान्ते |

स तेन नागप्रवरेण राज; न्नभ्युद्ययौ पाण्डुसुतान्समन्तात् ||४||

शितैः पृषत्कैर्विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः ||४||

ततः शरान्वै सृजतो महारणे; योधांश्च राजन्नयतो यमाय |

नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः ||५||

ते पाण्डवाः सोमकाः सृञ्जयाश्च; तमेव नागं ददृशुः समन्तात् |

सहस्रशो वै विचरन्तमेकं; यथा महेन्द्रस्य गजं समीपे ||६||

संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात् |

नैवावतस्थे समरे भृशं भया; द्विमर्दमानं तु परस्परं तदा ||७||

ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन |

दिशश्चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तमपारयन्ती ||८||

दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीया युधि योधमुख्याः |

अपूजयंस्तत्र नराधिपं तं; दध्मुश्च शङ्खाञ्शशिसंनिकाशान् ||९||

श्रुत्वा निनादं त्वथ कौरवाणां; हर्षाद्विमुक्तं सह शङ्खशब्दैः |

सेनापतिः पाण्डवसृञ्जयानां; पाञ्चालपुत्रो न ममर्ष रोषात् ||१०||

ततस्तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जयाय |

जम्भो यथा शक्रसमागमे वै; नागेन्द्रमैरावणमिन्द्रवाह्यम् ||११||

तमापतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः |

तं वै द्विपं प्रेषयामास तूर्णं; वधाय राजन्द्रुपदात्मजस्य ||१२||

स तं द्विपं सहसाभ्यापतन्त; मविध्यदर्कप्रतिमैः पृषत्कैः |

कर्मारधौतैर्निशितैर्ज्वलद्भि; र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ||१३||

ततोऽपरान्पञ्च शितान्महात्मा; नाराचमुख्यान्विससर्ज कुम्भे |

स तैस्तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे ||१४||

तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः |

तोत्त्राङ्कुशैः प्रेषयामास तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य ||१५||

दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच्छीघ्रमेव |

गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भयविह्वलाङ्गः ||१६||

स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य |

उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथयामास वसुन्धरातले ||१७||

पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन |

तमभ्यधावत्सहसा जवेन; भीमः शिखण्डी च शिनेश्च नप्ता ||१८||

शरैश्च वेगं सहसा निगृह्य; तस्याभितोऽभ्यापततो गजस्य |

स सङ्गृहीतो रथिभिर्गजो वै; चचाल तैर्वार्यमाणश्च सङ्ख्ये ||१९||

ततः पृषत्कान्प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात् |

तेनाशुगैर्वध्यमाना रथौघाः; प्रदुद्रुवुस्तत्र ततस्तु सर्वे ||२०||

तत्कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जयाश्च |

हाहाकारैर्नादयन्तः स्म युद्धे; द्विपं समन्ताद्रुरुधुर्नराग्र्याः ||२१||

पाञ्चालराजस्त्वरितस्तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम् |

असम्भ्रमं भारत शत्रुघाती; जवेन वीरोऽनुससार नागम् ||२२||

ततोऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम् |

गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस्तरस्वी ||२३||

स भिन्नकुम्भः सहसा विनद्य; मुखात्प्रभूतं क्षतजं विमुञ्चन् |

पपात नागो धरणीधराभः; क्षितिप्रकम्पाच्चलितो यथाद्रिः ||२४||

निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये |

स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन ||२५||

हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा |

यथाद्रिशृङ्गं सुमहत्प्रणुन्नं; वज्रेण देवाधिपचोदितेन ||२६||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

020-अध्यायः

सञ्जय उवाच||

तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने |

तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ||१||

तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः |

दधार समरे शूरः शत्रुसैन्यं महाबलः ||२||

संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे |

शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ||३||

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह |

निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ||४||

तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह |

यदेको वारयामास पाण्डुसेनां दुरासदाम् ||५||

तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे |

सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ||६||

तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ |

शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ||७||

स समासाद्य राजानं क्षेमधूर्तिं महाबलम् |

सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ||८||

तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् |

जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुङ्गवम् ||९||

तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ |

अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ||१०||

पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः |

प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ||११||

नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ |

अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ||१२||

चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ |

मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ||१३||

चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः |

आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ||१४||

तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः |

अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ||१५||

स दीर्घबाहुः सङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः |

अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ||१६||

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः |

सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ||१७||

निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः |

अन्यदादत्त वेगेन शैनेयः सशरं धनुः ||१८||

तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् |

आरोप्य च महावीर्यो महाबुद्धिर्महाबलः ||१९||

अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा |

कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ||२०||

ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः |

जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ||२१||

ततो राजन्महेष्वासः कृतवर्मा महारथः |

हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ||२२||

रोषेण महताविष्टः शूलमुद्यम्य मारिष |

चिक्षेप भुजवेगेन जिघांसुः शिनिपुङ्गवम् ||२३||

तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः |

चूर्णितं पातयामास मोहयन्निव माधवम् ||२४||

ततोऽपरेण भल्लेन हृद्येनं समताडयत् ||२४||

स युद्धे युयुधानेन हताश्वो हतसारथिः |

कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ||२५||

तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते |

समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ||२६||

पुत्रस्य तव चात्यर्थं विषादः समपद्यत |

हतसूते हताश्वे च विरथे कृतवर्मणि ||२७||

हताश्वं च समालक्ष्य हतसूतमरिंदमम् |

अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ||२८||

तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् |

अपोवाह महाबाहुस्तूर्णमायोधनादपि ||२९||

शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि |

दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||३०||

तत्परे नावबुध्यन्त सैन्येन रजसावृते |

तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ||३१||

दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् |

जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ||३२||

पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् |

शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ||३३||

केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष |

असम्भ्रमं दुराधर्षः शितैरस्त्रैरवारयत् ||३४||

अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः |

यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् ||३५||

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे |

अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ||३६||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.