[highlight_content]

शतदूषणी विविदिषासाधनत्वभङ्गवादः(6)

शतदूषणी

।।अथ विविदिषासाधनत्वभङ्गवादः षष्ठः ।।6।।

दृष्टानुश्रविकार्थजातविमुखान् पुंसोऽधिकृत्य श्रुतौ

यज्ञादिर्यदुपास्तिसाधनतया साक्षाद्विधिं प्राप्नुते । 

लीलाभोगविभूतियुग्मभरितस्वात्मप्रदानोन्मुखः

श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ।।

यदुच्यते, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” (बृह-6-4-22) इत्यत्र यज्ञादिकं विविदिषासाधनत्वेन विधीयते, न तु वेदनसाधनत्वेन, वस्तुविरोधात्; श्रुत्यक्षरपर्यालोचनाच्च । विविदिषन्तीति हि श्रूयते; न पुनः विदन्तीति । तत्र ब्रूमः,कोऽसौ वस्तुविरोधस्तावत्? किं ज्ञानस्य यज्ञादिभिस्साधयितुमशक्यत्वम्? उत तेषां ज्ञानाङ्गभूतशमादिप्रत्यनीकात्मत्वम्? यद्वा तत्त्वज्ञानफलापवर्गप्रत्यनीकत्रिवर्गसाधकत्वम्? यद्वा आश्रमाङ्गतया विहितानां विद्याङ्गत्वे नित्यानित्यसंयोगविरोधः? अन्यो वा कश्चिदिति ।

न प्रथमः । स हि यज्ञादिकमन्तरेण उत्पत्तिदर्शनाद्वा, यज्ञादिसन्निधावप्यनुत्पत्तिदर्शनाद्वा? आद्ये त्वसिद्धिः प्राचीनेष्वर्वाचीनेषु वाधिकारिष्वननुष्ठित शुद्धधर्मेषु विद्योत्पत्तेरसिद्धत्वात् । द्वितीयेत्वप्रयोजकता सामग्र्यैवहि कार्योत्पत्तिः न पुनर्हेतुमात्रात् संभवति च प्रायशः कर्म कर्तृसाधनवैगुण्यम् । अन्यथा चित्रापशुफलत्वादावपि कस्ते समाश्वासः? । तस्यास्तत्साधनत्वं विदधाति श्रुतिरिति चेत्, अत्रापि यदि श्रुतिर्विदधाति, तदा तद्वदेव समाश्वसिहि । अन्यथा विविदिषासाधनत्वेऽपि त्वया न समाश्वसितव्यम्; तत्रापि साध्यसाधनभावस्य श्रुत्येकावसेयत्वात् । ” कुर्वद्वाऽयमकुर्वद्वा” (चार्वाकाः) इत्यादिचार्वाकदुर्वादस्य त्वयाऽप्यस्मर्तव्यत्वात् । व्यभिचारस्य च समत्वात् । एतेन वाक्यजन्यप्रमितिरूपस्य संस्कारजन्यस्मृतिसन्ततिरूपस्य वा वेदनस्य किं कर्मापक्षयेति निरस्तम्; इच्छाया अप्यनुकूलताबोधाधीनोत्पत्तेःकिं कर्मापेक्षयेति समत्वात् । अन्तःकरणनैर्मल्यद्वारेणेति चेत्, तुल्यम्, “यत्रोभयोस्समो दोषः” (श्लोकवार्तिकं) इत्यभियुक्तवचनं किमर्थमित्थं विस्मरसि । “कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते” (महा भा-शान्ति-276-35) इत्यादिवाचनिकार्थातिलङ्घनं तवाधिकम् ।

नापि द्वितीयः; शमादेरविहिताप्रतिषिद्धनिषिद्धविषयत्वेन विद्याङ्गतया विहितेभ्यः कर्मभ्यो व्यतिरिक्तविषयत्वात् । विहितस्य च, “धर्मेण पापमपनुदति”(तै-उ.महाना 75) कषायपक्तिःकर्माणिज्ञानं तु परमागतिः”(महा भा-शान्ति 276-35) इत्यादिभिर्विद्योपकारकत्वस्यैव श्रुतत्वात् ।

न च तृतीयः; फलाभिसन्धिविरहादेव त्रिवर्गानारम्भात्, अनेकफलसाधनस्यापि ज्योतिष्टोमादेरभिसन्धिविशेषेण फलं प्रति नियमस्य सर्वैरभ्युपगन्तव्यत्वात् ।

अत एव न चतुर्थः; तत्रापि विनियोगपृथक्त्वेन नित्यानित्यसंयोगविरोधाभावात् । तदेतत् सर्वं सूत्रकारैरेव विस्पष्टमुक्तम् – “सर्वापेक्षा च यज्ञादिश्रुतेरश्वत्” (ब्र.सू-3-4-26) “शमदमाद्युपेतस्स्या त्तथाऽपि तु तद्विधेः तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात्” (ब्र.सू.3-4-27) “”विहितत्वाच्चाश्रमकर्मापि” (ब्र.सू.3-4-32) “सहकारित्वेन च” (ब्र.सू.3-4-33) “अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्” (ब्र.सू.4-2-26) इत्यादिभिः ।

या च ते श्रुत्यक्षरपर्यालोचना, सोऽपि हस्तसमालोचः; “सोऽन्वेष्टव्यः, स विजिज्ञासितव्यः”,(छां-दहर) “तद्विजिज्ञासितव्यम्”, (छां.8-7-1) “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृ.6-4-6) इत्यादिश्रुतिशीलापरामर्शात् । न हि तेषु सन्प्रत्ययार्थविधिपरत्वं भवताऽपि स्वीकृतम् । विधिबलावसितपुरुषार्थसाधनत्वार्थसिद्धेच्छानुवादरूपत्वात् प्रत्ययस्य । ध्यायीतेत्यादिविध्यन्तरैकार्थ्यात् ; तत्र शाब्दं प्रत्ययार्थप्राधान्यमनादृत्य, इच्छाया इष्यमाणप्रधान त्वादार्थं प्रकृत्यर्थप्राधान्यं स्वीक्रियत इति चेत्-तर्हि, “क्रियावानेष ब्रह्मविदां वरिष्ठः”,(मुंड-3-2-4) “कर्मणैव हि संसिद्धिम्’ (गीता-3-20) “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रर्वतते” (महा-शान्ति 276-35) इत्यादिप्रमाणसहस्रैकार्थ्यादत्रापि वेदनपरत्वमङ्गीकुरुष्व ।

लोके च, “असिना जिघांसति”, “अश्वेन जिगमिषति” इत्यादिषु प्रकृत्यर्थे करणान्वयो बहुलमुपलभ्यते । अत्र असेरश्वस्य वा हननगमनेच्छासाधनत्वयोगात् हननादिसाधनत्वस्यान्वयव्यतिरेक सिद्धत्वाच्च अगत्या प्रकृत्यर्थसाधनत्वाश्रयणम् । इह तु न तथा; अन्तः करणनैर्मल्यद्वारेण सत्त्वविवृद्ध्योपकारकत्वस्य ज्ञानतदिच्छयोरविशेषादिति चेन्न; अनन्यपरत्वस्योपपादितत्वात् । अयोगस्य चात्राप्यविशेषात् ।

तथा हि योऽयं विविदिषाकामो यज्ञादिष्वधिकरोति, स किं तदानीं वेदनमिच्छति, उत न? आद्ये, विविदिषा सिद्धैवेति न तस्या यज्ञादिसाध्यत्वम् । तथा च चक्रकम् । वेदनेच्छायां जातायामेव विविदिषेच्छा जायते, तस्यां जातायां कर्मानुष्ठानम्, ततो विविदिषेति । अत्रैकैकोभयपर्वसङ्कोचेनाऽऽत्माश्रयान्योन्याश्रयावप्यन्तर्भाव्यौ । द्वितीयेऽपि, वेदनस्यानिष्टत्वे विविदिषाऽप्यनिष्टैव स्यात्, तद्विषयत्वात् तस्याः । विविदिषा हि वेदनं साधयेत्; तच्चापवर्गादिकमिति मत्वैव हि तस्यामभिलाषसम्भवः । ननु वेदनौन्मुख्यलक्षणविविदिषा पूर्वं संवृत्ता । तदर्थप्रवृत्तिपर्यन्तातु साध्यतयाऽभिमतेति चेन्न; तादृशतीव्रेच्छाया एव उत्पत्त्यनुत्पत्तिविकल्पे प्रागुक्तदोषानतिलङ्घनात् । न हि वेदने तीव्रेच्छायामसम्भवन्त्यां तादृशीमपि तामिच्छेत्, तदुपायवर्गानुष्ठानक्लेशं वा सहेत ।

ननु दृष्टमेतत् यद्बुभुक्षापिपासादिकामनया भेषजमुपदिश्यते । तत्रापि भोजनादेरिष्टत्वानिष्टत्वविकल्पेन प्रागुक्तप्रसङ्गोदुर्वारः । तत्र यः परिहारस्ते, स नोऽत्रापि भविष्यतीति चेत्-तन्न; भोजनादेः सामान्यतोऽनुकूलत्वज्ञानादेवेष्टत्वसिद्धेः, तथापि दोषवशात्तदातनमनारोग्यात्मकं प्रातिकूल्यमप नेतव्यमिति तावन्मात्रार्थं भेषजोपदेशः; न पुनरिच्छास्वरूपनिष्पत्तये । अत्रापि तर्हि तथाऽस्तु; सामान्यतो वेदनस्येष्टत्वेऽपि तादात्विकतत्प्रातिकूल्यापादकरजस्तमोनिबर्हणेन अन्तःकरणशुद्ध्यर्थंकर्मणां विनियोग इति चेत्, तर्हि विविदिषासाधनत्वश्रुतिः परित्यक्तैव । अवान्तरव्यापरत्वादविरोध इति चेत् वेदनसाधनत्वमप्यनुमन्यताम्, तत्पूर्वभाविनः सर्वस्यापि यज्ञादिकर्मावान्तरव्यापारत्वोपपत्तेः । एवंच सति, “क्रियावानेष ब्रह्मविदां वरिष्ठः”,(मुंडक 3-2-4) “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते” (महा-भा-शान्ति 276-31) “पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनःपुनः”(महा-भा-उद्यो-34-75) इत्यादिभिरैकार्थ्यं च । अतो यज्ञादिकर्म वेदनसाधनमेव ।

ननु विविदिषासाधनत्वे यत् चोद्यं यज्ञादेः, तत् भक्तिसाधनत्वेऽपि समानम् तथा हि । किं भगवति भक्तिमान् भक्तिं कामयते, उत तद्विधुरः? न प्रथमः, भक्तेर्निष्पन्नत्वेन साध्यत्वायोगात् । न द्वितीयः, भगवद्भक्तिविधुरस्य तद्भक्तावपि नैरपेक्षयात्; भक्त्यवस्थाभेदान्निर्वाहेऽपि प्राग्वदेव दोष इति । तन्न । प्रीतिरूपज्ञानविशेषो हि भक्तिः; प्रीतिश्च तारतम्यवती । विषयस्वभावविशेषाभिमानाभ्यास भेषजादिभिः प्रेमवृद्धिः कामशास्त्रादिष्वपि सम्मता । पुरुषस्य तत्कामना सम्भवति न वेत्येतावदेव चिन्तनीयम् । तत्र यदि सञ्जातमात्रादतिशयितस्य प्रेम्णः फलान्तरं प्रमाणतः सिद्ध्येत्, तदा तथाविधंतस्यातिशयमभिवाञ्छेदेव । न च तावता तथाविधस्यातिशयस्यापि निष्पन्नत्वप्रसङ्गः; ज्ञानवदुपपत्तेः । सामान्यतोऽवगते हि विशेषतो ज्ञानाय व्याप्रियते । अन्यथा जिज्ञासैव सर्वत्र न स्यात् । नन्वेवं विविदिषायामप्येवमस्त्विति चेन्न; विशेषेच्छाया एव प्रागेवोदयात्; न हि, “पूर्वें सामान्यतो ज्ञानामिच्छति;पश्चाद्विशेषतः” इति सम्भवति । न च विषयविशेषावच्छेदमन्तरेण इच्छाजातिविशेषः कश्चित् सम्भवति । भक्तौ तु भोग्याकाराविर्भावतारतम्यवशात् तारतम्यमुक्तमिति । इहापि तत एव तारतम्यमिति चेत्; अस्तु तत्, तथाऽपि काम्यत्वं दुर्वचम्; तथाविधविषयविशेषितस्य वेदनस्य काम्यत्वमन्तरेण तदसिद्धेः, तत्काम्यतायाश्च सिद्धौ, सिद्धा तथाविधवेदनेच्छेति कथं सा काम्या? अतः सिद्धं यज्ञादिकर्म विविदिषासाधनत्वेन न विहितमिति । तदेतत् सर्वमभिसन्धायाह – “एवंरूपायाः ध्रुवानुस्मृतेःसाधनानि यज्ञादीनि कर्माणीति “यज्ञादिश्रुतेरश्वत्” (श्री भाष्यं जिज्ञा) इत्यभिधास्यते इति ।

।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य कृतिषु शतदूषण्यां विविदिषासाधनत्वभङ्गवादः षष्ठः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.