[highlight_content]

शतदूषणी परमते शास्त्राधिकारिभङ्गवादः(50)

शतदूषणी

।।अथ परमते शास्त्राधिककारिभङ्गवादः पञ्चाशः ।।50।।

हताशेषक्लेशा निरवधिमहानन्दधनिनो वयं भूयास्मेति स्थिरमनधवर्त्मन्यधिकृताः ।

अनाघ्रातद्वन्द्वा हयमुखपदद्वन्द्वरुचयः स्वदन्तां मे सन्तः श्रुतिजलधिमुष्टिन्धयधियः ।।

साधनचतुष्टयं पूर्ववृत्तमिति वदद्भिर्मुमुक्षुत्वं तावदधिकारिविशेषणमित्यङ्गीकृतम् । सा च मुमुक्षा मोक्षो मे स्यादित्येवमाकारा । तथाविधा सा कस्याधिकारिणो विशेषणमिति कथयन्तु कथयन्तु कलिब्रह्ममीमांसकाः, किं नित्यमुक्तस्वभावस्य संविदात्मनः? उत तस्यैवाविद्यासाक्षितामापन्नस्य? उतान्तः करणप्रतिफलितचिदाभासस्य? तद्वृत्तिसमारोपितक्रियात्वस्य वा चैतन्यस्य? अन्तःकरणस्यैव वा? अथ यस्यकस्यचिदनभिलप्यस्य? न वा कस्यचित्? इति ।

न प्रथमः, विरोधात्; तस्य नित्यमुक्तत्वादेव मोक्षेच्छाविरहात्; अन्यथा नित्यमपि तत्प्रसङ्गात् । मुक्तमप्यात्मानं बद्धमिवाभिमत्य मुमुक्षतीति चेन्न; तस्य तथाविधाभिमानेऽप्यनधिकारात्, तत्सद्भावे वा नित्यमुक्तत्वव्याघातात् । भ्रान्त्या वस्तुवृत्त्या च द्वयोरविरोध इति चेन्न; भ्रान्तेरेव तद्विरोधितया तदनधिकारस्योच्यमानत्वात् । साऽपि भ्रान्तिसिद्धेत्यविरोध इति चेन्न; दूरं गत्वाऽपि तद्भ्रान्तेर्दुस्त्यजत्वात् ।

न द्वितीयः, भवत्पक्षे साक्षित्वानुपपत्तेः, अविद्यानुभवानुपपत्तेश्च पृथगुपपादनात् । अस्तु वा साक्षित्वम्, तस्याप्यत्यन्तमव्यवस्थतयोदासीन स्वभावस्यानुकूलप्रतिकूलपक्षपातविरहात् संसारोद्वेगतन्मूलमोक्षेच्छातदायत्त श्रवणमननादिप्रयत्ना संभवात्, नतरामधिकारः । सर्वसाक्षिणश्च तस्य मुमुक्षायां युगपत्सर्वात्ममोक्षश्च प्रसजति । नचैतन्नानाजीववादिभिरिष्यते । एकजीववादनोऽपि शुको मुक्तो वामदेवो मुक्त इस्यादि प्रतिनियतमोक्षोपदेशः प्रतिनियतमोक्षेच्छाधीनः; सा चेच्छा यदि साक्षिणः, तदा शुकादिमोक्षदशायामेव सर्वमोक्षे संसारानुवृत्त्यसंभवः । अथ स्वप्नदृष्टस्येव साक्षितया कल्पितस्य कस्यचित्; तर्हि मित्याभूतस्य मोक्षो नामात्यन्तभवनिवृत्त्यात्मा स्वरूपनिवृत्तिपर्यवसित इति साधु मोक्षस्समर्थितः । अथ स्वस्मिन् विनष्टे अज्ञाने स्वसाक्षीभूतायाः संविदः साक्षित्वेऽप्यतिक्रान्ते स्वप्रकाशानन्दमात्ररूपा संविदवतिष्ठत इति तदर्थमयमपवर्गारम्भ इति चेत्; प्रेक्षावत्प्रवृत्तेस्तथात्वासंभवात् । तदाहुः-*निरस्ताखिल दुःखोऽहमनन्तानन्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ।। अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ।। मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता । इति तत्प्राप्तये यत्रः कस्यापि न भविष्यति ।। इति ।

अत एव न तृतीयः; तस्यापि चिदाभासत्वादेव विनाशावश्यंभावात् । प्रतिबिम्बस्य नाशेऽपि बिम्बात्मनाऽवस्थानवदन्तः करणप्रतिफलितरूपविनाशेऽपि ब्रह्मात्मना स एव तिष्ठतीति चेन्न; प्रतिबिम्बस्य मिथ्याभूतस्य सत्यबिम्बात्मनाऽवस्थानासंभवात् । बिम्बप्रतिबिम्बयोर्भेदनिषेधे स्वरूपमेकमेव भवतीति चेन्न; सत्यमिथ्यार्थयोर्भेदनिषेधस्यैवासंभवात् । संभवे वा सर्वसत्यत्वं सर्वशून्यत्वम् अनैकान्तवादो वा प्रसज्येरन् । अस्तु वाऽत्र भेदनिषेधः, तदा प्रतिफलितचिदाभासस्य ब्रह्मणश्च स्वरूपैक्ये ब्रह्मण एव सर्वोपरागप्रसङ्गात् प्रतिफलनादिक्लृप्तिरपि निरर्थिका । प्रतिफलनादिकं च दुरुपपादमिति स्थितमन्यत्र ।

न चतुर्थः, तस्य क्रियात्वेनैव प्रकाशमानस्य मोक्षेच्छातदर्थप्रयत्नाद्याश्रयत्वस्य तद्भ्रमस्य वा दूरनिरस्तत्वात् । अत एव वृत्तिमदन्तःकरणभेदाग्रहणात्तस्य तदभिमान इति निरस्तम् ।

न पञ्चमः, अपवर्गेऽन्तः करणस्यापि स्वरूपोच्छेदाभ्युपगमात् सुषुप्तिप्रलयादिषु स्वयमेव नश्वरतयाभ्युपगतस्य किं मोक्षार्थेन महता प्रयासेन? नचान्तः करणाख्यस्य द्रव्यस्य ज्ञानेच्छादिसंभवः । ज्ञातृत्वाध्यासश्च न संभवतीति सिद्धमन्यत्र ।

नापि षष्ठः; तस्यापि मिथ्यात्वेन विनाशावश्यंभावात्, सत्यत्वे ब्रह्मस्वरूपान्तर्भावबहिर्भावयोरनधि कारत्वसद्वितीयत्वादिप्रसङ्गात् । नचानभिलपनीयं मोक्षाधिकारिस्वरूपमपरिज्ञायैव स्वयमधिकरोतीति वाच्यम्; अविदिताधिकारिस्वरूपाय क्वचिदप्यनधिकारात् । विदितत्वेऽपि इक्षुक्षीरसादिवद् दुरभिलपत्वं तस्येति चेन्न; अहमर्थातिरिक्तस्य कस्यचिन्मुमुक्षोः स्वात्मसाक्षिकोपलम्भादर्शनात् । उक्तं हि * निरस्ताखिलदुःखोऽहमित्यादिना ।

नापि सप्तमः, अधिकारितद्विशेषवर्णनप्रयासनैष्फल्यात्, तन्मूलश्रवणादिप्रवृत्त्यनुपपत्तेः, शास्त्रारम्भभङ्गप्रसङ्गाच्च । नास्त्येव वस्तुतः कश्चिदधिकारी, तथाऽपि सन्निव भातीति तस्य मुमुक्षा विशेषणमिति चेत्; कस्यासौ सन्निव भातीति वक्तव्यम् । न कस्यचिदिति चेत्; तर्हि कथं सन्निव भातीति? ब्रह्मण इति चेन्न; तस्य परानुसन्धानादिसामर्थ्यविरहस्योक्तत्वात् । तत्सद्भावेऽपि ब्रह्मैवेदं विशेषणमित्यनुसन्धध्यात् । स्वयमनुसन्धानाभावे च न प्रवृत्तिः । अधिकारतन्मूलप्रवृत्त्यादिविशिष्टतयैव ब्रह्मणा तदनुसन्धानमिति चेत्; किमतः? नहि तावताऽपि स्वनाशरूपेऽपवर्गे ब्रह्मदृष्टस्य तस्य मुमुक्षोपपादिता भवति । स्वनाशमविदित्वैव स्वावस्थानाभिमानेन तस्य मुमुक्षाऽपि जायत इत्येवंरूपोऽयं ब्रह्मणस्संमोह इति चेन्न; एवंरूपस्य संमोहस्यापि शास्त्रतोऽवसाये स्वनाशवेदनसिद्धौ पुनरप्रवृत्तिप्रसङ्गात् । ननुयदि स्वनाश एवापवर्ग इति तत्त्वम्, तदा तदपेक्षायां को विरोध इति चेन्न; माध्यमिकवदौपनिषदैः स्वनाशापत्तिर्मोक्ष इत्यनभ्युपगमात् । अभ्युपगमे वा कथमस्य पुरुषार्थत्वमुपपादयिष्यसि? दुःखात्यन्तनिवृत्तरूपत्वादिति चेन्न;*रसं ह्येवायं लब्ध्वाऽऽनन्दीभवतीत्यादि श्रुतिशतकोपप्रसङ्गात् । अस्तु वा स्वनाशः पुरुषार्थ;, तथाऽपि तदर्था प्रवृत्तिरस्य न संभवति, ब्रह्माज्ञाननिवृत्तिमन्तरेण तत्कल्पितस्वरूपनिवृत्तेर्दुस्साधत्वात् । ब्रह्माज्ञानमपि तत्प्रवृत्त्यैव निवर्तत इति चेत्; तर्ह्येकमोक्षे सर्वमोक्षप्रसङ्गात् ब्रह्मदृष्टेषु जीवेषु बद्धमुक्तव्यवस्थाभङ्गः । तत एव च प्रतिनियतमुमुक्षाद्यसम्भवः । स्वभावतः कश्चिदेव मुमुक्षादिसंमोहः कदाचिद्ब्रह्माज्ञानं निवर्तयतीति चेत्; तर्हि किमर्थमिदानीं भवद्भिः प्रत्येकमुमुक्षादिपूर्वकं शास्त्रमारभ्यते । न वयं वस्तुतश्शास्त्रमारभामहे, किंतु अस्मदारम्भात्मना ब्रह्मण एवायं संमोह इति चेन्न; ब्रह्मण एव शास्त्रारम्भतज्जन्यज्ञानादिपरिज्ञाने तावतैवापवर्गसिद्धौ पुनस्संसारानुवृत्त्यभावप्रसङ्गादिति दुर्वचस्ते शास्त्राधिकारी । ननु भवतोऽपि समानोऽयं दोषः, ईश्वरस्य कारणावस्थस्य कार्यावस्थस्यावताराद्यवस्थस्य च नित्यमुक्तत्वादेव तस्य मुमुक्षाद्यसंभवात्, जीवस्यापि स्वतोऽपहतपाप्मत्वादिस्वभावत्वाभ्युपगमेन तस्यापि तदसंभवादिति चेन्न; स्वत उष्णस्य वह्नेर्मणिमन्त्रादिवशात्प्रतिबन्धवत् स्वतश्शुद्धियोगिनोऽपि जीवस्य कर्मवशात्संसारे तन्निवृत्त्यपेक्षोपपत्तेः । नहि वयं तन्निवृत्तिर्नित्येति वदामः, येन नित्यमुक्तत्वादिचोद्यावकाशः । नचात्मानं ज्ञप्तिमात्ररूपं, येनेच्छाप्रयत्नाद्यनुपपत्तिस्स्यात् । नच सर्वदा सर्वज्ञं, येन क्षुद्रपुरुषार्थाद्यभिलाषासंभवे कर्मशास्त्रस्य निर्मूलता भवेत् । अतो नित्यमुक्तब्रह्मात्मैकत्ववादे दुर्लभो मोक्षसास्त्राधिकारीति ।।

।। इति शतदूषण्यां परमते शास्त्राधिकारिभङ्गवादः पञ्चाशः ।।50।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.