श्रीः
श्रीमते रामानुजाय नमः ।
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥
कवितार्किकसिम्हसर्वतन्त्रस्वतन्त्र
श्रीमद्वेदान्ताचार्य विरचितम् नाटकम्
सङ्कल्पसूर्योदयः
प्रथमोऽङ्कः
स्वपक्षप्रकाशः
यद्भक्तिप्रचयात्मके दिनमुखे दृष्टिक्षमः क्षेत्रिणः
क्षिप्रम् सम्सृतिशर्वरीम् क्षिपति यत्सङ्कल्पसूर्योदयः ।
तत्त्वैरस्त्रविभूषणैरधिगत स्वाधीननित्योन्नतिः
श्रीमान् अस्तु स मे समस्तविपदुत्ताराय नारायणः ॥ १ ॥
लक्ष्ये यत्र श्रुतिमितगुणाकृष्टि लब्धावधानैः
प्रत्यग्बाणः प्रणवधनुषा सत्त्ववद्भिः प्रयुक्तः ।
मध्येवक्षः स्फुरति महसा पत्रलः कौस्तुभात्मा
पद्माकान्तः स भवतु दयादुग्धसिन्धुः श्रियै वः ॥ २ ॥
(नान्द्यन्ते सूत्रधारः) – आदिष्टोऽस्मि निखिलसुरासुरकोटीरकोटी मणि निकरनीराजित पादपीठस्य शरणागत परित्राणसप्ततन्तुदीक्षितस्य सरसीरुहवासिनी सहचरित धर्मणः सम्सरणदवदहनतापनिर्वापण वलाहकस्य सर्वेश्वरस्य भगवतः श्रीरङ्गवृषगिरि सत्यव्रतयदुगिरि पुरुषोत्तमपाण्डुरङ्गप्रभृतिषु दिव्याभिव्यक्तिप्रदेशेषु यथाभिमत यात्रोत्सव सेवाहेवाकविहितगतागतचटुलचरणनलिनधूलीपटलपवित्रितक्ष्मातलैः यदृच्छया मरुद्वृधान्तरीप मध्यमध्यासीनैः शेषशेषाशनगरुडनिर्विशेषैः अशेषजनसम्भावनीयैः असम्भवदवद्य गन्धैः अभिजन विद्यासमुचितसदाचारशीलशालिभिः अनादिमयामहावर्तबम्भ्रम्यमाण बाह्यकथ करम्भावनमथनगन्धसिन्धुरैः अधिजिगमिषितमुक्तिघण्टापथैः अखण्डदिङ्मण्डल शिखण्डकैः औपनिषदरहस्योपदेशदेशिकैः अवगतसकलकलाकलापैः अत्रभवद्भिरार्यमिश्रैः, यदुत –
ललितमनसाम् प्रीत्यै बिभ्रत् रसान्तरभूमिका-
मनवमगुणो यस्मिन्नाट्ये रसो नवमः स्थितः ।
जननपदवीजङ्घालार्तिच्छिदा नृगुणीभवन्नटपरिषदा
तेनाऽऽस्वादम् सतामुपचिन्विति ॥ ३ ॥
परिगृहीता च मया भरतमतोपाध्यायस्य सन्मार्गवर्धनस्यान्तेवासिनः सन्तोषपालक नामधेयस्य शैलूषचक्रवर्तिनः पुत्रेण, प्रतिभट कुशीलवकुञ्जर कण्ठीरवेण वैकुण्ठ विनोदिना सप्रतिज्ञम् विदुषामाज्ञा । दिव्यप्रयोगदिदृक्षादत्तक्षणाः विचक्षणाश्च समुदिताः सामाजिकाः । तथा हि –
अवधारितनाट्यदेशिमार्गैरसमीचीनपराङ्मुखैरमीभिः ।
भरतागमदैवतैरिवैषा परिषत् सम्प्रति भासते महद्भिः ॥ ४ ॥
तदहमशेषविद्यास्थानसम्पदुपलम्भनीम् अभूतपूर्व बहुविध भूमिकापरिग्रहेऽप्य तिरस्कृतपारम्याम् अनवबोधजलधिकुक्षिम्भरीमनन्यभक्त्युन्मीलिनीमादिमाम् देवतामभिगच्छामि ।
प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ ५ ॥
(सविनयममञ्जलिम् बद्ध्वा)
देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकाम्
रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयम् बिभ्रती
यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ ६ ॥
(मुहूर्तमिव स्थित्वा ध्यानमभिनीय सोल्लासम्) सोऽहमिदानीम् स्वाधीनसर्वतत्त्वसत्ताकस्य सर्वतन्त्रदैवतस्य कृपया कटाक्षितः ।
श्रुतिकिरीटविहारजुषा धिया सुरभितामिह नाटकपद्धतिम् ।
मुहुरवेक्ष्य विवेकमुपघ्नयन् मतमपश्चिमयामि विपश्चिताम् ॥ ७ ॥
(नेपथ्याभिमुखमवलोक्य) आद्रियताम् तावदियमार्यया रङ्गभूमिः ।
(प्रविश्य नटी सविनयम्) – आर्य, एषास्मि । आज्ञाप्यताम् प्रियप्रेषण एष परिजनः ।
सूत्रधारः – आर्ये! अपि नाम सत्त्वोपपन्नसामाजिक समादिष्टनाटक साधनसमुचित भूमिकापरिग्रहे सन्नह्यन्ति कुशलाः कुशीलवाः?
नटी – करचरणदृष्टिकल्पाः खल्वेते आर्यस्य । किम् न तव चिन्तिते त्वरन्ते? एतत् पुनः परिपृच्छामि किम् नामकम् कीदृशम् रूपकमभिनेतुमारब्धमिति ।
सूत्रधारः – आर्ये, किम् न जानासि सङ्कल्पसूर्योदयाख्यम् नायकीकृतविवेकम् नवीनम् नाटकम् ।
भावम् विदन्ति परमत्र परावरज्ञाः
प्रज्ञाधनाः प्रगुणनूतनसम्विधानम् ।
यस्मिन् गुणास्तनुभृतः सदसत्प्रकाराः
पात्रीभवन्त्यनुगुणैरधिदैवतैः स्वैः ॥ ८ ॥
विवेकप्रागल्भ्यस्फुरितरणवीरव्यतिकरः
परब्रह्मोदन्तप्रकटितदयावीरविभवः ।
प्रबुद्धक्षेत्रज्ञस्थितिघटितशान्ताकृतिरभूत्
प्रयोगश्चित्रोऽयम् भवरसभुजामप्यभिमतः ॥ ९ ॥
अमुष्य तावत् अतिशयोक्तौ अवधिमपि न सम्भावयामि । कतिकति न सन्ति अकूपारे शङ्खाः? किम् ते परिष्कृतपुरुषोत्तमपाणिपद्मः पाञ्चजन्यः? किम् च,
ये लोकानिह वञ्चयन्ति विरलोदञ्चन्महःकञ्चुकाः
ते तिष्ठन्तु महद्गृहेषु मणयः किम् तैरिदम् चिन्त्यताम् ।
श्रीवत्सप्रतिवेशदीपरुचिना सार्धम् किमाभाष्यते
पद्मोल्लासनदर्पणेन मणिना प्रत्नेषु रत्नेष्वपि ॥ १० ॥
इतश्चायमतीव बहुमन्तव्यः, यतः ।
अपदिश्य किमप्यशेषगुप्त्यै निगमान्तेषु निरूढगौरवेण ।
प्रविभक्तहिताहितः प्रयोगः कविना कारुणिकेन कल्पितोऽसौ ॥ ११ ॥
नटी – आर्य, कस्य पुनः कवेः प्रयोग एषः, यत्र बहुमानेन अस्मास्वपि प्रकटितपक्षपातैषा परिषत् ।
सूत्रधारः – आर्ये किम् न श्रुतमिदम् ते? अस्ति खलु समस्तलोकसम्भावनीयस्य विश्वातिशायिनो विश्वामित्रगोत्रभूषणस्य विशुद्धविद्याविहारपुण्डरीकस्य पुण्डरीकाक्षसोमसुत्सम्भवस्य अनन्तगुणशेवधेरनन्तसूरेरात्मसम्भवः श्रीरङ्गराजदिव्याज्ञालब्धवेदान्ताचार्यपदः कवितार्किकसिम्ह इति प्रख्यातगुणसमाख्यः छात्रजननिबद्धजैत्रध्वजप्रसाधितदशदिशासौधः सर्वतन्त्रसङ्कटप्रशमनविशङ्कटमतिः श्रीमद्वेङ्कटनाथो नाम कविः ।
गौडवैदर्भपाञ्चालमालाकाराम् सरस्वतीम् ।
यस्य नित्यम् प्रशम्सन्ति सन्तः सौरभवेदिनः ॥ १२ ॥
अन्येन्द्रकम् भुवनमन्यदनिन्द्रकम् वा
कर्तुम् क्षमे कविरभूदयमन्ववाये ।
जन्म द्वितीयमृषिभिः कथितम् यतः सा
देवी च विश्वजननी यदनन्यगोत्रा ॥ १३ ॥
वित्रासिनी विबुधवैरिवरूथिनीनाम् पद्मासनेन परिचारविधौ प्रयुक्ता ।
उत्प्रेक्ष्यते बुधजनैरुपपत्तिभूम्ना घण्टा हरेः समजनिष्ट यदात्मनेति ॥ १४ ॥
स च,
विम्शत्यब्दे विश्रुतनानाविधविद्यस्त्रिम्शद्वारम् श्रावितशारीरकभाष्यः ।
श्रेयः श्रीमान् वेङ्कटनाथः श्रुतिपथ्यम् नाथप्रीत्यै नाटकमर्थ्यम् व्यधितैतत् ॥ १५ ॥
नटी – आर्य, कथम् नाम एतस्य एकान्तनिगमान्तवितानसन्दितमानसस्य कर्कशतरतर्ककुलिशनिस्त्रुटितपाषण्डद्रुमषण्डा भारती अस्मादृशकेलियोग्यम् रूपकम् कुर्यात्?]
सूत्रधारः – (सान्तर्हासम्) यदेतदुभयमार्या पर्यनुयुङ्क्ते, अत्र तावदादौ; किमेनमप्रवृत्त निखिलकरणव्यापारम् अनुभवैकतानमानसम् अत्यन्तनिभृतावस्थम् निबन्धारमवधारयसि । अथापि ब्रूमः ।
मनुव्यासप्राचेतसपरिषदर्हा क्वचिदियम् सुधा-
सिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।
निरुन्ध्युः के विन्ध्याचलविकटसन्ध्यानटजटा-
परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ १६ ॥
अन्यदपि निध्यायतु भवती ।
गम्भीरभीषणगतिर्गिरिखण्डनादौ चूडापदम् पशुपतेरपि घूर्णयन्ती ।
स्वादुप्रसन्नसुभगानि वसुन्धरायाम् स्रोताम्सि दर्शयति किम् न सुरस्रवन्ती ॥ १७ ॥
नटी – (सानन्दम्) युक्तमेवैतत् भाषितम् आर्यस्य । तथापि शान्तो नाम रसो नास्तीति गन्धर्वागमदेशिकैः समर्थ्यते । तस्मादत्र कथम् तादृशस्य रसस्य निवेशः?
सूत्रधारः – (सावज्ञावहित्थम्) आर्ये न खलु सम्भावयामि तानहम् भरतमतपारदृश्वनः । (विमृश्य)
अथवा तादृशान् सभ्यान् मत्वा जगति दुर्लभान् ।
शङ्के शान्तिरसोल्लासमशक्यमभिमेनिरे ॥ १८ ॥
अपि च,
असभ्यपरिपाटिकामधिकरोति शृङ्गारिता
परस्परतिरस्कृतिम् परिचिनोति वीरायितम् ।
विरुद्धगतिरद्भुतस्तदलमल्पसारः परैः
शमस्तु परिशिष्यते शमितचित्तखेदो रसः ॥ १९ ॥
नटी – आर्य! भवतु नाम सनकसनन्दनादिमुनिजनसङ्गृहीतः सोऽपि तादृशो रसः । तथापि कथम् निष्पन्दनिखिलकरणनिष्पादनीययोगप्रधान एष सर्वजनप्रेक्षणीयेन नाटकवृत्तान्तेन सम्पाद्यते?
सूत्रधारः – आर्ये, मैवम् वादीः । न हि वयमवधूतनिखिलधर्माणामलेपकानाम् मतमभिनेष्यामः, येनैवमाशङ्कसे । सन्ति खलु भगवता गीताचार्येण सहस्रशः प्रतिपादिताः सात्त्विकेन त्यागेन परिकर्मिता निवृत्तिधर्मपद्धतिनियताः विविधा व्यापाराः, यदभिनयेन रङ्गोपजीविनामाजीवावकाशः । अपि चेदम् निशमयतु, निशामयतु वा नाट्यवैभवम् भवती । श्रूयते हि –
न तच्छास्त्रम् न सा विद्या न तच्छिल्पम् न ताः कलाः ।
नासौ योगो न तज्ज्ञानम् नाटके यन्न दृश्यते ॥ २० ॥
नटी – अतिदुष्करमारब्धम् युष्माभिः । अहम् पुनः स्त्रीस्वभावघूर्णमानहृदया मत्सरग्रहगृहीतात् प्रतिपक्षपण्डितजनात् भयकम्पिताऽस्मि ।
सूत्रधारः – अलम् कातर्येण । अद्य खल्वस्माकमभिमुखम् भागधेयम् ।
तथा हि –
लक्षणसमृद्धिरनघा रसपरिपोषश्च सहृदयग्राह्यः ।
सम्पतति नाटकेऽस्मिन् स एष शैलूषसुकृतपरिपाकः ॥ २१ ॥
किम् च,
विद्यासम्पन्निधिरवहितो वेङ्कटेशः कवीन्द्रः
सिद्धारम्भश्चिरमभिनये मामकः पात्रवर्गः ।
प्रख्यातेयम् परिषदनघा पक्षपातानभिज्ञा
रामादीनाम् कुलधनमिदम् रङ्गताम् याति रङ्गम् ॥ २२ ॥
अन्यच्च भवत्या भावनीयम् ।
शमधननिधिम् सत्त्वप्रायम् प्रयोगमयोगिनः
स्वगुणवशतः स्तोतुम् यद्वा वरिव्रतु निन्दितुम् ।
किमिह बहुभिः किम् नश्छिन्नम् न विश्वमनीश्वरम्
तदुपनिहिता जाग्रत्येवम् चतुर्दश साक्षिणः ॥ २३ ॥
नूनमतर्कितोपनता अप्यचिरद्युतिवदारम्भनियतावसानाः मनीषिणामीर्ष्यादयः । यद्वा,
मौनम् बिभ्रतु मत्सरेण नमितास्तूर्णम् त एव ध्रुवम्
कालोन्निद्रकदम्बगोलवपुषः कम्पस्फुरन्मौलयः ।
किञ्चिद्व्रीडितकुञ्चिताक्षमवशादुत्तानदत्ताननाः
प्रस्तोष्यन्त्यवधिम् प्रयोगपदवीसारस्यसारस्य नः ॥ २४ ॥
सन्तु वा निरन्तरनियमितमत्सरनीरन्ध्रहृदया निर्विकाराः । तथापि सर्वथा तावत् –
उपवेदमुदारधीः स्वनाम्ना भरतः सूचितभावरागतालम् ।
यमुदाहरति स्म विश्वगुप्त्यै तदभिज्ञैरबहिष्कृता वयम् स्मः ॥ २५ ॥
नटी – आर्य, एवमेतत् । तथापि श्रुतगुरुकेषु बहुषु विरुद्धेषु छिद्रम् गवेषयत्सु कथमप्रमत्तैरस्माभिः प्रतिज्ञातम् निर्वहणीयम्?]
सूत्रधारः – अयि परगुणसन्तोषिणि, श्रुतबाहुल्ये तव केयमास्था? अथवा अवधारितपरमार्थानामप्यवगतसम्वादनार्थमुत्तरोत्तरम् परिप्रश्नाः प्रवर्तन्ते । भवतु नाम । विशुद्धविद्याम्स्तावत् बहुमन्यस्व । दृश्यते हि –
भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ।
एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् ॥ २६ ॥
तदहमिदानीम् पराशरपाराशर्यादिबहुमताम् अबहुमतदुर्विनीतजनवृत्तिम् अनवरत परिचित गान्धर्व विद्याविनोदनप्रसादितपरमपुरुषाम् परावरतत्त्वयाथात्म्यवेदिनीम् एताम् परिषदमेकतानयामि । (सप्रश्रयमञ्जलिम् बद्ध्वा) (श्रुण्वन्त्वार्यमिश्राः) |
विवेकप्रारम्भे विमतमतभङ्गप्रयतने
मुमुक्षासम्सिद्धौ मुरमथनयोगे च सफले ।
मुखादीन् निध्यातुम् निभृतमिह नाट्ये कृतमुखैः
भवद्भिः स्थातव्यम् भरतमतधौरेयमतिभिः ॥ २७ ॥
(नेपथ्ये)
समयनियतैः प्रयोगैः सत्पथसीमामनुज्झतो विदुषः ।
किरणैरिव दिवसकृतः क्षिप्यन्ते तामसारम्भाः ॥ २८ ॥
सूत्रधारः – (कर्णम् दत्वा सानन्दम्) आर्ये, सम्यगवधार्यतामस्मद्वृत्तिमापवर्गिकवृत्तिम् च तन्त्रयन्ती इयमौद्धातिकी गीतिः ।
ततश्च,
दुर्जनम् प्रतिपक्षम् च दूरदृष्टिरयम् जनः ।
विवेकश्च महामोहम् विजेतुम् प्रभविष्यतः ॥ २९ ॥
(नेपथ्ये)
कः खल्वसौ कुशीलवकुलाङ्गारः करतलकलितकठोरमधुरधन्वनि सुरभिसुकुमारचित्रपुङ्खे वित्रासितनिखिलवैरिजने मयि जीवति, सकलसुरासुरमुनिमनुजचित्तवृत्तिसार्वभौमस्य दुर्मति सहधर्मचारिणो रणरङ्गमहानटस्य देवस्य महामोहस्य विवक्षानर्हम् किमपि विपक्षसकाशादाशम्सते?
सूत्रधारः – (सभयसम्भ्रमम् परिवृत्य पश्यन्) आर्ये, कोऽयममर्ष सम्प्लवादभ्यधिक लोहिताक्षः ससहाय इत एवाभिवर्तते? आः! कष्टमवधारितम् । अयम् हि –
अपवर्गविरुद्धेषु त्रिषु वर्गेषु तिष्ठताम् ।
प्रधानपुरुषार्थस्य पश्चिमस्याधिदैवतम् ॥ ३० ॥
किम् च, अर्धावशेषितमहेश्वरपौरुषोऽयम् वर्गम् तृतीयमवधीरयताम् विनेता ।
रत्या सलीलपरिरम्भणलोलगत्या पुष्पायुधः पुलकितैकभुजोऽभ्युपैति ॥ ३१ ॥
तदिह वयम् त्वरितमपसृत्य कालोपपन्नकामोत्सवविहारसङ्कुले जीवलोके सम्वलितगुप्तवृत्तयः समनन्तरकरणीयमाचरामः ॥
(इति निष्क्रान्तौ । ॥ इति प्रस्तावना ॥
विष्कम्भः
[ततः प्रविशति वसन्तदत्तहस्तः कान्तासमेतः कामः ।)
कामः – (कः खल्वित्यादि पुनः पठित्वा) रे, रे, भरतकुलपाम्सन,
दरनमितमनोज्ञभ्रूलताचापभाजाम्
तरलहृदयलक्ष्ये तादृशस्नेहदिग्धे ।
कुवलयनयनानाम् कूणिते लोचनास्त्रे
शरणयतु विवेकः काम् दिशम् कान्दिशीकः ॥ ३२ ॥
वसन्तः – (स्वगतम्) उत्पथमनोरथोऽयम् उपचितमदो विषमबाणः । अहम् पुनः अपुनरावृत्ति वर्तनीपथिकानामातिवाहिकगणे परिगणितोऽपि न सहसा परित्यक्तुम् शक्नोमि चिरन्तनम् चित्तजन्मसौहार्दम् । (प्रकाशम्) सखे मकरध्वज, एवमेतत् । अहम् पुनर्महाराजस्य महामोहस्य माङ्गलिकम् विवेकवित्रासनम् भावत्कम् महोत्सवम् प्रक्रमयामि । पश्यतु भवान् ।
चूडावेल्लितचारुहल्लकभरव्यालम्बिलोलम्बकाः
क्रीडन्त्यत्र हिरण्मयानि दधतः शृङ्गाणि शृङ्गारिणः ।
तन्वङ्गीकरयन्त्रयन्त्रणकलातन्त्रक्षरद्भस्त्रिका-
कस्तूरीपरिवाहमेदुरमिलज्जम्बाललम्बालकाः ॥ ३३ ॥
कामः – साधु, वसन्त! साधु । विशेषतश्चैतत् सर्वथा विजित एवासौ विवेकहतकः, यदयम् अवधीरितत्रिविष्टपविहारकान्तारेषु मरुद्वृधान्तरीपोपान्तभागेषु महोत्सवारम्भः । इह च,
उन्निद्राम्बुजवाटिकामुभयतोरोधोनिरोधोल्लल-
त्स्रोतस्सम्भृतसारणीशतकृतस्वच्छन्दकच्छाप्लवाम् ।
खेलच्चोलवधूविधूतकबरीशैवालितामन्वहम्
पश्येम प्लवमानहम्समिथुनस्मेराम् कवेरात्मजाम् ॥ ३४ ॥
रतिः – आर्यपुत्र, आपातमधुर एष महोत्सवः । इदानीम् किल अस्मत्कुलस्वामिनो महामोहस्यानिवारणीयेन केनापि विधिना अमोघारम्भो विवेको दुर्जयप्रतिपक्ष इति धूमितम् मे हृदयम् ।
कामः – बाले, विषमशरजीवितेश्वरि, विलासिनीदेवते, किमिति नाम समग्रबल जेतव्यलब्ध्या सन्तोष्टव्येऽपि भावितस्त्रीचापला विवेकवैभवम् वर्णयसि? पश्यतु भवती,
करधृतललितेक्षुधन्वनो मे भ्रमरगुणार्पितपुष्पमार्गणस्य ।
मरुदनलशरोऽपि मेरुधन्वा क्षणमतिलङ्घितशासनः कथम् स्यात् ॥ ३५ ॥
वसन्तः – सखि, सत्यमेवैतत् । मा खल्विदम् विकत्थनम् मम्स्थाः । न हि जगति भवति मशको मातङ्गस्य प्रतिस्पर्धी । अथवा न खलु भवती विश्ववृत्तान्तवैदेशिकी । दृष्टचर एव हि त्वत्प्रियस्यासौ वीरायितवृत्तान्तः । तथा हि,
वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुखै-
र्वरतनुतया वामो भागः शिवस्य विवर्तते ।
तदपि परमम् तत्त्वम् गोपीजनस्य वशम्वदम्
मदनकदनैर्न क्लिश्यन्ते कथम्न्वितरे जनाः ॥ ३६ ॥
कामः – साधु, वसन्त! साधु । कालानुरूपवादी खल्वसि ।
विश्वम् युवतिसात्कर्तुम् भवता दत्तसायके ।
विवेकः किम् नु वर्तेत विपक्षेऽपि मयि स्थिते ॥ ३७ ॥
रतिः – आर्यपुत्र, एवमेतत् । तथापि विषमस्थिरसम्स्थानवैराग्यदुर्गप्रतिष्ठितोऽप्रमत्तैः शमदम प्रमुखैरमात्यैरभिरक्षितः स्वयमसहायशूरोऽनपायसाहसश्च विपक्षः किम् नाम कदा करिष्यतीति कलुषितहृदयाऽस्मि ।
कामः – अयि भीरु, अलमतिशङ्कया । नूनम् विपक्षपक्षपातिबालिशजनविप्रलब्धा स्वयूथ्यवैभवम् न निर्धारयसि । पश्य तावत् विश्वविजयिनस्त्वत्प्रियस्य मे जगत्त्रयप्रसिद्धम् जैत्रमुपकरणम् –
वपुरप्रतिमम् नितम्बिनीनाम् दृढसौन्दर्यगुणम् दरावनम्रम् ।
श्रवणावधिनेत्रचित्रपुङ्खम् धनुराद्यम् मम मुष्टिमेयमध्यम् ॥ ३८ ॥
अपि च,
शैलीम् विलोपयति शान्तिमधः करोति
व्रीडाम् व्युदस्यति विरक्तिमपह्नुते च ।
कर्णामृतम् किमपि तत् कलभाषिणीनाम्
नामापि किम् न विकरोति निशम्यमानम् ॥ ३९ ॥
वसन्तः – ननु कैमुतिकमेतत्, यदिदम् योषिताम् यदृच्छाकीर्तनश्रवणादिकमपि चित्तसङ्क्षोभ हेतुरिति ।
तिष्ठतु गुणावमर्शः स्त्रीणामालोकनादिभिः सार्धम् ।
दोषानुचिन्तनार्था स्मृतिरपि दूरीकरोति वैराग्यम् ॥ ४० ॥
अपि च,
प्रभूतमदमेदुरात्मनो विषयाटवीषु विविधासु धावतः ।
स्वबलेन हन्त मनसो निवर्तनम् बिसतन्तुनेव सुरदन्तियन्त्रणम् ॥ ४१ ॥
रतिः – आर्यपुत्र,
दृढभूमिविभ्रमसमुन्मूलनक्षमाणाम् योगीश्वराणाम् दृष्टिम् परिहरता त्वया पराक्रमणीयम् ।
कामः – (विहस्य) प्रिये, पश्यामि चक्षुषीव ते चेतस्यपि कातर्यम् । योजयामि खल्वहम् योगीश्वरानपि युवतियोगीश्वरपदे ।
सुभगपरुषैर्मदस्त्रैः कीलितमन्योन्यकवचितैकार्धम् ।
किम् न विदितम् भवत्या किमपि मिथःस्यूतजीवितम् मिथुनम् ॥ ४२ ॥
रतिः – आर्यपुत्र, अवधारितम् मया तव माहात्म्यम् । इदानीम् पुनः दीर्घबुद्धिबलेन दैवदत्तहस्तेन यमनियम प्रमुखबहुसहाय सम्पन्नेन अखण्डोत्साहप्रभुत्वमन्त्रशक्तिना शत्रुणा कदा किम् भवेदिति प्रबलपवनाहता कदलिकेव तरलतरास्मि । प्रसिद्धम् खलु प्रज्ञाबलम् मोक्षपर्यन्तानामति दुष्कराणाम् सिद्धीनाम् साधनमिति ।
कामः – (सरोषहासम्) अयि मुग्धे, मञ्जुभाषिणि, गुञ्जन्मधुकरशिञ्जिनीसम्हितविश्वलक्ष विषमविशिखस्य नित्यविजयजागरूकस्य त्वत्प्रियस्य मे सन्निधौ का पुनः प्रज्ञा? केन वा कस्य मुक्तिर्भवित्री? किमिति नाम मध्य इव भवत्याः मानसेऽपि सौक्ष्म्यम् नालक्ष्यते? (विहस्य) प्रिये, हन्त! विदितमेतत् नूनमिदानीम् स्तनगतम् स्थौल्यमेतदन्तराऽपि सङ्क्रान्तमिति । अथवा अविचारितरमणीयमबलाजनस्वाभाव्यम् भवत्यामपि वर्तते । सम्पश्यताम् भवती,
मयाऽऽदिष्टः क्रोधः प्रथयति किमप्यान्ध्यमथ च
स्मृतिभ्रम्शः सेद्धा विघटयति बुद्धिम् सपदि सः ।
तया मुक्तः क्षेत्री तमसि गहने विन्दति लयम्
तथाभूते किम् वा जनयति विवेको जडमतिः ॥ ४३ ॥
तदेवमसह्यवेगमस्मद्व्यूहम् विवेकामात्याः शमदमादयो न प्रसहिष्यन्ते । स्वयम् च दुर्जयो निखिल सुरासुरकोटीर विन्यस्तवामपादो महामोहः । न हि तरक्षुर्मृगराजस्य परिपन्थी ।
परस्य पुरुषस्येव पञ्चभिश्च ममायुधैः ।
समयेषु विमथ्यन्ते सत्त्ववन्तोऽपि शत्रवः ॥ ४४ ॥
अपि च,
अलमिह विबुधाद्यैरागमग्राह्यवाचो
मुनिपरिषदि धर्मान् गायतो मुक्तिहेतून् ।
तपसि नियतवृत्तेस्तस्य देवस्य शान्तिम्
जनितयुवतिरत्नम् दर्शयत्यूरुकाण्डम् ॥ ४५ ॥
रतिः – आर्यपुत्र, सम्भावयामि सत्यम् तव भाषितम् । आब्रह्मकीटमप्रतिहतम् खलु तव माहात्म्यम् । एतत् पुनरज्ञात पूर्वमाज्ञापयत्वार्यपुत्रः ।
कामः – किम् तत्?
रतिः – विवेकप्रभृतीनाम् महामोहप्रभृतीनाम् च मृगेन्द्रमातङ्गानामिव किम् निमित्तम् वैरमिति ।
कामः – प्रिये, आकर्ण्यतामिदमादितः प्रभृति ।
त्रिगुणघटिताद् भोक्तुर्बुद्धिः सती तदनुव्रता
समयनियतोच्छ्रायम् त्रेधा कुलम् समजीजनत् ।
प्रथममिह तद्भोगद्वेष्यम् विवेकपुरस्सरम्
द्वितयमितरज्जुष्टम् रागप्रमोहमुखम् मिथः ॥ ४६ ॥
अत्र विवेकश्च महामोहश्च समानशीलाभिः प्रकृतिभिरभिषिक्तौ राजन्यै । तयोरपि,
मोहस्य धर्मपत्नी दुर्मतिरपवर्गदोषदृष्टिमयी ।
विषयरसदोषदृष्टिः सुमतिरनन्या विवेकस्य ॥ ४७ ॥
रतिः – तदो तदो । [ततस्ततः।]
कामः – ततश्च रजःप्रधाना रागादयः तमःप्रसूतेः सम्सारचक्रवर्तिनो महामोहस्य दैत्यानुकूलरक्षःकुलन्यायेन साचिव्यमाचरन्ति । सत्त्वसम्भवम् तु विवेककुलमसहायमल्पसारम् च जगति वर्तते । जनकश्चास्माकम् क्षेत्रज्ञः स्वयम् मध्यस्थस्वभावोऽपि सहधर्मचारिण्या देव्या बुद्ध्या सह अद्य यावत् अस्मासु बहुलम् दत्तदृष्टिः । तदिदमसहमानाः नित्यनृशम्सा विवेकादयः जातिवादिन इव स्वभङ्गमप्यनुमन्यमानाः पुरुषस्य भोगम् तत्सम्वर्धकान् अस्माम्श्च उत्सादयितुमीहन्ते । अस्मत्तातेन चानादिभुक्तायाम् प्रकृतौ विविधान् दोषान् उद्घाट्य तातम् च तस्यामुपजनितवैराग्यम् केनचिदपायेन विरचय्य महाप्रस्थानेनापुनरावर्तिनम् कर्तुमारभन्ते । तथा मर्कटरक्षःपती महापातकिनौ सुग्रीवविभीषणौ स्वकुलोत्सादने प्रमाणयन्ति । न च तदारम्भसमये तातस्य दुर्दशा शक्या वर्णयितुम् । अयम् खलु,
जात्यन्धः परदोषदृष्टिषु परीवादेषु मूकाग्रणीः
बाधिर्य प्रथमावतार सरणिर्निन्दासमाकर्णने ।
स्त्रीप्रायः परदारसङ्ग्रहविधौ तद्वत् परावर्जने सम्पद्येत
समीक्षणेऽपि विकलः पापैर्विवेकादिभिः ॥)
अत एवास्माभिरपि परित्यक्तसौभ्रात्रैः तेऽमी दुरात्मानो जिघाम्स्यन्ते । ततः प्रवृत्तिनिवृत्तिपद्धती समाश्रित्य वयम् च ते च सम्यतिष्यामहे । तदा तु सत्त्वप्रधानम् कुलम् ज्योतिरिङ्गणज्योतिरिवद्युमणिकिरणैरस्माभिरभिभूयते ।
सौहार्दमित्थमनवाप्य सहोदराणामासीत् स्वमूलगुणभेदवशात् विरोधः ।
एकप्रजापतिभुवामपि वैरबन्धः स्वात्मावधिः स्वयमुदेति सुरासुराणाम् ॥ ४८ ॥
रतिः – शान्तम् पापम्, शान्तम् पापम् । पुत्रा एव पितुर्भोगम् विनाशयन्ति । तथा कथम् सोदरा एव इतरेतरविध्वम्सनलम्पटहृदया भवन्ति? नाथ, किम् न भवेत् तेषाम् युष्माकमपि समरदुर्दशा निवारणसाधनम् सन्धिः?
कामः – मुग्धे, कथम् चिदपि नात्र सन्धिः सम्भाव्यते ।
स्वतः सत्त्वविहीनानाम् सत्तयैवापराध्यताम् ।
कथङ्कारम् प्रतीकारः कल्पकोटिशतैरपि ॥ ४९ ॥
प्रतिपुरुषविभक्तमूर्तिभेदाः वयमितरे च मिथः प्रतीपवृत्ताः ।
क्वचिदधिकरणे समापतन्तः सुतनु दधीमहि वध्यघातकत्वम् ॥ ५० ॥
कथम्न खल्वर्थकामपराणामस्माकम् नारायणपरायणैः कथायामपि सङ्गतिरुपपद्यते । किम् च, यथाकथचिदुपपद्यमानमपि अखण्डवैरिखण्डनपण्डितो महामोहः कथञ्चिदपि सन्धिम् नानुमन्यते । अहम् वा कथमसहायवीरः तमनुमन्ये? न खलु क्षुधितोऽपि शार्दूलः कदाचिदपि शाद्वलमत्ति ।
रतिः – आर्यपुत्र ! कः पुनस्तैः कुलघ्नैः महाबलानाम् युष्माकमप्युन्मूलने उपायः सम्मन्त्रितः?
कामः – अयि भीरु, अनुद्घाटनीयमिद कामः राजरहस्यम् । विशेषतः स्त्रीषु ।
रतिः – (हस्तम् सङ्गृह्य) आर्यपुत्र, शापितोऽसि मया प्रियसखेन वसन्तेन च । सत्यम् विव्रियताम् राजकुलरहस्यम् ।
वसन्तः – (स्वगतम्) किमत्र विवरणीयम्? दुष्परिहरः खलु अनिर्धारितकालो नियतिविपर्यासः । (प्रकाशम्) सखे मकरध्वज ।
मनोरथसमर्थानाम् महामोहविरोधिनाम् ।
मन्त्रभेदनमस्माभिः कार्यम् तत्परिपन्थिभिः ॥ ५१ ॥
कामः – प्रिये, कथयामि तर्हि । अस्ति खलु अनभिज्ञकुलसार्वभौमविवेकमूल अकर्तृत्वाभिमानादिनानाविधविषमदृष्टिसहकृतः कश्चिदस्मत्कुलाभिचारकाङ्क्षिभिः उपनिषदूषरनिष्ठैः कैश्चिन्निष्ठुरैः अनुष्ठीयमानो निवृत्तिसञ्ज्ञको धर्मः, यन्निष्ठस्य पुरुषस्य परदोषदर्शनादिष्वन्धबधिरषण्डपङ्गुमूकादिवत् अत्यन्तमवसन्नावस्थान माकर्ण्यते । तेन च निष्प्रतिक्रियेण केनचिदपग्रहेणेव पुरुषमाविशता बुद्धिः सङ्गम् स्यते । तस्मात् किल तत्सङ्गमादस्मत्कुल प्रद्वेषदूषितहृदया प्रशान्तमधुरवेष प्रच्छन्ना भवरसभोगभैमरथी परभक्त्य परपर्याया ब्रह्मराक्षसी प्रादुर्भविष्यति ।
तथा हि,
गुणत्रेतोन्मेषक्रमपरिणतानन्तविकृतिः
क्वचित् काले बुद्धिः कुलयुगलकूटस्थगृहिणी ।
अतिक्रूरात्यन्तप्रलयविधिदुर्मन्त्रपरुषाम्
पुरा भीमाकाराम् सृजति परभक्तिम् परवती ॥ ५२ ॥
ततश्च,
प्रव्रज्यादियुता परत्र पुरुषे पातिव्रतीम् बिभ्रती
भक्तिः सा प्रतिरुद्धसर्वकरणा धोरम् तपस्तप्यते ।
तुष्टा तेन जनार्दनस्य करुणा कुर्वीत तत्किङ्करम्
कञ्चित् कैटभकोटिकल्पमसुरम्…. ॥ ५३ ॥ (इत्यर्धोक्ते विरमति)
वसन्तः – (स्वगतम्) स खलु सङ्कल्पसूर्योदयः । ‘निर्मूलनस्त्वेष नः’ इति शेषः । अन्यथा तु पूरयामि । (प्रकाशम्) शेषम् पुनर्दुर्वचम् ॥
रतिः – (सभयसम्भ्रमम्) नाथ, परिरक्ष परिरक्ष (इति भर्तारमाश्लिष्यति ।)
कामः – (गाढमुपगुह्य अ(भुक्त)पूर्वमिव निर्वेशम् नाटयन्, आत्मगतम्)
जनितवलयभङ्गे दत्तहारावमर्दे मुषित-
निखिलखेदे मोहसन्तोषहेतौ ।
सचकितपरिरम्भे साम्प्रतम् (सादरम्)
कातराक्ष्यास्त्यजति युगलचिन्तामङ्गयोरन्तरात्मा ॥ ५४ ॥
(प्रकाशम्) सखि, महामोहसैनिकधुरन्धरस्य मकरध्वजस्य मम प्रेयसी सती मा भैषीः । समाश्वसिहि, समाश्वसिहि । इदम् खल्वैन्द्रजालिक नगरनिगरणप्रायम् अनिपुणनैगमिकरथ्या पुरुषनिर्मितम् किमप्यैतिह्यम् । तथा हि,-
कुवृत्तमिति कौक्कुटम् व्रतमधिक्षिपद्भिस्तथा सुधाकरशतक्रतुप्रभृतिभिः स्वयम् चस्खले ।
नदद्भ्रमरपङ्क्तिके नमति कार्मुके मामके विरक्तिगृहदेहलीम् क इह दोहली वीक्षते ॥ ५५ ॥
तिष्ठन्तु च महाबला मन्त्रिणः,
प्रमादालस्यनिद्रादिविविधव्यूहविग्रहः ।
प्रज्ञावरणघोरात्मा मोहः केन विजेष्यते ॥ ५६ ॥
रतिः – (स्वगतम्) । विधिवशेन विपरीतम् भणितमार्यपुत्रेण । (प्रकाशम्) भूयान्मङ्गलम् महाराजस्य ।
वसन्तः –
अयि मन्मथपत्निः मा स्म भैषीर्ननु मोहादिषु सम्स्थितेषु सत्सु ।
प्रकृतिम् पुरुषः प्रपित्समानः प्रतिपद्येत विरक्तितो विमुक्तिम् ॥ ५७ ॥
रतिः – (आत्मगतम्) आः! वसन्तभाषितमपि विपरीतमिव दृश्यते ।
(प्रकाशम्) आर्यपुत्र, किम् विवेकस्य नास्ति विवेकः, अमात्यानाम् वा तस्य शमदमप्रमुखानाम्? पुरुषे खलु प्रकृतिम् मुक्त्वा गते अस्माकम् तेषामपि अविशेषसुलभमवसानम् ।
कामः – एवमेतत् । अस्मदुन्मेषमसहमानाः पुनः एते पापाः प्रज्ञाचक्षुषि क्वचित् पुरुषे साक्षिणि कुलद्वयमूलकूलङ्कषासु कुहनासु गहनमीहन्ते । सर्वथा मूढचेतसश्चैते मोघकर्माणो भविष्यन्ति । यतः,
प्रसुप्तानपि युद्धेन सुग्रीवसुभटानिव ।
कर्मशक्तिरनुच्छेद्या पुनरुद्धो(त्से)धयिष्यति ॥ ५८ ॥
(नेपथ्ये)
कोऽसौ विपर्यस्तदृष्टिरनुग्रहैकनियतकौतुकान् अस्मानेव पापान् प्रलपति? रे रे! दुर्विनीत, दुराचार, निस्पन्दनिगलितकूटस्थानाम् नृशम्सवृत्तीनाम् वः प्रतिक्षेपे, पुरुषस्य निरस्तनिखिल दुःखनिरतिशयानन्दप्रापणे, तदापि तद्बुद्ध्यनुप्रवेशेन स्वकुलसञ्जीवने च दनुजमथनदयाधीनवृत्तयो वयम् प्रवर्तामहे । अस्ति चौपनिषदोऽयमुद्घोषः,
स्वाधीनसम्सरणनाट्यनिरूढवृत्तेः
सन्तोषितः प्रणतभूमिकयाऽस्य पुम्सः ।
स्थाने विधास्यति विभुः स्थिरचिह्नभेदम्
क्रीडानटस्य भगवान्कृपया (परमम्) स्वसाम्यम् ॥ ५९ ॥
ततश्च,
रिपुमथनकृतम् यशो महीयः पितृपरिरक्षणसम्भृतश्च धर्मः ।
अभिमतघटनोद्भवश्च हर्षः सपदि विधास्यति सन्निधिम् स्वयम् नः ॥ ६० ॥
कामः – (सभयावहित्थमवलोक्य) प्रिये! मोहपरिपन्थिपक्षमूर्धाभिषिक्तः स्वयमसौ विवेकः स्वसहधर्मचारिण्या सुमत्या सहाभ्यमित्रीण उपसर्पति । अयम् हि,
मुकुलयति विवित्साम् मोहविध्वम्समिच्छन्
विमृशति निगमान्तान्वीक्षते मोक्षधर्मान् ।
निशमयति च गीताम् नित्यमेकान्तभक्त्या
गुणपरिषदवेक्षी गुप्तमन्त्रो विवेकः ॥ ६१ ॥
अपि च,
प्रत्यङ्मुखीम् सुमतिदीप्तिमिह प्रचिन्वन् प्राप्तोदयोऽप्यमितरागबलोपपन्नः ।
क्षाम्यन् अहङ्कृतिमयीमवशो हिमानीम् भास्वानसौ भजति विष्णुपदम् विवेकः ॥ ६२ ॥
तत् न साम्प्रतमस्माभिरप्राप्तसमयैरसहायैश्च अरातिसन्निधावात्मानम् प्रकाशयितुम् ।
(इति समित्रकलत्रो निष्क्रान्तः । इति मिश्रविष्कम्भः ॥)
[ततः प्रविशति राजा, सुमतिश्च ।)
राजा – (सविमर्शम्) प्रिये, समाकर्णितस्त्वया अनवधिकदुरितविषवनमूलभूतस्य अमन्ददर्पस्य कन्दर्पवटोराटोपः यदसावशेषपापनिष्कृतौ प्रयतमानान् अस्मानेव पापारोपेण परिवदति । अथवा,
पश्यति परेषु दोषान् असतोऽपि जनः सतोऽपि नैव गुणान् ।
विपरीतमिदम् स्वस्मिन्महिमा मोहाञ्जनस्यैषः ॥ ६३ ॥
सुमतिः – आर्यपुत्र, विरूपाः खलु जना निजमुखदोषम् निर्मलेष्वपि दर्पणेषु समर्पयन्ति ।
राजा – देवि, सत्यमेतत् । यथार्थदर्शिनी यथादृष्टार्थवादिनी च भवती । किम् च,
निर्धूतनिखिलदोषा निरवधिपुरुषार्थलम्भनप्रवणा ।
सत्कविफणितिरिव त्वम् सगुणालङ्कारभावरसजुष्टा ॥ ६४ ॥
(विचिन्त्य) प्रिये! हन्त! निर्विकारपुरुषपीडया क्रीडन्त एते कामक्रोधलोभादयः सुपन्थानमास्थिताः, वयम् पुनस्तमेव निश्श्रेयसेन योजयितुम् समस्तजनसाम्सिद्धकसुहृदो भगवतस्तापत्रयाभिहत सर्वजनसञ्जीविनीम् दयादृष्टिम् प्रवाहयन्तः कदध्वना प्रस्थिताः । अहो! महान् अयमुन्मत्तालापः । पश्य मे त्वया सह निर्वर्तनीयम् परानुग्रहव्रतम् ।
महत्यारम्भेऽस्मिन् मधुरिपुदयासम्भृतधृतिर्बहिष्कृत्यारातीन् सुमुखि बहिरन्तश्च भवतः ।
समाधावाधाय क्षपितवृजिनम् क्षेत्रिणमहम् परप्राप्त्या धन्यम् परिणमयितुम् प्राप्तनियमः ॥ ६५ ॥
सुमतिः – आर्यपुत्र, कथम् स नित्यनिर्मलमहानन्दशान्तस्वयम्प्रकाश सर्वजन दर्शनयोग्यस्वभावः पुरुषः महामोहेन मानमदमत्सरप्रमुखैः दुर्विनीतैः दुर्वारगर्वसङ्कुल दुरितमहोर्मिसङ्घातसङ्घटनभीषणे दुःखसागरे निक्षिप्तः?
राजा – प्रिये सूक्ष्मदर्शिनि! किम् दृष्टमपह्नोतव्यम्? आगमिकम् वा न प्रत्येतव्यम्? पश्यतु भवती ।
स्वतः प्राप्तम् रूपम् यदिह किल भावेषु तदपि
त्यजन्तस्ते दृष्टा नियतिघटितोपाधिवशतः ।
प्रकृत्या तिष्ठन्ति ह्युपधिविगमे ते च
तदसावनादिः सम्सारः पुरुषमुपरुन्धे गलति च ॥ ६६ ॥
सुमतिः – एवमेतत् । तथापि कथमेतावन्तम् कालम् परमकारुणिकेन देवेन लक्ष्मीवल्लभेन
दुःसहदुःखशतधूमितः पुरुष उपेक्षितः?
राजा – किम् न श्रूयते भवत्या – यत् अनादिनिजकर्मरूपाविद्यपराधेन क्षेत्रज्ञोऽयमीश्वरेण क्षिप्तः सम्सरन् अवसरे तेनैव समुद्ध्रियत इति ? यथा –
मिथः कलहकल्पनाविषमवृत्तिलीलादया परिग्रहणकौतुकप्रथितपारवश्यः प्रभुः ।
स्वलक्षितसमुद्गमे सुकृतलक्षणे कुत्रचित् घुणक्षतलिपिक्रमादुपनिपातिनः पाति नः ॥ ६७ ॥
अत्र च,
सुखदुःखवाहिनीनाम् व्यत्ययविनिमयनिवर्तनानर्हे ।
नियतक्रमे प्रवाहे निपतितमुत्क्षिप्य मोदते देवः ॥ ६८ ॥
सुमतिः – आर्यपुत्र, अनादौ गते काले अलब्धपूर्वो मोक्षः अनन्तेऽप्युपरितनकाले केन कथम् लभ्यत इति शङ्काकलङ्ककर्बुरितम् मे हृदयम् ।
राजा – देवि! विवेकवल्लभे! अनधिगतप्रमाणतर्कसरणिरिव कथमेवमाशङ्कसे?
अथवा,
कालस्वभावनियतियदृच्छादिषु वस्तुषु ।
कारणम् किमिवात्रेति तापसैरपि तर्कितम् ॥ ६९ ॥
इदमत्र तावदवधातव्यम् ।
कर्माविद्यादिचक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे
तत्तत्काले विपक्तिर्भवतिबहु हि विविधा सर्वसिद्धान्तसिद्धा ।
तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाणः कदाचित्
मुक्तैश्वर्यान्तसम्पन्निधिरपि भविता कश्चिदित्थम् विपश्चित् ॥ ७० ॥
स च मोक्ष्यमाणो मत्समक्षम् आदौ तावत् –
दर्पोदग्रदशेन्द्रियाननमनोनक्तञ्चराधिष्ठिते
देहेऽस्मिन् भवसिन्धुना परिगते दीनाम् दशामास्थितः ।
अद्यत्वे हनुमत्समेन गुरुणा प्रख्यापितार्थः पुमान्
लङ्कारुद्धविदेहराजतनयान्यायेन लालप्यते ॥ ७१ ॥
अपि च,
बहुलदुरितद्वारे ब्राह्मे पुरे परसम्मत
स्वमतिघटितस्वातन्त्र्यत्वादयन्त्रितचेष्टितः ।
विषमसचिवैः स्वे स्वे कार्ये विगृह्य विकृष्यते
नरपतिरिव क्षीबो नानाविधैरयमिन्द्रियैः ॥ ७२ ॥
सुमतिः – आर्यपुत्र, एवम् हुतवहवेष्टितगृहगतमिवात्मानमप्रमत्तबुद्धिः किम् न निर्जिगमिषया रक्षति पुरुषः?
राजा – प्रिये सर्ववेदिनि, अनादिः खल्वयमलङ्घनीयो रागजलधिः ।
स्थिरत्रसविभक्तिमत् त्रिविधरागदृश्योदयम्
सुमृष्टमणिभित्तिवत् स्वयमभिद्यमानः पुमान् ।
त्रियुग्मगुणशिल्पिना त्रिगुणतूलिकाधारिणा
विविच्य विनिवेशितम् वहति चित्रमत्यद्भुतम् ॥ ७३ ॥
सुमतिः – (सविषादम्) इति नाम उन्मत्तदशम् पुरुषम् बुद्धिः प्रियतमा किम् न बोधयति?
राजा – प्रिये सूक्ष्मवादिनि (दर्शिनि)! साऽपि खलु इदानीम् स्वयम् प्रकाशाऽपि सुप्तप्रायावर्तते । यथा,
पत्यौ दूरम् गतवति रवौ पद्मिनीव प्रसुप्ता
म्लानाकारा सुमुखि निभृता वर्तते बुद्धिरम्बा ।
मायायोगान्मलिनितरुचौ वल्लभे तुल्यशीला
राहुग्रस्ते तुहिनकिरणे निष्प्रभा यामिनीव ॥ ७४ ॥
सुमतिः – आर्यपुत्र, अतिकरुणेयम् बुद्धिसहितस्य पुरुषस्य बद्धदशा, एतस्य विपुलदुःखजालम् विह्वलस्य विस्तरेण मोक्षगमम् प्रकाशयन् विशङ्काम् माम् कुरुष्व ।
राजा – देवि अनवरतशोभनाशम्सिनि, निदानमिह निपुणमुपपादयन् प्रतिपन्नामेव भवतीम् प्रत्यभिज्ञापयामि ।
दुरासेधस्थेम्ना दुरितपरिपाकेण भविनः
प्रमाथी सम्सारः प्रशमरहितोऽयम् प्रभवति ।
निरोधे तस्यैका निरुपधिककारुण्यघटित-
स्वतन्त्रेच्छाशक्तिः स्वयमुपधिमाधाय रमते ॥ ७५ ॥
सुमतिः – यदि मयाऽपि स उपाधिः श्रोतव्यः, तदा मामार्यपुत्र आज्ञापयतु ।
राजा – प्रिये विशुद्धभाषिणि, श्रूयतामयमिह सूक्ष्मार्थसङ्ग्रहः ।
मदनमत्सरमानमयः पुमान् बहुपिशाचगृहीत इवार्भकः ।
निगमसिद्धनरेन्द्रनिरीक्षया निपुणपद्धतिमभ्यवपद्यते ॥ ७६ ॥
ततश्च,
अनघदेशिकदृष्टिसुधाप्लवे विधिवशादुपसेदुषि देहिनः ।
विमलबोधमुखा विविधा गुणाः परिणमन्त्यपवर्गदशाङ्कुराः ॥ ७७ ॥
अपि च,
स्वाधीनेतरपातभीतिपरुषस्वर्वासदुर्वासना-
पाशाकर्षणयन्त्रणाभिरभितः क्षिप्तात्मनः क्षेत्रिणः ।
निष्प्रत्यूहविजृम्भमाणकरुणादुग्धार्णवे निर्भरा
भक्तिः सेत्स्यति भागधेयवशतः प्राप्ये परब्रह्मणि ॥ ७८ ॥
अत्र चान्तरा सर्वस्वदक्षिणोऽयमध्वरः प्रवर्तते । यत्र तु,
त्वया जुष्टः पत्न्या विधिवदिह यष्टा स्वयमहम्
विधत्ते चार्त्विज्यम् शमदममुखोऽयम् गुणगणः ।
अकस्मादुद्देश्यो भवति भगवान् आत्महविषः
पशुर्बद्धो मुक्तिम् भजति विगलत्कर्मनिगलः ॥ ७९ ॥
इदमप्यत्रभवत्या भावनीयम् –
स्वरक्षणभरार्पणक्षणिकसत्रिणः क्षेत्रिणः प्रवर्त्य कृपया स्थितिम् प्रभुरभूतपूर्वोदयाम् ।
जगद्विपरिवर्तनप्रथितनित्यशक्तिः स्वयम् क्षिपत्यपुनरङ्कुरम् दुरितमस्य लक्ष्मीपतिः ॥ ८० ॥
सुमतिः – आर्यपुत्र, एवम् नाम वर्ण्यमाना अपवर्गदशा पुरुषस्य कदा भविष्यति?
राजा – देवि त्रैलोक्यवेदिनि, दुःसहानादिदुःखसागरनिमग्नस्य यथागमम् यथान्यायम् च केनचित् कारणेन समुत्तारः सम्भविष्यतीति सन्तोष्टव्यम् तावत् । इह हि,
निरपायदेशिकनिदर्शितामिमाम् कमलासहायकरुणाधिरोहणीम् ।
क्रमशोऽधिरुह्य कृतिनः समिन्धते परिशुद्धसत्रपरिकर्मिते पदे ॥ ८१ ॥
अपि च,
स्वयमुपशमयन्ती स्वामिनः स्वैरलीलाम्
स्वमतमिह दुहाना स्वादु पथ्यम् प्रजानाम् ।
नियतमियमिदानीमन्यदा वा भवित्री
निरवधिसुखसिद्ध्यै निष्प्रकम्पानुकम्पा ॥ ८२ ॥
इयम् हि,
अविरलगुणच्छाया मायातमः (प)प्रतिरोधिनी
परिहृतरजःपङ्का तापैरसङ्घटिता त्रिभिः ।
मधुरिपुदयामूर्तिर्दिव्या निराकृतकण्टका
वहति निगमात् वर्तन्येका पुरीमपराजिताम् ॥ ८३ ॥
सुमतिः – आर्यपुत्र, अपरिमितदुरितभरितस्य जन्तोः दुःखसागरादुत्तारवचनम् बालजन सन्तोषवचनमिव उपच्छन्दनमिति पश्यामि ।
राजा – भद्रे अबाधितार्थग्राहिणि, मा स्म मिथ्यादृष्टिमुपतिष्ठ । सुमतिः खल्वसि, अपि दृष्टः क्वचिदाप्तागमस्य बाधः, ऐश्वरस्य वा भक्तजनसम्रक्षणप्रतिज्ञानस्य? इयम् ते प्रत्यायना ।
शपे दैष्टिक्येन स्वयमिह भवत्या च सुमते
त्वयैव द्रष्टव्यः स्वपनविगमोन्मीलितधिया ।
अहङ्कारग्राहग्रहकदनसाक्रन्दतनुभृन्मुमुक्षा
सम्रब्धो मुरमथनसङ्कल्पमहिमा ॥ ८४ ॥
अथवा, साधारणः खल्वयम् समाश्रितसम्रक्षणसम्रम्भः । तथा हि –
दीनो दृप्यतु वाऽपराध्यतु परम् व्यावर्तताम् वा तत-
स्त्रातव्यः शरणागतः शकनतः सद्भिस्तथा स्थाप्यते ।
विश्वामित्रकपोतराघवरघुव्योमाध्वगप्रेयसी-
नालीजङ्घबृहस्पतिप्रभृतिभिर्नन्वेष घण्टापथः ॥ ८५ ॥
सुमतिः – आर्यपुत्र, भवन्ति खलु महान्तः पितामहप्रमुखा अपि मोक्षकामैस्तैस्तैरुपास्यमानाः । तत् किम् श्रीपतिरेव निर्वाणस्य कारणम् भण्यते?
राजा – प्रिये सूक्ष्मदर्शिनि, किम् न मन्यसे? असाधारणम् हि मधुमथनस्य माहात्म्यम् ।
पुरा वेधस्स्तम्बावधिपुरुषसृष्टि स्थितिमति
स्थिरा भक्तिः सूते विपदुपरतिम् पुम्सि परमे ।
तदन्यान् अभ्यर्चन् अभिलषितमुक्तिः सुरगणान्
उदन्या प्रालेयैरुपशमयितुम् वाञ्छति जडः ॥ ८६ ॥
न खलु सहस्रमप्यालेख्यदिवसकरा अन्धकारम् प्रतिक्षिपन्ति । ततश्च,
आबध्नतौ विगतशान्तिमनादिनिद्राम् चेतस्विनस्त्रिगुणशक्तिमयी त्रियामा ।
नाथस्य केवलमसौ नरकान्तकर्तुः सङ्कल्पसूर्यविभवेन समापनीया ॥ ८७ ॥
सुमतिः – आर्यपुत्र, अद्य खलु देवानाम् मुनीनामपि परावरपुरुषविवेचने डोलायते चिन्ता । त्वया पुनः कथमेकस्मिन् पुरुषोत्तमे निष्ठा नियम्यते?
राजा – देवि, ननु सोपबृम्हणनिपुणनिरूपिताभिरुपनिषद्भिरेव । प्रसिद्धम् खलु वेदविप्रकेशवानामैकराश्यम् ।
मेयम् विष्णुर्वेदवादाश्च मानम् मातारश्च (श्चेत्) ब्राह्मणाः सत्त्वनिष्ठाः ।
इत्थम् तेषामैकराश्यम् प्रतीमः कीटप्रायैर्दुर्विदग्धैः किमन्यैः ॥ ८८ ॥
अपि च,
शास्त्राण्यालोड्य सर्वाण्यशिथिलगतिभिर्युक्तिवर्गैर्विचार्य
स्वान्तर्निर्धार्य तत्त्वम् स्वभुजमपि महत्युद्धरन् सूरिसङ्घे ।
सत्यम् सत्यम् च सत्यम् पुनरिति कथयन् सादरम् वेदवादी
पाराशर्यः प्रमाणम् यदि क इह परः केशवादाविरस्ति ॥ ८९ ॥
*महाजनो येन गतः स पन्थाः* इति च महर्षिभाषितम् । दृश्यते चैतत् ।
तर्को न प्रतितिष्ठति प्रभवति त्रय्याऽपि वैयाकुली
क्षोभम् यान्ति मिथः क्षता ऋषिगिरः क्षुद्रोक्तयः किम् पुनः ।
इत्थम् तत्त्वविनिश्चयो निधिरिव क्षिप्तो गुहाभ्यन्तरे
पन्थानम् तु महाजनस्य निपुणः प्रत्यञ्चमध्यञ्चति ॥ ९० ॥
महान्तश्च व्यासवाल्मीकिमनुबृहस्पतिशुकशौनकप्रभृतयः प्रवदन्त्यस्माकमध्वानम् । तिष्ठन्त्वेते बहवः; अयम् पुनरेकोऽपि,
अपजन्मजरादिकाम् समृद्धिम् कृपया सम्मुखयन् अशेषपुम्साम् ।
परदैवतपारमार्थ्यवेदी परिगृह्णातु पराशरः स्वयम् नः ॥ ९१ ॥
सुमतिः – (सानन्दम्) – आर्यपुत्र, अनुत्तरमेतदुत्तरम् । अद्य पुनरनन्तसाधननिगमान्त निरूपण विळम्बमसहमानस्य त्वरमाणहृदयस्य चेतनस्य सर्वागमसारम् सङ्कलय्य दर्शयितुम् त्वाम् प्रार्थये ।
राजा – साधु विचिन्तितम् भवत्या । तदिदम् प्रदर्शयामि,
स्वसङ्कल्पोपघ्नत्रिविधचिदचिद्वस्तुविततिः
पुमर्थानामेकः स्वयमिह चतुर्णाम् प्रसवभूः ।
शुभस्रोतोभाजाम् श्रुतिपरिषदाम् श्रीपतिरसावनन्तः
सिन्धूनामुदधिरिव विश्रान्तिविषयः ॥ ९२ ॥
अपि च,
परः पद्माकान्तः प्रणिपतनमस्मिन् हिततमम्
शुभस्तत्सङ्कल्पश्चुलकयति सम्सारजलधिम् ।
झटित्येवम् प्रज्ञामुपजनयता केनचिदसौ
अविद्यावेतालीमतिपतति मन्त्रेण पुरुषः ॥ ९३ ॥
प्रिये, सम्मितमतीनामपि चित्तसमाधानहेतुः सङ्ग्रहो दर्शितः । किम् तु,
धृतनिगमकवचगूढाः कष्टम् सम्प्रति कुदृष्टयः केचित् ।
छलयन्ति सौगतादीन् स्यालोपालम्भतुल्यया वाचा ॥ ९४ ॥
अथ विस्तरेण प्रतिविधिरस्य वेदान्तेषु विपुलमतिभिरनुसन्धीयते । इष्टमेव खलु विदुषाम् समासव्यासधारणम् ।
सुमतिः – सुष्ठु भणितमार्यपुत्रेण । एवमपि तैस्तैर्महर्षिमतैस्तर्कैरपि तादृशैः प्रतार्यमाणा निगमान्ताः चोराकृष्टगोधनसदृशा भवन्तीति सम्पन्नसाध्वसा मम चिन्ता ।
राजा – अलमतिशङ्कया ।
अविप्लुतपरिग्रहस्मृतिशतैककण्ठी श्रुतिः
स्वभक्तिविकलस्मृतीः स्वपनतोऽपि न प्रेक्षते ।
स्वतःप्रमितिसाधिनी सुदृढतर्कगुप्ता च सा
रुणद्धि पुनरप्रतिष्ठितकुतर्ककोलाहलम् ॥ ९५ ॥
(नेपथ्ये)
मूलच्छेदभयोज्झितेन महता मोहेन दुर्मेधसा
कम्सेन प्रभुरुग्रसेन इव नः कारागृहे स्थापितः ।
विख्यातेन विवेकभूमिपतिना विश्वोपकारार्थिना
कृष्णेनेव बलोत्तरेण घृणिना मुक्तः श्रियम् प्राप्स्यति ॥ ९६ ॥
राजा – (कर्णम् दत्त्वा सानन्दम्) प्रिये, श्रूयते सेयमकृत्रिमसरस्वतीव अवितथवादिनी अशरीरिणी भारती ।
सुमतिः – (सानन्दम्) आर्यपुत्र, त्रिदशभाषितम् खल्वेतत् । न खलु कथमप्यलीकम् भवेत् ।
राजा – प्रिये, सर्वथा तावत् त्वत्सहायस्य मे हस्तगतैव विजयसिद्धिः । अपि च,
रिपुगणविजिगीषा बिन्दुलेशोऽप्यसौ मे मधुजिदनुजिघृक्षा वाहिनीवर्धितात्मा ।
सफलयितुमधीष्टे साधु सम्प्लावयिष्यन् यतिगणबहुमान्यम् यत्नसन्तानवृक्षम् ॥ ९७ ॥
[पुनर्नेपथ्ये दुन्दुभिध्वनिः । उभौ कर्ण दत्तः ।]
सुमतिः – (सविस्मयम्) आर्यपुत्र,
कुलपतिमोक्षणोत्सवमृदङ्गकथा कदा;
नवसमरोत्सुकाऽपि न च भवति गजेन्द्रघटा ।
तथापि युगान्तभवत्स्तनयित्नुनिभक्कणितः
कथम् कथम् कोऽपि हन्त निखिलम् मुखरयति नभः ॥ ९८ ॥
राजा – प्रिये, अस्मद्विजयसन्धुक्षकैः अमरपतिभिः अयमभिहन्यते दुन्दुभिः । तदिह स्थापितस्वपक्षैरस्माभिः परपक्षप्रतिक्षेपे प्रयतितव्यम् ।
[इत्यभौ परिक्रम्य निष्क्रान्तौ]
इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (स्वपक्ष प्रकाशो नाम) प्रथमोऽङ्कः