शतदूषणी
।।अथ परमते सूत्रस्वारस्यभङ्गवादः षट्षष्टितमः ।।66।।
नमोऽस्तु ब्रह्मणे तस्मै बादरायणरूपिणे ।
यस्यैव ब्रह्मसूत्राणां रचना सगुणायते ।
अद्वैतमतनिष्ठानामनुष्ठानमपाकृतम् ।
ब्रह्मसूत्रार्थवैरूप्यं तेषामथ निरूप्यते ।।
यदाहुः – आपादचूडं ब्रह्मसूत्रेषु निर्विशेषं ब्रह्मैवार्थः प्रपञ्चमिथ्यात्वं च स्पष्टमुपाद्यते, तथा हि -यद्ब्रह्म जिज्ञास्यतया प्रक्रान्तं तदेव हि नाना नास्तीति श्रुतिप्रामाण्यप्रागल्भ्यात्तदनुसारिसूत्रस्वारस्याच्च निर्विशेषमिति निश्चिन्वन्ति महान्तः । तत्र बहुषु सूत्रेषु तद्विषभूतासु श्रुतिषु च एकवचनान्तनिर्देशादात्मैक्यं स्वरसतः प्रतीयते । सचात्मा पुनः * न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हीत्यादिभिस्सूत्रकलापैर्निर्गुणत्वेन निर्णीतः । * भेदादिति चेन्न प्रत्येकमतद्वचनात्, * अरूपवदेव हि तत्प्रधानत्वात्, * आह च तन्मात्रमित्यादिभिरनेकेष्वधिकरणेषु भेदप्रसङ्गो निराकृतः । ब्रह्मव्यतिरिक्तानां पदार्थानां कार्त्स्न्येनानभिव्यक्तस्वरूपत्वं * मायामात्रं तु कार्त्स्न्येनानभिव्यक्त स्वरूपत्वादित्यादिभिर्निपुणतरमुपपादितम् । * संपद्याविर्भावस्स्वेन शब्दादिति मुक्तस्य स्वरूपाविर्भाव मुपपाद्य, * अविभागेन दृष्टत्वादिति ब्रह्मस्वरूपाविभाग एव फलतया निर्दिष्टः; इत्थमापादचूडं शारीरकशास्त्रे बहुषु सूत्रेषु निष्प्रपञ्चनिर्विशेषब्रह्मात्मैक्यस्य प्रतिपन्नत्वादुपात्तकतिपयसूत्रव्यतिरिक्तानि सूत्राण्यपि निर्विशेषमेव परं ब्रह्मोपपादयन्तीति नीतिविदां निर्णयः । यानि पुनस्सगुणब्रह्म प्रतिपादकानि वाक्यानि, तानि गरुडमात्मानं जानीयादित्यादिष्विव तत्तदुपासनार्थकल्पिताकारविशिष्ट ब्रह्मपराणि क्रममुक्तिन्यायेन परम्परया मोक्षविश्रान्तानि । क्वचित्तु कल्पितेनाकारेण शाखाचन्द्रोपदशन्यायेन उपलक्षणतया दर्शनेन ब्रह्मस्वरूपोपदेशपराणि । व्यास एवास्माकमादिगुरुरुपनिषदनु सारिभिस्सर्वैरेवास्माभिरनुसर्तव्यः । न च प्रमाणविरोधात् ब्रह्म सूत्राणामप्रामाण्यमन्यपरत्वं वा, तद्विरुद्धानामेव प्रमाणानामप्रमाणत्वात्; अन्योन्यतस्तेषामाभिमानिक प्रमाणानां विरोधाच्च । अभिमानप्रतिष्ठितं हि तत्तत्सिद्धान्तपरिगृहीतानां प्रमाणानां प्रामाण्यम्; अन्यथा स्वसिद्धान्तविरोधप्रसङ्गात् । ततश्च प्रमाणविरोधेऽप्यविरोधेऽपि सूत्रस्वारस्यानुरोधेन बादरायण सिद्धान्तोऽयमिति निश्चिते तिष्ठ वा तत्र हृदयाक्रोशेन, तत्परित्यागेन वा हृदि विन्यस्तहस्तः पक्षान्तराण्यधिशेष्वेति ।
अत्रोच्यते, * अथातो ब्रह्मजिज्ञासेति सूत्रमेव तावदद्वैतिनां न घटते,चिन्मात्रस्य स्वप्रकाशत्वेन ज्ञानाविषयतया जिज्ञास्यत्वायोगात् । आरोपितगुणविग्रहादिविशिष्टस्या विद्यापरिणतिरूपत्वेन सुतरां जिज्ञास्यत्वायोगात्; ब्रह्मशब्दार्थानुपपत्तेः प्रागेव प्रपञ्चितत्वाच्च । तथा * जन्माद्यस्य यतः इति सूत्रमपि ब्रह्मस्वरूपलक्षणोपदेशपरम्, लक्षणं चासाधारणधर्मः, स कथं निर्विशेषे संघटते? उपलक्षणत्वेऽपि सुतरां सविशेषत्वमेव । उपलक्षणाकारोपलक्ष्याकारपूर्व प्रतिपन्नाकारविभागविरहात् निर्विशेषस्योपलक्ष्यत्वमपि न संभवतीति प्रागेव प्रपञ्चितम् । सामानाधिकरण्यस्य सविशेषार्थनिष्ठत्वस्य न्याय प्राप्तत्वात् सत्यज्ञानादिवाक्ये स्वरूपलक्षणवर्णनापटाटोपोऽप्युत्पाटनीय इत्युक्तं प्रागेव । शास्त्रयोन्यधिकरणमपि शास्त्रगम्यत्वाभावादेव निरस्तम्, तद्गम्यत्वे वा प्रमाणविषयत्वात् दृश्यत्वमेव पार्ष्णिं गृह्णाति । व्यावहारिक शास्त्रगम्यत्वं तु व्यावहारिकानुमानगम्यत्ववदपध्वस्तम् । भवता च प्रमाणप्रमेयखण्डनात् शास्त्रप्रामाण्यमपि पाषण्डवादैस्सपिण्डीकृतमेव । वेदान्तशास्त्रस्यापि तर्कात्मकत्वात्तर्काणां स्वरूपलक्षणादिखण्डन प्राचण्ड्यमेव शरणयतां कस्तर्कः, किं वा तदधीनार्थतत्त्वव्यवस्थापनम्, कथंच तत्त्वावेदकता तत्त्वमस्यादिवाक्यानामिति परिपश्य । तथाच सर्वशास्त्रकुक्षिंभरिमाध्यमिकोक्तिरेव विजयते । समन्वयसूत्रं च समन्वयमेव हेतुत्वेनोपाददाति, अन्यवस्तु भेदस्य प्राणबन्धुरिति सर्वलोकविदितमेतत् । आनन्दमयाधिकरणे प्राचुर्यार्थमयट्प्रयोगादानन्दाभ्यासस्य हेतुत्वेनोपादनाच्च भेदवाद एव साम्राज्यमाटीकते । ईक्षत्यधिकरणेऽपि * प्राणसत्थानुगमादित्युपक्रमोपसंहारादि षड्विधतात्पर्यलिङ्गोपेतमहावाक्यसामर्थ्यादिन्द्रान्तर्यामिणो महापुरुषस्यैव प्रसाधनात्सविशेषपरत्वमेव । वाक्यं तावदन्विताभिधानेऽप्यभिहितान्वयेऽपि सविशेषपरमेवेति तत्र तत्र क्रियासमभिहारेण साधितम् । वाक्यार्थोऽपि प्राणेन्द्रादिवैशिष्ट्यात्मकत्वात्सविशेषरूप एवेति निरूपितः ।
एवं शारीरोपक्रमसूत्राणां सगुणब्रह्मैदम्पर्ये समर्थिते अनेनैव न्यायेनार्थतत्त्वं निर्णेतव्यमधि गुणैरन्तेवासिभिः; स्थालीपुलाकन्यायानुसारस्य न्याय्यत्वात् । अविरोधाध्यायसूत्राणामादिमाध्याय शेषत्वान्न पृथगभिधेयं तात्पर्यमवशिष्यते । वैराग्योभयलिङ्गपादयोस्संसरतो जीवस्य संसारनिवर्तकस्य च परमात्मनो मिथो वैषम्यमुच्यते; स एव भेदवादः । गुणोपसंहारपादस्य नामैव निर्गुणवादस्य हृदयशूलम् । अङ्गाङ्गिभाववादोऽपि तस्यैव कर्णज्वरः । तेन त्रिभिरध्यायैस्सगुणमेव निर्णीयते । फलाध्याये तु फलनिर्देश एव निर्गुवादिनां निष्फलं प्रलापमाविष्करोति, परमात्मसेविनो जीवस्यैव सांसारिकफलसाधनपुण्य पापरूपकर्माश्लेषविनाशौ देहादुत्क्रमणमर्चिरादिना देवयानेन गमनं परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पत्तिर पुनरावृत्तिश्चेति, शारीरकपञ्चमाध्याये निर्गुणमशरीरलक्ष्मिकमपरिवारकम विभूतिकं चिन्मात्रमिति पारिभाषिकं ब्रह्म प्रतिपाद्यतम् ।
यदुक्तं जिज्ञास्यतया प्रक्रान्तं ब्रह्मैव * नात्मा श्रुतेरित्यादावपि प्रतिपाद्यत इति, तदसत्; * ज्ञोऽत एव, *कर्ता शास्त्रार्थवत्त्वात्, * परात्तु तच्छ्रुतेरित्यादिभिस्तत्रत्यैस्सूत्रैरात्मशब्दनिर्दिष्टस्य तस्य ज्ञातृत्वकर्तृत्वपरमात्मायत्तत्वादि प्रतिपादनात्, तस्य च सर्वस्य त्वदभिमतेऽस्मदभिमते वा ब्रह्मण्यसंभवात् । भ्रान्त्या संभवतीति चेन्न; परिशुद्धस्वरूपोपदेशदशायां प्रतिपक्षप्रतिक्षेपपूर्वकस्य भ्रान्तिसिद्धाकार समर्थनस्य विरुद्धत्वात् । अन्यथा * नात्मा श्रुतेरित्यधिकरणेऽपि यथालोकमुत्पत्तिविनाशयोरेव समर्थनप्रसङ्गात् । यदि तत्र लोकसिद्धाकारप्रतिषेध उपचिक्रंसितः तदा लोकसिद्धं कर्तृत्वादिकमपि नास्तीत्येवोपदेष्टुं युक्तम् । यदि तत्रैव सूत्राणां मनुषे, तदा प्रारब्धं त्वयैव सूत्रान्यथाकरणम् । अप्रस्तुतमात्मान्तरमिह कथं परीक्ष्यत इति चेन्न; * अथातो ब्रह्मजिज्ञासेत्यत्रैव विषयतया ब्रह्मण इव अधिकारितया मुमुक्षोः प्रकृतत्वात्, तस्य च स्वरूपज्ञानावश्यम्भावित्वेन क्वचित्स्वरूपस्यावश्योप देष्टव्यत्वात् । व्यवच्छेद्यतया प्रधानमिव जीवोऽपि प्रथमाध्याये सर्वत्र प्रकृतेः ।
यदि विषयत्वेनाप्रकृतत्वादपरीक्षणीयता, तदा वियत्प्राणादेरप्यपरीक्षणप्रसङ्गः ।
धर्मं जिज्ञासमानस्य तत्सम्बन्धिनिरूपणम् । यथैवं ब्रह्मजिज्ञासेत्युक्तं जीवनिरूपणम् ।
किंच * असंभवस्तु सतोऽनुपपत्तेरित्यत्रैव सच्छब्दवाच्यस्य परस्य ब्रह्मण उत्पत्त्यादिप्रतिषेधात् * नात्माश्रुतेरिति निरर्थकः पुनरारम्भः । अतो नात्र जिज्ञास्यतया प्रक्रान्तं ब्रह्मात्मशब्दनिर्दिष्टम्, अपि तु जिज्ञासाकर्तृतया प्रस्तुतो जीवः । यत्पुनरुक्तं एकवचनान्तनिर्देशादात्माद्वैतस्वारस्यमिति, तदपि न; *श्रेष्ठश्चेत्यादिसूत्रेष्विव जात्यैक्यविवक्षया तत्प्रयोगसंभवात् । तदुक्तमंशाधिकरणे *नात्मा श्रुतेरित्यत्राप्येकवचनं जात्यभिप्रायमिति । याश्च तत्सूत्रविषयतया *नित्यो नित्यानां चेतनश्चेतनानामित्यादिश्रुत्या उपादीयन्ते, ताभिरपि सौत्रस्यैकवचनस्य जात्यभिप्रायत्वं व्यक्तम् । यद्युद्देश्यगतत्वेन बहुत्वमविवक्षितम् । य एक इति निर्दिष्टमेकत्वं किं विवक्ष्यते ।। अत एव * अजो नित्य इत्यादिश्रुत्यन्तरमपि निर्व्यूढम् ।
यत्तूभयलिङ्गाधिकरणे समस्तविशेषशून्यत्वं प्रत्यपादीति; तदप्यसत्, तत्र हेयगुणनिषेधेन समस्तमङ्गलगुणविशिष्टस्यैव प्रतिपिपादयिषितत्वात्, तदाह *सविशेषं ब्रह्मेत्येव हि तत्र वक्ष्यतीति । वाक्यस्थोभयलिङ्गशब्दानादरेणासन्निहितदोषाख्यनिषेध्याध्याहारो न युक्त इति चेन्न; स्ववाक्यस्थस्यापि गुणस्य स्वरूपत एव निषेधानुपपत्तेः । न हि गुणो गुणत्वादेव निषेध्यः, वैपरीत्यात् । न च दोषकोटिनिक्षेपेण तन्निषेधः, सर्वज्ञत्वादेर्दोषत्वस्य प्रमाणाभावात् । अतः पारिशेष्याद्दोष एव निषेध्य इति स्थिते जागरितस्वप्नाद्यवस्थासु जीवस्य ये दोषाः पूर्वेष्वधिकरणेषु प्रकृताः त एवात्र निषेध्यतया सूत्रकृदभिप्रेता इति स्पष्टमेव ज्ञातुः । ततश्च *भेदादिति चेन्न प्रत्येकमतद्वचनादित्यादिसूत्रेष्वपि नाप्रस्तुतानुपयुक्तत्वदभिमतार्थसिद्धिः । अन्यथा *प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः इति समनन्तरसूत्रविरोधः । न हि तत्र प्रकृतं प्रतिषेधतीत्युक्तम्, अपि तु प्रकृतैतावत्त्वमिति । एतेन निषेधानां सर्वेषां विहितानुरोधेन विषयव्यवस्थाकर्तव्येति दर्शयति ।
सामान्यस्य निषेधस्य विहितव्यतिरेकतः ।
निर्वाहस्सुप्रसिद्धश्च निगमेष्ववगम्यते ।
अत एव सन्ध्यादिकरणेऽपि *मायामात्रं त्वित्यादिना न प्रपञ्चमिथ्यात्वं विवक्षितमिति गम्यते । मायाशब्दस्य च न मिथ्यात्ववाचित्वमिति स्थलान्तरे विशदं द्रष्टव्यम् । आह च -* मायामात्रं त्विति च स्वाप्नानामप्यर्थानां जागरितावस्थानु भूतपदार्थवैधर्म्यमात्रेण मायामात्रत्वमुच्यते इत्याद। ि * मेघोदयस्सागरसन्निवेशः इत्यारभ्य * विष्णोर्विचित्राः प्रभवन्ति मायाः इत्यादिषु मायाशब्दस्य विचित्रसृष्टिविशेषपरत्वमेवेति सुव्यक्तमुपपादितम् । अस्तु वाऽस्य मिथ्यार्थवाचित्वम्, तथाऽप्यस्मिन् सूत्रे स्वाप्नार्थानामेव मिथ्यात्वमुच्यते, *सन्ध्ये सृष्टिराह हि, *निर्मातारं चैके पुत्रादयश्चेति पूर्वपक्षसूत्राभ्यां स्वाप्नार्थानामेव प्रकृतत्वस्य भवद्भिरपि व्याख्यातत्वात् । सत्यं स्वाप्नार्थमिथ्यात्वमधिकरणसाध्यम्, तत्र कैमुत्यलाभाय जागरितानामपि मिथ्यात्वं * कार्त्स्येनानभिव्यक्त स्वरूपत्वादित्यनेन प्रदर्श्यत इति चेन्न; विश्वमिथ्यात्वसिद्धौ स्वाप्नार्थसत्यत्वपूर्वपक्षानुत्थानात् । अथ विश्वमिथ्यात्वमेव स्वाप्नार्थमिथ्यात्वप्रदर्शनद्वारा अत्रैव प्रसाध्यत इति मन्यसे; तदप्यसत्, प्रपञ्चमिथ्यात्वं प्रस्तुत्य स्वाप्नार्थनिदर्शनस्योचितत्वात् । प्रथमसूत्र एव विश्वमिथ्यात्वप्रसाधनमुखेन विश्वस्य ज्ञानबाध्यतया ज्ञानप्रधानं शास्त्रमारम्भणीयमिति भवद्भिस्समर्थनाच्च । अथ वक्ष्यमाणोपजीवनेन शास्त्रारम्भमात्रं तत्र समर्थ्यत इति पश्यसि; तदा नीतिनिबन्धनात्मकस्य सूत्रस्य व्युत्पाद्यमतिमन्दं स्यात् । किंच * कार्त्स्न्येनानभिव्यक्त स्वरूपत्वादित्यत्र न जागरगन्धं पश्यामः । कार्त्स्न्यशब्देन तस्यापि संग्रह इति चेन्न; प्रकृतैकदेशाबहिष्कारे तस्य व्युत्पत्तेः, ततश्च स्वाप्नार्थानां सर्वेषामेव मिथ्यात्वं विवक्षितं स्यात्; अन्यथा स्वाप्नार्थमिथ्यात्वं प्रतिज्ञाय जागरितार्थानामनभिव्यक्त स्वरूपत्वं हेतुरुच्यत इति व्यधिकरणं स्यात् । अतः स्वाप्नार्थमिथ्यात्वसाधनाय तन्निष्ठमेवानभिव्यक्तस्वरूपत्वं हेतुतया सूत्र्यत इति नात्रापि विश्वमिथ्यात्वप्रतिपादनकथाऽपि ।
यत्पुनः मोक्षोपायोपदेशदशायाम् * आत्मेति तूपगच्छन्तीति ब्रह्मात्मैक्यानुसन्धानं सूत्रितमिति, तदपि न पश्यामः, आत्मशब्दस्य नानार्थरूढत्वात्, शरीरप्रतिसबन्धिनि रूढिप्रकर्षाच्च; ततश्शरीरीत्यनुसन्धानं सूत्रितं स्यात् । युक्तं चैतत्, ब्रह्मणस्सर्वशरीरित्वेनान्तर्यामिब्राह्मणादिषु प्रपञ्चितत्वात् । यद्यपि स्वपर्यायोऽयमात्मशब्दो भाष्येऽन्वारूढः, तथाऽप्यन्ततोऽयमेवार्थः प्रपञ्चयिष्यते । अत्राप्यधिकरणे वक्ष्यति * इदमेव शरीरात्मभावलक्षणं तादात्म्यम् * आत्मेति तूपगच्छन्तीति वक्ष्यतीति । विपीरतश्चायं व्यपदेश आयुष्मतः, अहं ब्रह्मास्मीत्यनुसन्धानं ह्यत्र व्याख्यायते, तच्च भ्रान्तिरूपमिति भवतेष्टव्यम्, विलुप्ताहंभावादिविप्लवसंविन्मात्र रूपत्वाभ्युपगमात् ब्रह्मणः; ततश्च मोक्षोपायतया भ्रान्तिरेव सूत्रितेत्यायातम् । शालामालादिन्यायेन विवक्षितपर्यवस्थापनं तु सूत्रस्वारस्योपन्यासदशाविरुद्धम् । किंच, इतिकरणस्वारस्यादत्र दृष्टिविधिसूचनमेव स्वरसम्, तथैव हि श्रुतिरपि *आत्मेत्येवोपासीतेति, वाक्यं च *आत्मेत्येव तु गृह्णीयादिति । प्रसिद्धश्चायमर्थः स्मृतिष्वपि * ब्रह्माहमिति भावयेदित्यादिषु, तन्त्रेषु च * देवोऽहमिति भावयेदिति । अतोऽत्र इतिकरणस्वारस्यात् * मनो ब्रह्मेत्युपासीतेत्यादाविव दृष्टिविधित्वमात्रसिद्धौ उपास्यस्य दृष्टिविशेषणस्य चात्यन्तभेदस्य सार्वत्रिकत्वात् अत्रापि जीवब्रह्मणोर्भेद एवान्तत्ससूत्रतस्स्यादिति नात्र भवतः कश्चिदवकाशः । यत्तु फलदशायाम् *अविभागेन दृष्टत्वादित्यविभागानुभवस्सूत्रित इति, तदपि मन्दम्; अविभागशब्दस्य स्वरूपैक्यनियतत्वाभावात् । विभागो हि परस्परसम्बन्धपरिपन्थिधर्मविशेष इति विदुषां प्रसिद्धिः, तेनाविभागोऽप्यपृथक् सिद्धिरेवेति सिध्यति, न पुनः स्वरूपैक्यम्, तत्र तद्व्यवहारश्चौपचारिकः । अस्तु वा मुख्यः, तथाऽप्यनियतत्वादन्यथात्व विवक्षयाऽयमविभागशब्दः, अन्यथा प्रमाणविरोधादुपपत्तिविरोधाच्च । प्रयुञ्जते च मध्यस्था दण्डो देवदत्ताद्विभक्तः जातिगुणादिकं त्वविभक्तमिति च । यद्वा विभागो भेद एवास्तु, अविभागश्च भेदनिवृत्तिः, तथापि स्वरूपभेदोऽत्र निषिध्यत इत्यत्र न प्रमाणं पश्यामः, प्रत्युत पूर्वापरसूत्रशतपरामर्शात् *भोगमात्रसाम्यलिङ्गाच्चेति उपान्त्यसूत्रसंवादाच्च किंचिज्ज्ञत्वसर्वज्ञत्वपरिमित सुखत्वनिरतिशयानन्दत्वादि वैधर्म्यलक्षणभेद एव निषिध्यत इति स्वरसतः प्रतीयते । तत्क्रतुन्यायोऽपि कृशोदरीनीड निहितकीटवदादिभरतमृगत्वादिवच्च साम्यापत्त्यैव समञ्जसयितुं शक्यः । अन्यथा दृष्टान्त एव तत्र प्रतिदृष्टान्ततामश्नुते । तदेवं भूयसां न्यायमसन्तमिव कृत्वा त्वदुपन्यस्तानि कतिपयानि सूत्राणि त्वदभिमतप्रतीपानि निदर्शितानि । ततश्चान्यपरानन्यपरविभागोऽपि विलीनः । अत एवान्येषां भूयसां सूत्राणां कल्पिताकारपरत्वमुप लक्षणपरत्वं वा नोत्प्रेक्षितुं शक्यम् । अन्यानि तु सूत्राणि सगुणं सविभूतिकं च ब्रह्म प्रतिपादयन्तीत्ययमर्थस्त्वयाऽपि दुरपह्नवः ।
अर्थवत्त्वेऽपि सूत्राणामन्योन्यार्थविभागतः ।
सगुणं ब्रह्म वेद्यं स्यान्न चेत्सूत्रकथा मुधा ।।
आह च जन्माद्यधिकरणे – *ये तु निर्विशेषं वस्तु जिज्ञास्यमिति वदन्ति तन्मते * ब्रह्मजिज्ञासा, *जन्माद्यस्य यतः, इत्यसङ्गतं स्यात्, *निरतिशयबृहद्बृंहणं च ब्रह्मेति निर्वचनात्, तच्च ब्रह्म जगज्जन्मादिकारणमिति वचनाच्च; एवमुत्तरेष्वपि सूत्रगणेषु सूत्रोदाहृतश्रुतिगणेषु चेक्षणाद्यन्वयदर्शनात् सूत्राणि सूत्रोदाहृताः श्रुतयश्च न तत्र प्रमाणमित्यादि । अयमभिप्रायः – प्रथमाध्याये सर्वत्र * ईक्षतेर्नाशब्दम्, *आनन्दमयोऽभ्यासात्, *अन्तस्तद्धर्मोपदेशात् इत्यादिषु ब्रह्मणस्तद्धर्मविशेषैर्वैशिष्ट्यं प्रतिपाद्यते; एवं जीवादिभ्यो भेदश्च प्रतिपाद्यते । *भेदव्यपदेशाच्चान्यः, *कर्मकर्तृव्यपदेशाच्च, *उभयेऽपि हि भेदेनैनमधीयते, * विशेषणभेदव्यपदेशाभ्यां च नेतरौ, *भेदव्यपदेशात्, *आकाशोऽर्थान्तरत्वादिव्यपदेशात्, *सुषुप्त्युत्क्रान्त्योर्भेदेन इत्यादिषु सूत्रेषु तत्तच्छ्रुतिगतो भेदनिर्देश एव स्वशब्देन सूत्र्यते । *जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्, * न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च, *नानुमानमतच्छब्दात्प्राणभृच्च, *जीवमुख्यप्राणलिङ्गान्नेति चेतद्व्याख्यातम्, इत्यादिषु प्रधानादिवत् जीवः स्वशब्देनोपादाय व्यवच्छिद्यते; *गुहां प्रविष्टावात्मानौ हि तद्दर्शनादित्यादिषु स्फुटः । अतः प्रथमाध्याये सर्वत्र जिज्ञास्यतया प्रक्रान्तं ब्रह्मानन्दगुणविशिष्टं प्रकृतेरिव पुरुषादपि विलक्षणं च प्रत्यपादि । अयमेवार्थः स्थूणानिखननन्या येन द्वितीयाध्याये स्थिरीकृत इति सोऽपि तद्विषय एवेत्युक्तम् । तत्र च * इतरव्यापदेशाद्धिताकरणादिदोष प्रसक्तिः इति जीवैक्यव्यपदेशमूलानेक दोषानाशङ्क्य, *अधिकं तु भेदनिदेशात्, * अश्वादिवच्च तदनुपपत्तिः इति सूत्राभ्यां पर्यहार्षीत् । तत्र चाभाष्यत -* ये पुनरस्यैव जीवस्याविद्यावियुक्तावस्थामभिप्रेत्य इमं भेदं वर्णयन्ति, तेषामिदं सर्वमसङ्गतं स्यात् । न हि तदवस्थस्य सर्वज्ञत्वं सर्वेश्वरत्वं समस्तकारणत्वं सर्वात्मत्वं सर्वनियन्तृत्वमित्यादीनिसन्ति । अनेनैव रूपेण ह्याभिः श्रुतिभिः प्रत्यागात्मनो भेदः प्रतिपाद्यते, तत्सर्वं ह्यविद्यापरिकल्पितं त्वन्मते । न चाविद्या परिकल्पितस्याविद्यावस्थायां शुक्तिकारजतमरीचिकाजलादि भेदवत्परस्परभेदोऽत्र सूत्रकारेण *अधिकं तु भेदनिर्देशादित्यादिषु प्रतिपाद्यते । ब्रह्मजिज्ञासा कर्तव्येति जिज्ञास्यतया प्रक्रान्तस्य ब्रह्मणो जगज्जन्मादिकारणस्य वेदान्तवेद्यत्वं तस्य च स्मृतिन्यायविरोधपरिहारश्च क्रियते इति स्पष्टम् । अतोऽध्यायद्वयं विशिष्टपरमिति स्थितम् ।
तृतीयाध्यायेऽपि वैराग्यपादे तावत्प्रतिनियत कर्मफलभोक्तृणामनन्तानां कर्मिणां गमनगमनप्रकारचिन्तनादात्मभेदोऽर्थलब्धः । उभयलिङ्गपादे तु शोध्यं शोधितम् । शिष्टमपि विशिष्टानुगुणमेव । गुणोपसंहारपादस्तु तत्तद्विद्यानियतानियतगुणोपाधिकविद्याभेदाभेद चिन्तनात्कार्त्स्न्येन गुणविशिष्टपर इति स्वरूपतोऽपि सुप्रसिद्धम्, न केवलं नाममात्रेण । पुरुषार्थपादोऽपि विद्याया वर्णाश्रमधर्मेतिकर्तव्यताकत्वप्रतिपादनान्निर्विशेषात्माद्वैत वाक्यार्थविज्ञानपक्षप्रतिपक्षः । तद्वदावृत्तिपादोऽपि, असकृदावृत्तो पासनादिप्रतिपादनेन फलाङ्कुरस्यैवोपपादनात् । उत्क्रान्तिपादेऽपि स्थूलदेहादुत्क्रान्तिरूप फलप्रादुर्भावप्रपञ्चनम् । अर्चिरादिपादेऽपि तथेति सगुणब्रह्मोपासकानां तत्प्राप्त्यर्थमिति भवद्भिरेव व्याख्यातम् । फलपादेऽपि स्वरूपाविर्भावपूर्वकं परब्रह्मसमानस्वच्छन्दभोग प्रपञ्चनं व्यक्तिमिति न बादरायणस्य क्वचिदपि त्वदभिमतानुपपन्नार्थविवक्षां प्रत्यक्षयामहे । उक्तं च भास्कराचार्यैः -*सूत्राभिप्रायसंवृत्त्या स्वाभिप्रायनिवेशनात् । व्याख्यातं यैरिदं सूत्रं व्याख्येयं तन्निवृत्तये । इति । तदभिप्रायेण भाष्यकारैरप्युक्तम् – *भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सञ्चिक्षिषुः; तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्त इति । यत्पुनरुक्तं प्रमाणविरुद्धत्वेन सूत्रार्थानामन्यथा कथनयुक्तमिति; तन्नूनमश्रुतस्वसिद्धान्तेनोक्तम्; सूत्राण्यपि यथाकथञ्चिद्योजयितव्यानीति क्वचिद्भवत्कूटस्थैर्व्याख्यानात् । दृश्यते च जैमिनिपतञ्चलिकण भक्षाक्षपादादि सूत्रेष्वपि तत्तद्व्याख्यातृभिरध्याहारादिकल्पना । तदाह -*लोके येष्वर्थेषु प्रसिद्धानि यानि पदानि तानि सति संभवे तदर्थान्येव सूत्रेष्वपीति । अध्याहारादिभिः स्वाभिमतार्थपरतया निर्वाहो वेदसंबादभूयस्त्ववैदिक परिग्रहविशेषादिभिराप्तोक्तत्व निश्चये मन्वादिप्रणीतधर्म शास्त्रादिष्वपि । क्वाचित्कवेदविरोधादेर्यथा कथञ्चिदुपशमयितव्यत्वात् । अत एवाह सति संभव इति । श्रुतिसूत्रयोरविरोधे सूत्रेष्वध्याहारादिकमन्याय्यम् । विरोधप्रसङ्गे पुनरध्याहारादिभिस्सूत्रं श्रुत्यनुगुणतया नेतव्यम् । नचासौ विभ्रम इति शङ्कितुमपि शक्यम्, सकलवेदशाखाप्रवर्तनाधि कृतत्वात्क्वचिदपि प्रमाणविरुद्धार्थादर्शनात् परिग्रहातिशयाच्च । अतस्तदुक्तेषु सूत्रेषु यत्र क्वचित्प्रमाणविसंवादे यथाकथञ्चित्समाधातव्यम्, नचास्ति विसंवाद इति दर्शितमिति ।।
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्तचार्यस्य कृतिषु
शतदूषण्यां परमते सूत्रस्वारस्यभङ्गवादः षट्षष्टितमः ।।66।।
।।समाप्ता च शतदूषणी ।।