शतदूषणी
।।अथ ऐक्यापदेशान्यथानुपपत्तिभङ्गवादः एकोनपञ्चाशः ।।49।।
त्रिविधचिदचिदन्तर्यामितां प्राप्य तिष्ठन्निखिलनिगमनिष्टैर्नित्यमैक्योपदेशैः ।
भ्रमममलधियां यो वारयत्येकभक्त्या भवतु शरणवाणी तत्पदे शाश्वती नः ।।
यदाहुः,*तत्त्वमसि, *क्षेत्रज्ञं चापि मां विद्धीत्याद्यैक्योपदेशान्यथानुपपत्त्या परिशुद्धे ब्रह्मण्येवाज्ञानं भेदभ्रमश्चावश्यं कल्पनीयम् । नचात्रैक्यं न प्रतीयते, न चाविवक्षितम्; सामानाधिकरण्यस्य तन्निष्ठत्वात्, विशिष्टैक्यवादिनाऽप्यैक्यमात्रस्यास्थितत्वाच्च । नचेदमारोपवृत्त्या सामानाधिकरण्यम्, तत्त्वोपदेशप्रकरणविरोधात् । न च सम्बन्धादिद्वारोपचारः, बाधकाभावात् । यद्यप्यस्मन्मतेऽपि लक्षणा, तथाऽपि प्रधानभूतसामानाधिकरण्यप्रतिपाद्यस्य मुख्यस्यैक्यस्यापरित्यागात्, तत्संरक्षणाय च स्वरूपोलक्षणभूतनिमित्तमात्रप्रहाणादिकं न दोषाय भवति । न च भेदाभेदसमुच्चयः, व्याघातात् । अत एव नोभयत्यागः, तात्पर्यविरोधस्योक्तत्वाच्च । अन्यथा शून्यतैव पर्यवस्येत् । नचैष दृष्टिविधिः; उपासनैकवाक्यत्वाभावात्; तत्सद्भावेऽपि तल्लिङ्गाभावाच्च । अतो जीवपरयो रैक्ये तद्भेदे च प्रतीयमाने द्विचन्द्रदर्शनमूलभूतदोषवदात्मभेददर्शनहेतुरविद्याऽभ्युपगन्तव्या, तन्मूलभेदभ्रमोन्मूलनेन सप्रयोजन एवैक्योपदेशः यथैकश्चन्द इतीति ।।
अत्र ब्रूमः-यद्यैक्योपदेशोऽन्यथानुपपन्नः स्यात्तदैवं परिशुद्धे ब्रह्मण्यज्ञानभेदभ्रमादयः कल्प्येरन्, स त्वन्यथाऽप्युपपन्नः, अन्यथैवोपपन्नश्च । तथा हि-शरीरात्मभावनिबन्धनं सामानाधिकरण्यं व्युत्पादितमन्यत्र । नचात्रद्वयोः स्वरूपैक्यं विवक्षितुं शक्यम् । विरुद्धयोस्तदसंभवात् । अन्यथा यूपादित्यैक्यवाक्येऽपि भेदभ्रमहेतुदोषकल्पनप्रसङ्गात् । विरोधादेश्च समानत्वात् । न च लाक्षणिकसामानाधिकरण्येऽप्यैक्यं परित्यक्तम्, ययाकयाचिद्दृत्त्या एकस्मिन्नेव वृत्तेरङ्गीकृतत्वात् । अतः सामानाधिकरण्यस्य संभवति गत्यन्तरे परिशुद्धब्रह्मणि तन्मूलविरुद्धाज्ञानादिपरिकल्पनं निर्मूलम् । अज्ञानमूलभेदभ्रमवादे च उपदेश एव नोपपद्यत इति स्थितमन्यत्र । नचानुपपन्नत्वस्योपपादकतया स्वयमनुपपन्नान्तरं कल्प्यम्,नचाविद्यादेः स्वरूपमुपपत्तिमदिति दर्शितम् । यदि च दूरं गत्वा दुर्घटत्वमेव भूषणमिति वल्गसि तर्ह्यैक्योपदेशमेवादौ दुर्घटमभिमन्येथाः । अप्रामाण्यं तर्हि तस्य स्यादिति चेत्; अस्मन्मतप्रतिपादितप्रकारेण प्रामाण्यस्य सिद्धत्वात् । यदि वा माभूत्प्रामाण्यम्, यदज्ञानादिपरिकल्पनेऽप्यन्ततः फलति तच्चेदादौ तदप्रामाण्यं सिध्यति, किं दूरं धावसि?
किंच भेदोपदेशान्यथानुपपत्त्या परमार्थभिन्नेऽप्यात्मन्यैक्यभ्रममूलमज्ञानं किं न कल्प्यते? ऐक्यश्रुतीनामतत्त्वावेदकत्वप्रसङ्गभयादिति चेत्; तर्हि भेदश्रुतीनां तत्प्रसङ्गभयात् भेदभ्रममूलाज्ञानमपि न कल्पय । नचैका श्रुतिरितरस्या दासी, येन तदर्थं तामुपद्रवेम । प्रत्यक्षादिसंवादाच्च भेदश्रुतेरेव बलीयस्त्वम् । न च भेदस्वरूपं दुर्निरूपमिति तदप्रामाण्यस्वीकारः, अभेदस्वरूपस्यापि तथाविधयुक्तिभिर्दुर्निरूपतया तत्प्रतिपादकानां तत्स्वीकारप्रसङ्गात् । किंच त्वदुक्तयैवानुपपत्त्या नास्त्येव भेदप्रतीतिरिति किं न कल्प्यते? प्रत्यक्षादिविरोधादिति चेत्; तर्हि निरवद्यभेदश्रुतिविरोधे दृष्टिं पातय । भ्रान्तिसिद्धे भेदेऽप्यैक्योपदेशो द्विचन्द्रादिष्विव घटत इति चेत्; अज्ञानादिरहितेऽपि ब्रह्मणि भ्रान्तिसिद्धैक्येन तदुपदेशोऽपि संभवत्येव । भिन्ने ब्रह्मण्यभिन्नत्वभ्रमः किमर्थमुत्पाद्यत इति चेत्; अभिन्ने ब्रह्मणि भिन्नत्वभ्रमः किमर्थमुत्पाद्यते? अथोपासनेन फलविशेषार्थमिति चेत्? तुल्यम् । उपासनविध्येकवाक्यत्वं दृष्टिलिङ्गं वाऽत्र न दृश्यत इति चेत्तुल्यम् । दूरानुकर्षात्तत्र दृश्यत इति चेत् न किमत्रापि? अपि न ब्रह्मणः शुद्धत्वान्यथानुपपत्त्यैव तस्य जीवैक्योपदेशो नास्त्येवेति वा सन्नप्यन्यपर इति वा तत्परोऽपि भ्रान्तिमूल इति वा कल्पयितुं युक्तम् । नचाशुद्धिमिथ्यात्वेनाविरोधः, उपदेशमिथ्यात्वेन तदुपपादकाभावेऽप्यविरोधप्रसङ्गात् । यश्चासौ* क्षेत्रज्ञं चापि मां विद्धीति तत्त्वपरिज्ञानसापेक्षस्तदुपदेशः, तेनैव च तदज्ञानं कल्प्यत इति चित्रम्! तदेतच्छ्रीमद्गीताभाष्येऽपि स्पष्टमाह । तथा भाष्येऽप्यदर्शयत्,*नाप्यैक्योपदेशान्यथानु पपत्त्येत्यादिना ।।
।।इति शतदूषण्याम् ऐक्यापदेशान्यथानुपपत्तिभङ्गवादः एकोनपञ्चाशः ।।49।।