शतदूषणी
।।अथ कार्यान्यथानुपपत्तिभङ्गवादः पञ्चपञ्चाशः ।।55।।
बालः क्रीडनकैरिव स्थिरचरैः स्वेनैव निर्वर्तितैस्सङ्कल्पैकवशंवदो विहरति ब्रह्मादिभिर्जन्तुभिः । जिज्ञास्याय मुमुक्षतामिह पुनः प्राप्याय मुक्तात्मनां लक्ष्मीकोस्तुभलक्ष्मणे नम इदं तस्मै परब्रह्मणे ।।
यदाहुः – प्रत्यक्षमिदं श्रुत्यादिसिद्धं च सर्वं कार्यं मिथ्यैव, विकल्पासहत्वात् । तथा हि –
किं कारणेन कार्यं सम्बद्धमारभ्यते, उतासम्बद्धम्? आद्ये सम्बन्धाश्रयतया द्वयोरपि सत्त्वाविशेषात्सव्येतरविषाणयोरिव किं कस्य कारणं कार्यं वा? असंबद्धत्वे तु असंबन्धाविशेषात् सर्वं सर्वस्य कारणं भवेत् न वा किंचित् कस्यचित् । तथाऽभिव्यक्तिवादिभिरुक्तम् * असत्त्वान्नास्ति सम्बन्धः कारणैस्सत्त्वसङ्गिभिः । असंबद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ।। इति ।
तथा कार्यं कारणाद्भिन्नमभिन्नं वा? पूर्वत्र भिन्नत्वाविशेषात् सर्वं सर्वतः स्यात्; न वा कुतश्चित् । उत्तरत्रात्माश्रयप्रसङ्गः । नियतपूर्वसत्कारणं नियतोत्तरसत्कार्यमिति विभजसे, तथा च स्वप्रागभावकाले स्वयमेव नास्तीति कथं ब्रूयाः?
तथा विकृतादविकृताद्वा उपादानात् कार्योत्पत्तिः? पूर्वत्रापि विकृतिरपि विकृतादविकृताद्वेति विकल्पेनानवस्था । उत्तरत्राविकृतत्वाविशेषात् यावदुपादानसत्त्वमुपादेयारम्भप्रसङ्गः । सहकारिसंबन्धादिति चेन्न; तत्सम्बन्धोत्पत्तिरपि विकृतस्य वा अविकृतस्य वेति विकल्पदुःस्थत्वात् । अस्तु च विकृतं कार्यारम्भकम् । तत्र किं रुचकादिविकृतिविशिष्टं हेमादि स्वस्तिकारम्भकम्? उत रुचकादिमात्रम्? अथ हेमादिमात्रमिति । नाद्यः, स्वस्तिके रुचकादिविकृतिविशिष्टहेमानुपलम्भात् । अत एव न द्वितीयः, हेमानुवृत्तिदर्शनविरोधाच्च । नच तृतीयः, आरम्भकहेमातिरिक्तादर्शनात्, तत्प्रत्यभिज्ञानाच्च । वदन्ति हि स्वस्तिकमपि तदेवेदं हेमेति । न च व्यवस्थितबुद्धिशब्दसंख्यापरिमाणकार्यकारण कालादिभेदात्पिण्ड घटयोर्नष्टत्वानष्टत्वभेदात्कारकव्यापार वैयर्थ्यप्रसङ्गान्नित्यानित्य विभागानुपपत्तिप्रसङ्गाच्च कारणातिरिक्तकार्यसिद्धिरिति वाच्यम्; रज्जवाद्यधिष्ठानसर्पभूदलनाम्बुधारादिबुद्धिशब्दान्तरादिभिरनैकान्तिकत्वात् । न चाबाधितत्वे सतीति विशेष्टव्यम्; विशेषणासिद्धेः; प्रत्युत तन्निषेधात् -विगीता बुद्धिशब्दान्तरादयो भ्रान्तिसिद्धभेदावलम्बनाः, दुर्निरूपबुद्धिशब्दान्तरादित्वात्, कम्बुकलधौतबुद्धिशब्दान्तरादिवत्; मध्येऽप्यसत् कार्यम्, आद्यन्तयोरसत्त्वात्, शुक्तिकारजतवत्; विवादगोचरोभेदव्यवहारः स्वविषयसर्वभेदानुगतैकवस्तुमात्रावलम्बनः, भेदव्यवहारत्वात्, रज्जवादिविषयसर्पभूदलनादिभेदव्यवहारवदित्यादिभिः । न चैषां प्रत्यक्षबाधः, तर्कानुगृहीतानुमानात्तस्य दुर्बलत्वात् । अन्यथा ज्वालैक्यप्रत्यक्षविजयप्रसङ्गात् ।
किंच यदि कारणे पूर्वं कार्यमसत्, कथं तेन जनयितुं शक्यम्? न हि प्रलयोदकावसिक्तेष्वपि प्रस्तरेषु अङ्कुराः प्ररोहन्ति । न च पीते विश्वकर्मणाऽपि नीलमुत्कीर्यते । अथ पूर्वमेव तत्र सत्, सिद्धत्वादेव न साध्यं स्यात् । तत एव कारकव्यापारनैरर्थ्यं च । व्यङ्ग्यत्वमस्त्विति चेन्न; व्यक्तिसदसद्भावयोरप्यनुयोगावतारात् । व्यक्तेरपि व्यङ्ग्यत्वेऽनवस्थानात्, नित्यव्यक्तत्वे घटादेरपि नित्यव्यक्तिप्रसङ्गात् ।
किंच भावादभावाद्वा घटाद्युत्पत्तिः? नाद्यः, अनुपमृदितात्पिण्डादेर्घटाद्युत्पत्त्यदर्शनात् । न द्वितीयः, घटादेरप्यभावात्मकत्वप्रसङ्गात् । एवमन्येऽपि परश्शता विकल्पास्सुलभाः ।
एवं जन्मनि निरस्ते विनाशोऽपि निरस्त एव, तुल्यन्यायत्वात् । सदसद्व्यावृत्तविनाशोपलब्ध्ययोगाच तदुभयकोटिविलक्षणतया मिथ्यात्वं स्वध्यवसानम् । स्मरन्ति च *अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ।। इति । * यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ।। इति च । श्रुतिश्च तदुपबंृहिता *वाचारम्भणं विकारो नामधेयमित्यादिका । नच *मृत्तिकेत्येव सत्यमित्यादिना ब्रह्मव्यतिरिक्तस्य कार्यभूतस्यापि मृत्तिकादिद्रव्यस्य सत्यत्वमिह कण्ठोक्तमिति भ्रमितव्यम्, भिक्षुपादप्रसरणन्यायेन व्यावहारिकसत्यत्वानुपमर्देंन घटादिमिथ्यात्वप्रतिपादने तात्पर्यात् । अन्यथा दार्ष्टान्तिकप्रतिकूलत्वप्रसङ्गात् । मृत्तिकातिरेकितद्विकारमिथ्यात्ववन्मूलकारणातिरेकिमृत्तिकादिसमस्तसद्विकारमिथ्यात्वे हि वाक्यतात्पर्यम् । एतेन * प्राणा वै सत्यमिति श्रुत्यन्तरमपि निर्व्यूढम् । तत्रापि हि * अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति पूवोत्तरवाक्यांशपरामर्शेन मध्यगतप्राणविषयसत्यतोक्तिः व्यावहारिकीं सत्यतामभिसन्धायेति गम्यते ।
तदेवं श्रुतिस्मृत्यनुमानतर्कैः सिद्धं कार्यमिथ्यात्वम् । नश्वरत्वाच्च जगतो मिथ्यात्वं निषुणधियां स्वध्यवसानमिति ।
तत्र ब्रूमः – यदुक्तं कारणेन कार्यं सम्बद्धमारभ्यते उतासम्बद्धमिति, तत्रासम्बद्धमित्येव पक्षः । नहि कारणानां मिथस्सम्बन्धमन्तरेण कार्येणापि सह सम्बन्धः कार्योत्पत्त्यसङ्गतया दृष्टचरः, येन तदङ्गीकुर्मः । यत्तु असंबन्धाविशेषात्सर्वं सर्वस्य कारणं भवेदिति; तत्तदा स्यात्, यद्यसम्बद्धत्वमेव कार्यारम्भप्रयोजकं स्यात् । नच तदस्ति, तत्तद्वस्तूनां प्रतिनियतशक्तीनां प्रतिनियतकार्यारम्भकत्वस्यान्वयव्यतिरेकसिद्धत्वात् । यदि कारणानां कार्यसंबन्धोऽपि कार्यारम्भाङ्गभिष्यते, तदाऽनङ्गाङ्गीकारः, अविषयवृत्तित्वं वा, कारणानां परस्परदृष्टस्य संबन्धस्य कार्यें संचरणात्; युक्ताङ्गत्यागो वा, असिद्धत्वेनासंबन्धस्य साध्यतां प्रत्युपयुक्तस्य त्यागादिति ।
एतेन भिन्नत्वाभिन्नत्वविकल्पोऽपि निरस्तः,दण्डचक्रादिविलक्षणस्यैव घटादेस्तत्र उत्पत्तिदर्शनात् । उपादानेऽपि हि कार्यकारणयोरत्यन्तभेद एव दृश्यते । अवयविवादिनां तु द्रव्ययोरपि । एवमपि चेदभेदोऽभ्युपगम्येत, तर्हि युक्ताङ्गत्यागः, कार्यकारणभावोपयुक्तस्यैव भेदस्य परित्यागात् । अयुक्ताङ्गीस्वीकारो वा, तद्विरोधिन एवाभेदस्य स्वीकारादिति । अन्यथा स्वव्याघातः सार्वभौमः । एवमुत्तरेष्वपि विवेक्तव्यम् ।
यत्तु विकृतादविकृताद्वोपादानात्कार्यारम्भ इति; तत्र विकारशब्देन यत्किंचिदागन्तुकधर्मविवक्षायां विकृतादिति ब्रूमः, सहकारिसम्बन्धोऽपि हि वकार एव । अथ कार्यरूपेण विकृतत्वं विवक्ष्यते, तदात्वविकृतादिति वदामः; अन्यथा आत्माश्रयप्रसङ्गात् । यत्तु अविकृतत्वाविशेषात्सर्वदोत्पादकत्वप्रसङ्ग इति, तन्न; अविकृतस्यैव सहकारिचक्रसन्निपातेन कालविशेषनियतकार्यारम्भोपपत्तेः । यत्तु सहकारिसम्बन्धोऽपि विकृतस्य वाऽविकृतस्य वेति विकल्पितम्, तदपि सहकार्यन्तरसम्बद्धस्यैवेति परिहृतम् । न चात्रानवस्थादोषः, सिद्धानवस्थारूपत्वात् । नहि पूर्वं पूर्वं कारणं नास्तीत्युत्तरोत्तरासिद्धिः । नच पूर्वपूर्वाभावे प्रमाणमस्ति, प्रत्युत कार्यमेव प्रमितं सत् कारणप्रवाहे प्रमाणं भवति । अन्यथा कार्यानुदयप्रसङ्गात् । न च नोपलभ्यते कार्यम्; उपलभ्यमानमपि वा किं बाध्यते? सर्वकार्यबाधे स्वप्रवृत्तिविरोधात् । कतिपयकार्यबाधे त्वबादितकार्यान्तरसद्भावेन कार्यकारणभावमात्रस्यापलपितुमशक्यत्वात् । अन्ततो बाधस्यापि कार्यत्वेन कर्तुमेवाशक्यत्वप्रसङ्गः । बाधस्यापि बाधे व्याघातस्स्यादिति ।
यत्तु रुचकादिविकृतिविशिष्टं हेमादि, रुचकादिमात्रं वा, हेमादिमात्रं वा स्वस्तिकारम्भकमिति विकल्पितम्, तत्रारम्भकमिति किं स्वस्तिकनिर्माणोपयुक्ताकारविशिष्टं विवक्षितम्? उत तदुपयुक्ताकार एव? अथाव रुच (स्वस्ति) काश्रयमात्रमिति; आद्ये रुचकादिविकृतिविशिष्टमिति ब्रूमः । न च स्वस्तिके रुचकाकाराकारितहेतमानुपलम्भविरोधः, कार्योपयुक्ताकारणां कार्येऽप्यनुवृत्तेरनपेक्षितत्वात् । तदपेक्षणे चानङ्गाङ्गीकारप्रसङ्गात् । केचन कारणाकाराः कार्येऽप्यनुवर्तन्ते, केचित्तु निवर्तन्त इति यथादर्शनमङ्गीकार्यत्वात् । द्वितीये तु रुचकादिमात्रमिति वदामः । नच हेमानुवृत्तिदर्शनविरोधः, उक्तोत्तरत्वात् । कारणदशावच्छेदकाकारनिवृत्ता वप्याश्रयतयोपयुक्तस्य द्रव्यस्य तदाकारविशेषस्य च नाशकाभावादनुवृत्तत्वस्य दुर्निवारत्वात् । तृतीये तु हेममात्रमित्येव तत्त्वम् । न चारम्भकहेमातिरिक्तं न दृश्यत इति वाच्यम्; स्वहृदयविसंवादात्; अन्यथा आरम्भकमपि न दृश्यत इति वक्तुं शक्यत्वात् । अतिरिक्तं तु दृश्यते, तत्किमवयविद्रव्यान्तरम्? उत तदारम्भकतयाऽभिमतावस्थान्तरमात्रम्? उत विवर्तविशेष इत्येवमादिको हि विवादः । हेमप्रत्यभिज्ञानं तु न स्वस्तिकप्रतीत्यपह्नवक्षमम् । हेम्न एव स्वस्तिकविशेषितत्वेन प्रत्यभिज्ञोपपत्तेः । अन्यथा पूर्वानुभूतातिरिक्ताकारमन्तरेण कथं सा प्रत्यभिज्ञा? नह यत्किंचिद्देशकालावस्थादिविशेषमन्तरेण सोऽयमित्युल्लेखः । अन्यथा स इत्येव वा स्यादयमित्येव वा ।
यत्तु बुद्धिशब्दान्तरादौ कारकव्यापारवैयर्थ्यप्रसङ्गे नित्यानित्यविभागानुपपत्तिप्रसङ्गे च रज्ज्वाद्यधिष्ठानसर्पादिकं निदर्शितम्; तदपि देशकालादिप्रतिपन्नोपाधौ बाधाभावादेव परिहृतम् । बाधकतया अभ्युपगताश्च प्रत्येकं परिह्रियन्त एव । अत एव दुर्निरूपबुद्धिशब्दान्तरादित्वादिति हेतुरपि निरस्तः ।
यत्तु मध्येऽप्यसत् कार्यम्, आद्यन्तयोरनारोपितत्वादिति वक्तुं शक्यत्वात् । अस्य चोपलम्भानुवर्तित्वेन प्रबलत्वादनेन पूर्वस्य बाध एव वा । अपि च कार्यमाद्यन्तयोः सदध्यस्तं वा, मध्ये सत्त्वात् मध्येऽध्यस्तत्वाद्वेति सांख्यनयेन त्वन्नयेन वा प्रयोगे किं वक्ष्यसि? उपलम्भविरोधादिकमिति चेत्तुल्यम् ।
यच्च विवादगोचरो भेदव्यवहारः स्वविषयसर्वभेदानुगतैकवस्तुमात्रालम्बन इति प्रतिज्ञातम्, तत्र किं मृत्पिण्डाद्येकैकोपादानकघटशरावदि भेदव्यवहारमात्रं पक्षीक्रियते? उत सर्पभूदलनादिभेदव्यवहारविलक्षणः सर्वोऽपि? पूर्वत्र श्रुतिनिदर्शितमृत्पिण्डलोहमणिनखनिकृन्तनादि भेदव्यवहारैरनैकान्त्यम्, न हि तत्र मृदादिकमनुवर्तते । पृथिव्यादिकमनुवर्तत इति चेत्; तदाऽस्तु पृथिव्यादिभेदव्यवहारैः । अथ तत्रापि प्रकृतिभूताविद्यानुवृत्तिं पश्यसि, तथापि ब्रह्मविद्ययोः भेदव्यवहारेणानैकान्त्यं दुस्त्यजम् । न हि ब्रह्मविद्यानुगतं वस्त्वन्तरमिष्यते । न च ब्रह्मैवोभयत्रानुवर्तते, ब्रह्मणि ब्रह्माध्यासानभ्युपगमात्, ब्रह्मभेदानभ्युपगमाच्च । अभ्युपगमे च तद्भेदव्यवहारेण तदेव स्यात् । एतेनोत्तरः कल्पोऽपि दत्तोतरः । ब्रह्माविद्याभेदस्यापि पक्षीकारे बाधात्, तद्बहिष्कारे तु तेनैवानैकान्त्यादिति । किंच, वस्तुमात्रावलम्बन इति वक्तुं न शक्यते । आरोपितस्यापि घटादेरालम्बनत्वस्यावर्जनीयत्वादिति । यत्तु तर्कानुगृहीतानुमानात् प्रत्यक्षस्य दौर्बल्यं ज्वालैक्यप्रत्यक्षे निदर्शितम्, तदप्यसत्; अनुग्राहकतयाऽभिमतानां तर्काणामपाकृतत्वात् । ज्वालैक्यप्रत्यक्षं तु सादृश्यादिदोषसंभवात्, निर्वापितारोपितेऽपि तथैव प्रत्यभिज्ञानदर्शनात्, अनन्यथासिद्धसामग्रयनुवृत्त्यादिहेतुबलात्तत्र च स्वोपजीव्यविरोधादिप्रसङ्गाभावाच्च बाध्यतामनुभवतीति युक्तम् । इह तु विपरीतमिति विशेषः ।
यत्पुनः कारणे कार्यं पूर्वं सदसद्वेति, तस्य कोऽर्थः? किं कार्यद्रव्यं कारणावस्थायां द्रव्यरूपेण विद्यते न वेति? तदा सदित्यङ्गीकुर्मः । तथाऽपि न साध्यत्वविरोधः, अवस्थापतिरूपेण तदुपपत्तेः । तत एव कारकव्यापारसाफल्यं च । एतावानेव च नस्सत्कार्यवादः । अथ कार्यावस्था कारणदशायामस्ति न वेति पृच्छसि, तदा नास्त्येव सा । कथमसती तेन जनयितुं शक्येतेति चेत्; किं पूर्वं सतीमेव दशां पश्चादुत्पद्यमानां पश्यसि, येनैवं विरोधमाशङ्कसे? तथा चायुक्ताङ्गस्वीकारः; अवस्थासत्त्वस्य जन्यत्वविरोधिनः स्वीकारात् । असत उत्पत्तौ प्रस्तरादयोऽप्यङ्कुरेयुः, शशादयोऽपि श्रृङ्गादिमन्तः स्युरिति चेत्; किमियं राजाज्ञा? उत शापः? न हि नियतशक्तिकेषु कारणेषु देशकालस्वरूपप्रतिनियतकार्यविशेषारम्भकेषु परिदृश्यमानेषु तच्छक्तिविधुरादपि तदुत्पत्तिराशङ्कितुमपि शक्यते । प्रागसतीं दशां पश्चात्सतीमिच्छतोऽवयविद्रव्ये कः प्रद्वेष इति चेत्; न कश्चित्, अदर्शनादेव तु नाङ्गीकुर्मः ।
यत्तु भावादभावाद्वा घटाद्युत्पत्तिरिति, तत्र किं विद्यमाने द्रव्ये घटाद्यवस्था जायते, उताविद्यमान इति प्रश्नार्थः? तदा विद्यमान एवेति मन्वीथाः । न हि घटाद्यवस्थोत्पत्तौ मृदादिकं नास्ति । उपमर्दितेऽपि हि पिण्डे पिण्डत्मेव निवृत्तं न तु द्रव्यम् । अनुपमृदितेभ्यश्च तन्त्वादिभ्यः पटाद्युत्पत्तिरपि दृश्यते । अथासतो घटाद्युत्पत्तिः, सतो वेति पृच्छसि? तदा पिण्डादौ निवृत्ता, तन्त्वादौ त्वनुवृत्तेति सान्दृष्टिकमिदम् । नचाभावादुत्पत्तौ कार्यस्याभावात्मकत्वप्रसङ्गः, कार्यकारणयोरत्यन्तसालक्षण्यस्य नविलक्षणत्वाधिकरणे निरस्तत्वात् । भावान्तराभाववादिन इष्टप्रसङ्गाच्च । घटत्वादिकमपि हि पिण्डाद्यपेक्षया प्रध्वंसकोटिघटितम्, कपालाद्यपेक्षया तु प्रागभावपक्षनिक्षिप्तम्, कुड्याद्यपेया त्वन्योन्यभावायत इति । ये चान्ये पश्यतोहराणां प्रलापाः, * न चेदुत्पत्तिरुत्पत्तेर्नित्यत्वमनवस्थितिः । उत्पत्तावप्यतः कार्यं कारणं च निरूपितम् ।। इत्येवमादयः, तेऽप्यनयैव दिशा प्रशमनीया इति ।
सिद्धानवस्थितिः सामग्र्यात्मकोत्पत्तिसंग्रहे ।
अन्यथा स्वपरत्राणान्न काचिदनवस्थितिः ।। इति ।
यत्तु सदसद्व्यावृत्तविनाशोपलब्ध्ययोगात्तदुभयकोटिविलक्षणतया मिथ्यात्वमिति, तदपि मन्दम्, उपलब्धिविनाशाभ्यामपि कादाचित्कत्वमात्रसिद्धेः । न ह्युत्तरकालीनो विनाशः स्वकालेऽप्यसत्त्वं साधयितुमलम् । अथ नित्यमेव सच्छब्दार्थतया परिगृह्य तद्वैलक्षण्यात्मिथ्यात्वमिष्यते, तथाऽप्यनित्यत्वमेव मिथ्यात्वमिति विवक्षितं स्यात्, तथा च वस्तुनो न काचित् क्षतिः । अत एव *अनाशी परमार्थश्चेत्यादिस्मृतिरपि निर्मूला । *वाचारम्भणं विकारो नामधेयमित्यादिका तु श्रुतिरवयविद्रव्यान्तरनिरासपरेति सद्विद्यानिरूपणे व्यक्तमनुसन्धेयम् । अत एव * मृत्तिकेत्येव सत्यमित्यादावपि परमार्थसत्यत्वमेव विवक्षितमिति सिद्धम् ।
अतः प्रत्यक्षादिशरणैः श्रुतिशरणैरपि कार्यजातस्य सर्वस्य सत्यत्वमेवष्टव्यम् । अन्यथा प्रागुक्ततर्काभासैः कारणमपि किं न खण्डयते? प्रत्यक्षश्रुत्यादिबलादिति तु समानम् । अथ यदि कारणस्यापि भङ्ग इष्ट इत्याशयः, तथा सति कारणसत्यत्वमत्यादरेण प्रतिपादयन्ती श्रुतिर्बाध्येत । एतेन कारणसामान्यं तद्विशेषांश्च खण्डयतां वेदबाह्यत्वं तावत्सुव्यक्तम् । विशेषदूषणानि तु स्वावसरे ग्राह्याणि ।
यश्चासौ व्यामोहः – नश्वरत्वादेव विश्वमिथ्यात्वमिति, स किं नाशबाधविवेकाभावात्? उत तयोर्व्याप्यव्यापकभावाभिमानात्? न प्रथमः, उभयोरपि विवेकस्य सुप्रसिद्धत्वात् । स्वकाले सत एवार्थस्य स्वोत्तरकालासत्त्वं नाशः, बाध्यत्वं तु स्वप्रतीतिकालेऽप्यसत्त्वलक्षणमिति । असत्त्वमेव नाश इत्येतावता पर्याप्तौ किं विशेष्यत इति चेन्न; प्रागभावेऽपि विनाशशब्दप्रयोगप्रसङ्गात् । तथाऽप्युत्तरकालासत्त्वमित्येतावताऽलमिति चेन्न; गगनकुसुमादावपि प्रसङ्गात् । स्वकाले सत एवार्थस्यान्यापेक्षयोत्तरकाले स्वप्रागभावकालेऽप्यसत्त्वसंभवात् तद्व्यवच्छेदार्थं स्वोत्तरकालासत्त्वमिति विशेष्यते । एतावदेव निष्कर्षलक्षणम्, पूर्वं तु वैशद्यार्थम् । यदि वस्तुनो यथाकथञ्चिदसत्त्वं मिथ्यात्वमिति विवक्षितम्, तदास्माकमिष्टापादनम् । परस्पराभावादिमत्तया केनचिदाकारेण सर्वेषामसत्त्वाभ्युपदगमात्, कार्याणां च विनाशाभ्युपगमात् । तावन्मात्रमेव मिथ्यात्वशब्देनोपचर्यमाणमपि नास्माकमनिष्टमापादयति । नापि द्वितीयः, व्याप्तेरभावात् । रज्जुसर्पादिषु व्याप्तिस्सिध्यतीति चेन्न; तत्र विनाशस्यानभ्युपगमात् । अर्थबाध एव हि तत्र व्यक्तः । गन्धर्वनगरादिषु विनाशोऽपि प्रत्यक्षसिद्ध इति चेन्न; तत्रापि मिथ्यात्वपक्षे बाध एव । विनाशभ्रमस्तु स्यात्, सत्यत्वभ्रमवत् । तत्सत्यत्वपक्षे तु कथं तत्र विनाशमिथ्यात्वयोः व्याप्तिर्ग्राह्या? अतः उत्पत्तविनाशयोरपि सर्वं कार्यं स्वकाले सदेवेति सिद्धम् ।।
।।इति शतदूषण्यां कार्यानुपपत्तिभङ्गवादः पञ्चपञ्चाशः ।।55।।