अष्टमोऽङ्कः
मोहादि पराजयः
मिश्रविष्कम्भः
[ततः प्रविशति अभिनिवेशः]
अभिनिवेशः – (स्वसामर्थ्यम् बहुमत्य)
हृष्यन्ति व्यसनेषु सप्तसु मुधाऽऽरब्धेषु मत्प्रेक्षिताः
प्रारब्धम् न परित्यजन्ति च मुहुः प्रत्यूहवात्याहताः ।
नानादुःखभयानकेऽपि न जहत्यर्थे पुमर्थे रतिम्
मोहस्याभिनिवेश एकदृगहम् कोशाधिकारे स्थितः ॥ १ ॥
अपि च, लोभोऽपि महामोहसर्वस्वभूतो मामेव दर्शितसौभ्रात्रम् सहायीकृत्य सर्वत्र विजयते । यतः,
अवसादप्रसङ्गेषु स्वयमुत्तम्भनोद्यतः ।
अहमार्यस्य लोभस्य भ्राता चरमसम्भवः ॥ २ ॥
(विचिन्त्य) अहो महत्साम्परायिकमुपस्थितमास्माकस्यान्ववायस्य । यदिह विवेकेन प्रथममध्यात्मविद्यामशिक्षि पुरुषः, यच्चासौ मतान्तरदौर्बल्यप्रकाशनेन परब्रह्मप्रकाशके शास्त्रे प्रशमितश्रद्धावैकल्यः, यदपि च सपरिकरे मोक्षोपाये सम्मुखीकृतः, विमुखीकृताश्च कामक्रोधादयः, विमृष्टम् च किमपि सम्यमस्थानम्, अवधारितम् च धारणायाश्शुभमालम्बनम्, आरिप्सितश्च शमदमवैराग्यादिपरिकर्मितस्सालम्बनो महायोगः । (दीर्घम् निश्वस्य सविषादम्)
विजिग्ये यैरिदम् स्त्रीभिः विजिताभिर्जगत्त्रयम् ।
त एव सुभटाः ख्याताः स्त्रीभिरेव जिगीषिताः ॥ ३ ॥
(नेपथ्ये) अलीकमेव भणति भावः, यत् स्त्रीभिरेव जिगीषिता महामोहसैनिकधुरन्धरा इति ।
अभिनिवेशः – (कर्णम् दत्त्वा, सरोषहासम्) काऽसौ रण्डा, या मामप्यलीकवादिनम् मन्यते ।
(पुनर्नेपथ्ये) एतेनापि तवालीकभाषितम् प्रतिष्ठापितम् । यत्पुनरग्निसाक्षिकम् त्वया गृहीतपाणिम् परपुरुषदर्शनविमुखीम् माम् रण्डेति भणसि ।
अभिनिवेशः – किमसावस्मद्गेहिनी दुर्वासना । शान्तम् पापम्, शान्तम् पापम् । अद्य पुनरियमुपसृत्य क्षान्तपरिवादा सत्यवादिनम् माम् सम्भावयतु ।
[ततः प्रविशति दुर्वासना]
दुर्वासना – आर्यपुत्र! इयमस्मि । अहम् दुर्मतिचरणसेवारसपरवशहृदया अज्ञातलोकवृत्तान्ता पृच्छामि, के पुरुषाः काभिः स्त्रीभिर्जिगीषिताः ।
अभिनिवेशः – प्रिये! कामो जुगुप्सया, कोपस्तिम्तिक्षया, लोभस्तुष्ट्या, अहङ्कार आत्मविद्यया, एवमन्येऽपि ।
दुर्वासना – किमुत्साहमात्रेण कार्यम् सङ्घटते । हताशाः खल्वेताः शलभ्य इवाऽऽत्मविनाशने स्वयम् प्रवृत्ताः ।
अभिनिवेशः – अहमप्येवमध्यवस्यामि । अथापि यदृच्छादेवी किमाचरेदिति दुरवधरम् । शलभीनिपाते प्रदीपोऽपि कदाचिद्विनाशमधिगच्छति ।
दुर्वासना – (सविषादम्) यद्येवम् महामोहपर्यन्तानामस्मत्प्रभूणाम् विनाशो भवेत् ।
अभिनिवेशः – (सभ्रूक्षेपम् विचिन्त्य) प्रिये! मया तु जीवितव्यमेव सर्वदा । अत्र चोपायमेवमुत्पश्यामि । भोगसञ्चयरूपात् महामोहकोशगृहात् निर्गत्य मुमुक्षापुरस्कारेण विवेकमाश्रितः समाध्यभिनिवेश इति सविशेषगृहीतनामकः चिरम् जीविष्यामि ।
दुर्वासना – नाथ! अहम् पुनस्तव प्रिया कथम् भवामि ।
अभिनिवेशः – प्रिये! किम् भीरुरसि? त्वमपि दुरन्वयम् परित्यज्य मामेव परिचरन्ती सुसङ्गता चिरम् जीविष्यसि ।
दुर्वासना – महान् प्रसाद आर्यपुत्रस्य, यच्चिरसेवितस्य राज्ञो महामोहस्य विनाशेऽपि स्वयम् जीवित्वा जीवितसमाम् माम् च रक्षितुमभिनिविशसे ।
अभिनिवेशः – न केवलम् जीवितसमा त्वम्; जीवितेश्वरी खल्वसि!
दुर्वासना – धन्या खल्वेषा सम्वृत्ताऽस्मि, यदेवम् सम्भावयसि ।
अभिनिवेशः – (सर्वतोऽवलोक्य विचिन्त्य साशङ्कम्) पश्यामि दारुणान् दिव्यान्तरिक्षभौमानुत्पातान् ।
गृध्रास्तोरणशूलशृङ्गमभितोऽगृह्णन्नभोमण्डलीम्
वात्यामण्डलखण्डितध्वजपटीशून्यानि सैन्यानि नः ।
शूलप्रासकृपाणमुद्गरधनुःक्रूरैर्मुहुः किङ्करैः
दृश्यन्ते परिवारिता इव दिशः सम्वर्तसम्वर्तकैः ॥ ४ ॥
आः कष्टम्!
निवृत्तिधर्मः पर्येति नाम्ना लोकेषु नारदः ।
अयम् च तुम्बुरुस्तौ च प्रणिधी मोहवैरिणः ॥ ५ ॥
तयोरपि प्रविष्टश्चायम् त्रिभुवनविदूषको नारदः श्वेतवायस इव राजधानीम् । कलहकुतूहलम् च तस्य स्वलक्षणम् । विप्रलम्भकवशम्वदश्च वीराभिमानी देवो महामोहः । न जाने भवितव्यतावैभवेन किम् भविष्यति? अथवा यदेव भविष्यति, तदेव तथा । आत्मच्छायेव खलु नियतिरलङ्घनीया । अहह! महामोहविजयलक्ष्मि! नूनमिदानीम् सम्शयमापन्नाऽसि ।
(नेपथ्ये)
छत्रैरुत्तभ्यताम् द्यौर्दश झटिति दिशश्चामरैराव्रियन्ताम्
सम्वर्तोदन्वदूर्मिध्वनिमुखरमुखस्ताड्यताम् वाद्यवर्गः ।
काल्यन्ताम् लोकपालाः क्षणरुचिपटलीविभ्रमैर्हेमवेत्रैः
क्रुद्धः सन्नह्यतेऽसौ घटयितुमचिरादाहवम् मोहवीरः ॥ ६ ॥
अभिनिवेशः – (कर्णम् दत्त्वा) किम् देवो महामोहः स्वयमेव समराय सन्नह्यति? (सभयविषादम्) प्रिये! महदत्याहितम् ।
अमुष्मिन् दिवसे श्वो वा नूनम् नियतिवैभवात् ।
अमोहमविवेकम् वा जगदेतद्भविष्यति ॥ ७ ॥
(तदसावस्माकमवधानस्य प्रधानसमयः धानावसरः) । अद्य खलु विविधभोग भाण्डागारलुण्टावानाम् सम्सारकण्टकानाम् विवेकसैन्यनासीरवीराणाम् अतिधीराणाम् शमदमादीनाम् प्रचारमुपरोद्धुम् पदवीषु प्रतिपदमयःशङ्कवः प्रतिष्ठापनीयाः । अन्यदपि चैवम् समयोचितम् सर्वमनुष्ठातव्यम् ।
[इति सभयसम्भ्रमम् सभार्यो निष्क्रान्तः ।]
मिश्रविष्कम्भः ।
[ततः प्रविशति महामोहो दुर्मतिर्नारदश्च ।]
महामोहः – भगवन्! धन्याः खलु वयमिदानीम् सम्वृत्ताः । यद्भगवतः पितामहस्य प्रियसुतेन चतुर्दश भुवनवैचित्र्यदर्शिना सकललोकपालमौलिमालोपलालित पादपङ्कजेन भगवता सम्भावितेयम् मायाभिधाना मदीया राजधानी ।
नारदः – राजन्! अनितरसाधारणम् भावत्कमाश्चर्यमनुभवितारो वयमेव धन्याः ।
महामोहः – देवि! दीयतामस्मै देवर्षये पाद्यमर्घ्यम् मधुपर्कश्च ।
दुर्मतिः – (सविनयमुपसृत्य) भगवन्! इदम् पाद्यम्, इदमर्घ्यम्, अयम् मधुपर्कः ।]
नारदः – (हस्तेन वारयन्) सम्पन्नो ममासौ सत्कारः । अद्य खल्वौपवस्तम् मया व्रतमङ्गकृतम् । यावदिह तुलसीवनवासिनीम् द्वादशीम् सम्भावयामि, तावन्न किञ्चित्कुतश्चित्प्रतिगृह्णामि ।
महामोहः – भगवन्! अत्यद्भुतमनोहरोऽयम् भवत्स्वभावः । तथा हि,
लास्यान्विता च ललिता च गतिस्त्वदीया मञ्जुस्वना बहुगुणा च विभाति वीणा ।
देहश्च दर्शयति चान्द्रमसीमभिख्याम् प्राप्तोऽसि नस्त्वमिह भोगसमृद्धिहेतुः ॥ ८ ॥
नारदः – (स्वगतम्) मूढस्वभावोऽसौ विश्वमपि विपरीतम् कल्पयति । हन्त विजितमस्मन्मनोरथेन । (प्रकाशम्) महाराज! त्वमेव खल्वत्यद्भुतः । यदुत पुष्करपलाशवन्निर्लेपस्वभावम् पुरुषमनन्तान् भोगाननुभावयसि । अपि च,
प्रत्यूढोत्सेकनम्रप्रतिभटमकुटीपादपीठीसनाथम्
दुर्दान्तद्वेषिदन्तावलरदनपदम् भाति भद्रासनम् ते ।
त्वत्सन्नाहप्रसङ्गप्रथमदुहितरम् भीतिमेवाश्रयन्ते
लोकालोकोपरोधप्रतिहतगतयो लोकपालावरोधाः ॥ ९ ॥
(नेपथ्ये) भो भोः प्रतिहारिन्! अयमहमागतो देवस्य विवेकस्य दृष्टप्रत्ययो नाम दूतः । आवेद्यताम् महाराजाय ।
[प्रविश्य] प्रतिहारी – देव! प्रतिरुद्धप्रवेशस्तिष्ठति बाह्यद्वारे विवेकदूतः ।
महामोहः – प्रवेश्यताम् ।
प्रतिहारी – यदादिशति देवः ।
[इति निष्कान्तः । [ततः प्रविशति दूतः]
दूतः – (मोहसमीपे नारदमवलोक्य स्वगतम्) अयमसौ चण्डालसदनवापिकायाम् चन्द्र इव प्रतिबिम्बितस्समीक्ष्यते देवर्षिर्विप्रलम्भकचक्रवर्ती । अस्तु असावपि साहायकमाचरिष्यति ।
नारदः – (दूरतो दूतम् निर्दिशन्) महाराज!
चलघुरुघुरुमालाश्लेषवाचालजङ्घः शर इव निरपायश्चारुचण्डातकश्रीः ।
अयमिह रुचिराभिः स्रग्भिरुन्नद्धमौलिः त्वरितमुपसमेति स्वेदभिन्नः सुगन्धिः ॥ १० ॥
तदयम् कोऽसाविति विचारणीयः उपचरणीयश्च ।
महामोहः – आस्तामुपचारः, विचारणीयस्तावत् ।
दूतः – (उपसृत्य) इदम् महाराजविवेकस्य शासनम् । (इति भूर्जपत्रम् दर्शयति)
महामोहः – (अपवार्य) किम् महामोहोऽपि केनचिच्छासनीयः?
नारदः – महाराज! किम् परीक्षया परिजनोपचाराणाम् ।
महामोहः – भद्र! असम्स्तुतयुष्मद्द्वीपलिपयो वयम् । तत्स्वयमेव वाचय ।
दूतः – (उद्घाट्य वाचयति) ‘स्वस्ति श्रीश्वेतद्वीपविहारमण्डपिकामतास्थुषा विबुधमहितवृत्तिना महाराजविवेकेन महामोहाय सन्दिश्यते’ । प्रसिद्धम् खल्विदम् – ‘नीचाः कलहमिच्छन्ति सन्धिमिच्छन्ति साधवः’ इति ।
महामोहः – किमतः? स्वनैच्यमेवैतेन सूचयति ।
दुर्मतिः – भद्र ततस्ततः ।
दूतः – (वाचयति) ततश्च,
दीयन्तामिह दक्षिणापथभुवो यावत् कलेरत्ययः
तत्र स्थावरतिर्यगम्शमखिलम् भुङ्क्ष्व त्वमप्यक्षतः ।
इथम् नाम कुलक्षयोपशमनोपाये त्वया तस्थुषा
सन्धिः सत्यगिरामतुच्छमनसामच्छात्मनामस्तु नः ॥ ११ ॥
महामोहः – (सहस्तास्फालनम् विहस्य) तदिदम् सहस्रकिरणस्य तेजोवरदानम्, वैश्रवणस्य वा किमप्यैश्वर्यप्रदानम्, यदाजानसिद्धनिरवधिकवैभवस्य मे विक्लबेन विवेकेन विभूति भागभोगलेशाभ्यनुज्ञानम् ।
नारदः – (सान्तर्हासम् स्वगतम्) हन्त, समापतिता मम चक्षुषोः पारणा । सर्वदा चाहम् विवेक महामोहयोः सन्धिम् प्रतिरोत्स्यामि । (प्रकाशम् । मूर्धानमान्दोलयित्वा विषादमभिनयन्) अहह,
भ्रूभङ्गेषु पृथग्विधेषु बलिनो यस्यायतन्ते जग-
त्यासम्सारमलङ्घ्यशासनगतेराजन्म धीरात्मनः ।
ब्रह्मस्तम्बभटस्य मुक्तजनकद्रोहस्य मोहस्य ते
तस्याऽऽसीदितरेण सन्धिवचनम् किम् कस्य वा कथ्यते ॥ १२ ॥
दुर्मतिः – आर्यपुत्र! एवम् मे राजकार्यम् प्रतिभाति । सन्धिव्यपदेशेनास्मत्सकाशमासाद्यताम् विवेकः । तत् स जीवग्राहम् गृहीत्वा दृढपीडनीयो भवेत् ।
महामोहः – (सोच्चैर्हासम्) मुग्धे! स्वप्नेऽप्येवम्विधम् कातर्यवचनम् मा वोचः । नन्वहम् महामोहः । किमिदानीमन्यमिव मामभिमन्यसे! अथवा, न हि कदाचिदपि परिस्फुरन्ति प्रमदाजनानाम् राजकार्यगतयः । प्रिये! शृणु चैतन्महामोहस्य वीरव्रतम् ।
क्रकचैः कृत्तदेहोऽपि दीपितोऽपि दवाग्निना ।
न सूच्यग्रम् प्रदास्यामि न सन्धास्यामि केनचित् ॥ १३ ॥
अथ वा,
नाहमस्मि महामोहः न च विश्वम् जितम् मया ।
विभूतिरमिता यस्य विभक्तव्यपदास्पदम् ॥ १४ ॥
नारदः – (स्वगतम्) कलहकौतुकिनामस्माकम् तपाम्सि परिणमन्ति । ननु स्वात्मावधिरियम् महामोहस्य शवमुष्टिवद्गृहीतग्राहिता ।
(प्रकाशम्) देवि! दुर्मते! परमकृत्यमध्यवसितम् प्रियतमेन ते । अथ तु निर्धारणीयः सन्देशवाक्यशेषः ।
महामोहः – (अनादरातिशयम् नाटयन्) किम् नश्छिन्नम् । श्रुणुमस्तावत् । ततस्ततः,
दूतः – (वाचयति) ततश्च यदि नस्सन्धिः, यथास्थानम् पुनरवस्थास्यामहे । यदि विग्रहः,
तदा तु –
निष्कामक्रोधलोमम् निपतितकुहनाडम्भदर्पाभिमानम्
निर्धूतेर्ष्याभ्यसूयामदविहृति जहन्मत्सरस्तम्भजाड्यम् ।
अद्य श्वो वा विदध्यात् अपि चरमयुगे विश्वमक्षुद्रसत्त्वम्
वेलातीतप्रसर्पन्मधुमथनदयादत्तसेको विवेकः ॥ १५ ॥
महामोहः – (सरोषसम्रम्भम् दन्तान्कटकटापयन्) भगवन्! आः कष्टम्, अश्रुतपूर्वमिदम् श्रुतम् । वाचिकशेषस्तु भवतु वा मा वा । कः कोऽत्र भोः! हन्यतामयम् वार्ताहरः ।
नारदः – राजन्! दूतः किल ।
महामोहः – तर्हि व्यङ्गीकृत्य निष्कास्यताम् ।
दूतः – स्वयमहमपसर्पामि । (इति तिरस्करिणीमास्थाय, स्वगतम्) विदितवृत्तान्तशेषः प्रतिगमिष्यामि ।
नारदः – (अनाहित दृष्टिरवलोकयन् इङ्गितेन दूतमभिनन्दति ।)
महामोहः – (सक्रोधनिर्वेदम् समधिकताम्राक्षः पादेन पादपीठीमाहत्य, दन्तेनाधरमापीडयन्)
धिग् ब्रह्माण्डकरण्डगह्वरकुटीकर्पूरपूरम् यशः
धिक् प्रह्वत्रिदशेन्द्रफालफलकस्पष्टोपमृष्टम् पदम् ।
धिग् दोर्विक्रममद्भुतम् मम पुनर्धिग्वादमेवास्तु धिक्
सोढा वैरिकथामपि स्वयमहम् नीचाय मह्यम् नमः ॥ १६ ॥
(विचिन्त्य सनिःश्वासम्) प्रिये! विपक्षप्रतार्यमाणम् पितरमनुचिन्त्य भृशम् दूये ।
गतजलसेतुबन्धगजयूथपशौचकथा-
गगनतलानुलेपगणिकापरिणीतिनिभैः ।
व्यथितमतिर्विवेकहतकस्य विचारशतैः
कुलपतिरद्य नः कथमसौ भविता पुरुषः ॥ १७ ॥
नारदः – महाराज! किमत्र चिन्त्यते । न कुतश्चिदप्ययमन्यथा भविष्यति ।
महामोहः – (सक्रोधकम्पम्) भगवन्! अतिपापीयान्खल्वसौ अशेषभोगनिर्मूलनोद्यतो विवेकहतकः ।
(आकाशे लक्ष्यम् बद्ध्वा) आः पाप! दुराचार! विश्वविद्वेषदूषित! मूढ! विवेकापशद!
मोघारम्भक्षपितमनसा मोहवीरस्त्रिलोकी-
वेलाभेदस्वरसरसिको विभ्रमप्राणमित्रम् ।
ब्रह्मस्तम्बप्रसृतनिगमस्तोमशाखाविभङ्ग-
क्रीडाचण्डः कृपण! भवता किम् न दृष्टः श्रुतो वा ॥ १८ ॥
नारदः – महाराज! न श्रुतम्, न दृष्टम् वा केन भवदपदानम्? आसम्सारम् प्रसिद्धवैभवः खल्वसि ।
महामोहः – (सक्रोधम्) भगवन्निदमपि भवन्तमनुस्मारयामि –
पुरा किल निराकृतस्वपरभेदनिर्धारणे
रणे विहरता मया रदनयन्त्रितश्चन्द्रमाः ।
अपर्वणि सुपर्वणामधिपतेस्समक्षम् क्षणात्
अरुन्तुदविधुन्तुदग्रहण वेदनामन्वभूत् ॥ १९ ॥
नारदः – (सान्तर्हासम् स्वगतम्) किमसावुन्मत्तदशाम् प्राप्तः । यदयम् जरद्गवादिवाक्यवदपार्थम् किमपि जल्पति । उपस्थितमहाविपत्तिरपि दुर्मतिमेव पुरस्कृत्य शृङ्गारगर्ते निमज्जति । (प्रकाशम्) महाराज! सोऽयमिदानीम् पश्चिमे पारावारे सान्ध्यम् नियममिव चिकीर्षुः अम्बरतलादवलम्बते मयूखमाली । तदहम् साधयामि कालोचितकर्मणे । [इति निष्फ्रान्तः ।]
महामोहः – प्रिये! सम्प्रति सम्सारसन्ततिनिदानभूत सम्भोगारम्भ समयसूचिका प्रजापति परिभुक्तपूर्वा प्रवर्तते पितृप्रसूरियमपरा सन्ध्या । इह च, (हि)
क्षीयन्ते सवितुः क्षणम् क्षितिधरैरुत्तम्सिता दीप्तयः
श्रूयन्ते यजताम् तृतीयसवनब्रह्मप्रणादोर्मयः ।
लीयन्ते पतगाः कुलायतरुषु प्रत्युद्व्रजत्पोतकाः
स्त्यायन्ते च तमश्छटास्तत इतः श्रीकण्ठकण्ठत्विषः ॥ २० ॥
अपि च,
कादम्बन्ति जलाशयेषु वितताः कालाम्बुदन्त्यम्बरे
मातङ्गन्ति महीधरेषु मधुपस्तोमन्ति मल्लीषु च ।
स्पृष्ट्वा निश्चिनु पाणिना कुवलयापीडन्ति ते कुन्तले
धम्मिल्लन्ति दिशामुखेषु सुमुखि स्त्यानास्तमःपङ्क्तयः ॥ २१ ॥
दुर्मतिः – आर्यपुत्र! प्रबलतमैर्विवेकप्रमुखैः प्रक्रान्तयुद्धस्य तव सम्भोगसमयवर्णनम् किमनयेन प्रवृत्तम् अथ वा अतिधीरत्वेन ।
महामोहः – अयि महावीरपत्नि! किम् बिभेति भवती कृपणाद्विवेकहतकात्? किम् न वेत्थ?
वश्यम् तिष्ठति षड्विधम् मम बलम् मायाविनः सैनिकाः
मोहः सोऽहमभङ्गुरो मुनिमनःप्रक्षोभदक्षोदयः ।
आस्तामन्यदनङ्गतन्त्रनिपुणैरङ्गीकृतः साम्प्रतम्
सेतुर्घोरविवेकसिन्धुतरणे शृङ्गारदेवार्चनम् ॥ २२ ॥
अथवा किमिहान्येन दैवतेनार्चितेन मे ।
त्वामेव शरणम् यामि कामतन्त्राधिदेवताम् ॥ २३ ॥
तदेताम् रात्रिम् वासगृहे त्वया सह निर्वेष्टव्यमखिलम् निर्विश्य प्रभाते सम्यतिष्ये शत्रुविजयाय ।
[इति सभार्यो निष्क्रान्तः ।]
[ततः प्रविशति नभोयानेन तन्त्रीविनोदतरलकरपल्लवो नारदस्तुम्बुरुश्च ।]
नारदः – सखे! सुप्रभातम् त्रैलोक्यस्य, यन्महामोहविजिगीषया सत्यसन्धो विवेकः सपदि सम्यतिष्यते । अहह! सूच्यते सम्प्रति विवेकाभ्युदयः । यतः,
इदम् पुरः स्वयमुदयक्षमाभृति प्रबोधनम् प्रबलतमोविमोचनम् ।
विवेचितस्थिरचरभेदमद्भुतम् त्रयीमयम् किमपि महो विजम्भते ॥ २४ ॥
तुम्बुरुः – भगवन्! वयमिव नूनम् महासमरसन्दर्शनकुतूहली त्वरितमुत्तिष्ठते मयूखमाली ।
तथा हि,
प्राचीनाचलतुङ्गशृङ्गनिकटप्रक्रीडदैरावण-
क्षोभोदीरितधातुधूलिपटलीपर्यायधुर्योदयाः ।
व्योमारण्यतमालवीथिमलिनामुन्मूलयन्तस्तमीम्
उन्मीलन्त्यरविन्दगर्भसुहृदो भानोरमी भानवः ॥ २५ ॥
नारदः – सखे! व्यक्तमिव विवेकवैभवम् सूच्यते । तथा हि,
दिवि च भुवि च विष्वग्दृष्टिरोधे निसृष्टम्
मुकुलितनिखिलाशामण्डलम् मोहवृत्त्या ।
मलिनमतिमहीयो मङ्क्ष्वमोघैः करौघैः
कबलयति तमिस्राकश्मलम् रश्मिमाली ॥ २६ ॥
तदिह रामरावणरणावलोकनरसश्चिरान्निवृत्तोऽपि नियतिवृत्त्या पुनरिदानीमस्माकम् प्रादुर्भविष्यति; यदिह महामोहडम्भदर्पादयः विवेकव्यवसायादिभिः योत्स्यन्ते । अद्य चातिगाढवैरमूलस्य आहवानोकहस्य फलम् हस्तापचेयम् भविष्यति विवेकस्य । तथा हि,
द्वेधा कल्पितदेवदानवचमूनासीरमासीदतोः
आरब्धे तु विवेकमोहनृपयोरायोधनैकोत्सवे ।
वैलक्षण्यनिरूपणप्रहरणो बिभ्रत्प्रमाकङ्कटम्
जेताऽसौ जगदन्धकारमितरम् देवो विवेकेश्वरः ॥ २७ ॥
ततश्च,
विद्याभेदैरुपचयवताम् वेदकल्पद्रुमाणाम्
व्यक्तोल्लासद्विजपरिबृढव्याप्तशाखाशतानाम् ।
श्रेयोमार्गप्रतिभयजितः श्रीविवेकस्य मौलौ
भूयो भूयः सपदि भविता भूयसी पुष्पवृष्टिः ॥ २८ ॥
तुम्बुरुः – भगवन्! अव्यवस्थिता हि युद्धसिद्धिः । तत् कथमेवम् सम्प्रधार्यते?
नारदः – (सहर्षम्)
सखे कथ्यते न मया मिथ्या किम् वा सन्द्रक्ष्यसे स्वयम् ।
दर्पणम् किमपेक्षन्ते कङ्कणस्य निरीक्षणे ॥ २९ ॥
(नेपथ्ये महान् कलकलः; उभौ सचमत्कार(कौतुक)माकर्णयतः)
नारदः – (सहर्षम्) सखे! आगतोऽयमनेकधा कर्णास्वादः । यदुत,
पणवमड्डुक्रमद्दलजर्झरीमुरवडिण्डिमदुन्दुभिसम्भवः ।
त्रिदिवगोपुरसन्धिविभेदनः प्रसभमुत्पतति ध्वनिरद्भतः ॥ ३० ॥
तुम्बुरुः– (सहर्षकौतुकम्) अहो! समरारम्भस्य सन्दर्शनीयता! अत्र हि,
नीरन्धम् व्योमरन्ध्रम् भवति कुलगिरिस्तोमतुङ्गैः शताङ्गैः
जाघट्यन्ते मदान्धा दिशिदिशि करिणः कल्पजीमूतकल्पाः ।
घोराणाम् घोटकानाम् खुरपुटरटितैस्त्रुट्यतीव त्रिलोकी
प्रत्युड्डीयन्त एते प्रतिहतिषु मिथः पत्तयो दत्तवेगाः (यस्त्यक्तदेहाः) ॥ ३१ ॥
अपि च, महानयम् प्रवृत्तश्शस्त्रसम्पातः । एकीभूते इव च मिथः प्रतिरोधाद्विवेकमोहवाहिन्यौ । निर्वर्त्यते चायमाकालिको निशीथः । यतः,
सूचिभेद्यतिमिरोपलम्भने मेदिनीरजसि मेघमेदुरे ।
श्रूयते कलकलैर्महीयसी वाहिनी रणखलापवाहिनी ॥ ३२ ॥
किम् च,
क्षतजमधु रणस्थैर्दत्तमुत्तम्भिताग्रध्वजपटपुनरुक्तस्वर्धुनीकैरनीकैः ।
पलभुज इह जाग्रन्नन्दथूनाम् वधूनाम् पृथुकरटिकरोटीकर्परैरर्पयन्ति ॥ ३३ ॥
नारदः – सखे! न तृप्यत्यद्य मे किमिदमिति कुतूहलोल्लसितम् चक्षुः । इह हि –
पत्तीन् उद्यद्विपत्तीन् त्रुटितपृथुशिरःकन्धरान् सिन्धुरेन्द्रान्
वाहान् आकीर्णदेहान् व्यतिहननमिथःखण्डिताङ्गान् शताङ्गान् ।
शस्त्राशस्त्रिप्रसङ्गप्रभवचटचटाराव घोरप्रचाराः
कुर्वन्त्युद्दामगर्वाः कृतिन इह रणे विक्रमैरक्रमेण ॥ ३४ ॥
अपि च,
एतस्य सम्भृतविवेकविमोहभूम्नः
सेनायुगस्य समराङ्गणसम्भ्रमेण ।
प्रायेण सम्प्रति विकल्पितया स्ववृत्त्या
डोलाधिरोहणरसम् लभते जयश्रीः ॥ ३५ ॥
तुम्बुरुः – (सबीमत्सम्) अयमिह कश्चित् क्रव्यादडिम्भः डिम्भमाकर्षन्नित्थम् भाषते ।
शोभते सुमतिसहाय ईदृशलोभादिमारणसमर्थः ।
एष च सुलभसौरभरुधिरसुधासारशीतले सङ्ख्ये ॥ ३६ ॥ इति,
इयम् च काचन पिशाची सन्तोषादेवमाह –
प्रणमामि विवेकदेवम् प्रकुपितप्रतिपक्षप्रतिमथनप्रधनम् ।
शोणितनवमधुप्रवाहे सूर्यमिव समग्रलग्नप्रतिमानम् ॥ ३७ ॥
नारदः – (दूरतो निर्दिशन्) सखे! द्वन्द्वयुद्धमिह नूनमुपक्रम्यते । अत्र हि,
अभिलाषरथारूढः सुभटो लोभलुब्धकः ।
एकस्त्वरितमाधावत्येकलव्य इवापरः ॥ ३४ ॥
तुम्बुरुः – अहह!
दुरध्वविहृतिक्षमो दु(रुपरोध)रपनोददुर्वासना-
सहस्रपृतनौघवान् अभिनिवेशसत्सारथिः ।
विरुद्धमतिशस्त्रिकाविषमदत्तमूर्छादशा-
लुठत्प्रतिभटः परिभ्रमति लोभवीरो युधि ॥ ३९ ॥
नारदः – (सान्तर्हासम्)
द्रविणपरिणामरूपम् जगदिदमविभज्य दत्तमप्येषः ।
बध्नन् कुसीदकुहनाम् बहुगुणयितुमीहते भूयः ॥ ४० ॥
तुम्बुरुः – भगवन्! दृष्टमिदानीमप्यस्य दुश्शकदुरन्तविवेक विजिगीषोद्योगेन ।
नारदः – सखे! आश्चर्यमाश्चर्यम् । अदोषागमसमयेऽप्यमृत किरण सन्दोहेन सम्प्लुतमिव त्रिभुवनमखिलमवलोक्यते । नूनम् कयाचिदवदातप्रकाशया देवतया प्रादुर्भूतया भवितव्यम् । (सूक्ष्मम् निर्वर्ण्य) आलक्षितोऽयमाश्चर्यसम्भवः । यथा,
सैषा पञ्चमुखी तुष्टिः शेषसृष्टिरिवापरा ।
अतर्कितमुपस्थाय ग्रसते लोभमूषकम् ॥ ४१ ॥
तुम्बुरुः – (सहर्षम्) भगवन्! सम्प्रति लोभविध्वम्सेन लुप्तलोकायतमिव लोकमवलोकयामि । अद्य हि,
प्रशस्तिम् विन्दन्ति प्रशमसुखदिव्यामृतरस-
प्रलीनोदन्यानाम् परिषदि न सम्पत्तिसरितः ।
अमित्रोपक्षेपक्षणविगलदात्मीयपृतना-
दृढामर्दत्रस्यद्द्रमिडभटजङ्घाजवभृतः ॥ ४२ ॥
अपि च,
प्रशमितलोभमिदानीम् प्रौढविवेकप्रयुक्तया तुष्ट्या ।
धनम् अनघनीतिसिद्धम् जातम् सर्वत्र दत्तभुक्तफलम् ॥ ४३ ॥
नारदः – नन्वसावपरीक्षितलोकवृत्तान्तानामविवेकनामेव लुप्तसर्वगुणो लोभः ।
ब्रह्मायुतायुतविभूतिरपि ह्यपूर्णः
कल्पायुतायुतशतायुरपि व्यतीयात् ।
नागायुतायुतसहस्रबलोऽपि बाध्यः
किम् तद् भवेद् यदिह किञ्चन लोभयोग्यम् ॥ ४४ ॥
अद्य तु लोभविध्वम्सादवधीरितलाभान्तरा परिहृतप्रत्यूहा बुद्धिः परमपुरुषपदकमलपरिचरणमेव परम् धनमभिनिविशते ।
अपि च,
नलनहुषमुखानाम् नाकलोकेश्वराणाम्
अपि नलिनभवानामस्मदग्राह्यभूम्नाम् ।
अगणितमुपनन्त्रीमापदम् प्रेक्ष्य बिभ्यत्
क्वचिदिह न विधत्ते कौतुकम् जातु कश्चित् ॥ ४५ ॥
किम् च,
अपैति पुरुषायुषम् निमिषनिर्विशेषम् नृणाम्
तृणाग्रजलबिन्दुवत् प्रतिकलम् गलन्ति श्रियः ।
तथापि नृपमन्दिरप्रघणसीम्नि सङ्क्षीयते
महान् अहह देहिनाम् द्रविणमोहदाहज्वरः ॥ ४६ ॥
तद्वयम् च नैराश्यमेव परमम् सुखमुपतिष्ठामः । ततश्च,
उत्तालद्विपकर्णतालतरलप्रस्थानदुःस्थासिका-
नित्यातङ्कतरङ्गितम् विजहतस्त्रैविष्टपानाम् पदम् ।
प्रत्यूढापदनन्तसम्पदुदयम् पद्मापतेस्तत्पदम्
प्रत्यादिष्टपुनर्भवम् परिहृतावद्यम् प्रपद्येमहि ॥ ४७ ॥
तुम्बुरुः – (ससम्भ्रममवलोक्य) भगवन्! अयमिह पुनः कश्चिदसह्यवेगो महावीरः प्रशिथिलसङ्घटितपलायमानाम् लोभवाहिनीम् मुखरितहरिता घोषेण मुहुर्मुहुः प्रत्याश्वासयन् मुग्धामध्याप्रगल्भाभिः वरूथिनीभिरुपगतो विवेकाभिमुख उपसर्पति । कतमः, कीदृशो वा सोऽयमिति न विजानामि ।
नारदः – सखे!
महितमधुप्रदिष्टमधुदिग्धविचित्रशरः
परभृतवन्दिमान् भ्रमरसम्हतिगीतगुणः ।
मलयमरुत्सखोमकरलक्षणकेतुरसौ
धृतधनुरभ्युपैति मदनः प्रमदापृतनः ॥ ४८॥
पश्य पश्य सखे! प्रसूनबाणस्य पारिपार्श्विकसमृद्धिम् ।
काचित् क्रीडति पद्मिनीह पुरतः काप्यन्यतश्चित्रिणी
शङ्खिन्यप्यपरत्र काचिदितरा हस्तिन्यसावन्यतः ।
तस्यैतस्य समृद्धिमेति सरसप्रेक्षानिरूढोदयम्
चित्रम् मन्त्रिचतुष्टयम् त्रिभुवनावस्कन्दिनो धन्विनः ॥ ४९ ॥
तुम्बुरुः – भगवन्! अत्यासन्नवृत्तिरयमसौ विवेकरथस्य । अपि च,
ऋतुस्नाता नृत्तग्लपिततनुरध्वश्रमवती
मदक्षीबा क्रुद्धप्रसदनवती भिन्नघटिता ।
इदम् पूर्वेत्येवम् विधयुवतिवर्गेण सहितो
युयुत्सत्युन्मत्तः स्मर इह विवेकेन महता ॥ ५० ॥
नारदः – (सहासम्) किमस्यानेन दुर्भेदयुवतियूथव्यूहकल्पनेन ।
स्वायत्तसिद्धिविभवस्य समग्रशक्तेः
स्वच्छन्दचेष्टितभृतः स्वयमेव योद्धः ।
किम् मुग्धया किमिह मध्यमयाऽऽत्मयोनेः
किम् प्रौढया च जरठापि हि जैत्रमस्त्रम् ॥ ५१ ॥
(नेपथ्ये)
विवेकपरिषत्पुरस्कृतविरक्तिवाराङ्गना-
कचग्रहविचक्षणप्रथितगर्वदोर्विक्रमः ।
रतिप्रियतमः स्वयम् रणविहारमारिप्सते
विमुक्तिपुरवर्तनीविपरिवर्त(र्ति)नीति स्थितिः ॥ ५२ ॥
उभौ – (कर्णम् दत्त्वा) विकत्थनमिदम् युयुत्सतो विषमास्त्रस्य । (पुनर्नेपथ्ये)
स्वभर्तव्यम् भार्यादुहितृपितृपुत्रप्रभृतिकम्
विसृज्य प्रव्रज्यामुपनिहितवत्यै भवभृताम् ।
अमुष्यै किम् कुर्मो निरवधिकनैर्घृण्यवपुषे
नियत्यै भूयिष्ठम् भवतुभगवत्यै नम इदम् ॥ ५३ ॥
नारदः – सखे! विडम्बयति चासौ विषयरसवैमुख्यकारिणीम् नियतिम् ।
तुम्बुरुः – भगवन्! पश्य पश्य । मुषितव्यवसाय इवासौ सम्प्रति समीक्ष्यते मुखवैमुख्येन । परिजनश्चास्य साङ्ग्रामिक्याम् सिद्धौ साशङ्क इवाभाति । यदुत,
मधुसमयावरोधवदनासवदोहलिनाम्
वकुलमहीरुहामलघुभिः सुमनोभिरिमाः ।
मदनधनुःप्रकाण्डगुणनिस्त्रुटनावसर
प्रतिनिधिशिञ्जिनीम् प्रजनयन्त्यभितः प्रमदाः ॥ ५४ ॥
नारदः – सखे! प्रहसनविनोदमात्रप्रस्तावकमिदमखिलम् प्रायशः प्रभूतव्यवसायसम्पदो विवेकस्य । अपि च, महतो विवेकाद्बिभ्यदप्ययमपरावर्ती मन्मथः प्रवर्तते । तथा हि,
जगत् क्षिपति चापले ललितचापलेखा(युधो)धरो
युनक्त्यपथि वाहयन् युगलदेहयन्त्रद्वयम् ।
त्रिवर्ग(द्विवर्ग)बडिशामिषग्रसनवेधतो बाधते
स एष दृढसाहसः सकलजन्तुचिन्ताभटः ॥ ५५ ॥
अद्य च निरन्तरपरिणमदविद्यया कयाचन शिल्पविद्यया दुर्निरूपघटनया विवेक यूथविघटनमसौ विधातुमभिलषति । ततश्च,
रथवारणवाजिभिः प्रहृष्यन् महिलारत्नसमूहनेन सिद्धैः ।
मकरध्वज एष पुष्पधन्वा रणमभ्येति रतिप्रियापदानः ॥ ५६ ॥
तुम्बुरुः – भगवन्! असहायशूरोऽयम् विभ्रममात्रबलाभिरबलाभिरेव सम्हतान् महाबलान् विवेकव्यवसायशमदमादीन् विजेतुमभिलषति ।
अपि च,
अङ्कुरत्स्मितमकेवलेक्षणम् भङ्गुरभ्रु वदनम् नतभ्रुवाम् ।
अञ्चिताधरमवञ्चितादरः पञ्चबाणसुभटः प्रतीक्षते ॥ ५७ ॥
नारदः – सखे! तथैव खल्वेतमपि विजेतुम् विश्वजिद्विवेको विरक्तिनामानम् स्त्रियमेव प्रत्यस्त्रतया प्रयुङ्क्ते ।
(नेपथ्ये)
भोगेषु यौवतानाम् योगेषु लभेत सारमर्थानाम् ।
कन्देषु कन्दलीनाम् स्तम्भेषु च क इव राजरम्भाणाम् ॥ ५८ ॥
[उभौ सादरमाकर्णयतः; पुनर्नेपथ्ये]
अदभ्रजघनस्तनप्रभृतिमाम्सविस्फूर्जित-
प्रसक्तविकटव्रणप्रतिपदज्ञया प्रज्ञया ।
स्त्रियस्त्रिगुणवीचिमद्गरलवीचिकाश्चिन्तयन्
असभ्यपरिपाटिकाम् पठति गाढमूढो जनः ॥ ५९॥
नारदः – सखे! श्रूयते किलायमायोधनाभिमुखहृदयाया विरक्तेरालापः ।
तुम्बुरुः – (सभयसम्भ्रमम्) भगवन्! अतिपतति चासौ विरक्तिमपहस्तयितुकामः कामः । (क्षणमिव निर्वर्ण्य) अहह,
स्वमित्रमुपधात्रयप्रथितशुद्धिलोभात्मकम्
झटित्यलघुतुष्टिकुक्ष्यनलदग्धमित्याकुलः ।
विरक्तिरणदेवताविपुलदृष्टिवैश्वानरम्
प्रविश्य मकरध्वजः पुनरनङ्गतामागतः ॥ ६० ॥
अपि च शृङ्गारोऽप्ययमनङ्गसमरनासीरयोधी सर्वतो भङ्गमनुभवन् अभङ्गुर महिमशालिना विरक्तिवैभवेन विलयमधिगच्छति । इह च,
निःसम्बोधमशेषतो वितनुते देवासुरान्तःपुरम्
कर्णेषु प्रचिनोति कामपि सुधाम् कामागमद्रोहिणाम् ।
क्षिप्रक्षोभितचक्रवालशिखरिप्राकाररिङ्खारटः
छ्रुङ्गाघातनिरोधपिण्डितपटुः श्रुङ्गारभङ्गारवः ॥ ६१ ॥
नारदः – हन्त जुगुप्सनीयाः सम्प्रति योषितः सम्वृत्ताः ।
तुम्बुरुः – उचितमेवैतत् ।
महेन्द्रप्रतिनन्द्यानाम् वपुरप्सरसामपि ।
त्वङ्गसृङ्माम्समेदोस्थिमज्जाशुक्लमयम् न किम् ॥ ६२ ॥
किम् च,
वर्ष्मेदम् सप्तधातु त्रिविधमलमयम् योनियुग्मप्रसूतम्
चातुर्विध्योपपन्नस्थिरचरविविधा हारसारात्मकम् च ।
इत्थम् त्वेऽनन्तदोषाकर इति मुनिभिर्घोषिता योषिदाख्या
मीमाम्स्या माम्सरेतोरुधिरकफवसानिर्मिता चर्मभस्त्रा ॥ ६३ ॥
ततश्च,
गर्हणीयबहुदोषगर्हिते योषिताम् वपुषि तोषितात्मनः ।
नारकेऽप्यमितदुःखकारके रौरवे भवतु गौरवेण धीः ॥ ६४ ॥
भगवन्! य एतावन्तम् कालमत्यन्तबहुमतिपदम्, स एवेदानीमत्यन्तजुगुप्सनीयः सम्वृत्तः सर्वलोकमौलिधार्यसायकः सयूथो मन्मथः । (सनिर्वेदमिव निश्वस्य)
परिचरति तवासौ पार्श्ववर्ती वसन्तः किमपि मधुकरीभिर्गीयते नाम जैत्रम् ।
तदपि मदन! दैन्यम् प्रापितस्त्वम् नियत्या क इव कथय दैवम् पौरुषेणोपरुन्ध्यात् ॥ ६५ ॥
भगवन्! अभङ्गुरा खलु देवी नियतिः ।
सम्भोगैकान्त्यवादी निरयभयकथाभङ्गसङ्गी निकामम्
शस्त्रच्छिन्नार्धदेहद्वयघटनभवद्दिव्यदाम्पत्यशिल्पः ।
प्रख्यातातिक्रमोऽसौ परपुरुषवशैर्गोपकन्यासहस्रैः
एकस्त्रैलोक्यवीरः स्मर इह मृदितः क्वावतिष्ठेत कोपः? ॥ ६६ ॥
नारदः – सखे! मा नाम सहसा कोपमेवमवमम्स्थाः । अयम् किल पुरस्तात्, लोभस्य कामस्य च विनिपातमसहमानः समुत्पत्य विश्वलोकप्रथितकीर्तिम् विवेकमास्कन्दितुमीहते । तथा हि,
क्षुदिन्धनवसुन्धराधरधुरन्धरः किम् मृषा
तृषारभसचूषणक्षपितपञ्चषाम्भोनिधिः ।
हठत्रुटितहाटकाचलतटीबृहत्कुण्डलः
प्रसर्पति रणाङ्कणम् प्रथित एष कोपासुरः ॥ ६७ ॥
तुम्बुरुः – (सभयसम्भ्रमम्) अतिघोरचेष्टितः खल्वसावशेषविध्वम्सनतर्षवानमर्षः । तथा हि,
अपि वैरवरूथिनीमशेषाम् अपि शैलान् अपि सागरान् अपिक्ष्माम् ।
ग्रसितुम् प्रभवत्ययम् प्रदीप्तः प्रथितः कोपतनूनपात् अनूनः ॥ ६८ ॥
नारदः – सखे! पश्य पश्य ।
जिघाम्साजानिनाऽनेन स्थिरत्रसमिदम् जगत् ।
वध्यघातकभावेन विभज्य विनियुज्यते ॥ ६९ ॥
अपि च,
करचरणनखरदन्तप्रभृतिकमपि जगति सहजमितरदपि ।
प्रतिघसुभटस्य विश्वम् प्रहरणमथवा विहर्तुमुपकरणम् ॥ ७० ॥
अत्र पुनरसह्योत्थानममर्षमुपशमयितुमप्रधृष्योदयाम् क्षान्तिम् पुरस्कृत्य निस्तरङ्गजलधिरिव निरूढधैर्यस्तिष्ठति विवेकः । इह च,
रुन्धानः सिन्धुघोषप्रथनमनिभृतम् क्रन्दयन् क्ष्माधरेन्द्रान्
भिन्दानः स्कन्धभेदान् सुरपथरथिनाम् शुष्मणस्सारथीनाम् ।
शुद्धालोकेन सद्यः क्षयमुपगमितः क्षान्तिमन्दस्मितेन
क्षुभ्यद्वैधात्रसौधध्वनिगुणितरवः कोऽपि कोपाट्टहासः ॥ ७१ ॥
अमि च,
कुलशिखरिगरिष्ठाः क्षोणिधृत्यर्हकुम्भाः
कुलिशकठिनदन्ताः क्ष्वेलसङ्घातघोराः ।
कतिचन रणरङ्गे कन्तुकीकृत्य मुक्ताः
न जहति भयमस्मादन्तिमम् दन्तिमल्लाः ॥ ७२ ॥
तुम्बुरुः – भगवन्!
अपि विश्वमिदम् दिधक्षतोऽस्य त्रिपुरारातिमुखेषु लब्धभूम्नः ।
मदहस्तिघटावमर्दलीलाम् मशकामर्शनमात्रमित्यवैमि ॥ ७३ ॥
भगवन्! अयमसाविदानीममर्षस्य सम्प्रति सम्वर्तधाराधरगर्जितगम्भीरभैरवप्रसृतिस्त्रिभुवनमपि बधिरयति कुलगिरिकुहरभरितप्रतिनिवृत्तः सम्हताकृतिः सिम्हनादः । तदाकर्णन समय समुत्थितया निष्प्रतिक्षेपया क्षमया निरुध्यमानः स्तब्धवृत्तिरयम् सन्दृश्यते कोपः । तथा हि,
अयमिह क्षमया दलितः क्षणात् प्रतिमुखोऽपि पराङ्मुखवद्भवन् ।
स च याति न तिष्ठति च ह्रिया भवति सप्रतिघः प्रतिघः परः ॥ ७४ ॥
(क्षणम् निर्वर्ण्य) हन्त भगवन् पश्य पश्य!
अपरावर्त्यपि कोपः पश्चादाकृष्टपाद इवऽऽभाति ।
क्वचिदतिसङ्कटविषये सुभटानाम् सम्मतोऽयमपसर्पः ॥ ७५ ॥
नारदः – (सान्तर्हासम्)
तुम्बुरुः – (सहर्षसम्भ्रमम्)
यस्य त्रासनतर्जनप्रभृतयः क्रूरोद्धता वृत्तयः
यस्योन्मेषनिमेषयोस्त्रिभुवनम् निद्राति जागर्ति च ।
आबध्यैनमवैधहिम्सनमहासम्रम्भसम्भावित-
क्रीडोड्डामरबाहुदण्डलडहम् क्रोधम् निहन्ति क्षमा ॥ ७६ ॥
अपि च,
गुरुवधमुखक्रूरक्रीडाकठोरपराक्रमः
प्रथितमहितध्वम्सो दक्षाध्वरप्रभृतिष्वसौ ।
स्वयमिह सुखारातिः स्वर्गापवर्गविघातकः
क्षणरुचिपदम् क्षान्त्या गच्छत्यमर्षहुताशनः ॥ ७७ ॥
नारदः – सर्वगुणातिशायिनी खल्वियम् क्षान्तिः । यन्न किञ्चिदपि स्वावष्टब्धम् केनाप्यवद्येन योजयति । तथा हि,
विबुधमहिते मेरावैरावणः करटी मुहुः
कषतु करटम् कण्डूलम् स्वम् क्षरन् मदकर्दमम् ।
भजतु च तटक्रीडाम् पीडाभिसन्धिरसौ दृढम्
न तु मलिनता नापि क्षोभः क्षमाभृति सम्भृतः ॥ ७८ ॥
तुम्बुरुः – भगवन् दुर्जयोऽसौ कोपः । कथम् नाम विजित इति विस्मयाविष्टम् चेतः ।
नारदः – न वयमिह विस्मयामहे । यतः
न शापो नाभिचरणम् न वह्निर्न विषम् तथा ।
नास्त्राणि न च शस्त्राणि यथा तीक्ष्णतमा क्षमा ॥ ७९ ॥
ततश्च,
अहार्येण कदाऽप्यन्यैरसम्हार्येण केनचित् ।
तितिक्षाकवचेनैव सर्वम् जयति सम्वृतः ॥ ८० ॥
तथा हि,
प्रतिघोऽयमसह्यविस्फुलिङ्गैः प्रलयोदीर्णहुताशनप्रकाशः ।
अमृतोदधिसम्प्लुतिप्रथिम्ना क्षमया क्षिप्रमभूदसावलक्ष्यः ॥ ८१ ॥
(विचिन्त्य) कथमिह विवेकभूभृतः साङ्ग्रामिकविहारशेषः सम्पत्स्यते । अथ वा,
मदनक्रोधलोभानाम् निपाते मोहभूपतिः ।
योधयिष्यति यम् कञ्चित् स्वयम् वा योद्धुमर्हति ॥ ८२ ॥
तुम्बुरुः – भगवन्! अलङ्घनीयस्वभावः खल्वभिनिवेशः । येन प्रत्यक्षितबलपराक्रमेऽपि विवेके प्रतिहतमनोरथस्यापि महामोहस्य पुनर्विजिगीषा विजृम्भते । श्रुतम् किल महाभारते – ‘हते भीष्मे’ इत्यादि । (अन्यतो निर्वर्ण्य)
कामादिनिधने दृष्टे कैमुत्यमपरामृशन् ।
क इवासीदति क्षुद्रः कश्चिदेष रणाङ्कणम् ॥ ८३ ॥
नारदः – सखे! प्रख्यातनामा खल्वसावगणितपरहृदयशल्यः शल्य इव सन्नह्यति । तथा हि,
अवधीरयिता महत्तराणामवलेपोऽयमयन्त्रितस्वभावः ।
परकीर्तिवधूनिराचिकीर्षासुभगम्भावुकबाहुरुज्जिहीते ॥ ८४ ॥
सर्वधा तावन्मोघोद्योग एव भविष्यत्ययमपि मोहसचिवः । तथा हि,
दर्पस्येह दृढप्रतिष्ठितमदोदग्रैर्विवेकाग्रतो
डिम्भक्षोभकडम्भरस्थपुटितारम्भैरलम् सम्भ्रमैः ।
मृग्यम् केसरिणो विधित्सितरणे रङ्कौ परम् कौतुकम्
क्रीडाखण्डितचण्डवारणघटातन्त्रस्वतन्त्रश्रियः ॥ ८५ ॥
तुम्बुरुः – (साश्चर्यम्) भगवन्! किमयमिदानीम् मेघनाद इव तिरस्करणीम् विद्यामास्थितः? यदसाविदानीमेवास्माभिः दृष्टः, क्षणान्तरे न दृश्यते ।
नारदः – (सहर्षम् विहस्य) तस्यैव मेघनादस्य लक्ष्मणेनेव परप्रयुक्ता खल्वियमस्य तिरस्करिणी ।
अभिजनधनविद्यावृत्तदाक्ष्यादिरूपैः उपधिभिरयमेकोऽनेकधा जृम्भमाणः ।
पृथुमहिमविवेकप्रेक्षणादुत्पतन्त्या प्रसभमधिकदृष्ट्या प्रापितो वीरशय्याम् ॥ ८६ ॥
तुम्बुरुः – (ससम्भ्रमाद्भुतम्)
का चैषा कलियुगताटकेव भीमा धिक्कष्टम् कृतकलहेयमभ्यसूया ।
आसीदत्यभिपतति स्वयम् विवेकम् तामेताम् द्यति मुदिता समग्रभूमा ॥ ८७ ॥
नारदः – (सहर्षम्) दर्पनिधनमसहमानेयमसूयाराक्षसी, देहिनीव भैमरथी, रणमुखमागत्य दैवयोगेन दीर्घनिद्रामासादिता ।
तुम्बुरुः – अहो दुर्निरोधा खलु भगवती भवितव्यता ।
आत्यन्तिकीमभिजनादिभिरप्रधृष्याम् तृष्णादिभिः प्रियतमाभिरिहोपगूढाः ।
दर्पादयः क्षितितले दधति प्रसुप्तिम् वीराः स्वयम् विधिवशादुपशान्तवैराः ॥ ८८ ॥
नारदः – सखे! न खल्विदमद्भुतम्, यन्निरवधिकपौरुषाणामप्यनतिक्रमणीया नियतिरिति । एतस्यैव खल्वियमुदाहृतिः –
इतरेतराभ्यधिकभीमविक्रमाः पुनरुच्यमानमधुकैटभादयः ।
प्रविशन्त्युदग्रविगलन्मदग्रहाः त इमे विपत्तिमिह मोहमन्त्रिणः ॥ ८९ ॥
(अन्यतोऽवलोक्य) अहो महदिदमापतितमिदानीमप्रतिद्वन्द्वम् द्वन्द्वयुद्धम् । इह हि,
अतिबलेन विवेकमहीभृता निरवशेषितमन्त्रिगणः क्षणात् ।
अहह मोहमहीपतिराहवे सपदि राघवशत्रुरिवोत्थितः ॥ ९० ॥
अत्र चायमहितबल निर्मूलनसमुन्मीलित समरसम्रम्भः स्वयमिह समायाति सुरगणसम्स्तूयमानवैभवः सुमतिवल्लभः । अयम् हि,
मर्यादातीतवादद्विरदमृगपतिर्वक्रतर्काद्रिवज्रः
प्रत्यग्वैमुख्यतूलप्रलयदिनमरुत् भ्रान्तिवीरुद्दवाग्निः ।
कामक्रोधाहितार्क्ष्यः कलिकलुषकथाकालरात्रिप्रभातम्
मोहावश्यायभानुर्विहरति समिति व्यक्तवेगो विवेकः ॥ ९१ ॥
तुम्बुरुः – (सहर्षाद्भुतम्) भगवन्! इदम् पुनरिह महामोहस्य मौलिताडनम् । अत्र हि,
निरुद्धरिपुडम्बरो निगमघोषनिष्पादितप्रतिश्रुतिरनुद्रुतप्रलयसिन्धुधीरध्वनिः ।
त्रिवर्गपुटभेदनप्रथमकम्पकर्णेजपो विवेकसुभटाग्रतो विजयदुन्दुभिस्ताड्यते ॥ ९२ ॥
नारदः – सखे! नूनमिदानीमत्यासन्नो विवेकस्य मनोरथलाभः । अत्र हि,
दुराशादुर्मानच्छलनमदमात्सर्यकुहना-
परीवादद्रोहप्रभृतिपरिवारस्तुतगतिः ।
मनीषासारथ्यप्रमुदितविवेकप्रतिमुखम्
महामोहः क्रुद्धः स्वयमयमुपायाति समरम् ॥ ९३ ॥
अपि च,
प्रत्यासन्नम् प्रतिभटमिह प्रत्युदेता विधत्ते
गाढामर्षस्फुरणकुटिलान् कार्मुके दृष्टिपातान् ।
दूरोद्धूतस्वपरनियतिम् दुर्मतिम् प्रेक्षमाणो
रागाभिख्यम् दुरितजलधिम् गाहते मोहवीरः ॥ ९४ ॥
तुम्बुरुः – (सभयसम्भ्रमाद्भुतम्) भगवन्! अतिघोरवृत्तिरसौ रथयूथवीधिकापथेन रणाङ्गणमवतीर्णः ।
उद्भटकबन्धताण्डवमुन्मदभारुण्डतुण्डहृतमुण्डम् ।
रणभूमिमण्डलमसौ मण्डलमिह चरति मोहदण्डेशः ॥ ९५ ॥
अपि च,
पातालक्षिप्तसिन्धुः प्रशकलितकुलक्ष्माभृदुत्कीलभूमिः
निर्धूतादित्यचन्द्रद्युतिगणनिबिडध्वान्तनीरन्ध्रदिक्कः ।
वेधस्सौधप्रभेदी विघटितपवनस्कन्धपर्यस्ततारः
प्रारब्धोऽसौ विवेकप्रतिरथिनि महान् आहवे मोहवेगः ॥ ९६ ॥
नारदः – (सहर्षसम्भ्रमम्) सखे! दिष्ट्या वर्धसे । पश्य पश्य ।
अप्रत्यूढचरः सुरासुरगणैरक्षोभितो राक्षसैः
अद्य प्रत्यवरुद्धवैरिसमरोत्सेके विवेकेश्वरे ।
स्वस्स्थप्रत्ययितव्यदोषमलिनस्वर्वासदुर्वासना-
मूलच्छेदविलीयमानमहिमा मोहस्य मोघः स्यदः ॥ ९७ ॥
अहह,
विवेकाशनिवेगेन महामोहविषद्रुमः ।
पतितः क्ष्मातले दिष्ट्या द्वितीय इव कैटभः ॥ ९८ ॥
तुम्बुरुः – हन्त!
जागर्त्यद्भुतमुद्भटम् यदधुना वीरव्रतैकव्रती
विष्वग्वृत्तिविवेकदेवविशिखस्कन्धैरवस्कन्दितः ।
मोहः प्रापितमूर्छनो मुनिगणप्रद्विष्टदैत्यप्रियो
धिक्कष्टश्रुतिघट्टितश्रुतिरसौ बुद्ध्वा पुनर्युध्यते ॥ ९९ ॥
नारदः – (सहर्षसम्भ्रममुत्तरीयाजिनमुद्धून्वन्) अहह निपातितः पुनरसौ निष्प्रतिघवृत्तिना महामोहस्सुमतिवल्लभेन ।
जितम् कार्तयुगैर्धर्मैर्जितम् शमदमादिभिः ।
महता यत् विवेकेन महामोहः पराहतः ॥ १०० ॥
भवतु सब्रह्मता, भवतु सब्रह्मता । (सर्वतः परिक्रामति ।)
तुम्बुरुः – (सहर्षम्)
निखिलसुभटश्लाघारेखाविलङ्घनजाङ्घिको
निरवधिबलो मोहः क्रीडन् अनुत्तरणे रणे ।
विविधनिगमग्रामस्थेयात् विवेकमहीभृतो
विपदमधुना वीरादस्मादिदम् प्रथमाम् गतः ॥ १०१ ॥
अपि च,
दिनकर इव दीव्यन् दृष्टशक्तिस्तथाऽसौ
मुनिपरिषदभीष्टे मोहभङ्गे विवेकः ।
समतनुत यथैकः साधुपीडोद्यतानाम्
रजनिचरपतीनाम् राघवो दीर्घनिद्राम् ॥ १०२ ॥
(नेपथ्ये) हा महाराज! हा दुर्मतिजीवितेश्वर! हा निखिलजनमोहन! कुत्र गतोऽसि?
बन्दिग्राहम् गृहीताभिर्नूनम् सम्भृतगुरु वैराभिः ।
बन्दिग्राहम् गृहीतो मम नाथस्ताभिस्त्रिदशमहिलाभिः ॥ १०३ ॥
नारदः – सखे! हन्त हन्त! प्रतिबुद्धा दुर्मतिस्सोरस्ताडम् स्वयम् विलपति ।
(पुनर्नेपथ्य)
बाह्यजनैस्सार्धम् दीर्घमार्गम् त्वया प्रक्रान्तेन ।
दीनदशासन्तप्तो दयितजनो नाथ किमिति सन्त्यक्तः ॥ १०४ ॥
नारदः – सखे! अश्रुतपूर्वमिदमद्भुतमाकर्णितम् ।
तुम्बुरुः – भगवन्! अयम् खलु सुरासुरसमरनाटकसूत्रधारस्य भगवतस्सूत्ररचनापरिपाकः ।
हतजीवजीवितेशाम् विषादमूर्छादिलुप्तनिश्वासाम् ।
तृष्णादयः सकुल्या दुर्मतिमभितो निपत्य विलपन्ति ॥ १०५ ॥
(निष्प्रतिघातः) दुष्परिहरः खल्वसौ दारुणो नियतिपरिणामः । यतः,
आकर्ण्य चामरभृताममराङ्गनानाम् मञ्जूनि तानि मणिकङ्कणशिञ्जितानि ।
शृण्वन्नसौ विलपितानि निजप्रियाणाम् मोहः प्रयात्यपुनरुन्मिषिताय निद्राम् ॥ १०६ ॥
तुम्बुरुः – भगवन्! महाप्राणोऽसावद्यापि निद्राति, मूर्छति, निमिषति वेति सम्शय डोलामधिरूढोऽस्मि ।
नारदः – भवतु दृष्टम् तावदेतावत् । शिष्टमपि यथागमम् द्रक्ष्यावः । अयम् पुनरत्र मधुकैटभादि महासुरनिरसनप्रकाशितप्रभावो महापुरुष इव विजितमहामोहो विबुधपतिभिरभिष्टूयते सुमतिपतिः ।
तुम्बुरुः – भगवन्! इदमस्य विक्रमप्रीणितवियच्चरगणप्रयुक्तम् वीराभिषेकमङ्गलम् । यदेतत्,
अमुष्य दृढविक्रमद्रुतनिपीतमोहाम्बुधेर्विवेकनृपतेरसौ विनयसन्नते मूर्धनि ।
परप्रणिधिपक्त्रिमस्थिरसुखापवादोद्गतिप्रतिप्रसवसौरभा पतति पुष्पवृष्टिर्दिवः ॥ १०७ ॥
नारदः – सखे! सम्प्रति चिरप्रार्थितमहासमरसन्दर्शनेन सन्तोषितम् चक्षुः । तदिह भवता परिविवाहयिषितहर्षप्रकर्षेण विश्वेषु भुवनेषु विवेकविजयो विश्रावयितव्यः । अहम् तु प्रशमितप्रतिपक्षम् स्ववशीकृतहृषीकगणम् सुमतिसहायम् महाराजम् समयोपनत सार्वभौमपदाभिषेकम् सौस्नातिकवृत्त्या सम्भाव्य समाधिसप्ततन्तुसाहायकेन सन्तोषयितुमात्मानमिच्छामि ।
[इति निष्कान्तौ]
इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके
(मोहादिपराजयो नाम) अष्टमोऽङ्कः ।