शतदूषणी
।। अथ निर्विशेषस्वप्रकाशभङ्गवादः दशमः ।।10।।
विचित्रं यत् स्वेन स्फुरति विषयाधारभिदुरं ।
तदेव ब्रह्मैकं विगुणमपि साक्षात्कृतमिति ।।
वदन्तो वैयात्यात् बहुविहतिवात्याहतधियो । विधूयन्ते हन्त श्रुतिशतशिरश्शूलवचसः ।।
य एष मन्त्रवादः-यद्यपि प्रमाणानि सर्वाण्यपि सविशेषमर्थमभिनिविशन्ते, तथाऽपि नस्वप्रकाशाध्यक्षसिद्धनिर्विशेषसंवित्सद्भावेन विमन्तव्यम्, अन्यथा धार्ष्ट्यात् सर्वापह्नवस्यापि दुर्निवारत्वात् । किंच संवित्स्वप्रकाशत्वं तावत् त्रय्यन्तविदां सर्वेषामविगीतम् । तत्र प्रकाशात्मतामात्रेण स्वतस्सिद्धायां संविदि न जडरूपधर्मानुप्रवेशावकाशः; प्रकाशात्मकास्तु न तत्वतो विवेक्तुं शक्यन्ते । अन्यथा तेषां परप्रकाश्यतया प्रकाशात्मत्वासिद्धेः । न च स्वरूपमात्रस्वप्रकाशे अन्यतो धर्मसिद्धिरिति वाच्यम्; अनुपलभ्यमानसाधनात् तद्बाधनस्य लघुत्वात् । निर्विशेषत्वानुभवेन तन्निरासव्याघातात्, सविशेषानुभवानां तदपेक्षया दुर्बलत्वात् । ते हि तद्विषयतयैव लब्धसत्ताकाः प्राथमिकेन सर्वसाक्षिणानिरपेक्षेण दुष्टकारणशङ्कादवीयसा स्वानुभवेन सह न स्पर्धितुमर्हन्ति । तादृशस्वप्रकाशस्य तु भ्रान्ति त्वोक्तौ संविदसिद्ध्या सर्वासिद्ध्यापातात् । न च बाधकाभावेन भ्रान्तित्वम् । न चाननुभवेनैव बाध इति वाच्यम्। न चात्र योग्यानुपलम्भः; करणद्ययोग्यत्वेन विशेषणासिद्धेः; स्वयोग्यत्वेऽपि स्वेनानुपलम्भायोगेन विशेष्यासिद्धेः । न च नरविषाणादिसद्भावोऽप्येवं साधयितुं शक्य इति वाच्यम्; तस्य स्वसिद्ध्य । समर्थने तस्यैवानुभूतित्वात् । अन्यतस्तु तदसिद्धेः । साधने च बाधात् । यद्यपि जागरस्वप्नयोः विचित्रबाह्योपलम्भकलुषितधियोर्नतद्विविक्तावभासः, तथाऽपि सुषुप्ति-मद-मूर्च्छा-समाधि-मुक्त्याद्यवस्थासु तस्यैव साम्राज्यम् । न च सुषुप्त्यादिषु तत्प्रकाशस्य प्रतिबुद्धेन प्रतिसन्धानप्रसङ्ग इति वाच्यम्; इष्टप्रसङ्गरूपत्वात् । एतावन्तं कालं न किञ्चिदहमज्ञासिषम्,सुखमहमस्वाप्समिति तादात्विकज्ञानसुखसाक्षितया तत्प्रतिसन्धानात् । तदेवमात्मसाक्षिकनिर्विशेषानुभवस्याऽऽरोपितो परागविनिवारणमुखेन, संवादकतया वाऽनुग्राहकमनुमानागमादिकमप्यद्रियामहे न वेति ।
तत्रोच्यते-किमसौ निर्विशेषा संवित् स्वप्रकाशसिद्धेति स्वयं सैव भूत्वा प्रतिपादयति, अथ ततोऽन्य एव तटस्थस्तामुपलभ्य? । न प्रथमः; तस्याः स्वयाथात्म्यप्रतिपादनादिसंरम्भवैमुख्यात् । अन्यथा तस्या एव विषयादिवैशिष्ट्यस्यावर्जनीयत्वेन स्वनिर्विशेषोक्तेरळीकवादत्वप्रसंगात् । विषयादिविशेषणा मारोपितत्वान्नालीकवाद इति चेन्न; तदनुल्लेखे तन्निषेधोक्त्ययोगात् । तदुल्लेखे तु विशिष्टप्रकाशावश्यम्भावात् न स्वेन निर्विशेषप्रकाशः । नापि द्वितीयः; स तु तामुपलभमानः ततोऽन्यया वा तयैव वा स्यात् । पूर्वत्रावेद्यत्वविरोधः, अनुव्यवसायवेद्यत्वपक्षपातात् । उत्तरत्रापि सर्वलोकसम्मतां संविदमेव तथोपलम्भते ततोऽन्यां वा? । आद्ये, भ्रान्तित्वापातः। सा हि विषयाश्रयस्वगतविशेषैर्विशेषितैव सर्वैः संदृश्यते । न च तत्तन्मिथ्यात्वेऽपि संविदस्तत्प्रकाशरूपत्वापह्नवः । न च योगादिप्रभावात् विशुद्धप्रकाशो जात इति वाच्यम्; योगस्यैव भ्रान्तित्वापातात् । न च शुक्तिकारजत प्रकाशमप्यालम्बनमात्ररहितं वदन् योगीश्वरोऽपि न भ्राम्यति । द्वितीयेऽपि, किमसौ महाभागः स्वस्मा एव स्वसुखादिवत् सिद्ध्यन्तीं तां परस्मा उपदिशति, उत प्रतिवादिनोऽपि तथा सिद्धाम्? नाद्यः, अविस्रंभात् । पुलकोद्गमादिवत् लिङ्गाभावाच्च । नेतरः; स्वप्रत्ययसिद्धस्य परोपदेशनैरपेक्ष्यात् । न हि सुखादिसद्भावमात्रं परस्मा उपदिश्यते । न च सहृदयः कश्चित् तथाविधानुभवमपह्नोतुमीहते, नापि योग्यानुपलम्भनिराकृतसद्भावमभ्युपगन्तुम् ।
ननु न कस्मैचित् सा सिद्ध्यति । अतः स्वस्मै परस्मै वेति को विकल्पावकाश इति चेत्-सा तर्हि न सिद्ध्येदेव । सिद्ध्यन्ती वा कस्मैचिदेव स्यात् । सिद्धिमात्रमियमिति चेत्-कस्य कं प्रतीति वक्तव्यम् । न कस्यचित् कंचित् प्रतीति चेत्-न तर्हि सा सिद्धिशब्दार्थतया व्युत्पत्तुं शक्या । स्वस्या एव स्वात्मानं प्रतीति चेत् इदं तु दावदहनविवशजरदजगरपरिभ्रमणम् । कथमसौ वराकः स्वस्या एव स्वात्मानं प्रति सिद्धिरूपां तां ततोऽन्यस्तयैवोपलभते । तन्मयीभूतत्वात् तथोपलभत इति चेन्न; प्रागेव दूषणात् । ततो लोकसिद्धा संवित् विषयाश्रयादिविशिष्टैव स्वतः प्रकाशते । तदुत्तीर्णा तु न स्वतो नापि परत इति तस्याः शशविषाणतुल्यतैव ।
ननु लोकोत्तीर्णसंवित्स्वरूपं स्वप्रकाशमिति भवद्भिरपीष्यते । तत् कथमस्मदुक्ते विरागः? तर्हिसमबुद्धिरसि । वयं हि प्रत्यक्षाद्यगोचरं ब्रह्मस्वरूपम्, तस्य स्वप्रकाशत्वादिधर्मवर्गं च श्रुतिबलात् स्वीकुर्मः । भवतस्तु प्रमाणपोतं परित्यज्य स्वप्रकाशालाबुपरिग्रहेणापारसागरं निस्तर्तुमिच्छतो नेदानींप्रभूता श्रुतिः पुरस्कार्या । तत्पुरस्कारेऽपि सा सविशेषमेव प्रतिपादयतीति वक्ष्यामः । अतो न साम्यमिति ।
यत्पुनरुक्तम् प्रकाशात्मनः स्वस्यैव स्वतः सिद्धत्वात्, जडात्मानां केषांचिदपि धर्माणां तदन्तर्भावानुपपत्तिरिति-तत् असिद्धस्यासिद्धेन साधनम्; कस्यचित् पुरुषस्य कंचित् धर्मविशेषं प्रति प्रकाशविशेषरूपतयैव सर्वेषामनुभवानां स्वतस्सिद्धेः । अतः सविषयत्वसाश्रयत्वधर्माभावे तुल्यन्यायतया स्वतस्सिद्धिरपि न स्यादेव । यत्पुनः प्रकाशात्मकास्तु न ततो विवेक्तुं शक्यन्त इति; तदप्यसत् । साजात्यमात्रेण तादात्म्येऽतिप्रसङ्गात् । ज्ञानरूपो ज्ञानाश्रयश्चाऽऽत्माऽस्माभिरिष्यते । तद्वत् धर्मिभूतज्ञानमपि । यदि ज्ञानस्वरूपधर्मान्तराश्रयतयोपलब्धम्, तदा तदप्यङ्गीकुर्मः । अनुपलम्भात्तु तदनभ्युपगमः ।
न च विविच्यमानतामात्रेण स्वप्रकाशात्मताभङ्गः; सर्वासामपि संविदां स्वयंप्रकाशानामपि संविदन्तरकर्मत्वस्य समर्थयिष्यमाणत्वात् । यत्तु स्वरूपमात्रस्वप्रकाशेऽप्यन्यतो धर्मसिद्धिरित्यनुपलभ्यमानसाधनात् तत्साधनस्य लघुत्वमुक्तम्, तदपि चार्वाकसौहार्दम्; अनुमानाद्युच्छेदप्रसङ्गात् । उपलभ्यन्ते धर्मा इत्युक्तम् । यदप्युक्तम्-निर्विशेषस्वानुभवेन तन्निरसनव्याघातः, सविशेषानुभवानां तु तदपेक्षया दुर्बलत्वमिति तत् तदा सुन्दरम्, यदि द्वयोरपि स्वरूपमुपलभ्य बलाबलचिन्ता वर्तेत; इह तु निर्विशेषस्वानुभव एव नोपलभ्यते । यच्च निर्विषस्वानुभवैकविषयतया सविशेषानुभवानां सत्तालाभादिकमुक्तम्, तदपि प्रस्तुतप्रतीपम् प्रकाशात्मतामात्रतया स्वतस्सिद्धायां संविदि कथं विषयाश्रयादिविशेषितसविशेषानुभवान्तरप्रकाशः?
करणाद्ययोग्यत्वात् न योग्यानुपलम्भ इत्येतत् अनुभूतेरनुभूत्यन्तरविषयत्वस्य वक्ष्यमाणत्वान्निरस्तम् । यच्च स्वयोग्यत्वेऽपि स्वेनानुपलम्भायोगेन योग्यानुपलब्धेर्विशेष्यासिद्धिरिति, तत्र कः स्वेनानुपलम्भं ब्रवीति? सविशेषतया तु संविदुपलम्भं ब्रूमः,न तु निर्विशेषतयेति; स्वेन निर्विशेषतयोपलम्भस्य योग्यानुपलम्भं वदामः । तथाहि, किं जागरदशायामेव निर्विशेषं स्वतः प्रकाशत इति मन्यसे, उत स्वापाद्यवस्थायाम्, यद्वा सर्वावस्थानुपलब्धमपि युक्तिबलान्निर्विशेषतया निष्कृष्यत इति, अथोपलम्भयुक्त्यन्यथात्वेऽपि शब्देन तथा निर्दिश्यत इति । न प्रथमः; विषयाश्रयस्वगतविशेषैर्विशिष्ट तयैव तदानीं स्वत एव तद्गोचरानुभवान्तरेण वा संवित्स्वरूपस्य प्रकाशमानत्वात् । तदेतदाहुः-“इदमहमदर्शमिति केनचिद्विशेषेण विशिष्टविषयत्वात् सर्वेषामनुभवानामि” (श्री भाष्यं जिज्ञा) त्यादिना । नापि द्वितीयः; तत्रापि ह्यनुभवोऽस्ति चेत्, सविशेष एव; न चेत्-कस्य निर्विशेषतया प्रकाशः? “स्वापमदमूर्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्याम” इति भाष्यम् । अयमभिप्रायः-सुषुप्त्यादिदशायामिदमर्थप्रकाशनं तावन्नास्तीति सर्वसंमतम् । अहमर्थप्रकाशस्तु त्वया नेष्यते । इष्यमाणत्वेऽपि न तस्य निर्विशेषतया स्फुरणम्, प्रत्यक्त्वानुकूलत्वादिरूपेण स्फुरणात् । अन्यथा तत्प्रकाश एव नास्तीत । अथ पुनः जानामीति प्रतीयमानोऽर्थस्तदानीं विषयाश्रयशून्यः प्रकाशत इति मन्यसे,तदपि न; तस्य तन्निरूपणीयस्वभावतया तद्विरहेण प्रकाशायोगात् । न हि छेद्यादिविधुरश्छिनत्तिपरशुः । वयं तु यद्यपि नित्यां संविदं श्रुतिबलादभ्युपगच्छामः, तथाऽपि तस्या न निर्विशेषायाः प्रकाशमिच्छामः,निराश्रयाया वा स्थितिम् । अतः सुषुप्तावपि सा साश्रयैव । सङ्कोचादिधर्मवती च । एकदेशिमतेनाऽऽत्मविषयतया सविषया च । ततश्च सुखमहमस्वाप्समिति परामर्शोऽप्युपपन्नः । तव तु न तथा, अनुपलब्धेः । न हि सुप्त एव तथा परामर्शमर्हति । विषयाश्रयरहितेयं संविद्विवर्तत इति परामर्शे प्रतिसंबन्धितया विषयाश्रयप्रतीत्यवश्यम्भावेन सुषुप्तिव्याघातात् । नापि प्रबुद्धस्तथा प्रतिसन्धत्ते । न हि सुप्तोत्थितः, “एतावन्तं कालं विषयाश्रयरहितज्ञप्तिरूपेणाहमवस्थितः” इति परामृशति; अपि तु, “सुप्तोऽहं नाज्ञासिषम्” इति ज्ञप्तिनिषेधेनैव । अहंकारविगमात् विषयानुभवाभावाच्च न तत्प्रतिसन्धानमिति चेत्, हन्त भवानेव निर्विशेषं हन्ति; तदप्रतिसन्धानस्यैवोपपादनात् । किञ्चान्याभावस्य अन्यानुल्लेखस्य च दृष्टमात्रस्मृतिप्रतिबन्धकत्वायोगात् । अन्यथा अतिप्रसङ्गात् । न चानुभूतस्य स्मरणनियमो नास्तीति वाच्यम्; प्रतिदिवसं चिरकालमन्यवैमुख्येन प्रत्यक्षेणैव प्रकाशमानस्यार्थस्य निखिलसंस्कारतिरस्स्कारक-मरणवेदनादि-प्रबलतरप्रतिबन्धकाभावेऽपि सावधानेनापि नियमेनास्मरणस्यानुभवाभावपर्यवसानात् । यत्तु एतावन्तं कालं न किंचिदहमज्ञासिषमिति अज्ञानसाक्षित्वेनानुभूतिः प्रकाशत इत्युक्तम् तत् विपरीतफलम्; नहि ज्ञानप्रतिषेध एव ज्ञानप्रकाशे प्रमाणं भवितुमर्हति । ज्ञानाभावातिरिक्तं त्वज्ञानं निरसिष्यते । किंचायं परामर्शोऽहमर्थानुवृत्तिं ज्ञाननि वृत्तिं च परामृशन् अहमर्थनिवृत्तिं ज्ञानानुवृत्तिं च वदतस्ते अत्यन्तप्रतिकूल एव । एवं सुखमहस्वाप्समिति परामर्शोऽप्यहमर्थस्यैव सुखतया प्रकाशं प्रदर्शयेत्, न पुनः सुखसाक्षितयासंवित्प्रकाशम् । एवं मदमूर्छाद्यवस्थासु च भाव्यम् । ततो न स्वापाद्यवस्थास्वपि निर्विशेषप्रकाशसिद्धिरिति ।
नापि तृतीयः; युक्त्याऽपि निरालम्बनतया निष्कर्षस्याशक्यत्वात्, आलम्बनमिथ्यात्वस्य निर्धर्मकत्वस्य च निराकरिष्यमाणत्वात् । किंच संविन्निर्विशेषा एवंत्वादिति हि निष्कर्षप्रकारः; तत्रहेतुसाध्यरूपधर्मान्वये कथं निर्विशेषता? तदनन्वये तु साध्यसमत्वसाध्याभावौ । तन्मिथ्यात्वेऽप्यन्ततस्तथैव । तयोः संवित्स्वरूपैक्ये पक्षहेतुविभागाभावः, सिद्धसाधनता चेत्यादयो दोषा द्रष्टव्या इति । तदेतदभिप्रेत्याह “सविशेषोऽप्यनुभूयमानोऽनुभवः केनचित् युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणःसत्तातिरेकिभिः स्वासाधारणैःस्वभावविशेषैर्निर्विशेष इति निष्क्रष्टव्य ”(श्री भाष्यं -जिज्ञा) इत्यादिकम् ।
नापि चतुर्थः; निर्गुणवादस्याखण्डवाक्यार्थस्य च विस्तरेण निराकरिष्यमाणत्वात् । सामान्यतोऽपि पश्यामः-शब्दः किं पदरूपेण स्थित्वा निर्विशेषं बोधयति, वाक्यरूपेण वा? नाद्यः; अन्विताभिधानवादे तु केवलपदस्यावाचकत्वात् । यथोक्तम्-“पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसंपादितव्यक्ति पश्चात् वाक्यार्थबोधकम्” ।। (प्रकरणपञ्चिका -वाक्यपरिच्छेदः) इति । अभिहितान्वयवादेऽपि प्रत्येकं पदानां प्रमाणत्वाभावात्; यथाऽऽहुः-“पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते” ।। (श्लोकवार्तिकं-1-1-5)इति । प्रत्येकपदशक्तिचिन्तायामपि प्रकृतिप्रत्ययरूपेण स्थितस्य पदस्य क्वचित् प्रकृत्यर्थविशिष्टः क्वचित्प्रत्ययार्थविशिष्टः प्रतिपाद्य इति कथं निर्विशेषबोधकता? स्वार्थिकप्रत्ययविशिष्टेऽपि पदे पुनः प्रकृत्यर्थविशेषस्य प्रत्ययान्तरेण विशिष्टविषयत्वमेष्टव्यम् । अव्ययान्यपि विशिष्टमर्थमेव द्योतयन्ति अभिदधति वा । निर्विशेषमिति पदेन किं बोध्यत इति चेत्, किं केवलेन, उत वाक्यस्थेन । पूर्वत्र वस्तुतो न किंचित्, अव्युत्पन्नभ्रान्तोक्त्योरर्थविशेषानपेक्षणात् । प्रतीतिमात्रमपि जायमानं मनसा किञ्चिदुल्लिख्य तन्निर्विशेषमिति परामृशेत् । तत्रापि वाक्यच्छायया वैशिष्ट्यमेवोल्लिख्येत । वाक्यस्थेन तु तेन पदान्तरोपस्थापितविशेषाविरोधेन तद्विवक्षितविशेषनिषेध एव कि्रयते; यथा नरपतिरद्वितीयः, नगरी निर्विशेषेत्यादिषु । संवित् समस्तविशेषशून्येति भवत्कल्पितवाक्यं तु भ्रान्तिमात्रजनकमिति न ततोऽर्थनिष्कर्षः । नापि द्वितीयः; तत्तत्पदोपस्थापितानेकपदार्थविशेषसंसर्गस्य, संसृष्टस्य वा बोधेन निर्विशेषप्रसङ्गाभावात् । तदेतदखिलमभिसन्धायाह – “शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यमि”त्यादि । अतः प्रतीत्यभावात् निष्कर्षकलिङ्गशब्दाद्ययोगाच्च न निर्विशेषस्वप्रकाशत्वसिद्धिरिति ।।
।। इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां निर्विशेषस्वप्रकाशभङ्गवादः दशमः ।।