शतदूषणी
अथ आत्माद्वैतभङ्गवादः षट्त्रिंशः ।
नमस्त्रेधा विभक्तानामात्मनामन्तरात्मने । ब्रह्मणे हयवक्त्राय बन्धमोक्षैकहेतवे ।।
यदुच्यते तावदात्माद्वैतवादिभिरेक एवात्मा देहाद्युपाधिभेदेन बहुधा प्रतिभाति, तरङ्गचन्द्रवत्, सौभर्यादिवच्च । तथा च प्रयोगाः – विगीतानि शरीराणि मयैवात्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नमच्छरीरवत्; सर्वं जाग्रच्छरीरं मदविद्याकल्पितम्, शरीरत्वात्, कल्पितत्वाद्वा, स्वप्नदृष्टमच्छरीरवत; सर्वोप्यात्मा अहमेव, चेतनत्वात्, अहमिव; सर्वाणि सुखदुःखानि मयैव भुज्यन्ते, सुखदुःखत्वात्, मत्सुखदुःखवत्; विगीतानि शरीराणि देवदत्तात्मना आत्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नदेवदत्तशरीरवत्; एवं सहस्रशोनुमानानि विभज्य प्रयोज्यानि ।
विप्रतिपन्नश्शरीरभेदोऽनेकात्मनिरपेक्षः, शरीरभेदत्वात्, सौभरिशरीरभेदवत् । एवमनुमानान्तराण्यपि करणभेदादिपक्षीकारेण भाव्यानि । एवमनभ्युपगमे कल्पनागौरवप्रसङ्ग इति ।
ननु – पण्डितत्वमूर्खत्वसुखित्वादिविरुद्धर्माध्यासाद्भेदस्सिद्धः, तथाचाक्षपादैस्सूत्रितम् – “”नानात्मानो व्यवस्थात’ इति, उक्तंचत्वदासन्नैस्साङ्ख्यैरपि – “”जन्मजरामरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चेति ।।” सत्यपिचविरुद्धधर्मे यद्यभेदः, तदा सत्यमिथ्यैक्यादिकमपि स्यादिति शून्याद्वैतमेव स्यादिति चेन्न; -तेषां विरुद्धत्वाभावात् । सहानवस्थानलक्षणो ह्यत्र विरोधोभिमतः, स चाधिकरणभेदे सिद्धे, तत्सिद्धिश्च विरुद्धधर्माध्यासादिति अन्योन्याश्रयणात् । नचैवं घटपटादिष्वपि विराेधपरिहारे सर्वभेदविलय इति वाच्यम्, तेषु स्वरूपभेदस्यैव स्फुटतरमुपलभ्यमानत्वात्; अन्तत इष्टप्रसङ्गरूपत्वाच्च । अत एवानुमानानां प्रत्यक्षबाधोपि परिहृतः । अत्र परस्परसुखादिप्रतिसन्धानप्रसङ्गो बाधक इति चेन्न; – एकेनानुभूतानामेव क्वचिदप्रतिसन्धानदर्शनात् । नहि जन्मान्तरानु भूतेषु एकस्मिन्नपि वा जन्मनि चिरकालदृष्टेषु पूर्वदिवसभुक्त व्यञ्जनादिषु वा सर्वेषां पुरुषाणां तत्तत्प्रतिसन्धानमुपलभामहे । संस्कारप्रमोषात्तदपटुत्वाद्वा तत्र प्रतिसन्धानाभावः, ये पुनरप्रमुषितस्फुटतरसंस्कारास्ते जातिस्मरादयो जन्मान्तरानुभूतमेतज्जन्मानुभूतं च प्रतिसन्दधत इति चेन्न; – अत्राप्यविद्यावैचित्रयादुपाधिभेदप्रतिनियततया वा प्रतिसन्धानाभावः प्राकृतानाम्, तत्वविदस्तु प्रह्लादवामदेवादयः प्रतिसन्दधतीति तुल्यम् । यथोक्तं “”सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तस्सर्वमहं सर्वमयि सर्वं सनातने ।।” इत्यादि । श्रुतिश्च – “”तद्धैतत्पश्यन्तृषिर्वामदेवः प्रतिपदे अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मिविप्र” इति । आदिभरतऋभुनिदाघादिवृत्तान्तेषु च व्यक्तोयं पन्थाः ।
किञ्च परस्परसुखादिप्रतिसन्धानमस्मदादिष्वपि प्रसज्यमानन्ना निष्टम् । योहि स्वसुखादीन् प्रतिसन्धत्ते स एवान्योपीत्यस्मन्मते तत्प्रतिसन्धानमप्येतत्प्रतिसन्धानमेवेति किमत्र प्रसञ्जनीयम् । नाहं राजादिसुखमनुभवामीति प्रतिसन्धानाभावः प्रत्यक्षसिद्ध इति चेन्न; – अहं सुखमनुभवामीति राजशरीरे तदुपलम्भात् । अन्यस्यैव उपलम्भ इति चेन्न; – अद्याप्यन्यत्वासिद्धेः । अहमस्मादन्यः अयं च मत्तोन्य इति परस्परान्यत्वं प्रत्यक्षसिद्धमिति चेन्न; – परस्याप्रत्यक्षत्वेन तद्गतान्यत्वस्य प्रत्यक्षयितु मशक्यत्वात् । स्वस्य प्रत्यक्षत्वेपि स्वगतान्यत्वस्यापि प्रतियोगिभूतपरप्रतीतिमन्तरेणानुपपत्तेः । परश्च प्रतीयमानो ऽन्यतया वा स्यात्, अनन्यतया वा, सामान्यतो वा? नाद्यः, प्रत्यक्षतस्तदप्रतीतेः । लिङ्गतोपि कश्चिदस्तीत्यनुमीयते, न तु मत्तोन्य इति । मुखविकासादिना स्वविरुद्धसुखाद्यनुमानेन्यत्वमप्यनुमितं भवतीति चेन्न; – तेषां विरुद्धत्वस्य प्रागेव दूषितत्वात् । न द्वितीयः, सर्वेषां स्वप्रतियोगिकव्यतिरेकप्रसङ्गेन शून्यवादावतारात् । अत एव न तृतीयः, प्रतिसन्धानमात्रात् भेदे स्वस्मादपि भेदप्रसङ्गात् । तथापि कथं प्रतिसन्धानतदभावयोस्सिद्धिरिति चेन्न; – तदभावस्यासिद्धेः । सिद्धावपि देशकालोपाध्यादि भेदेन तदुपपत्तेः । अन्यथा स्वाश्रयैकदेशवर्तिसंयोगादि (गुण) विलयप्रसङ्गात् । नचैतद्युक्तम्, ईश्वरघटादिसंयोगस्य व्यापित्वे घटादेरपि विभुत्वप्रसङ्गात् । संयोगादीनां स्वाभावसमानाधिकरणतयैव धर्मिग्राहकेणैव सिद्धेस्तथाभ्युपगमः, इहतु न तथेति चेन्न; – अत्रापि प्रागुक्तानुमानैरद्वैतशास्त्रैश्च सुखादीनामपि तत्सिद्धेः । वैशेषिकादिभिस्तथाभ्युपगमाच्च ।
तथाच श्रूयते – “”अथातोहंकारादेश”इत्यारभ्य, “”अहमेवेदं सर्वमात्मैवेदं सर्वमि”ति । आत्मभेदश्च बहुशो निषिध्यते – “नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयादात्मेत्येवोपासीत, द्वितीयाद्वै भयं भवती” त्यादिभिः । तथाच स्मृतिः – “”तस्यात्मपरदेहेषुसतो प्येकमयं हि यत् । विज्ञानं परमार्थो हि द्वैतिनोतथ्यदर्शिनः ।। यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम । तदैषोहमयं चान्यो वक्तुमेवमपीष्यते ।। वेणुरन्ध्रविभेदेन भेदष्षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथासौ परमात्मनः ।। आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैकोह्यनेकस्थो जलाधारेष्विवांशुमान् ।।एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।।” इति । उक्तंच भगवता – “सर्वभूतस्थमात्मानं सर्वभूतानिचात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।।’ इति । एवंविधान्यन्यान्यपि वचनान्यसङ्ख्यातत्वान्न कार्त्स्न्येनोदाहर्तुं शक्यन्ते ।
नच बद्धमुक्तव्यवस्थाभावप्रसङ्गः, ब्रह्माज्ञानवादे त्वितः पूर्वं मुक्ताना मेवाभावात् । एकमेव हि ब्रह्मैकया अविद्यया बध्यमानं बहुतया बम्भ्रमीति, तदेव कदाचिन्मोक्ष्यत इति स्थितेः । शुको मुक्तो वामदेवो मुक्त इत्यादि शास्त्रं कथमिति चेन्न; – कथञ्चित्स्वप्नपुरुषमोक्षवत् तस्यापि मिथ्यात्वात् । जीवाज्ञानवादे तु प्रतिजीवमविद्याभेदाज्जीवानाञ्च बिम्बप्रतिबिम्बस्थानीयत्वात्प्रातिस्विकाविद्यानिवृत्त्या प्रत्येकमोक्ष जीवान्तरस्थित्युपपत्तेः । ब्रह्मणस्तु नित्यमुक्तत्वेन बद्धमुक्तावस्थयोरेवाभावात् । तस्मादविद्यापरिकल्पितोयं जीवानां मिथो भेद इति ।
अत्रोच्यते – यदुक्तं “विगीतानि शरीराणि मयैवात्मवन्ती’ति; तत्र मयेति किमहमर्थो विवक्षितः, उत तदनुबन्धिनी संवित्, उत तदुभयोत्तीर्णः कश्चित्तयोरपि साक्षी? नाद्यः, एकस्मिन्नपि शरीरे भवद्भिरहमर्थस्यात्मत्वानभ्युपगमेन तद्दृष्टान्तस्य साध्यविकलत्वात् । पक्षस्य चाप्रसिद्धविशेषणत्वात् । अनात्मनात्मवन्तीति प्रतिज्ञाविरोधापत्तेः । स्वसिद्धान्तविरुद्धाहमर्थात्मत्वतदभेद सङ्कथनेनापसिद्धान्त प्रसङ्गाच्च । न द्वितीयः, अस्माभिस्तस्याः क्वचिदप्यात्मत्वानभ्युपगमेन साध्यविकलत्वादेव । तथैवाप्रसिद्ध विशेषणत्वमपि, सर्वत्र संविन्मात्रस्यास्माभिरात्मत्वप्रतिक्षेपात् । तथैव च विरोधः, अनहमर्थेन संविदा आत्मवन्तीति प्रतिज्ञानात् । नापि तृतीयः, भवदभिमतस्य साक्षिणोस्माभिरन्यत्र प्रतिक्षेपात् । अस्मदिष्टेन तु सर्वाध्यक्षेणेश्वरेणात्मवन्तीति साधने सिद्धसाधनात् । जीवाधिष्ठितान्यपि हि शरीराणि परमात्मनात्मवन्त्येव, तस्य सर्व शरीरत्वात् । सद्वारकमिति तु विशेषः । एवमुत्तरेष्वपि प्रयोगेष्वस्मच्छब्दविकल्पेन दूषणमूह्यम् ।
विशेषतोपि ब्रूमः – यत्तुमदविद्याकल्पितमिति साध्यते, तत्रापि दृष्टान्तस्य साध्यविकलतैव, स्वप्नदृष्टानामपि पदार्थानामीश्वरसृष्टत्वस्य श्रुतिसिद्धत्वात् । “न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान्पथः सृजते, सहिकर्ते’ तीश्वरकर्तृत्वश्रवणात् । समर्थितं चैतत् “सन्ध्ये सृष्टिराह ही’ त्यस्मिन्नधकरणे । मदविद्याकल्पितमित्यस्य साध्यस्य प्रपञ्चसत्यत्वप्रतिपादनेन बाधोपि द्रष्टव्यः । तेनैव कल्पित्वादिति हेतोरसिद्धिश्च ।
यत्तु सर्वोप्यात्मा ऽहमेव, चेतनत्वादिति । तत्राहमर्थत्वमात्र साधने सिद्धसाधनता । स्वतादात्म्यसाधने वक्ष्यमाणेन विरुद्धधर्माध्यासेन बाधः । चेतनत्वादिति हेतोस्स्वपक्षेणासिद्धिः । दृष्टान्तस्य साधनविकलता च । चिद्रूपत्वमात्रस्य हेतुत्वे धर्मभूत ज्ञानेनानैकान्तः । त्वत्पक्षे वृत्तिज्ञानेनापि । वैशेषिकादिमतेना सिद्धिश्च । आत्मत्वादिति प्रयोगेपि चेतनत्वचिद्रूपत्वादिविकल्पेन दूषणमूह्यम् । आत्मत्वजातिमत्त्वादिति विवक्षायां नानात्मवाद प्रसङ्गः, व्यक्तिभेदनान्तरीयककत्वाज्जातेः ।
यत्तु सर्वाणि सुखदुःखानि मयैव भुज्यन्त इति । तत्र स्वहृदयविसंवादस्तावत् । यदिच सर्वाणि दुःखानि स्वेनैव भुज्यन्ते, तर्हि कथं परहिंसादिप्रवृत्तिः । नहि स्वसुखोच्छेदाय स्वदुःखोत्पादनाय वा प्रेक्षावन्तः प्रवर्तेरन् । अद्वैतदर्शिनां न तथा प्रवर्तनमिति चेन्न; – सर्वतत्वोपदेशिना भगवता वासुदेवनापि स्वयमेव वा धनञ्जयादिमुखेन वा परपीडादर्शनात् । नित्यमुक्तवेनास्पृष्टसुखदुःखस्यात्मनस्तद्भोक्तृत्व सम्भवादपसिद्धान्तश्च । अतएव दृष्टान्ते साध्यवैकल्यं च । अथ परमतेन भोक्तृत्वमन्वारुह्योच्येत, तदापि तन्मतेनाहमर्थस्यैवात्मत्वात्तदद्वैत साधने भवतः कथ मात्माद्वैतसिद्धिः । अस्मच्छब्दानुबन्धेन यान्यन्यान्यैक्यसाधने । प्रयुक्तान्यनुमानानि तेषामेषा निराक्रिया ।।
यत्पुनरस्मच्छब्दानुबन्धमुत्सृज्य विगीतानि शरीराणि देव दत्तात्मनात्मवन्तीति प्रयुक्तम्, तत्राप्यहमर्थत्वसंविन्मात्रत्वाद्यात्म शब्दार्थविकल्पेन प्रागुक्तदोषो दुस्तर एव ।
यच्च प्रतिपन्नश्शरीरभेदोनेकात्मनिरपेक्ष इति; तत्रैकात्माधिष्ठितत्वविवक्षायामीश्वराधिष्ठानेन सिद्धसाधनता । भिन्नात्माधिष्ठान राहित्यविवक्षायान्निषेध्यसिद्धौ तथैव तत्सिद्धेर्बाधः । तदसिद्धौ किन्निषेध्यम् । क्वचित्प्रमितस्यैव निषेध्यत्वमिति स्थितमन्यत्र । एवमन्येष्वप्यात्मैक्यसाधनेषु दूषणमूह्यम् ।
यः पुनर्विपक्षे दण्डवत्प्रदर्शितः कल्पनागौरवप्रसङ्ग इति; स तदा स्यात्, यदि नोपलभ्येत न श्रूयेत वा भेदः । वक्ष्यते तदुभयम् ।
प्रतिप्रयोगाश्च – चैन्नात्मा मैत्रात्मनो भिन्नः, कदा चिदपि मैत्रानुभवजनितस्मृतिहितत्वात्, घटवत्; व्यतिरेकेण वा, यो मैत्रान्नभिद्यते स तदनुभवजनितस्मृतिमान्, यथामैत्रात्मैव, इत्यादयः । नचात्र हेत्वसिद्धिः, स्वात्मप्रत्यक्षसिद्धत्वात् । अन्यथाऽऽचार्यानुभूतमखिलं च स्मरन् किमर्थं शृणोषि । पराभिप्रेतं च जानन् किमर्थं विकल्पयसि । मयि च त्वदभिप्रेताभिज्ञे किमर्थ मुत्तरं ददासि । परोक्तं च त्वदुक्तमभिमन्यमानः किमर्थं दूषयसि । निर्विशेषणतया पूर्वेषां प्राबल्यमिति चेन्न; – विशिष्टस्याप्युपलम्भानुरोधिनो बलीयस्त्वात् । अन्यथा मेयत्वाभिधेयत्वादीनामाभासहेतूनां निर्विशेषणतामात्रेण बलीयस्त्वे सविशेषणानां हेतूनामुपप्लवः । तेन पूर्वेषामपि बाधो निर्विशेषणानामपि जायते ।
यत्तु – पण्डितत्वमूर्खत्वादीनां विरुद्धत्वन्नास्ति, अधिकरणभेदेसिद्धे सहानवस्थानलक्षणीविरुद्धत्वम्, ततश्च स इत्यन्योन्याश्रयणादिति । तत् किं क्वचिद्विरोधमभ्युपगम्य सोत्र नास्तीत्युच्यते, उत क्वचिदपि विरोधाभावमभिमत्य? नाद्यः, अविशेषात् । नहि सितासितादिभेदात् ज्ञानाज्ञानादिभेदस्य वैषम्यं पश्यामः । अधिकरणस्वरूपभेदस्य स्फुटोपलम्भाद्वैषम्यं सिद्धमिति चेन्न; असिद्धेः । नहि वैषम्यानुपलम्भेपि वस्तूनां भेदस्सिध्यति, तस्यैव तत्त्वात् । अन्यथा वैधर्म्याग्रहेपि स्वरूपोपलम्भमात्रेण भेदसिद्धौ संशयविपर्ययोच्छेदप्रसङ्गात् । अथ पुनर्वैधर्म्योपलम्भवेळायां स्वरूपभेदोप्यन्यः प्रतीयत इत्यभिमन्यसे, तर्ह्यत्रापि तथानुमन्यस्व । नापि द्वितीयः, अविवादप्रसङ्गात् । नहि स्वसिद्धान्ताविरोधिनि परमते विवादसम्भवः । अन्यथा स्वसिद्धान्तवादिभिरपि विवादप्रसङ्गात् । अनैकान्तवादस्य च साम्राज्यापातात् । किञ्च – स्थिरीकृतो विरोधस्स्याद्विरोधं प्रतिरुन्धता । विरोधाप्रतिरोधेहि विरोधो निरुपद्रवः ।। विरोधोद्घाटनम्मुक्त्वा किन्नु दूषणमुच्यते । सर्वत्रैवाविरोधे तु भवेत्सर्वविरोधिता ।।
यत्तु – प्रलपितम्, घटपटादिष्वपि विरोधपरिहारद्भेदविलय इत्यत्र इष्टप्रसङ्त्वमिति; तत्स्वसिद्धान्तोच्छेदायोक्तम्, सर्वाद्वैते सत्यमिथ्यार्थविभागभङ्गप्रसङ्गात् । सर्वमिथ्यात्वस्य च भवद्भिरनभ्युपगमात् । विरोधमुत्सृज्य सत्यमिथ्याविभागस्य दुरुपपादत्वाच्च ।
एवञ्च विरोधसिद्धावनुमानादिसिद्धपरप्रतियोगिक भेदस्य स्वात्मनि प्रत्यक्षतया प्रत्यक्षबाधोपि सिद्धः । अतएव परस्परप्रतिसन्धानप्रसङ्गोपि निरुपद्रवः । पटुप्रत्ययाभ्यासादरा हितातिशयतादात्विकसंस्कारवशेन प्रतिसन्धानप्रसङ्गे सति न जन्मान्तराद्युदाहरणावकाशः ।
यत्तु – तत्रोक्तम् – अविद्यावैचित्र्यादुपाधिभेदप्रतिनियततया वा प्रतिसन्धानाभाव इति; तदपि न, अविद्यास्वरूपतत्प्रमाणादेरन्यत्र प्रतिक्षेपात् । अन्यथा चिदचिद्विभागस्यापि तद्वैचित्र्यनिबन्धन तथा तदैक्यस्यापि प्रसङ्गात् । उपाधिभेदस्तु न प्रतिसन्धान प्रतिबन्धकः, सौभर्युपाधिभेदवत्; अन्यथा जातिस्मरत्वमपि कस्य चिन्न स्यात् । अन्तः करणैक्यात्तदुपपत्तिरिति चेन्न; – केषाञ्चित्कल्पान्तरानुभूतस्मृतिदर्शनात् । अन्तः करणभेदात्सुखादिव्यवस्थायां बाह्यकरणभेदादपि व्यवस्था किन्न स्यात् । नच तथास्ति; दृष्टमेव स्पृशामीति प्रतिसन्धानात् । एवं पाणिपादाद्यवयवभेदादपि प्रसङ्गो दर्शयितव्यः ।
यत्तु – तत्वविदः प्रहूलादवामदेवादयः प्रतिसन्दधत इत्युक्तम्; तदपि मन्दम्, तेषां सर्वान्तरात्मभूतपरमात्मपर्यन्तस्वात्मानुसन्धानेन तथा तथा व्यपदेशात् । अत एव हि “”सर्वगत्वादनन्तस्ये”त्युक्तम् । तदभिप्रायेण च श्रुतिः – “”तद्वैतत्पश्यन्नृषि” रिति । तदेतद्ब्रह्मान्तर्यामिकत्वं पश्यन्नित्यर्थः । एव मेव हि “”सर्वं समाप्नोषि ततोसि सर्व” इत्यादिकमपि । एते नैवादिभरताद्यनुसन्धानाप्रकारोपि निर्व्यूढः । अन्यथा तत्वविदां सर्वात्मगतसुखदुःखानुसन्धाने त्वेकदर्वीकरभयपलायितस्यानन्तसर्पमध्यनिपातन्यायेन तत्वदर्शित्वं विपरीतफलं स्यात् । नच तेषां सर्वकर्मक्षयात् भोगो नास्तीति वाच्यम्; स्वगतसुखदुःखानुसन्धास्यैव भोगत्वेन तदनङ्गीकारव्या घातात् । यत्तु सुखादिप्रतिसन्धानप्रसङ्गे परप्रतिसन्धानमपि स्वप्रतिसन्धानमेवेति किमत्र प्रसञ्जनीयमित्युक्तम्; तदपि विरोधोपपादनेनैव परिहृतम् ।
यत्तु परस्परान्यत्वोपलम्भे जल्पितम् – परस्याप्रत्यक्षत्वे तद्गतान्यत्वमपि न प्रत्यक्षयितुं शक्यमिति; तस्य किं प्रत्यक्ष निर्बन्धेन, अनुमानतोपि तत्सिध्द्युपपत्तेः । स्वात्मनि तदन्यत्वस्य प्रत्यक्षत्वे स्वप्रतियोगिकतद्गतान्यत्वस्यानुमातुं शक्यत्वात् । यो यद्गतान्यत्वप्रतियोगी स ततोन्यः, यथा सव्यहस्ताद्दक्षिणहस्त इति हस्तस्थत्वाद्व्याप्तेः । यत्तत्रोत्तरम्परः प्रतीयमानोन्यतया वा, अनन्यतया वा, सामान्यतोवेति; तत्रान्यतयैवेति ब्रूमः । यद्यपि तत्र न प्रत्यक्षम्, तथापि मुखविकासाद्यनुमितेन हर्षादिना स्वस्मिन्ननुपलभ्यमानेन स्वस्मादन्यतयैवानुमातुं शक्यते । दर्शितं च सुखदुःखतदभावादीनां यथोपलम्भं विरुद्धत्वम् । अत एव सामान्यतः प्रथमप्रतीतावप्यनन्तरं विरुद्धधर्मोपलम्भेनापि भेदानुमितिस्सिद्धा । एतेन प्रतिसन्धानतदभावयोः कथं सामानाधिकरण्यमित्यत्र तदभावासिद्धिवचनमपि प्रत्युक्तम् । तदभावसिद्धावपि उपाधिभेदेन तदुपपत्तिस्तु प्रागेव दूषिता । यत्तु प्रतिसन्धानतदभावविरोधशमनाथ प्रदेशवर्तिसंयोगादिक मुदाहृतम्; तद्विवक्षितमजानतैवोक्तम् । नहि वयं प्रतिसन्धान स्वरूपस्य सर्वत्र वृत्तिं प्रसञ्जयामः, आत्मवैभववादिनो हि प्रदेशवर्तिन एव ज्ञानादिगुणान् वदन्ति । यत्र क्वचित्प्रदेशेनुभवोत्पत्तावपि तदन्येनापि प्रदेशेन प्रतिसन्धानादिकमवर्जनीय मेव । अन्यथा दक्षिणहस्तेन स्पृष्टं सव्यहस्तेन स्पृशामीति प्रतिसन्धानं न स्यात् । सौभरिप्रतिसन्धानमपि दूरमपास्येत; तत्रापि प्रादेशिकप्रतिसन्धानोत्पत्त्या प्रतिसन्धानाभावस्य वक्तुं शक्यत्वात् । तस्मादश्रयणविषयीकरणयोरविशेषभ्रमात् संयोगादिनिदर्शनम् । श्रुतयस्तु “”अहमेवेदं सर्वम्, आत्मैवेदं सर्व” मित्यादिकाः प्रह्लादादिवाक्योक्तन्यायेन निर्व्यूढाः । “”नेह नानास्ति किञ्चने” त्यादिभेदनिषेधास्तु समस्तचिदचिद्विशिष्टे ब्रह्मण्येकस्मिन् ज्ञाते विशिष्टबहिर्भूतप्रतिक्षेपपराः, यथा – शरीरजातिगुणवसनभूषणादिपरिगणिते कस्मिंश्चित् पुरुषेवस्थिते तत्रैक एव तिष्ठति नान्यः कश्चिदिति व्यपदिशन्ति; तद्वदत्रापि । एवमनभ्युपगमे ऽहन्त्वमादिलोकोपलम्भविरोधः । शास्त्रप्रत्यक्षविरोधे प्रत्यक्षप्राबल्यं स्थितमन्यत्र । तथा “”नित्योनित्यानां चेतनश्चेतनानामेको बहूनामि” त्यादिभेदश्रुतिशत कोपश्च । विषयभेदाद्विरोधे शाम्यत्यन्यतरबाधोनुपपन्न इति सगुणनिर्गुणश्रुतिचिन्तने सुस्पष्टम् । मीमांसाशास्त्रसन्दर्भः सर्वो विषयभेदतः । श्रुतीनामविरोधाय जायते नतु बाधनात् ।।
एतेन स्मृतिष्वपि भारोवरोपितः । तत्रापि ब्रह्मात्मकत्व प्रतिपादनप्रकरणे प्रागुक्तन्यायावतारः । जीवानां परस्परभेदनिषेध प्रकरणे तु ज्ञानरूपतयात्यन्तसमस्वरूपाणां कर्मकृतदेहोपाधिक देवत्वादिभेदस्य स्वरूपानुबन्धित्वप्रतिक्षेपे तात्पर्यम् । तथाचोच्यते – “”देवादिभेदे ऽपध्वस्ते नास्त्येवावरणो हि सः । ” “”पुमात्र देवो न नरो न पशुर्नच पादपः । ” इत्यादिना । “”यद्यन्योस्ति परः कोपि” त्यत्रान्यशब्देनान्यादृशत्वमेवोच्यते, अन्यथा परशब्दपौनरुक्त्यात् । एवं सत्यात्मनां परस्परसाम्य प्रतिपादकवाक्यान्तरानुगुण्यमपि सिध्द्यति । अत एव भगवद्वचनमपि निर्व्यूढम्, “”सर्वत्र समदर्शिन” इति तत्रैवोक्तेश्च । घटाकाशतरङ्गचन्द्राद्युदाहरणवाक्यस्य जीवविषयत्वेऽयमेव न्यायः । तत्तु यदा परमात्मविषयम्, तदा तद्गतदोषैरस्पृष्टत्वमात्रे तदुभयदृष्टान्ततात्पर्यमिति “”वृद्धिह्रासभाक्त्वमन्तर्भावादुभय सामञ्जस्यादेवं दर्शनाच्चे” ति सूत्रेणैव समर्थितम् । एवमनभ्युपगमे बद्धमुक्तव्यवस्थाभङ्गश्च ।
यत्तत्रोक्तम् – ब्रह्माज्ञानवादे तावत्पर्वूम्मुक्ता एव न सन्ति, शुक्तादिमोक्षोपि स्वप्नदृष्टपुरुषमोक्षवन्मिथ्येति; तत्र तावदद्वैत विद्योपदेशिनान्त्वदाचार्याणामपि मोक्षस्य मिथ्यात्वे स्वयं कथं मोक्षमन्विच्छसि? कथं वा शिष्यांश्च प्रेरयसि । आमोक्षाज्जीववच्छरीरं किमित्यपरिज्ञानादिति चेन्न; – सर्वशरीराणामेकात्माधिष्ठितत्वे मिथ्यात्वे चाविशिष्टे तत्तददिष्ठाने च प्रतिभासमात्र सिद्धेर्द्रष्टृदृश्यशरीरविशेषासिद्धेः । ततश्च पश्चात्तनोपि मोक्षोमिथ्याभूत इति कथमद्यतनाद्विशेषः । तस्मान्न कदाचिदपि मोक्ष इति वा न कदाचिदपि बन्ध इति वा स्यात् । इष्टमेवैत दुभयमपीति चेन्न; – पूर्वत्र नित्यबन्धप्रसङ्गेन निवर्तयितुमशक्यत्वात् उत्तरत्र निवर्त्याभावाच्च बन्धनिवर्तनोपायोपदेशादि परशास्त्रनैरर्थक्यादिप्रसङ्गात् ।
जीवाज्ञानवादे तु ब्रह्मणो बन्धानभ्युपगमात् ब्रह्मव्यतिरिक्तस्य च मित्यात्वात् केवलं बाधिता बाधितव्यवस्थेत्येव स्यात्, नतु बद्धमुक्तव्यवस्था । अथ ब्रह्म प्रतिबिम्बस्थानीयानामपि जीवानां ब्रह्मत्वम्, तदा ब्रह्माज्ञानवाद प्रसङ्गे प्रतिपादित एव दोष इति ।
एवं भास्करादिपक्षेपि परस्परं जीवानां ईश्वरेण चाभेदस्य स्वाभाविकत्वात् उपाधिभेदस्य चोकिञ्चित्करत्वस्थापनात् – सर्वसुखदुःखादिप्रतिसन्धानप्रसङ्गे बद्धमुक्तजीवेश्वरव्यवस्थाभङ्गप्रसङ्गो दुर्वारः ।
यत्तु – भेदवादेप्यतीतकल्पानन्त्यात्प्रतिकल्पमेकमुक्तावपि सर्वमुक्तिप्रसङ्गात् कथं बद्धमुक्तव्यवस्थेत्याहुः; तदपि मुग्धभाषितम्, अनन्तघटध्वंसेपि घटान्तरस्थितिवदनन्तकल्पानां ध्वंसेपि कल्पान्तरवदनन्तपार्थिवपृथक्कारेपि द्रव्यान्तरानन्त्यवद्यथोपलम्भमानन्त्यातिशयाद्धवस्थोपपत्तेः । एकस्य वात्मनः कथमितः पूर्वमपवर्गाभावः? हेत्वनागमनादिति चेत्? एवमनेकेष्वपीतिभावय, तथा अनन्ता एव जीवा इत्यपि यथाप्रमाणामनुसन्धत्स्व । नन्वेवमपि कश्चिन्नित्यं मुक्तः कश्चित्तु बध्यते मुच्यते चेति व्यवस्था न सिद्ध्यति, आत्मनां स्वतस्समत्वादीश्वरस्य साधारण्यादिति चेत्? हन्तैवमास्तिकपदवीमनुप्रविष्टोसि! ततश्च किं जीवेश्वरभेदमनभ्युपगम्य पृच्छसि, उत तदभ्युपगमेन? न प्रथमः, श्रुति – विरोधादभेदवादिनापि सर्वज्ञत्वादिवैषम्याङ्गीकाराच्च । नापि द्वितीयः, आत्मत्वाविशेषेपि कथमीश्वरो नित्यमुक्त इतिवदपहास्यत्वात्? संसारहेत्वत्यन्ताभाववत्तया धर्मिग्राहकेण तत्सिद्धेरिति चेत्? हन्तानीश्वरेष्वपि केषुचित्तथा धर्मिग्राहकसद्भावे किं कुर्मः । अनीश्वरत्वादेव संसारयोग्यत्वमस्तीति चेत्? तत्सत्यम्, सा स्वरूपयोग्यता, नतु सहकारियोग्यता । स्वरूपयोग्यत्वं सहकारियोग्यत्व व्याप्तमिति चेन्न; – निस्तुषबीजादिष्वङ्कुरादिसहारिसन्निपातादर्शनात् । तथाप्यविरुद्धयोरसंसर्गः प्रणाशाभावे कालविप्रकर्षव्याप्त इति चेन्न; – मुक्तानामुत्तरकालबन्धाभाववदुपपत्तेः । हेतूनां अत्यन्तोच्छेदात् न पुनस्सहकार्यागमोपुनरावृत्तिश्रुतेरिति चेन्न; – तुल्यत्वात् । अत्यन्ताभावादिति हि विशेषः, सतु विरुद्ध इति चेन्न; – धर्मिग्राहकतस्तत्सिद्धौ विरोधासिद्धेः । ततश्च तद्विपरीतानुमानाद्युत्थानमपि प्रतिरुद्धम् । धर्मिग्राहकमेव न पश्यामीति चेत्? तर्हि निर्विषयं चोद्यमिति तुष्णींभव, अधीष्व वा तत्वमाचार्येभ्य इति । तदेतत्सर्वमादिभरतवाक्यव्याख्यानव्याजेन भाष्यकारैस्सूचितमिति द्रष्टव्यम् ।
इति शतदूषण्यां आत्माद्वैतभङ्गवादः षट्त्रिंशः । (36)