[highlight_content]

सङ्कल्पसूर्योदयः-द्वितीयोऽङ्कः

द्वितीयोऽङ्कः

परपक्ष प्रतिक्षेपः

प्रवेशकः

[ततः प्रविशति श्रद्धा विचारणा च ।]

विचारणा – हला! श्रमजलबिन्दुनिकरनिर्भासित निटालतला वत्सदर्शनोत्सुका वत्सलेव त्वरमाणा वर्तसे ।

मुखचन्द्रस्यन्दितसुधासुभगाश्छविफुल्लमल्लीमकरन्दनिभाः ।

नवसौम्ययौवनलताकलिका श्रियमुद्वहन्ति तव स्वेद कणाः ॥ १ ॥

श्रद्धा – प्रियसखि, इदानीम् किल एकमुखप्रतिष्ठापितश्रुतिशिरस्सिद्धान्तस्य प्रतिपक्षप्रतिक्षेपभावितप्रतिज्ञस्य भर्तुर्विवेकस्य सहधर्मचारिणी देवी सुमतिः प्रक्रान्तनिर्वहणदोहलेन परिगृहीतमङ्गलाचारा प्रमदावनपार्श्वरत्नशैलमाश्रिता कमलापति चरणकमलसमर्चनयोग्यानि काञ्चनपद्मानि उपहर्तुमाज्ञाप्य शोभनैकतानहृदया सुखम् तिष्ठति । तज्झटित्युपसर्पामि पङ्कजासनवदनपङ्कजराजहम्म्सीम् भारतीमिव प्रसन्नप्रवाहाम् भागीरथीम् ।

कच्छोत्तम्सितकल्पवृक्षशिखरोद्भासमानवासन्तिका-

गन्धोद्गारस्फुरत्सौम्यलहरीशोभमानरोधोन्तरा ।

अस्माकम् दुस्सहजन्मसञ्चरश्रमा सिद्धानि शुद्धाकृतिः  

दुःखानि कदा नु करिष्यति स्वयम् मन्दानि मन्दाकिनी ॥ २ ॥

विचारणा – (अग्रतो निर्दिश्य) एषा खलु साऽस्माकमासन्नतरा । तदेतस्मिन् सज्जनहृदयशीतलमन्दमारुतान्दोलितमन्दारद्रुमकुसुममकरन्दसौरभभरित मधुमथनपदसरित्पुलिनमाधवीलतागृहे खलवचनतीक्ष्णोष्णकरकिरणसन्तापमुपशमय्य क्षणान्तरे गमिष्यसि । यत्र च,

एते निर्भरनिर्यत्सौरभसुधाप्राग्भारविभ्राजितम्

मानोल्लुञ्छनमीनलाञ्छनमहाधानुष्कबाणोत्करम् ।

छायालीनमहेन्द्रवारवनिताधम्मिल्लमाल्योचितम्

शाखाग्रैर्मुञ्चन्ति पुष्पनिकरम् वृक्षा मरुत्क्षोभिताः ॥ ३ ॥

श्रद्धा – यथा रोचते प्रियसख्यै । उभे सलीलम् आसाते । हला विचारणे, त्वम् पुनः किम् निमित्तमिमम् प्रदेशमागता?

विचारणा – श्रूयताम् प्रियसख्या । अद्य खलु विवेकमहाराजस्य व्यवसायसेनापतिसहायस्य सन्नाहम् श्रुत्वा कुपितेन राज्ञा महामोहेन बुद्धजिनप्रमुखसिद्धान्तस्थापनप्रवीणाः कुहकवादिनः कुमतिगणैः सह पुरुषोत्तमपदपद्मनियमितचित्तम् पुरुषम् हालिकजम्बुकदर्शनन्यायेन अर्थान्तरप्रसङ्गेन प्रतारयितुमादिष्टाः उपसर्पन्तीति किम् वदन्तीमाकर्णयन्त्या भर्त्र्या सुमत्या विपक्षवृत्तान्तमेकान्ते सेनापतये विज्ञापयितुमाज्ञप्ता महाराजेन विवेकेन सह मन्त्रणप्रवृत्तम् तमेव द्रष्टुमुपस्थिताऽस्मि ।

श्रद्धा – अद्य पुनः पिशाचविवाहे गर्दभगानम् सम्वृत्तम्, यत् महामोहसमीहिते कार्ये दुर्वादिनाम् सन्नाहः । भवतु नाम । ईषत्करमेव परसिद्धान्तनिर्मूलनम् महाराजस्य ।

विचारणा – हला, बृहस्पतिप्रमुखैः प्रतिष्ठापितानाम् प्रबलानाम् बहूनाम् प्रतिपक्षाणामेकेन निर्मूलनम् त्वया कथमाशम्सितम्?

श्रद्धा – यत्सत्यम् तदेव नित्यम् भवति । यत्पुनर्मिथ्या तत्कालेनालीकम् भवतीति जनवादसम्वादिना बलवता प्रमाणेन । प्रेक्षिष्यसे त्वमेव मम वचनसत्यत्वम् ।

दृश्यमानो दिवसेश्वर इव बहुलमन्धकारप्राग्भारकम्

दीप्यमानश्च दवानल इव विपुलम् विन्ध्याटवीमण्डलम् ।

त्वरमाणश्च प्रभञ्जन इव तुलितम् शैलेन तूलोत्करम्

प्रेक्षमाणो निखिलमपि दुर्मतिमतम् भेत्तुम् विवेकः प्रभुः ॥ ४ ॥

तस्माद्विवेकविजयकामस्य महामोहस्य कुमतिगणसङ्ग्रहणम् सागरलङ्घनोत्सुकस्य उपलसहायान्वेषणम् ।

विचारणा – प्रत्यायिताऽस्मि प्रियसखीवचनेन । शान्ता मे विचिकित्सा । अविलम्बितकृतप्रेषणाम् भर्त्रीम् प्रेक्षे ।

श्रद्धा – हला, समानचित्तवृत्तित्वम् सखित्वम् त्वया प्रकाशितम् । अहम् च कमलान्यपचेतुमारब्धा । त्वमपि राजगृहम् प्रविश ।

[इति निष्कान्ते ।]

[इति प्रवेशकः]

(ततः प्रविशति राजा व्यवसायश्च ।)

राजा – सेनापते! कठिनतरकर्मपाशकोटिनिबिडयन्त्रितमुधाव्यापारमोमुह्यमानपुरुषमोक्षणव्रतदीक्षितस्य मम स एष समयः सत्त्वमार्गविषयकृताकृतप्रत्यवेक्षणेन कृत्यशेषनिर्धारणस्य ।

(मुहूर्तमिव स्थित्वा, सविषादम्)

जडमतिबहुलेऽस्मिन् दैवकोपाञ्जनित्वा

जगति निरपराधे जातनिर्व्याजवैराः ।

कति कति कलहार्थम् कॢप्तसिद्धान्तभेदाः

प्रलपनमुखभेदान् पाठयन्ति प्रगल्भाः ॥ ५ ॥

आः कष्टम्! व्यामोहजनकविविधसमयोपप्लुते जगति कथमियमध्यात्मविद्या प्रतिष्ठास्यति? (आकाशे) भो भो महामोहापशद, त्रिभुवनसम्मोहनेन भवता किम् नाम लब्धम् लप्स्यते वा? अपि च,

सर्वतः करवीरादीन् सूते सागरमेखला ।

मृतसञ्जीविनी यत्र मृग्यमाणदशाम् गता ॥ ६ ॥

तदहमीदृशोपप्लवशमनाय भगवन्तमेवाभिगच्छामि । (स्मरणमभिनीय)

स्वतःसिद्धम् शुद्धस्फटिकमणिभूभृत्प्रतिभटम्

सुधासध्रीचीभिर्द्युतिभिरवदात त्रिभुवनम् ।

अनन्तैस्त्रय्यन्तैरनुविहितहेषाहलहलम्

हताशेषावद्यम् हयवदनमीडीमहि महः ॥ ७ ॥

अपि च,

समाहारः साम्नाम् प्रतिपदमृचाम् धाम यजुषाम्

लयः प्रत्यूहानाम् लहरिविततिर्बोधजलधेः ।

कथादर्पक्षुभ्यत्प्रतिकथककुल कोलाहलभवम्

हरत्वन्तर्ध्वान्तम् हयवदनहेषाहलहलः ॥ ८ ॥

सेनापतिः – महाराज, सर्वत्र सिद्धारम्भः खल्वसि । अमोघ एव खल्वनरण्यशाप इव आरण्यकवादो भवत्प्रभावेण महामोहविध्वम्सनवादी । अद्य च,

त्वया त्रय्यन्तविज्ञानम् पुरुषस्य विभावितम् ।

श्रद्धावैकल्यमात्रम् तु शमनीयमतः परम् ॥ ९ ॥

राजा – (सपरितोषम्) भद्र, साधु सम्बोधितोऽस्मि भव्यवृत्तेन भवता । त्वत्सहायस्य मे कृत्यशेषमपि कृतप्रायमेव निश्चिनोमि ।

शमदममुखास्तिष्ठन्त्वेते शतम् शतमुत्थिताः

निरुपधिमहामोहश्रद्धानिवारणलम्पटाः ।

दनुजमथने विष्वक्सेनो हरेस्तदनन्यधीः

प्रतिमततमश्छेदे हेतुस्त्वमप्यनघो मम ॥ १० ॥

सेनापतिः – देव, प्रहरणनयेन परेषु प्रयोक्तव्यतया परतन्त्र एवाहम् भवतः ।

निष्प्रत्यूहसमुत्थितैरधिगतस्थैर्यः प्रमाणादिभिः

स्वच्छन्दप्रथमानशौर्यविभवः स्वायत्तसिद्धिर्भवान् ।

इत्थम् सत्यनुपप्लवम् परिपतच्चिन्ताफलस्रोतसः

सत्तावस्थितिवृत्तिषु स्वयमहम् छायासमस्तस्य ते ॥ ११ ॥

तस्मादहम् वा सुमतिर्वा जलोद्धृतमत्स्यन्यायेन भवन्तम् विना मुहूर्तमपि न जीवावः ।

राजा – (विचिन्त्य) सेनापते, पश्य पश्य,

असुरादिमोहनविधौ विहिताः प्रमितावतीतसमयाः समयाः ।

तपनापनेयतिमिरक्रमतः प्रचरन्ति हन्त जगदन्तरतः ॥ १२ ॥

एते च मधुमथनभुजबलपरिभ्रमितमन्दरमहीधरमथ्यमानमहार्णवनिर्घोषनिर्विशेषनिरर्थकविविधवाचो वाचस्पतिमपि वनस्पतीकर्तुमुद्युञ्जते वशिका वावदूकाः । तदमी सावधान सम्प्रयुक्तारम्भेण प्रकटप्रकाशितसाधनोपालम्भदम्ष्ट्राङ्कुरेण प्रतिपन्नखरतरतर्कपञ्चक नखरेण आरण्यकवर्तिना प्रमाणपराक्रमकण्ठीरवेण नियतमकुण्ठशक्तिना निरसनीयाः सत्पथविस्रम्भरम्भावनमथनविहितसम्रम्भाः प्रचण्डाः वैतण्डिकवेतण्डाः

सेनापतिः – देव, नियुक्तो हि त्वया वादेन सह वेदान्तसिद्धान्तः प्रतिमतनिर्मूलनाय । तदासीदत्येषा कथासङ्ग्रामसीमा ।

(ततः प्रविशतो गुरुशिष्यवेषधारिणौ सिद्धान्तवादौ ।)

गुरुःयुष्मन्, अवधारितपरमार्थेन प्रतिभटकथकलङ्काभटहनूमता भवता स्थूणानिखनन न्यायेन सञ्चालितनिष्कम्पम् अध्यात्मतत्त्वमवगच्छामि ।

शिष्यः – (सप्रश्रयम् ।) भगवन्, दिव्येन यतीन्द्रवेषेण दत्तात्रेय इव सन्दृश्यसे, योऽसौ महर्षिभिरनुस्मर्यते –

*काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः ।

त्रिदण्डधारिणा पूर्वम् विष्णुना रक्षिता त्रयी* इति ॥

गुरुः – आयुष्मन्, असुराः खल्वेते बाह्याः कुदृष्टयश्च । तानहम् विष्णुरूपमाश्रित्य विजिगीषे ।

शिष्यः – भगवन्, विष्णुरूपी सन् विष्णुभावेन नमस्यः खल्वसि । ततश्च,

उपवीतिनमूर्ध्वपुण्ड्रवन्तम् त्रिजगत्पुण्यफलम् त्रिदण्डहस्तम् ।

शरणागतसार्थवाहकम् त्वाम् शिखया शेखरशालिनम् भजामि ॥ १३ ॥

गुरुः – आयुष्मन्,

प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबहिर्मतः ।

भूयास्त्रैविद्यमान्यस्त्वम् भूरिकल्याणभाजनम् ॥ १४ ॥

(इति दिव्यशक्तिमयं दर्भपवित्रं ददाति; शिष्यः तदादाय शिरसि निधाय दक्षिणे हस्ते धारयति ।)

गुरुः

अविश्रान्तश्रद्धाशतकलहकल्लोलविषमाः

तवाविर्भूयासुर्मनसि मुनिसिद्धादिसुलभाः ।

मधुक्षीरन्यायस्वगुणविभवासञ्जनकन-

न्महानन्दब्रह्मानुभवपरिवाहा बहुविधाः ॥ १५ ॥

शिष्यः – (सप्रश्रयम्) अमोघाशिषो भगवतः प्रसादेन सिद्धमेव मे सर्वम् समीहितम् । अथ च भगवन्! यदहमिह किञ्चित्पृच्छामि, तद्यदि श्रावयितुमर्हामि, श्रावयितव्योऽस्मि ।

गुरुः – (भद्र) सम्यगुपसन्नस्य सच्छिष्यस्य समये सति किम् न श्रावयितव्यम्?

शिष्यः – भगवन्, विगृह्य कथाकरणम् महर्षिभिः प्रतिषिध्यते । वादेन ब्राह्मणम् जित्वा हृष्टस्य पापिष्ठ पादपत्वप्राप्तिश्च प्रतिपाद्यते । कथमिदानीम् विजिगीष्यन्ते विपक्षवादिनः?

गुरुः – (सप्रसादम्) भद्र, साधुबुद्धिना त्वया सम्यगनुयुज्यते । किम् तु  वर्णाश्रमजातिगोत्रप्रवरकुलचरणदेशकालादिविषयभेदेन व्यवस्थितैव हि विधिनिषेधमर्यादा । तदहमिदानीम् परिगृहीतनियमानुगुणम् स्वयम् विपक्षनिरसनमकुर्वाणः, कौशिक इव राघवम्, त्वाम् पुरस्कृत्य कुदृष्टीन्बाह्याम्श्च निराचिकीर्षामि । तत्र च,

दूरे भवतु ते वीर! जल्पः सह वितण्डया ।

त्वमेव स्थिरवादात्मा निरुन्धि परिपन्थिनः ॥ १६ ॥

अथवा, त्वया मन्निदेशानुवर्तिना कौशिकनियमितेन राघवेणेव लब्धाधिकारेण यथाविधि वीतरागकथानवसरे वेदेश्वरविदूषकाः सर्वे तत्त्वाध्यवसायसम्रक्षणार्थमनुज्ञाताभ्याम्  बलातिबलाभ्याभिव जल्पवितण्डाभ्यामपि जेतव्याः ।

शिष्यः – (साञ्जलिबन्धम्) शिरसा प्रतिगृहीतोऽयम् भगवतः समादेशः । अथापि भगवता विश्वाचार्येण भवता कथमिह मितम्पचे मयि कथकभार आरोप्यते?

गुरुः – अवधार्यतामेतत् ।

नित्यक्षिप्तपरस्परेषु समयग्रामेषु निष्णातिनः

शिष्याः केचन सन्ति नः क्षितितले शिक्षाधिकग्राहिणः ।

तत्र त्वद्भुतनिर्भरप्रसरया बुद्ध्या परिष्कारिणः

त्वत्तः प्रत्ययितो न कश्चिदपरः प्रत्यर्थिभिः प्रार्थितः ॥ १७ ॥

शिष्यः – यदादिशति भगवान् । अत्र तु कञ्चित्सिद्धान्तमनवलम्ब्य न कापि कथा प्रवर्तते । ततः स्वाभिमते कुत्रचिन्मामवस्थापयतु भगवान् ।

गुरुः – इह किल सयूथ्यकलहे समानतन्त्रे त्वया स्थातव्यम् । विपक्षविप्रतिपत्तौ तु वेदान्तसिद्धान्ते । तत्रापि पराशरपाराशर्यशुकशौनकबोधायनप्रभृतिभिः परिचितम्  पन्थानमाश्रित्य परमार्थदर्शिदेशिकदत्तदृष्टिभिरस्माभिः परिमितविशदगम्भीराः पञ्चषाः प्रबन्धाः प्राभन्त्सत । तेष्ववहितचेतसा त्वया प्रतिसम्हितपरमार्थेन पारिषदहृदयङ्गमाः प्रमाणतर्काः प्रयोक्तव्याः ।

शिष्यः – भगवति प्रसेदुषि न क्वचित्प्रमाद्यामि । यतः,

गुरुप्रसदनस्फुरद्गुणगरिम्णि यन्मानसे

सकृत्स्फुरति वस्तु तन्न हि किमप्यपभ्रश्यति ।

ऋषिस्तदितरोऽपि वा यदि गृणाति गत्यन्तरम्

विकल्प्य तदपि क्षणाद्विलयमभ्युपैति स्वयम् ॥ १८ ॥

गुरुः – भद्र, विश्वव्यामोहनविषमयुक्तिभयात्त्वाम् नित्यमवधानेन योजयामि । इह हि,

कुटिलमतिभिः कॢप्ता बाह्यैः कुदृष्टिभिरप्यसौ

कथकपरिषद्धौरेयाणामपि क्षणकर्कशा ।

प्रलपनगुणीभूतालीकप्रकाशनपत्रला

युवतिहृदयक्रूरा युक्तिर्युनक्त्यमितम् भयम् ॥ १९ ॥

शिष्यः – भगवन्, मय्यतिस्नेहेन नूनमियमतिशङ्का ।

त्वदादर्शितसर्वार्थे त्वन्निदेशे व्यवस्थिते ।

कथम् कथकमानी स्यात्कश्चिदन्यो मयि स्थिते ॥ २० ॥

गुरुः – भद्र, इदमपि पुनर्मन्वीथाः ।

शिष्यः – अनुगृह्णन्तु भगवन्तः ।

गुरुः

सङ्क्षिप्तम् विस्तृतम् वा सरलसमुचितम् सावधानप्रियम् वा

प्राधान्येन प्रणीतम् परफणितिपरिष्कारवृत्त्या स्थितम् वा ।

शिक्षासौकर्यतुष्टिप्रचितगुरुजनानुग्रहेद्धम् सुधीभिः

श्रद्धेयम् नाथजुष्टश्रुतियुवतिशिरोभूषणम् भाषणम् नः ॥ २१ ॥

शिष्यः – किमुच्यते? उपनिषदुपघ्नभूतानि खलु भगवतो भाषितानि । तथा हि,

अनुदिनमनपायस्नेहदत्तावसेकैः सुमतिभिरनुभाव्यः शोभनायाम् दशायाम् ।

शरणमुपगतानाम् प्रीणनार्थम् भवद्भिर्भवकलुषनिशीथे भावितो भाष्यदीपः ॥ २२ ॥

अपि च,

असत्तामुच्छेत्तुम् प्रकटयितुमीशप्रसदनम्

तमः क्षेप्तुम् तत्त्वप्रमितिसुखमुच्छृङ्खलयितुम् ।

अमार्गादाहर्तुम् पथि च पदमाधातुमिह नः

त्वदादिष्टम् शास्त्रम् प्रभवति सकृद्भावितमपि ॥ २३ ॥

तथापि पारिप्लवमतिरहमिह किमप्यधिगतप्रमुषितम् पृच्छामि ।

गुरुः – किम् तत्?

शिष्यः – आदिश्य स्वयमन्यथा नियमयन्नाप्तः कथम् कल्पितः?

गुरुः – अहो नु खलु सूक्ष्मार्थानुयोगकुशलता!

शिष्यः – सामग्रीवश दुर्निवारवृजिने शिष्टा निवृत्तिः कथम् ।

गुरुः – (एतदपि) सूक्ष्मात्सूक्ष्मतरमनुयुज्यते ।

शिष्यः – स्वेच्छाभावितदुष्कृतस्य च कथम् दण्डः स्वयम् पातितः?

गुरुः – त्रिष्वप्यत्र न काचिदस्ति विहतिः कर्मोपधौ सावधौ ॥ २४ ॥

शिष्यः – (सहर्षम्) परिमितगहनगम्भीरमिदम् पटुमतिनिर्धारणीयम् भाषितम् भगवतः । इदमेव सभासदः श्रावयामि ।

इदम् प्रथमसम्भवत्कुमतिजालकूलङ्कषाः मृषामतविषानलज्वलितजीवजीवातवः ।

क्षरन्त्यमृतमक्षरम् यतिपुरन्दरस्योक्तयश्चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ॥ २५ ॥

अपि च,

चिन्ताशेषदुरर्थदन्तुरवचःकन्थाशतग्रन्थिलाः

सिद्धान्ता न समिन्धते यतिवरग्रन्थानुसन्धायिनि ।

मुक्ताशुक्तिविशुद्धसिद्धतटिनीचूडालचूडापदः

किम् कुल्याम् कलयेत खण्डपरशुर्मण्डूकमञ्जूषिकाम् ॥ २६ ॥

भगवन्, अपरिमतबहुमतावष्टब्धे जगति परिमितमेतद्भवन्मतमिति पारिषदपार्श्ववर्तिनः केचित्प्रलपन्ति । प्रतिवदामि तावदेतान् । (परिवृत्यावलोक्य च) भो भो देवानाम् प्रियाः!

कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तर

ग्रहिलमनसः पश्यन्त्यल्पाम् यतीश्वरभारतीम् ।

विकटमुरभिद्वक्षःपीठीपरिष्करणोचितः

कुलगिरितुलारोहे भावी कियानिव कौस्तुभः ॥ २७ ॥

अपि च,

स्थविरनिगमस्तोमस्थेयाम् यतीश्वरभारतीम्

कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा ।

रसपरिमलश्लाघाघोषस्फुटत्पुटभेदनम्

लवणवणिजः कर्पू(रोद्घं)रार्घम् किमित्यभिमन्वते ॥ २८ ॥

(आकाशे कर्णम् दत्वा) किम् ब्रूथ? नवीनमेतद्भवतो मतमिति । (सहस्तास्फालनम् विहस्य)

किञ्चित्केनापि दृष्टम् प्रतिहतविषयम् त्वेन तत्त्वेन तैस्तै-

र्द्वे चोपादायिषाताम् द्वितयमपि सदित्यप्रमत्तो न वक्ता ।

इत्थम् सत्येकभक्तैरितरपरिहृतौ न व्यवस्थानसिद्धिः

प्रत्येतव्यम् तदर्थ्यम् पटुतरमतिभिः प्राक्तनम् नूतनम् वा ॥ २९ ॥

किम् च,

तदात्वे नूतनम् सर्वमायत्याम् च पुरातनम् ।

न दोषायैतदुभयम् न गुणाय च कल्पते ॥ ३० ॥

गुरुः – किमेतैः किम् पचानैः? अपरे पुनरर्थसम्स्पर्शिदोषवादिनः प्रतिक्षिप्यन्ताम् ।

शिष्यः – भगवन्, निरस्तनिखिलदोषगन्धे भवन्मते कथमर्थसम्स्पर्शिनो दोषाः स्वप्नेऽपि केनचिदुद्भाव्येरन्? इह हि,

श्रुतिश्रेणीचूडापदबहुमते ताकमते

स्वपक्षस्थान् दोषान्वितथमतिरारोपयति यः ।

स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलम्

गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः ॥ ३१ ॥

किम् च, अभञ्जनीयः खल्वयमशेषैरपि भगवत्सिद्धान्तः । इह किल मोघप्रलापा एव मूढाः प्रतिवाक्दूकाः ।

निमीलयतु लोचने न हि तिरस्कृतो भास्करः

श्रवः स्थगयतु स्थिरम् परभृतः किमु ध्वाङ्क्षति ।

स्वयम् भ्रमतु बालिशो न खलु बम्भ्रमीति क्षितिः

कदर्थयतु मुष्टिभिः कथय किम् नमः क्षुभ्यति ॥ ३२ ॥

गुरुः – सूनृतमेव सौम्य भाषसे । अद्य खलु सर्वप्रतिकथकसमापनप्रवृत्तस्य ते सभापतिम् सभ्यम् च विमृशामि ।

[इति ध्यानमभिनयति ।]

राजा – सेनापते, अयमिहास्मदुपसर्पणावसरः ।

सेनापतिः – मह्यमपि रोचते महाराजस्य मनीषितम् । (उभावुपसर्पतः)

शिष्यः – सन्निहितः खलु भगवन्, सभापतिः सेनापतिसहायः ।

गुरुः – (परिवृत्यावलोक्य, सहर्षबहुमानम्)

उदितः सहसा स एष काले व्यवसायातपसेवितो विवेकः ।

विनिवर्तयति स्वयम् प्रजानाम् विचिकित्सारजनीम् विलुप्तबोधाम् ॥ ३३ ॥

अयम् च,

विवेकस्य गुणश्रेयान्व्यवसायश्चमूपतिः ।

स्वपक्षे तिष्ठमानेभ्यः सूरिभिः सह तिष्ठते ॥ ३४ ॥

राजा – (सविनयम्) उचितमुपचरति विवेक इह ससेनापतिर्भगवन्तम् ।

गुरुः – महाराज, सर्वत्र कुशली भूयाः । अपि च, शाक्यौलूक्याक्षपादक्षपणककपिलामर्त्यवन्द्यप्रधानैः

अन्यैराम्नायचर्चाकवचधृतिकनद्गोमुखद्वीपिभिश्च ।

बम्हीयः क्षोभिताऽपि श्रुतिरिह बहुधा जायमानेन गोप्त्रा  

कालेकालेऽभिगुप्ता कलहमतितरन्त्यक्षता रक्षतात् त्वाम् ॥ ३५ ॥

राजा – भगवन्, अद्य खलु भवदवलोकनादेव सम्मुखीभूतसकलमङ्गलानामस्माकमधिकोऽयमाशीर्वादः ।

गुरुः – राजन्, विमर्शसमये सुचरितवशात्सेनापतिसेवितः सन्निहितोऽसि ।  तदादिश्यतामयमन्तेवासी समीहितसमर्थनाय सदसस्पतिना महाराजेन ।

राजा – अत्र भवदभिमतमादिशामि । (शिष्यमवलोक्य) सौम्य! ब्रह्मन्! सम्यगुपसन्नोऽसि सर्वविदम् भगवन्तम् । इह च,

स्वयम् त्रय्यन्तसिद्धान्तो विभाति गुरुरेष ते ।

प्रभुः प्रवदताम् योऽभूत्स वादस्त्वम् मतो मम ॥ ३६ ॥

इदम् त्विह भवता प्रथममवधातव्यम् ।

शिष्यः – आज्ञापयतु महाराजः ।

राजा

सत्त्वस्थान्निभृतः प्रसाधय सताम् वृत्तिम् व्यवस्थापय

त्रस्य ब्रह्मविदागसस्तृणमिव त्रैवर्गिकान्भावय ।

नित्ये शेषिणि निक्षिपन्निजभरम् सर्वम्सहे श्रीसखे

धर्मम् धारय चातकस्य कुशलिन्! धाराधरैकान्तिनः ॥ ३७ ॥

सेनापतिः – ब्रह्मन्, अवधारितम् हि भवता महाराजस्य वचनम् । अवधारय भूयः (स्तराम्) ।

शिष्यः – किमन्यदवधातव्यम्?

राजा

परिचिनु निगमान्तभारतीम् परिहर बाह्यजनेन सङ्गमम् ।

परिचर नियमेन सज्जनान् परिभव बाह्यमुखान्विरोधिनः ॥ ३८ ॥

गुरुः – आयुष्मन्, अवहितमनाः शृणु ।

शिष्यः – महानयम् प्रसादः ।

राजा – ब्रह्मन्,

प्रमाणपथविभ्रष्टप्रधानार्थविमर्दनैः ।

स्थालीपुलाकनीत्यैव निवर्त्याः प्रतिवादिनः ॥ ३९ ॥

न खल्वखिलमपि निघृष्यते सुवर्णखण्डो वर्णनिष्कर्षाय ।

शिष्यः – यदादिशति महाराजः । तदहम् सन्धुक्षयामि कथासमरसन्नाहाय कौतस्कुतान्

(किञ्चिदुच्चैः)

जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी ।

निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ ४० ॥

(नेपथ्ये)

तर्कव्याकृतितन्त्रशिक्षितधियः पक्षेषु बाह्येष्वपि

प्रत्यक्षीकृतपौरुषा वयममी मध्येसभम् ब्रूमहे ।

वादाटोपमुपेयुषः प्रतिभटान् आसेतुहैमाचलम्

तूलायापि तृणाय वा न च तुषच्छेदाय मन्यामहे ॥ ४१ ॥

सेनापतिः – आर्य, श्रूयते किल प्रतिभटवादिनाम् प्रगल्भवादः ।

शिष्यः – (सक्रोधम्) अलमलमतिगर्वेण ।

यतीश्वरसरस्वतीसुरभिताशयानाम् सताम्

वहामि चरणाम्बुजम् प्रणतिशालिना मौलिना ।

तदन्यमतदुर्मदज्वलितचेतसाम् वादिनाम्

शिरस्सु निहितम् मया पदमदक्षिणम् लक्ष्यताम् ॥ ४२ ॥

राजा – भगवन्, अभङ्गुरस्वामिभक्तेरवसरोपपन्नम् हनूमत इवेदमार्यस्य विकत्थनम् ।

गुरुः – (स्वगतम्) क इवाभिप्राय इह विकत्थनमुद्घाटयतो विवेकस्य? (प्रकाशम्) महाराज!

श्रुतिसिद्धान्तशूरस्य तद्विरुद्धान्निरुन्धतः ।

वल्गितम् वावदूकस्य कृतिनः किम् न शोभते ॥ ४३ ॥

शिष्यः – (सविनयभयम् स्वगतम्) अतर्कितोपनतमात्मश्लाघन दोषमपमार्ष्टुमभिष्टवानि देशिकान् तद्दर्शनम् च । (प्रकाशम्)

हृद्या हृत्पद्मसिम्हासनरसिकहयग्रीवहेषोर्मिघोष-

क्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरूणाम् ।

दिक्सौधाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्त-

त्सिद्धान्तस्तोमतूलस्तबकविगमनव्यक्तसद्वर्तनीका ॥ ४४ ॥

किम् च,

नाथाश्लेषसनाथनश्रुतिवधूवैधव्यखेदच्छिदम्

प्राचीनाम् नयपद्धतिम् यतिपतिः प्राचीकशन्नैष चेत् ।

व्यासो हासपदीकृतः परिहृतः प्राचेतसश्चेतसः

कॢप्तः केलिशुकः शुकस्स च मुधा बाधाय बोधायनः ॥ ४५ ॥

राजा – (सप्रसादम्) अभङ्गुरगुरुभक्तेरार्यस्य क इव न जेतव्यः? तथा हि,

अशिथिलगुरुभक्तिस्तत्प्रशम्सादिशीलः प्रचुरबहुमतिस्तद्वस्तुवास्त्वादिकेऽपि ।

गुणवति विनियोक्तुम् गोपयन् सम्प्रदायम् कृतविदनघवृत्तिः किम् न विन्देन्निधानम् ॥ ४६ ॥

शिष्यः – देव! सिद्धान्तबलादेव विजिगीषे । तदत्र सम्पश्यताम् महाराजः ।

निराबाधा बोधायनफणितिनिष्यन्दसुभगाः

विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः ।

अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखैः

अनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम् ॥ ४७ ॥

किम् च,

दृष्टेऽपह्नुत्यभावादनुमितिविषये लाघवस्यानुसारात्

शास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात् ।

नाथोपज्ञम् प्रवृत्तम् बहुभिरुपचितम् यामुनेयप्रबन्धैः

त्रातम् सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनम् दर्शनम् नः ॥ ४८ ॥

राजा – किमुच्यते?

[नेपथ्ये ‘तर्कव्याकृति’ इत्यादि पुनः पठित्वा सप्रतिज्ञम् महान् कलकलः । सर्वे समाकर्णयन्ति ।]

(शिष्यः ‘यतीश्वर’ इत्यादि पुनः पठन्नर्धोक्ते विरम्य राजानमवलोकयति ।)

राजा – पठ्यताम् पठ्यताम् ।

शिष्यः – शेषम् पठति ।

राजा – आर्य, सर्वज्ञाद्भगवतः समासादितसर्वविद्यानिधेरप्यत्रभवतः सम्प्रति विपश्चिताम पश्चिमैरेतैरापतद्भिः सम्व्यवहारेण सम्शयप्रशमनमिच्छामि ।

शिष्यः – (सगर्वहासम्) निशमयतु निपुणमेतन्महाराजः ।

पर्याप्तम् पर्यचैषम् कणचरणकथामाक्षपादम् शिशिक्षे

मीमाम्सामाम्सलात्मा समजनिषि मुहुस्साङ्ख्ययोगौ समाख्यम् ।

इत्थम् तैस्तैर्यतीन्द्रत्रुटितबहुमृषातन्त्रकान्तारपान्थैः

अन्तर्मोहक्षपान्धैरहह किमिह नश्चिन्तनीयम् तनीयः ॥ ४९ ॥

किम् च,

यद्येतम् यतिसार्वभौमकथितम् विद्यादविद्यातमः

प्रत्यूषम् प्रतितन्त्रमन्तिमयुगे कश्चिद्विपश्चित्तमः ।

तत्रैकत्र झटित्युपैति विलयम् तत्तन्मतस्थापना-

हेवाकप्रथमानहैतुककथाकल्लोलकोलाहलः ॥ ५० ॥

गुरुः – महाराज, एते मोघप्रलापमुखरमुखदुन्दुभयः कलहकोलाहलकुतूहलिनः कथकाः ।

श्वावराहकलहक्रमादमी सम्पतन्ति निगमान्तरोधकाः ।

तानिमान्युगलवादसिद्धये वारयत्वयमसौ चमूपतिः ॥ ५१ ॥

शिष्यः – (सान्तर्हासम्)

अध्यक्षम् यच्छ्रुतम् वा लघु तदिति भवत्यादिमो वादिमोहः

तत्त्वोदर्का न तर्कास्तदिह जगति किम् मेधया साधयामः ।

तिष्ठन्त्वेते लघिष्ठाः कतिचन दधतो मानसे मानसेतुम्

हम्हो सभ्यानसभ्यस्थपुटमुखपुटा दुर्जना निर्जयन्ति ॥ ५२ ॥

निशम्यताम् चेदम् सभापतिसेनापतिभ्याम् ।

बाधादिभिः स्वमतहेतुगणे निरस्ते नित्यागमप्रतिहतेषु निजागमेषु ।

प्रागल्भ्यमात्रशरणाः प्रतिवावदूकाः सम्भूय वादकरणेऽपि न मे प्रभूताः ॥ ५३ ॥

[विहस्य सहस्तास्फालेन] अहो नु खल्वन्धैरन्धस्य यष्टिः प्रदीयते, पङ्गोर्वा पङ्गुभिरतिवहनम्! यदेते कर्मान्धकारप्रतिहतमतयः कुमतयो महामोहस्य साचिव्यमाचरन्ति । किञ्च,

वशिकतटिनीवर्षारम्भप्रवाहविडम्बकैः

अलघुभिरपभ्रश्यद्गुम्भोपलम्भितडम्बरैः ।

उपकरणयन्त्येते बालानुदग्रकुतूहलान्

उपलनिकरग्रासप्रायैरुपन्यसनक्रमैः ॥ ५४ ॥

अहहामीषाम् प्रतिवावदूकानाम् प्रवादमनुमोदमाना महामोहपक्षपातिनो गर्दभगाने सृगालविस्मयमनुस्मारयन्ति!

राजा – सेनापते, नियम्यन्तामेते निर्भरनिगमान्तवैरविप्लुतप्रतिपत्तयः प्रत्येककथाप्रवर्तनाय ।

सेनापतिः – नियच्छामि तानेतान्निरर्थकादाटोपात् । (परिवृत्यावलोक्य) भो भोः त्रयीबाह्याः कुदृष्टयश्च!

अलमिह मिथश्श्लाघामाद्यन्मितम्पचसम्मतै-

रनघपरिषत्प्रत्यादिष्टैरलीकविकत्थनैः

अवितथकथाधौरेयाणामनुप्रसृतौ सताम्

ध्रुवमिह भवद्वृत्तेराविर्भविष्यति पङ्गुता ॥ ५५ ॥

शिष्यः – भगवन्, इतः प्रसार्यताम् दृष्टिः ।

माहाराष्ट्रीम् मागधीम् शौरसेनीम् लाटीम् गौडीमित्थमन्यादृशीम् च ।

अङ्गीकुर्वन्त्यागमीकृत्य दत्ताम् हास्याम् भाषाम् हन्त बुद्धार्हदाद्यैः ॥ ५६ ॥

अहम् त्वशेषभाषावेदी तत्तदभ्यस्तभाषयाऽपि तार्किकानेतान्प्रतिक्षेप्स्यामि । वदन्ति हि पिशाचानाम् पिशाचभाषयैवोत्तरम् देयमिति ।

गुरुः – भद्र! यथारुचि दैवीमदैवीम् वा भाषाम् पुरस्कुर्याः । अपि तु दैव्येव विश्वहृदयङ्गमा । महाराजोऽपि प्रायशस्तस्यामेव दत्तदृष्टिः ।

राजा – भगवन्, अतिधृष्टोऽयम् भवत्प्रसादगोचरो महानुभावः ।

सेनापतिः – देव! किमत्र चित्रम्?

कथाकलहकौतुकग्रहगृहीतकौतस्कुत

प्रथाजलधिसम्प्लवग्रसनकुम्भसम्भूतयः ।

जयन्ति सुधियो यतिक्षितिभृदन्तिकोपासन

प्रभावपरिपक्त्रिमप्रमितिभारतीसम्पदः ॥ ५७ ॥

अपि च,

विकल्पाटोपेन श्रुतिपथमशेषम् विघटयन् यदृच्छानिर्दिष्टे यतिनृपतिशब्दे विरमति ।

वितण्डाहङ्कुर्वत्प्रतिकथकवेतण्डपृतनावियातव्यापारव्यतिमथनसम्रम्भकलहः ॥ ५८ ॥

शिष्यः – सभापतिसेनापतिसाक्षिकम् प्रवृत्तस्य दयारूपदेशिकदृष्टिदृढदम्शितस्य कथाहवेषु कस्त्रासः? अद्य हि,

अर्थ्या तिष्ठति मामिका मतिरसावाजन्म राजन्वती

पत्या सम्यमिनामनेन जगतामत्याहितच्छेदिना ।

यत्सारस्वतदुग्धसागरसुधासिद्धौषधास्वादिनाम्

प्रस्वापाय न बोभवीति भगवन्मायामहायामिनी ॥ ५९ ॥

अपि च, वयमेतावन्तमनेहसमनेकसहस्रवैतण्डिकमण्डलमण्डितेषु तुण्डीरचोलपाण्ड्यकेरलकर्णाटनेपालमालवगौडलाटादिकटकेष्वखण्डिताहङ्काराः निष्कण्टकेन नीतिघण्टापथेन निगमसञ्चरेषु सञ्चरमाणाः सद्भिरेव जातसख्याः सुख्यामः । किम् बहुना?

आस्ताम् नाम यतीन्द्रपद्धतिजुषामाजानशुद्धा मतिः

तच्चाव्याजविदग्धमुग्धमधुरम् सारस्वतम् शाश्वतम् ।

को वा चक्षुरुदञ्चयेदपि पुरः साटोपतर्कच्छटा-

शस्त्राशस्त्रिविहारसम्भृतरणास्वादेषु वादेषु नः ॥ ६० ॥

सेनापतिः – किमुच्यते?

एकयैव गुरोर्दृष्ट्या द्वाभ्याम् वापि लभेत यत् ।

न तत्तिसृभिरष्टाभिः सहस्रेणापि कस्यचित् ॥ ६१ ॥

अध्यासीनतुरङ्गवक्त्रविलसज्जिह्वाग्रसिम्हासनात्

आचार्यादिह देवताम् समधिकामन्याम् न मन्यामहे ।

यस्यासौ भजते कदाचिदजहद्भूमा स्वयम् भूमिकाम्

मग्नानाम् भविनाम् भवार्णवसमुत्ताराय नारायणः ॥ ६२ ॥

गुरुः – महाराज, भव्यभाषितेन भवच्चमूपतिना नियमितास्त एते परमतकथकधौरेयाः प्रत्येकमुपतिष्ठन्ताम् । (शिष्यमवलोक्य ।) शृणु सौम्य, श्रुतिशिरःप्रत्यासन्नतया प्रथमसमुत्थितानाम् साङ्ख्यानाम् सम्प्रति स्वमतोपन्यासम् ।

अमी च,

कपिलासुरिपञ्चशिखादिमुनिप्रतिपादितसाङ्ख्यमतप्रणाः ।

प्रकृतिम् पुरुषम् च विभज्य परम् पुरुषम् न पठन्त्यघरुद्धधियः ॥ ६३ ॥

शिष्यः – (स्वगतम् ।) सम्प्रवृत्तेऽस्मिन्वादे सम्वननायाश्चैते प्रथमम् सभासदः । (प्रकाशम् ।)

अक्षय्यशान्तिमकरन्दरसप्रसक्तानभ्यर्थये मुरभिदङ्घ्रिसरोजभृङ्गान् ।

कामम् प्रसीदत यथाऽहमनन्यभावः कर्णामृतानि भवतामवतारयेयम् ॥ ६४ ॥

(गुरुमवलोक्य सविनयमञ्जलिम् बद्ध्वा) भगवन्, भवदाज्ञया प्रतिक्षिपामि तावत्साङ्ख्यान् ।

प्रधानपुरुषौ यदि प्रकृतियन्त्रितैरादृतौ परः किमपराध्यति श्रुतिसहस्रचूडामणिः ।

कुतर्कशतकर्कशैर्यदि विभुः प्रतिक्षिप्यते भवत्परिगृहीतमप्यपहरन्तु पाटच्चराः ॥ ६५ ॥

सेनापतिः – देव,

विश्वपतिमार्यवचसा साङ्ख्याः सम्मत्य विगतसम्रम्भाः ।

गणयन्ति पञ्चविम्शम् षड्विम्शम् सप्तविम्शम् वा ॥ ६६ ॥

राजा – भगवन्, यदि खल्वेते सेश्वरतामानीताः; भजन्तु तावद्भवत्क्षमागोचराः साङ्ख्यास्त्रय्यन्तपार्श्वम् ।

गुरुः – महाराज, मैवम् वादीः । किम् तु, अभ्युपगतेश्वराणामपि साङ्ख्यानाम् प्रायिकसम्वाद योग समयसिद्धपरिच्छिन्नैश्वर्येश्वरपक्षप्रणिहितचक्षुषाम् प्रतिवक्तव्यम्; अयमादिश्यतामौपनिषदवादी ।

राजा – आदिष्ट एवायमीदृशेन भगवतो वाक्येन ।

शिष्यः

य एते योगाख्ये कतिचिदपतन्त्रे पठितिनः

प्रजल्पन्त्यैश्वर्यम् प्रतिफलनकल्पम् भगवतः ।

स्वतःसिद्धान्बोधप्रशकनबलादीन्गुणगणान्

गृणन्तस्त्रय्यन्ताः प्रतिफणितिरेषामवितथा ॥ ६७ ॥

सेनापतिः – देव,

कृतम् साङ्ख्यकृतान्तस्थैः कृपणैरद्य शिक्षितैः ।

काणादमतभङ्गाय कार्यमार्यस्य शासनम् ॥ ६८ ॥

राजा – नियुक्त एवायम् भगवता यथार्हम् निगमान्तविपक्षपक्षप्रतिक्षेपाय ।

शिष्यः – महाराज, अनुतिष्ठामि यथानियोगम् । इह हि,

असद्द्रव्यसृष्टिप्रभृत्यर्थकॢप्त्या श्रुतिप्रक्रियाणामधिक्षेपतश्च ।

उलूकोपदेशापदेशप्रवृत्तः कथाशेषितोऽसौ कणादप्रणादः ॥ ६९ ॥

(गुरुः सबहुमानमीक्षते ।)

शिष्यः – (सापहासम्) आकर्ण्यतामिदमत्यद्भुतम् महाराजेन ।

राजा – किम् तत्?

शिष्यः – एते किल कणचरणमतानुवर्तिनः परमानन्दलक्षणम् परमपुरुषसाम्यमपहाय पाषाणसाधर्म्यलक्षणम् मोक्षमाचक्षते । तथा च कुम्भकर्ण एव विजयते; शाप एव तस्यानुग्रहः स्यात् ।

राजा – सत्यमेतत् ।

सेनापतिः – देव,

अर्धवैनाशिकास्तावदार्येण विमुखीकृताः ।

अथ वैनाशिकास्त्वेते विनाश्या वेददूषकाः ॥ ७० ॥

राजा – (साशङ्कम्) आर्य, पर्याप्तोऽसि कुतर्केन्द्रजालकोविदानाम् तथागतानाम् निरासे?

शिष्यः – (सामर्षमिव) राजन्, अपर्याप्तास्त्वेते त्वदादिष्टस्य ममैकस्यापि प्रतिक्षेपाय । तथा हि,

कथयति जडो विश्वम् वैभाषिकः क्षणभङ्गुरम्

परमनुमितम् बाह्यम् सौत्रान्तिको मतिचैत्र्यतः ।

तदिदमनृतम् योगाचारस्तथा निखिलम् परे

स्ववचनहताः सर्वे गर्वम् त्यजन्ति ममाग्रतः ॥ ७१ ॥

तथा हि,

दन्तादन्तिविधानलम्पटधियो दिङ्नागमुख्या बुधाः

शृण्वन्त्वद्य विपद्यते परमियम् शिक्षा भवत्पक्षतः ।

बुद्ध्वा बोध्यमुदाहरन्ति विशदम् बुद्धादयश्चेज्जितम्

नो चेद्धन्त जितम् पुनस्तदिह नस्तूर्यम् तु जोघुष्यताम् ॥ ७२ ॥

सेनापतिः – (सश्लाघम्) देव! परिमितगभीरमक्षोभ्यमिदम् पारिषदहृदयङ्गममार्यवचनमुपश्रुत्य पलायिताः सौगतापशदाः प्रतिदिशम् प्रविशन्ति । अपि त्वयम् माध्यमिको नाम बौद्धमतनासीरवीरः कथितमपि दूषणमनादृत्य वैयात्यमात्रावष्टम्भेन पाण्डित्यम् प्रख्यापयति । तदयम् विशेषतोऽप्युन्मूलयितव्यः, यश्चैवमुद्घोषयति –

भाषा वैभाषिकाणाम् शुभमनुभवतु स्वस्ति सौत्रान्तिकेभ्यो

योगाचाराः प्रयोगम् विजहतु किमु तत्किङ्करैः शङ्कराद्यैः ।

मिथ्यातत्त्वव्यवस्थाविघटनघटनोद्दण्डशौण्डीर्यचण्डो

निस्तत्त्वाद्वैतवादी निरुपधिककथादुर्जयो निर्जिहीते ॥ ७३ ॥

राजा – आर्य, विश्वमिथ्यात्वव्यवस्थापने वैतण्डिकपण्डितम्मन्यः शून्यवादी पुनः शून्यताम् प्रापयितव्यः ।

गुरुः – भद्र, सावधानमभिदध्याः ।

शिष्यः – किमत्रावधातव्यम्? अयम् खलु जननीवन्ध्यात्वप्रतिज्ञानसम्वादिभिः अयथायथप्रलापैः आत्मनोऽपि मौनमाजन्ममरणमुपपादयिष्यति । अपि च,

परस्परविघट्टनत्रुटिततर्कशस्त्रच्छटातिरस्कृतचमत्कृतिः स्वयमखण्डि वैतण्डिकः ।

किमत्र परिशिष्यते किमपि दूषणोद्भावनम् स्वतोनिहतमुद्गरप्रहरणप्रयासायते ॥ ७४ ॥

(राजा सन्तोषम् नीटयति) (नेपथ्ये) पिशाचाः पिशाचाः ।

सेनापतिः – देव! मा मैवम् । दिगम्बरास्त्वेते सौगतमतनिरसनसन्तोषविषादशबलिताः प्रत्यक्षम् परोक्षम् च प्रमाणमनुरुन्धानाः प्रतारयन्ति पामरान् ।

शिथिलोदयसप्तभङ्गिशिक्षाविषमोपन्यसनव्यथाविलक्षाः ।

मलिनास्त इमे मयूरपिञ्छभ्रमणैरेव विलोभयन्ति मन्दान् ॥ ७५ ॥

तत्प्रतिक्षेपार्थमयमनुज्ञायतामार्यः ।

राजा

प्रतिक्षिप्तम् विदधताम् विहितम् प्रतिषेधताम् ।

क इवान्यः प्रतिक्षेपः कार्यः स्ववचनादृते ॥ ७६ ॥

(गुरुमवलोक्य) भगवन्, अमीषामादित्यस्तम्भनपाषाणस्फोटनप्रतिमा जल्पनादिनानाविध विप्रलम्भोपायानाम् भवत्प्रसाद एव प्रतिक्षेपकर्ता ।

गुरुः – महाराज, तथाविधकुहकवृत्तीनाम् राजभिरेव दण्डो दातव्यः ।

शिष्यः – (सापहासम्)

भक्ष्याभक्ष्यस्वपरसमयस्थापनादूषणादि-

ष्वैकान्त्यम् ये जहति, विहतिम् क्वापि नैते विदन्ति ।

दैवैरेषाम् निगमपदवीदूषणोदीर्णरोषै-

र्दत्तो नूनम् स्थिरशिरसिजोल्लुञ्छनेनैव दण्डः ॥ ७७ ॥

शेषम् तु भगवति महाराजे चायतते ।

राजा – सेनापते, आः कष्टममीषामालोकनम्! उत्सार्यन्तामैते दृष्टिगोचरात् ।

सेनापतिः – देव, भवत्प्रतापतपनप्रतिहतदृष्टयो दिवाभीता इवार्यानधिष्ठितेषु गिरिगह्वरेषु निभृतम् निलीयन्ते ।

राजा – के पुनरेते क्षपणकादिवदनैगमिकलिङ्गधारिणः किमप्युग्रम् व्रतमास्थाय तापसविडम्बिनस्त्रय्यन्तमुपरुन्धते?

गुरुः – प्रमथगणानुकारिणः केचन दुराचाराः । एते च नैगमिकधर्मकलमोपमर्दिनः कडङ्गरीया इव दूरीरकणीयाः ।

शिष्यः – स्वयमेवैते दूरीभवन्ति । (यथा)

कपिलकणादबुद्धकचलुञ्छनतन्त्रकथा

कलकलकोविदेषु कथकेषु गलन्मतिषु ।

मुनिवरसापराधजनमोहनकौतुकिना

पशुपतिना यदुक्तमपयान्त्यथ तत्प्रवणाः ॥ ७८ ॥

सेनापतिः – देव, अमी पुनरार्यवचन वर्षासमयमादर्शयन्ति ।

[नेपथ्ये] ‘पलायध्वम् पलायध्वम्’ ।

राजा – किम् किम्? (इत्यवलोकयति)

सेनापतिः – नान्यत्किञ्चित् ।

अक्ष्णोरञ्जनवर्तिका यवनिका विद्युन्नटीनामियम्

स्वर्गङ्गायमुना वियज्जलनिधेर्वेलातमालाटवी ।

वर्षाणाम् कबरी पुरन्दरदिशालङ्कारकस्तूरिका

कन्दर्पद्विपदर्पदानलहरी कादम्बिनी जृम्भते ॥ ७९ ॥

किम् च,

प्रत्यग्रप्रतिबुध्यमानकलिकानीरन्ध्रनीपाटवी-

निस्साधारणनिस्सरन्मधुसुधासौरभ्यसारस्पृशः ।

क्रोडादम्बुमुचाम् क्षरन्ति कतिचित्क्रोडीकृता दन्तिभिः

धारासिक्तवसुन्धरासुरभयो जञ्झासमीराङ्कुराः ॥ ८० ॥

(सर्वे ससम्भ्रमाद्भुतमवलोकयन्ति)

राजा – भगवन्, किमस्त्येषाम् प्रतीकारः?

गुरुः – किमस्माभिरत्र यतितव्यम्?

स कैटभतमोरविर्मधुपरागजञ्झामरुत् हिरण्यगिरिदारणस्त्रुटितकालनेमिद्रुमः ।

किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः कथम् न भवति स्वयम् कपटकर्मनिर्मूलनः ॥ ८१ ॥

सर्वे – (सहर्षविस्मयम्) प्रसन्नाः खल्वेता दिशो विदिशश्च ।

गुरुः – भक्तजनवत्सले भगवति प्रसेदुषि किम् नाम न प्रसीदति?

राजा – भगवन्, अमी पुनः सात्वतम् शास्त्रमधीयानास्त्रय्यन्तवादिभिरैक्यमिवापन्नाः बल्बजप्रायबहुविधविद्याजल्पविमुखीकृतमानसाः बहिरन्तश्च शुद्धाः श्वेतद्वीपवासिन इव शुभम्यवः पुरुषास्तामिमामौपनिषदीम् परिषदमुपजिगमिषन्ति ।

परमपुरुषप्रत्यासत्त्या विमुक्तपृथग्जनास्तदभिगमनोपादानाद्यैरवन्ध्यमनोरथाः ।

नमति दिविषद्वर्गे नाथप्रभावसमीक्षया जहति त इमे मानाटोपम् परस्परजीविताः ॥ ८२ ॥

किमेतन्मते प्रतिवक्तव्यमस्त्यार्यस्य?

गुरुः – (मूर्धानमान्दोलयन्कर्णौ पिधाय) न खलु न खलु ।

न बाधः प्रतिरोधो वा वेदसात्त्वतयोर्मिथः ।

कुदृशाम् तद्भ्रमो वार्यः श्रुत्योरिव परीक्षकैः ॥ ८३ ॥

शिष्यः – तदहम् वारयामि । शृण्वन्तु च परमपुरुषप्रणीते पञ्चरात्रतन्त्रे तन्त्रान्तरवत्प्रादेशिकदोषोत्प्रेक्षकाः पण्डितम्मन्याः –

आरोहन्त्वनवद्यतर्कपदवीसीमादृशाम् मादृशाम्

पक्षे कार्तयुगे निवेशितपदाः पक्षे पतद्भ्यः परान् ।

सर्वानुश्रवसारदर्शिसशिरःकम्पद्विजिह्वाशन-

क्रीडाकुण्डलमौलिरत्नघृणिभिः सारात्रिकाः सूक्तयः ॥ ८४ ॥

निरूपितम् हि सात्वतप्रामाण्यम् निखिलनिगमव्य सनव्यसनिना मतिमन्थान निर्मथित निगम सिन्धुसमुदितमहाभारत चन्द्रिका । निरवशेष मुषित भुवन भवनोदरतिमिरेण बादरायणेन भगवता नारायणेन । तत्र च,

स्वतः सर्वावेक्षी श्रुतिशत शिरस्त्राणचरणः

स्वभृत्यान्नस्त्रातुम् यदिदमनघम् तन्त्रमकृत ।

इदम् श्रेयः पुण्यम् हिततममितीव व्यपदिशन्

मुनिः पाराशर्यः प्रकटयति मानम् तदखिलम् ॥ ८५ ॥

सेनापतिः – देव, अपर इवायम् पाराशर्यः पञ्चरात्रतन्त्रम् प्रतिष्ठापितवान् ।

राजा – भगवन्, गुरुकुमारिलमतानुसारिणः किमेते निरसनीया भवच्छिष्येण?

गुरुः – महाराज, अमी पुनरागमाभिरक्षणप्रवृत्ताः वेदान्तपरित्यागिनस्तोषयितव्या भीषयितव्याश्च ।

शिष्यः – (साभहासम् ।)

निरस्ताखिलदोषेषु निगमान्तेषु सत्स्वमी ।

कथम् सदसि मीमाम्साकबन्धमनुरुन्धते ॥ ८६ ॥

अयम् खल्वखिलवैदिकसदःशिखामणीनामध्यात्मविदाम् निर्णयः, पापवत्परित्यक्त काम्यधर्मैर्नित्यनैमित्तिकानुष्ठान निष्णातैर्विष्णुभक्तैर्भवितव्यमिति । अत एव कर्मब्रह्ममीमाम्सयोरैक शास्त्र्यमामनन्ति सन्तः ।

राजा – (सपरितोषम्) भगवन्, यथाश्रुतम् यथाहृदयमुपपाद्य स्वपक्षम् रक्षता परपक्षाम्श्च प्रतिक्षिपता प्रशमितनिगमान्तखेदेन भवदन्तेवासिना स्थूणानिखननन्यायेन स्थिरीकृतमिदम् सम्यग्ज्ञानम् । तथाप्यामुक्तनिगम कञ्चुकानाम मुक्तबाह्यवर्त्मनाम् कथम् प्रतीकारः?

गुरुः – (सान्तर्हासम्)

नियत्या वैयात्यान्निगमपदवीमुज्झितवताम् परेषामेतेषाम् परिहसनगुम्भार्हवचसाम् ।

पुरन्ध्रीसम्भाव्यस्वमतरुचिनीरन्ध्रितधियामहङ्कारम् सोढुम् प्रभवति कथङ्कारमवनिः ॥ ८७ ॥

शिष्यः – महाराज, छिन्नमूलाः खल्वेते बाह्यनिरसनेन । तथा हि,

गाथा ताथागतानाम् गलति गमनिका कापिली क्वापि लीना

क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभम् नारभन्ते ।

क्षामा कौमारिलोक्तिर्जगति गुरुमतम् गौरवाद्दूरवान्तम्

का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीम् त्रिवेदीम् ॥ ८८ ॥

अथवा, पारिप्लवविविधपरिकल्पना कल्लोलकलहजनित सितासित विकल्पविप्लवेन सिद्धि कामजनमोहन प्रवृत्ताम्स्तानिमान्प्रतिक्षिपामि ।

[सहस्तास्फालनम् विहस्य]

अविद्यामाहात्म्यादनहमिदमर्थे जगदिदम्

गृणन्त्येते भातम् गगन इव गन्धर्वनगरम् ।

अवन्ध्यैर्व्याघातैरतिपतितविन्ध्यद्रढिमभिः

निबन्ध्यास्ते वन्ध्यासुतनृपतिवैतालिकगणे ॥ ८९ ॥

अपि च,

निध्यायन्त्वनसूयवः शुभगुणम् निर्दोषमाराध्यमि-

त्यध्वा विश्वविशेषशून्यकथकैरप्यादितः स्वीकृतः ।

यद्यर्थस्थितिरेतदेकशरणा सप्रत्यवायो भव-

त्यध्यक्षादिविरुद्धनिर्गुणकथानिर्वाहगर्वाहवः ॥ ९० ॥

अतः स्थाने खलु मेघनादवदङ्कुरितविश्वव्यामोहनेन शङ्करदत्तेन केनापि मायातन्त्रेण समानाधिकरणोपप्लवमाचरतामाचरिततमःप्रवृत्तीनामनवरतकर्बुरप्रकृतीनाम् कलिब्रह्ममीमाम्सकानामेतेषाम् निरासाय लक्ष्मणाचार्यप्रादुर्भावः । हन्त! परिगृहीतपौण्ड्रकाद्वैतानाममीषाम् नित्यमुक्तवादोऽपि नित्यमुक्तवादतामापादयति । तथा हि,

मुक्तस्य नित्यमविशिष्टतनोरपूर्वाम् मुक्तिम् प्रकल्पयितुमात्तविचारयत्नः ।

स्वप्नप्रसूनमकरन्दरसस्य मन्ये स्वादुत्वमन्यदुपपादयितुम् क्षमेत ॥ ९१ ॥ 

आलक्ष्यतामयम् रजनिचरवम्शबान्धवानाम् राहुमीमाम्सकानाम् सुभगाभिक्षुकन्यायः, यदेते निगमान्तपरित्यागिनः परानधिक्षिपन्ति; प्रतिक्षिपन्ति च स्वयमेव निगमान्तान् । अतः सभाकम्पाभावप्रतिपादकजडपुरुषप्रयुज्यमानभसापङ्काभाववचनवदपहास्यवचसाममीषाम् प्रतिक्षेपेऽप्य पत्रपामहे । श्रुतयस्तु त्रिभुवनसम्रक्षणे प्रवृत्ताः प्रतिक्षिपन्ति । यदपि चैतेषाम् चिदचिदीश्वर याथार्थ्य तस्कराणामन्तिम युगमस्करिणाम् नित्यानित्यवस्तु विवेकादिसाधनचतुष्टयाभिधानम्, तच्च तत्त्वातत्त्वविवेकाभावः रागद्वेषादि साधनसम्पत् लौकिकवैदिक धर्मानुष्ठानवैमुख्यम् बुभुक्षुत्वम् चेति यथानुष्ठानम् विपरिणामेन परिहसन्ति सन्तः ।

गुरुः – भद्र, किमत्र विस्तरेण ।

शिष्यः – भगवन्, पक्षान्तरमपि प्रतिक्षिपामि ।

यदि भास्करयादवप्रकाशौ निगमान्तस्थितिनिर्णयप्रवीणौ ।

अपरैः किमिवापराद्धमार्यैरयथाभाषणचातुरीधुरीणैः ॥ ९२ ॥

अत एव निर्गुणब्रह्मवादिनाम् प्रच्छन्नबौद्धप्रसिद्धिवदनयोरपि जैनगन्धिवेदान्तिनामधेयमनुशोश्रूयामहे । इदम् किल निखिलोपनिषदेकरहस्यम् (दैकरस्यम्) ।

मिथो भेदम् तत्त्वेष्वभिलपति भेदश्रुतिरतो

विशिष्टैक्यादैक्यश्रुतिरपि च सार्था भगवती ।

इमावर्थौ गोप्तुम् निखिलजगदन्तर्यमयिता

निरीशो लक्ष्मीशः श्रुतिभिरपराभिः प्रणिदधे ॥ ९३ ॥

राजा – ब्रह्मन्,

तत्त्ववृत्तोभयभ्रष्टपाषण्डगणसङ्कुलः ।

कृती भवति कालोऽयम् कृतिना सम्प्रति त्वया ॥ ९४ ॥

शिष्यः – महाराज, सर्वमेतद्भगवतः प्रसादेन । अद्य हि,

कणादपरिपाटिभिः कपिलकल्पनानाटकैः कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः ।

तथागतकथाशतैस्तदनुसारिजल्पैरपि प्रतारितमिदम् जगत्प्रगुणितम् यतीन्द्रोक्तिभिः ॥ ९५ ॥

किम् च,

मुकुन्दाङ्ध्रिश्रद्धाकुमुदवनचन्द्रातपनिभाः मुमुक्षामक्षोभ्याम् दधति मुनिबृन्दारकगिरः ।

स्वसिद्धान्तध्वान्तस्थिरकुतुकदुर्वादिपरिषद्दिवाभीतप्रेक्षादिनकरसमुत्थानपरुषाः ॥ ९६ ॥

सेनापतिः – देव,

वम्शवदवचोवृत्तिर्वादाहवमहारथः ।

परिभूतविपक्षोऽसौ पारितोषिकमर्हति ॥ ९७ ॥

शिष्यः – सेनापते,

दयया देशिकेन्द्रस्य दृष्ट्या चास्य महीपतेः ।

परितोषेण चैवम् ते प्राप्तोऽहम् पारितोषिकम् ॥ ९८ ॥

राजा – भगवन्, प्रियहितमेवासौ वदति ।

सेनापतिः – ततश्च,

सभाजयितुमिच्छामि प्रत्यक्षितसभाजयम् ।

एनम् भगवतश्छात्रमेकभक्त्या परिष्कृतम् ॥ ९९ ॥

शिष्यः – महाराज, भगवन्त एव सम्भावनामर्हन्ति ।

गुरुः – त्वमपि मन्नियोगेन ।

राजा – भगवन्,

त्रय्यन्तस्थापकोऽयम् दृढतरममुना तत्त्वदृष्टिश्च दिष्टा

दिष्ट्या चाऽऽदिष्टमेतत् दिशिदिशि लडहो डिण्डिमस्ताडनीयः ।

शुष्कोपन्यासशिक्षापटिमकटुरटद्वैरिविद्वत्करोटी-

कुट्टाकक्रीडमष्टापदकटकमसौ वामपादे बिभर्तु ॥ १०० ॥

[इति कटकम् ददाति]

शिष्यः – (गुरुमवलोकयति)

गुरुः – भद्र! अस्त्वेवम् । अलङ्घनीया खलु राजाज्ञा ।

शिष्यः – यदाज्ञापयति भगवान् । (इति कटकमादत्ते)

गुरुः – आयुष्मन्, अवधार्यतामिदमद्यप्रभृति ते कर्तव्यम् ।

सत्कारकीर्तिधनलब्धिषु निर्व्यपेक्षः प्रश्नोचितेषु परया कृपया प्रसीदन् ।

सत्तर्कतन्त्रपरिकर्मितमाशरीरात् शारीरकप्रवचनव्रतमाद्रियेथाः ॥ १०१ ॥

शिष्यः – यदादिशति भगवान् ।

[नेपथ्ये] गम्यताम् गम्यताम् । आः कष्टमापतितम् ।

रागद्वेषाभिख्यया ख्यातपूर्वौ मूढावेतौ दानवौ मोहभृत्यौ ।

निष्प्रत्यूहम् निर्जिहाते विरक्तिम् बन्दीकर्तुम् विष्णुभक्त्या समेताम् ॥ १०२ ॥

[सर्वे ससम्भ्रममाकर्णयन्ति ।]

राजा – भगवन्, अद्य खलु शान्तिकर्मणि वेतालोदयः सम्वृत्तः । तत्साधयन्तु भवन्तः समीहित समर्थनाय । वयमपि वैरिबलनिर्मूलनाय सम्प्रति यतामहे ।

[इति परिक्रम्य निष्क्रान्ताः सर्वे ।]

इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके परपक्ष (प्रतिक्षेपो नाम) द्वितीयोऽङ्कः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.