शतदूषणी
।।अथ निर्विशेषत्वानुमानभङ्गवादः चतुर्विंशः ।।24।।
विभूतिगुणवर्गेण विशिष्टं यमधीमहे ।
अप्रतर्क्यविशेषाय तस्मै भगवते नमः ।।
यदाहुः – अनुभूतिर्निर्विशेषा, अनुभूतित्वात्, यत्सविशेषं न तदनुभूतिः, यथा घटः, अनुभूतेस्सविशेषत्वे घटवदननुभूतित्वप्रसङ्ग इति । अत्र तावत्प्रतिज्ञायां निर्विशेषपदमनुभूतिपदप्रतिपन्नादधिकार्थबोधकम्? न वा? पूर्वत्र तेनैवानुभूतिरितिवदनधिकार्थत्वेन पुनरुक्तिनिग्रहापत्तिः । समस्तविशेषाभाव एव तेन प्रतिपाद्यत इति चेन्न; उक्तोत्तरत्वात् । तथा हि । स किमनुभूतिस्वरूपमेव? ततोऽतिरिक्तं वा किंचित्? पूर्वत्र पुनरुक्तिः, सिद्धसाधनता च । नहि संवित्पर्यायशतपाठेऽपि नः काचित्क्षतिः । उत्तरत्र विशेषवत्त्वमवर्जनीयम् । समस्तविशेषाभावो न ब्रह्मणो रूपादिवद्धर्म इति चेत्, रूपादिवद्धर्मत्वं नास्तीति वदता किं गुणत्वादिरूपेण धर्मत्वं प्रतिक्षितम्? उत यथाकथञ्चिद्विशेषणत्वमपि? आद्ये गुणत्वादिरूपेण विशेषकत्वाभावेऽपि प्रकारान्तरेण विशेषेकत्वात्सविशेषत्वं तावदवर्जनीयम् । तथा च सति गुणादिरूपे विशेष कःप्रद्वेषः? द्वितीये पक्षीकृताया एवानुभूतेसा(ध्यधर्मा) ध्यानन्वयस्य त्वैयवोक्तत्वादनुमानवृत्तान्तानभिज्ञत्वमनन्वितानिग्रहस्थानं च । प्रमाणबलादयमेको विशेषः स्वीक्रियत इति चेत्, प्रमाणबलादिति किमिदमेवानुमानं प्रमाणम्? उतान्यच्छ्रुत्यादिकम्? न पूर्वः, असिद्धेः । कथं तस्यैव प्रमाणत्वे विमन्यमानं प्रति तदेव प्रमाणमुपस्थापयसि? नोत्तरः, श्रुत्यादेर्निर्विशेषप्रतिपादकत्वस्य दूषयिष्यमाणत्वात् । यदि चाभावरूपमेकं विशेषमभ्युपगच्छसि, तदाभावरूपेष्वन्येषु विशेषेषु किं भावरूपत्वादेवामर्षः? उत प्रमाणाभावात्? नाद्यः, अभावरूपे विशेषे कस्यचिदमर्षप्रसङ्गात् । न द्वितीयः, नित्यत्वस्वयंप्रकाशत्वादेस्त्वयैव प्रमाणैरुपपाद्यमानत्वात् । व्यावहारिकप्रमाणोपस्थापितत्वान्नित्यत्वादीनां मिथ्यात्वमिति चेन्न; निर्विशेषत्वस्यापि व्यावहारिकप्रमाणोपस्थापितत्वेन मिथ्यात्वप्रसङ्गात् । अस्त्वेवं किंनश्छिन्नमिति चेत्, नित्यत्वनिर्विशेषत्वादेर्मिथ्यात्वेन सौगतवैशेषिकाद्यभिमता नित्यत्वसविशेषत्वादेरवर्जनीयत्वात् । ननु निर्विशेषमिति प्रतिज्ञायां विशेषान्तरं निर्विशेषत्वं च विशेषत्वलक्षणसामान्योपाधिना युगपदेव प्रतिक्षिप्यते, ततःपरं च न किंचिद्वक्तव्यमस्तीति चेत्, तत्तत्साध्यधर्मानन्वयलक्षणो दोषःप्रागेवोक्तः । किंच विशेषान्तरशब्देन किं सामान्यतः सविशेषत्वमेव विवक्षितम्? उत रूपरसादयः कतिचन विशेषाः? पूर्वत्र निर्विशेषत्वमपि नास्ति सविशेषत्वमपि नास्तीति व्याहतवर्णना; “परस्परविरोधे हि न प्रकारान्तरस्थिति” ति (न्यायकुसु 3 – 8) रिति न्यायात् । उत्तरत्र रूपरसादिविशेषं निर्विशेषत्वादिकं चापोह्य शास्त्रसिद्धैः सर्वज्ञत्वादिभिः सविशेषत्वप्रसङ्गः ।
किञ्चेयं प्रतिज्ञा त्वदभिमतहेतुरूपधर्मप्रतिक्षेपिका? न वा? आद्ये हेत्वभावे साध्याभावः, प्रतिज्ञाहेतुविरोधश्च । द्वितीये तेनैव विशेषणतयाऽभ्युपगतेन सविशेषत्वम् । हेत्वादिधर्मान्वयस्य प्रमाणसिद्धत्वाभ्युपगमेन तन्निषेधे कालात्ययापदेशप्रसङ्गश्च । यदिच व्यावहारिकहेतुधर्मान्वयेन साध्यसिद्धिरिति मन्यसे, तदा बाष्पधूमभ्रमानुमितदहनवत् स्वप्नलब्धद्रविणनिर्मितभूषणवच्च साध्यव्यापिव्यावहारिकत्वस्य त्वयैवानुमन्तव्यत्वान्न किंचिदस्माकं दूषणीयमस्ति । यादृच्छिकसंवादिलिङ्गविभ्रमवदभिमतसिद्धिरिति चेत्, किमियं सिद्धिर्निर्णयात्मिका? उत सन्देहात्मिका? न पूर्वः, यादृच्छिकसंवादीत्यनेनैव विसंवादशिरसोऽपि सम्भावितत्वेन निर्णयासिद्धेः । नोत्तरः, सन्दिग्धनिर्णयार्थं न्यायं प्रवर्तयितुमिच्छतः पुनरपि तेनैव न्यायेन सन्देहस्यैव स्थिरीकरणात् । असत्यात्सत्यसिद्धिभागस्तु स्वस्थाने द्रष्टव्यः । अतो न कथंचिदपि सर्वविशेषशून्यत्वं प्रतिज्ञातुं शक्यते । घटस्य च परमार्थतः सविशेषत्वानभ्युप गमाद्दृष्टान्तस्साध्याव्यावृत्तः । अथ मिथ्याभूतविशेषयोगात्तत्र सविशेषत्वमिच्छसि; तदाऽनुभूतेरपि तथाविधविशेषाभ्युपगमान्न तत्प्रतिक्षेपः शक्यः । परमार्थविशेषशून्येति साध्यार्थे तु व्यतिरेकदृष्टान्तासिद्धिरुक्ता । यस्त्वनुभूतिर्दृश्यधर्मरहितेति साध्यं प्रयुङ्क्ते, तस्य साध्यविशेषणवैयर्थ्याच्च निग्रहः । अदृश्यधर्मानभ्युपगमात् । एवं प्रत्यक्त्वाजडत्वप्रकाशत्वादिहेतवोऽपि निरस्ता वेदितव्याः ।
ये च धर्मपक्षीकारेण प्रयोगाः – भेदादयो नानुभूतिधर्माः, दृश्यत्वात्, धर्मत्वात्, रूपादिवत्,इत्यादयः; तत्र तावत् स्वाभ्युपगतनित्यत्वादीनामपि पक्षीकारेऽपसिद्धान्तः । तद्बहिष्कारे तैरेवानैकान्त्यम् । तेषां मिथ्यात्वेनाभ्युपगमान्नापसिद्धान्तानैकान्ताविति चेन्न; तथा सति तत्प्रतिक्षेपकान् प्रति तत्समर्थनप्रयासनैरर्थक्यात् । तेषामनुभूतिस्वरूपमात्रत्वे च तत्स्वरूपमभ्युपगच्छद्भिस्सौगतादिभिस्सह न विमन्तव्यम् । अनित्यत्वादिकल्पनातैर्विवादस्तत्प्रतिक्षेपश्च क्रियत इति चेन्न; अनित्यत्वादिनिषेधस्यापि स्वरूपत्वे स्वरूपातिरिक्तस्य सत्यत्वे मिथ्यात्वे च सिद्धसाधनत्वव्याघातादिभिर्दत्तोत्तरत्वात् । किञ्चानुभूतिशब्देन लोकसिद्धसंविद्विवक्षायां विषयाश्रयस्वगतविशेषाणामनन्तानां प्रत्यक्षादिसिद्धत्वस्थापनात्कालात्ययापदेशः । श्रुतिसिद्धब्रह्मस्वरूपपक्षीकारे तु श्रुत्यैव तद्गतानन्तविशेषविषयया बाधश्चापरिहार्य इति । तदेतत्सर्वमपि संगृहीतं भाष्ये – “यदपि नास्या दृशेर्दृशि(स्व)रूपाया दृश्यः कश्चिदपि धर्मोऽस्ति, दृश्यत्वादेव तेषां न दृशिधर्मत्वमिति च, तदपिस्वाभ्युपगतैः प्रमाणसिद्धैः नित्यत्वस्वयंप्रकाशत्वादिधर्मैरुभयमनैकान्तिक”(श्री भाष्यं जिज्ञा)मित्यादिना। तत्र स्वाभ्युपगतैरित्यपसिद्धान्तादेस्संग्रहः । प्रमाणसिद्धैरिति तु बाधादेः । अनैकान्तिकशब्दः स्वसाध्यसम्बन्धनियमनिषेधार्थः । तेन यथासंभवं बाधादेरपि संग्रह इति ।
प्रतिप्रयोगश्च – अनुभूतिः सविशेषा, भासमानत्वात्, घटादिवत्; नित्यत्वादयोऽनुभूतिधर्माः अभ्युपगतानुभूतिस्वरूपं प्रति तद्धर्मतया प्रमाणतस्साध्यमानत्वात्; यत्र यत्प्रमाणतः साध्यते स तद्धर्मः यथा सम्प्रतिपन्नः, इत्यादयः । नचात्र विपक्षे बाधकाभावः शङ्क्यः, प्रागुक्तनिर्विशेषप्रतिज्ञानुपपत्त्यादेरेव बाधकत्वात् । अन्ततो निर्विशेषानुमानस्यैव विपक्षे बाधकरहितत्वाच्च । न च दृष्टान्तासिद्धिः, त्वयैव घाटदेर्व्यतिरेकदृष्टान्ततयोदाहरणात् । बाधादेरपि प्रसङ्गाभावेन प्राबल्यमस्मदुक्तानामिति ।।
।।इति श्री कवितार्कि सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां निर्विशेषत्वानुमानभङ्गवादः चतुर्विंशः ।।24।।