शतदूषणी
।।अथ यतिलिङ्गभेदभङ्गवादः चतुःषष्टितमः ।।64।।
श्रितान् परमहंसतां परमहं स इत्युक्तितः त्रयीपथमसौगतान् कपटसौगतान् खण्डयन् ।
मुर्निजयति लक्ष्मणो मुदमुदञ्चयन्नञ्चतां मुकुन्दगुणमौक्तिकप्रकरशुक्तिभिः सूक्तिभिः ।।
ये पुनः शङ्करादयोऽर्वाचीनपरमहंसाः, ते बाह्यवेषपरिग्रहमधिकृत्य पृच्छयन्ते -किमिति परमहंसैः ब्रह्मसूत्रमुत्सृज्यते? किं तेषु तत्प्रापकाभावात्? उत सामान्यतः प्राप्तस्यापि विशेषतो बाधात्? यद्वा वैकल्पिकतया परित्यागेऽपि प्रत्यवायविरहात्? उताङ्गिनिवृत्तेरेवार्थात्तदङ्गस्यापि निवृत्तेः? अथवा पूर्वानुष्ठानमात्रात्? इति ।
न प्रथमः; श्रुतिस्मृतिभिः सामान्यतो विशेषतश्च तत्प्राप्तेः । द्विजसामान्यतः प्रप्तिस्तावत्सहजा निर्विवादैव । परिव्राजकसामान्यतः प्राप्तिस्तावदभिधीयते । यथाह वसिष्ठः -* यज्ञोपवीत्युदककमण्डलुहस्तः इति । अङ्गिराः -* यतीनां त्रीणि शुक्लानि भवन्त्येतानि नित्यशः । यज्ञोपवीतं दन्ताश्च तथा जन्तुनिवारणम् ।। इति । शौनक * अथ युवा सुवासा ति काषायवासः, सखा मे गोपयेति त्रिदण्डं गृह्णाति, तच्छंयोरावृणीमह इति यज्ञोपवीतम् । इति । दत्तात्रेयः * मोक्षाश्रमे स्मृतं वस्त्रं रक्तं यद्धातुरञ्जितम् । कार्यं यज्ञोपवीतं तु सितं नवगुणान्वितम् ।। इति ।
सामान्यतः यज्ञोपवीतत्यागं निषेधन्ति । यथाह मेघातिथिः * गृहीतं यत् त्रिदण्डादेरविनष्टं तु न त्यजेत् । समुद्रं गच्छ स्वाहेति विनष्टं प्रक्षिपेज्जले ।। प्रक्षिप्य चान्यदादद्याद्गायत्र्या प्रणवेन वा । तच्छंयोरित्युपवीतमब्लिङ्गाभिः कमण्डलुम् ।। इति । अङ्गिराश्च * यतेर्लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् ।। शिक्यं पात्रं ब्रुसी चैव कौपीनं कटिवेष्टनम् । यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः ।। इति ।
उपवीतपरित्यागे प्रत्यवायं स्मरन्ति च । यथाह अत्रिः * ब्रह्मसूत्रं त्रिदैवत्यं ब्रह्मविष्णुशिवात्मकम् । परित्यजन्ति विप्रा ये मोहात्तर्कोपजीविनः ।। स्वर्गापवर्गमार्गाभ्यां प्रच्युतास्ते न संशयः । इति । यद्यप्यत्र विप्रशब्दः सामान्यवचनः, तथाऽपि पारिव्रज्यमेवाधिकृत्य प्रवृत्तत्वान् विशेषार्थ एव । सामान्यतो निर्देशस्तु सर्वेषां प्रत्यवायसाम्यात् । तथा हि उशनास्तत्परित्यागे सर्वेषामाश्रमिणां पतनमेवाह * ब्रह्मसूत्रपरित्यागाद्ब्रह्मचारी गृही वनी । परिव्राट् चापि पतति तस्मात्तन्न परित्यजेत् ।। इति । तत्परित्यागे बहूनि प्रायश्चित्तानि सस्मरुः । यथा अत्रिरेव * त्यक्त्वा यज्ञोपवीतं तु षट् कृच्छ्राणि समाचरेत् ।। इति । वृद्धजाबालिश्च * हीनो यज्ञोपवीतेन यदि स्याद्ध्यानभिक्षुकः । तस्य क्रिया निष्फलाः स्युः प्रायश्चित्तं विधीयते ।। गायत्रीसहितानेव प्राजापत्यान् षडाचरेत् । पुनस्संस्कारमाहृत्य धार्यं यज्ञोपवीतकम् ।। इति । हारीतः * विना यज्ञोपवीतेन यत्कृतं भोजनादिकम् । तत्पापप्रशमायालं प्रायश्चित्तं ब्रवीमि वः ।। तेषां तु भोजनादीनां प्रत्यहं सुसमाधिभिः । सहस्राद्यैरसुयमैर्विधिपूर्वकृतैश्शुचिः ।। इति । असमीक्षितदशापरित्यक्तब्रह्मसूत्रैश्च यादवप्रकाशैः समीक्ष्य संजातानुशयैः सप्रमाणमनुयुक्ताः वासुदेवयात्रोत्सवसमागताः नानादिगन्तवास्तव्याः शिष्टाश्च प्रायश्चित्तमेवोत्तरं ददुः । भ्रष्टस्तर्ह्यसाविति चेन्न; प्रायश्चित्तात्पूर्वमेव तथात्वस्य प्राचीनैर्निश्चितत्वात् । तत्समुच्चितस्यैव यतिधर्मस्याद्यापि मानवादिवत् अविगीतशिष्टपरिग्रहात् ।
एवं परिव्राजकानां सामान्यतः प्राप्तं ब्रह्मसूत्रम् । परमहंसेष्वेव विशेषतोऽपि प्राप्तिर्दृश्यते । तथा हि शाट्यायनकोपनिषदि समाम्नायते * अथ ह यद्ब्रह्म परमं सनातनं ये श्रोत्रिया अकामहता अधीयुः । शान्तो दान्त उपरतस्तितिक्षुर्योऽनूचानो ह्यभिजिज्ञास्यमानः । त्यक्तेषणो ह्यनृणस्तद्विदित्वा मौनी वसन्नाश्रमे यत्र तत्र । अथाश्रमं चरमं संप्रविश्य स च द्वितीयममृतं संप्रयाति । अखिलं विश्वं ब्रह्मभावनया निचाय्य चरेत्पृथिव्यां विष्णुलिङ्गी निगूढः । परमहंसमाश्रमं संप्रविश्य यथोपपत्ति पञ्चमात्रां दधानः । तदत्र श्लोकौ भवतः -त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् । शिक्यं कवचमित्येतद्बिभृयाद्यावदायुषम् । त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ।। इति । अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस इत्येते चतुर्विधाः परिव्राजका भवन्ति । सर्वे विष्णुलिङ्गिनः सदा स्वात्मानमात्मना ब्रह्मभावं भावयन्तः सुशीलिनः पुण्यश्लोका भवन्ति । इति ।
इमामेवोपनिषदमुपबृंहयन् भगवान् पराशरः स्मरति * तत्र परिव्राजकाश्चतुर्विधा भवन्ति, कुटीचको बहूदको हंसः प्ररमहंसश्चेति । तत्र कुटीचका नाम -पुत्रादिभिः कुटीं कारयित्वा कामक्रोधलोभमदमात्सर्यादीन् परित्यज्य विधिवत्सन्न्यासं कृत्वा त्रिदण्डजलपवित्रकाषायवस्त्रोपवीतधारिणः स्नानशाैचामनजपस्वाध्यायब्रह्मचर्यज्ञानतत्पराः पुत्रादेरेव भिक्षाकालेऽन्नं देहयात्रामात्रमुपयुञ्जानाः तस्यां कुटौ नित्यं वसन्त आत्मानं मोक्षयन्ते । बहूदका नाम -त्रिदण्डकमण्डलुजलपवित्रशिख्ययज्ञोपवीतिनो वेदान्तार्थावबोधकाः साधुवृत्तेषु ब्राह्मणकुलेषु भैक्षचर्यां चरन्त आत्मानं मोक्षयन्ते । हंसा नाम -त्रिदण्डजलपवित्रशिक्ययज्ञोपवीतरक्तकाषायवाससो गोमूत्रगोमयाहारा एकरात्रं त्रिरात्रं षड्रात्रं मासोपवास पक्षोपवासकृच्छ्रातिकृच्छ्रचान्द्रायण सान्तपनपराकतुलापुरुषादीनि व्रतानि चरन्तो गोद्विजाढ्येषु पुण्येषु देशेषु वसन्त आत्मानं मोक्षयन्ते ।
परमहंसा नाम -त्रिदण्डजलपवित्रशिक्ययज्ञोपवीतिनोऽन्तर्वासबहिर्वासधारिणो ग्रामैकरात्रवानिसो नगरतीर्थजनपदेषु पञ्चरात्रं षड्रात्रं क्षारलवणवर्जं भिक्षाकाले शीर्णपर्णपुटं कृत्वा ब्राह्मणकुलादेव भैक्षं गृहीत्वा अष्टौ ग्रासानेव भुञ्जानाः सन्ध्योपासनतत्परा नित्यं वृक्षमूले वसन्त आत्मानं मोक्षयन्ते इति । एवं शाट्यायनकश्रुत्या पराशरस्मृत्या च सुप्रसिद्धमर्थमत्रिप्रभृतयोऽपि वृत्तिभेदभिदुराणां चतुर्णां परिव्राजकानां लिङ्गभेदनिषेधद्वारा सामान्यतो दर्शयन्ति । यथा * चतुर्विधा भिक्षवस्तु स्मृतास्सामान्यलिङ्गिनः ।। तेषां पृथक्पृथङ्गाम वृत्तिभेदात् कृतं श्रुतौ । कुटीचको बहूदश्च हंसश्चैव तृतीयकः ।। चतुर्थः परमो हंसो य यः पश्चात्स उत्तमः । लिङ्ग तु वैष्णवं तेषां त्रिदण्डं सपवित्रकम् ।। इति । वृत्तिभेदश्च पराशरस्मृत्या प्रागेव दर्शितः ।
एवं परमहंसानां विशेषत एव प्राप्तेः, तत्परित्यागनिषेधाच्च द्वितीयः पक्षो निरस्तः ।
यद्यपि सामान्यमात्रं विशेषबलात्सङ्कोचमाप्नोति, तथाऽपि न विशेषाद्विशेषः पराभवमर्हति; अविशेषाद्विपरिवर्तप्रसङ्गाच्च । दृष्टश्चास्मदुक्तो विशेषः । त्वदभिमतस्त्वद्यापि न दृश्यते । ननु * नखानि निकृत्य यज्ञोपवीतं विसृजेदिति दृश्यत इति चेन्न; *नखानि निकृत्य पुराणवस्त्रयज्ञोपवीतकमण्डलून् त्यक्त्वा नवान् प्रगृह्याश्रमं प्रविशेदिति श्रुत्यैव त्यागग्रहणयोः पुराणनूतनविषयत्वस्य न्यायनिरपेक्षमेव व्यवस्थापनेन विरोध प्रशमनात्सामान्ययज्ञोपवीतस्य पुराणत्वविशेषिते पर्यवसातुमुचितत्वात्, सामान्यनिषेधस्य नूतनविशेषविधिना स्पर्धितुमशक्तेः; * न हिंस्यादित्यादिवत् । नच विसृजेदित्यस्य न गृह्णीयादित्यर्थः, येन नूतनग्रहणपरतया विषयव्यवस्था दुःस्थिता स्यात् । नच तद्युक्तम्, उपचारप्रसङ्गात् । यद्यपि गृहीतगृहीतविषयं विसर्जनं कथंचित्पश्यसि, तथाऽपि पूर्वधृतविषयत्वमेव स्वारसिकम् । *नवान्प्रगृह्येत्यस्यानादरे च दण्डादेरसंग्रहसिद्धिः । अन्यथा पूर्वोदाहृतविशेषश्रुतिविरोधश्च । अत एव * बहिस्सूत्रं त्यजेद्बुधः इत्येतदपि पुराणब्रह्मसूत्रत्यागविषयं मन्तव्यम् । ननु * ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वेति ब्रह्मचारिणोऽपि पारिव्रज्यं विधीयते, न च तस्य द्वितीयं ब्रह्मसूत्रमस्ति, ततश्च कथं तद्विषये *बहिस्सूत्रं त्यजेदिति वचनं योजनीयमिति चेत्; कथं वा छन्दोगब्रह्मचारिणां परिव्रज्यायां * सशिखं वपनं कृत्वेति शिखावपनं योजयिष्यसि? संभवद्विषयं शिखावपनमिति चेत्; तर्हि संभवद्विषयोऽयं बहिस्सूत्रत्यागविधिरपीति किं न पश्यसि?
किंच, प्रमाणान्तरविरोधपरिहारार्थं बहिस्सूत्रमित्यर्थान्तरं वर्णयन्ति । बहिः सूत्रमित्यव्ययीभावः । तेन सूत्राद्बहिर्भूतं समस्तमपि परित्यजेदित्यर्थः । सन्नयस्यतो ब्रह्मसूत्रातिरिक्तं सर्वमपि परित्याज्यमित्यनेन सन्नयासानुगुणं समस्तनैरपेक्ष्यमुच्यते; तेन न ब्रह्मसूत्रपरित्यागसिद्धिः । *सशिखं वपनं कृत्वेत्यपि *सविष्टरमन्नं भुञ्जीतेत्यादिवत्कर्तव्यसाहित्येनान्वयः । तेन शिखासहित एव शेषवपनं कुर्यादित्यर्थः । न पुनः *सघृतमन्नं भुञ्जीतेत्यादिवत्, बहुप्रमाणविरोधात् । ननु * यदक्षरं परं ब्रह्म तत्सूत्रमिति कल्पयेत् । यमिनो ज्ञानशिखिनः शिखायज्ञोपवीतिनः ।। इत्यादि वचनबलात् सामान्यतः पुराणनूतनसमस्तप्रतिषेध एवाभिप्रेत इति गम्यत इति चेत्; मैवम्, अन्यपरत्वादस्य वाक्यस्य ।
तथा हि -इदं वाक्यं विद्वद्विषयं वा, विविदिषुविषयं वा, परमहंसविषयं वा? पूर्वत्र विद्यास्तुत्यर्थता युक्ता । तथा च *कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः, * न कर्म लिप्यते नरे ति वाक्यमधिकृत्व सूत्रितं भगवता बादरायणेन *स्तुतयेऽनुमतिर्वेति । तेन ब्रह्मविदां शिरसि हृदि च यावदायुषं धार्यं शिखायज्ञोपवीतं ज्ञानान्वितमत्यन्तं प्रशस्तमित्यर्थः । द्वितीये तु अवधानविधिपरतैव * यदक्षरमित्यादिना व्यक्ता, दृष्टोपकारे संभवत्यदृष्टोकारकल्पनायोगाच्च । अनयोश्च पक्षयोरस्यार्थस्य नाश्रमविशेषाङ्गत्वसिद्धिरपि । तृतीयस्तु स्यादप, यद्याश्रमकर्मोक्तिः स्यात्, नच तत्र तत्पश्यामः । सत्यप्याश्रमप्रसङ्गे गृहस्थावस्थागतद्वितीयसूत्रत्यागमुपदिश्य विहितत्यागजातानुशयं प्रति अर्थवाद इति युक्तम्, अर्थवादलिङ्गभूयस्त्वात् । न ह्यत्र विधिरनुश्रूयते, अन्यथा पूर्वोक्तश्रुत्यादिविरोधस्य दुष्परिहरत्वादिति । भवतु वैतद्वाक्यमनन्यपरम्, तथाऽपि प्रागुक्तश्रुत्यादिबलाद्विकल्प एव स्यात्, न त्वेकान्ततो निषेधः, अन्यथा कुटीचकादीनामपि एकान्ततस्तन्निषेधप्रसङ्गात् । न चैतद्वचनं परमहंसमेवाधिकृत्य प्रवृत्तम्, नियामकाभावात् । श्रुतिविरुद्धार्थां क्वचित् कैश्चिदप्यनधीयमानां त्वत्पक्षपातिना विकल्पवादिना विज्ञानेश्वरेणानाघ्रातां तत्पक्षं विस्तरेण प्रतिक्षिपद्भिः भास्कराचार्ययादवप्रकाशमस्करि प्रभृतिभिरुद्धृत्यापरिहृतामन्यादृशीं श्रुतिं द्रष्टुमिच्छसि । यदि च साऽपि स्यात्, कथं सर्वस्मर्तृणां ब्रह्मसूत्रधारणविधानैककण्ठ्यम्? यच्च त्यागार्थं व्यासादिवचनमिति कैश्चित्पठ्यते, तदपि तत्तत्कोशेषु न पश्यामः न चोदाहरन्ति पूर्वे निरूपकाः । नच प्रत्यक्षश्रुतिविरोधे वैदिकपरिगृहीत बहुस्मृतिविरोधे चाप्रसिद्धस्मृतिमात्रस्य जीवितमस्ति । लब्धजीवितत्वेऽपि आन्यपर्यमलेपकमतभङ्गे प्रपञ्चयिष्यते । अतः तद्वचनकारिषु व्यासादिसमाख्यां सङ्केतेन प्रक्षिप्य धर्मसूनुरिव सत्यवादी भव । एतेन पञ्चरात्रादिमूलः परमहंसस्य ब्रह्मसूत्रपरित्याग इति निरस्तम्, प्रमाणभूतेषु तेषु तथाविधवचनादेरसंभवात् । संभवे चान्यपरत्वस्य गृहीतुं युक्तत्वात् । परब्रह्मभूतभगवत्प्रीणनतत्तदर्थविशेषप्रपञ्चने हि पञ्चरात्रस्यैदम्पर्यम्, न सदाचारेषु । तत्र तु आैदासीन्यमेव तस्येति न श्रुत्यादिविरोधे तत्र प्रगल्भतेति मधअयस्थदृष्टया पश्यामः । न च पञ्चरात्रमूलत्वेन भागवत परिगृहीते नैरुक्तेऽपि वेदभागे परिव्राजकप्रकरणे भवदभिमतं यज्ञोपवीतादिप्रहाणं दृश्यते । नच शाण्डिल्यः सूत्रयति । न च सात्वतादिषु सुरक्षितकोशासु संहितासु तथाविधवचनप्रसङ्गः । अतो युष्मत्कूटस्थपक्षपातिनां प्रक्षेपस्तथा स्याद्वा न वेति समीचीनदृष्टया भावय । अतः परमहंसेष्वपि द्विजसामान्यतः परिव्राजकसामान्यतस्तदवान्तरविशेषतश्च प्राप्तं ब्रह्मसूत्रं न विशेषतो बाधमर्हतीति सिद्धम् ।।
नापि तृती यः; विषयव्यवस्थापनयोग्यानां वाक्यानां विरोधाभावादेवाष्टदोषदुष्टविकल्पपर्यवसानायोगात् । अन्यपरतया निश्चितानां तु दुर्बलत्वादेव । विरोधे बलसाम्ये च सति हि गत्यन्तराभावाद्विकल्पः स्वीक्रियते । न च गुरुलघुनोर्विकल्पस्संभवति, गुरुविधायकस्य शास्त्रस्याननुष्ठानलक्षणाप्रामाण्यप्रसङ्गात् । न हि लघौ सति गुरौ कश्चिदपि प्रवर्तते । मुख्यामुख्यतया तु विभागः संभवेदपि, यद्यनन्यथासिद्धो लघुविधिस्सिध्येत् । न च तदस्तीत्युक्तम् । न चामुख्यं भवद्विशेषमङ्गीकरोषि । न च मुख्यकल्पशक्तानाममुख्यकल्पस्वीकारो युक्तः । न च तेषां प्रत्यगात्मप्रावण्येन बाह्येष्वौदासीन्याद मुख्यकल्पपरिग्रह इति युक्तम्, शक्तस्यौदासीन्ये प्रत्यवायात् । नच वः कांचिदशक्तिं भास्करीयादयः सूक्ष्मनिरूपणेऽपि पश्यन्ति । यथाऽऽहुः -* कन्थां वहसि दुर्बुद्धे गर्दभेनापि दुर्भराम् । शिखायज्ञोपवीताभ्यां कस्ते भारः प्रसज्यते ।। सन्ध्यावन्दनवेलायां मुक्तोऽहमिति मन्यसे । खण्डलड्डुकवेलायां दण्डमादाय धावसि ।। इति । यत्तु न्यायविदाऽपि विज्ञानेश्वरेणाऽप्युक्तम् -* यज्ञोपवीतधारणं वैकल्पिकम्, * यज्ञोपवीतं विसृजेदिति श्रुतेरिति; तदपि विकल्पासंभवस्योक्तत्वात् स्वपक्षसंरक्षणाभिनिवेशकारितमित्यनादरणीयम् ।
नापि चतुर्थः, ब्रह्मविदामप्यत्यन्तकर्मनिवृत्तेर्दूषितत्वात्; युष्माभिरपि प्रणवजपाचमनादिकर्मणामद्यापि क्रियमाणत्वात् । * तस्माद्यज्ञोपवीत्येवाधीयीतेत्यादेर्दुर्लङ्घत्वात्, अर्थप्राप्तभोजनादिकर्मणां च अयज्ञोपवीतिनाऽनुष्ठाने प्रायश्चित्तविधानात् ।
नापि पञ्चमः; श्रुत्यादिविरुद्धस्याचारमात्रस्यानुपादेयत्वात् । पञ्चशिखदुर्वासःप्रभृति परिगृहीतपरिव्राजकस्तोमेषु ब्रह्मसूत्रपरित्यागस्य पुराणेष्वदर्शनात् । परिव्राजकानुकारिधनञ्जयादिषु ब्रह्मसूत्रपरित्यागाश्रवणात् । भवदीययूथ्य भास्कराचार्ययादवप्रकाश भगवन्नाथमुनिपारम्पर्यविघटितत्वाद्भवत्पक्ष प्रवेशित विसंवादैक्याच्चानुविधेयाचारत्वा संभवादिति । अतस्सिद्धं परमहंसैरपि यज्ञोपवीतमवश्यं धार्यमिति ।
एवमुपवीतोक्तन्यायेन परिव्राजकसामान्यतः प्राप्तेः, तथा परमहंसमेवाधिकृत्य त्रिदण्डविधानात्, चतुर्णामपि लिङ्गभेदनिषेधाच्च तस्यैकदण्डधारणे नियमोऽपि निरस्तः । अथ स्यात् -* न चात ऊर्ध्वं शुक्लमंबरं बिभृयात् एकदण्डी त्रिदण्डी वेति बोधायनादिवचनात् त्रिदण्डैकदण्डधारणयोर्विकल्प इति; भवत्वेवम्, तथाऽपि परमहंसस्य एकदण्डधारणमेव, इतरेषां त्रिदण्डधारणमेवेति नास्ति नियमः, अविशेषेण तेषां प्रसक्तेः । भवत्वेवं का नो हानिरिति चेत्; नियमाभिमानहानिः । गुरुलघुनोस्तुल्यविकल्पानुपपत्तिं चात्र यादवप्रकाशादयः प्राहुः । अतो मुख्यामुख्यतयैवायं विकल्पस्स्यात् । तदेतद्भगवान् व्यासः स्पष्टयति * त्रिदण्डधारणं शस्तमिति । बोधायनादिसामान्यवचनविकल्पितैक दण्डधारणस्य त्रिदण्डालाभरूपापद्विषयतया हारीतमेघातिथिभ्यां व्यवस्थापिता । * त्रिदण्डं वैणवं सौम्यं सत्वचं समपर्वकम् । वेष्टितं कृष्णगोवालरज्ज्वा तु चतुरङ्गुलम् ।। नष्टे जलपवित्रे च त्रिदण्डे वा प्रमादतः । एकं तु वैणवं दण्डं पालाशं बैल्वमेव वा ।। गृहीत्वा विचरेत्तावद्यावल्लभ्यं त्रिदण्डकम् । यत्नेनान्वेषयेन्नित्यमप्रमत्तः समाहितः ।। इति हारीतः । मेघातिथिस्तु -* यावन्न स्युस्त्रयो दण्डास्तावदेकेन पर्यटेत् इति । न चैतत्प्रक्रान्तत्रिदण्डधारणपुरुषविशेषविषयमिति नियन्तुं शक्यम्, एकदण्डी त्रिदण्डीवेत्यस्याद्यापि तुल्यत्वनिश्चयाभावात् । यद्यपि च प्रथममेव कस्यचित्त्रिदण्डालाभादेकदण्डग्रहणं संभवति, तथाऽपि न तत्र प्रक्रमपरिनियतिरङ्गीकर्तुं शक्या, अमुख्यत्वात् । * यावन्न स्युस्त्रयो दण्डास्तावदेकेन पर्यटेत् इत्यस्य चाविशेषेण प्रक्रमेऽपि प्रवृत्तेः ।
किंच, प्रत्यक्षश्रुतिसिद्धं त्रिदण्डधारणम्, स्मार्तस्तु विकल्पः, पूर्वं तु श्रुतिस्मृत्युभयसिद्धम्, उत्तरत्र तु स्मृतिरेव । *यद्वै किंच मनुरवदत्तद्भेषजम्, *मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यते इत्यादिश्रुतिस्मृतिभिराप्ततमत्वेन परिगृहीतमन्वादिस्मृतिसिद्धं त्रिदण्डधारणम्, विकल्पस्तु यत्किंचित्स्मृतिसिद्धः । भूयस्यः स्मृतयस्त्रिदण्डधारणे पूर्वोपात्ता उपाधास्यमानाश्च; विकल्पे तु द्वे तिस्रः सन्ति न वेति न जानीमः । तथा हि दक्षबृहस्पती – * मेखलाजिनदण्डेन ब्रह्मचारीति लक्ष्यते । गृहस्थो यष्टिवेदाद्यैर्नखरोमैर्वनाश्रितः ।। त्रिदण्डेन यतिश्चेति लक्षणानि पृथक् पृथक् ।। इत। ि शाण्डिल्यः -* दण्डाणि त्रीणि संगृह्य धारयेद्विधिपूर्वकम् । अत्रिः -* लिङ्गं तु वैष्णवं तेषां त्रिदण्डं सपवित्रकम् । त्रिदण्डेन यतिश्चेति लक्षणं वै श्रुतं स्मृतौ ।। दत्तात्रेयः -* त्रिदण्डिरूपधृग्विप्रः साक्षान्नारायणः स्मृतः । त्रिदण्डी पूज्यते येन विष्णुस्तेन प्रपूजितः ।। अष्टाक्षरेण मन्त्रेण नित्यं नारायणात्मना । नमस्यो भक्तिभावेन विष्णुरूपी त्रिदण्डधृक् ।। त्रिदण्डं लिङ्गमाश्रित्य जीवन्ति बहवो द्विजाः । यो हि ब्रह्म न जानाति त्रिदण्डार्हो न स स्मृतः ।। अत्रिदत्तात्रेयौ – * काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः । त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी ।। हारीतः * विष्णुरूपं त्रिदण्डाख्यं सर्वदा धारयेद्यतिः । कुयार्त्त्रिदण्डग्रहणं कालक्षेपं न कारयेत् ।। वृद्धदक्षः * केशमात्रान् समग्रन्थीन् त्रिदण्डान् वैणवान् यतिः । धारयेदिति शेषः । इत्थं परश्शतास्स्मृतयः विस्तरभयान्न लिख्यन्ते । अतो गुरुलघुविकल्पानुपपत्तेः शस्ताशस्तत्वकण्ठोक्तेः त्रिदण्डालाभदशाविषयत्व प्रतिष्ठापनात्, त्रिदण्डधारणस्य प्रत्यक्षश्रुतिसिद्धत्वात्, आप्ततमबहुस्मृत्युपबृंहितत्वात्, त्रिदण्डधारणमेव चतुर्णां परिव्राजकानामविशेषेण मुख्यम्; एकदण्डधारणं त्वमुख्यम्; तच्च आपद्दशायां चतुर्णामपि संभवति, इति सिद्धम् ।
अनेनैव न्यायेन परमहंसस्य शिखावर्जनमप्यनुपपन्नम्; चतुर्णामपि लिङ्गभेदनिषेधस्य दर्शितत्वात्, विशेषविधायकासिद्धेः । * मुण्डः शिखी वेत्यादिविकल्पस्यापि त्रिदण्डैकदण्डधारणविकल्पवन्मुख्या मुख्यतयैव निर्वाह्यत्वात् । संभवति हि केषांचिच्छिरसि व्याध्यादिवशात्केशानुत्पत्तिः । शौनकलिखितगालवात्रिप्रभृतिभिः शिखाधारणस्यैव स्मरणाच्च । गालवेन तु * त्रिस्थानलोमवपनं कृत्वा प्राजापत्यं कृत्वा प्राणायामशतं चरेत् इति शिखावपने प्रायश्चित्तविधानात् विकल्पवाक्यस्य मुण्डनवाक्यस्य च यथाकथंचिद्योजनीयतया समुच्चयार्थतां शिखाव्यतिरिक्तमुण्डनविषयतां शिखासम्बन्धमात्रविषयतां च यतिलिङ्गसमर्थने परमाचार्याः प्राहुः । शिखावपनमन्तरेण वपनेऽपि मुण्डशब्दस्तत्रैव दर्शितः । यथाह लिखितः * पौर्णमास्यां शिखावर्जं मुण्डयेत शिरो यतिः । अलाभे व्याधिपीडायां राजचोराद्युपद्रवे ।। वापयेत्पौर्णमास्यादि यावत्स्यात् कृष्णपञ्चमी । ति । मेघातिथिः * कक्षोपस्थशिखावर्जं मुण्डयेत शिरो यतिः । इति । एवमन्यैरपि * कक्षोपस्थशिखावर्जमृतुसन्धिषु वापयेत् । न त्रैमुण्ड्यमतिक्रामेद्भिक्षुस्संवत्सरे क्वचित् ।। इत्यादिषु शिखाव्यतिरिक्तांशवपनेऽपि मुण्डशब्दस्य प्रयोगान्मुण्डनवपनशब्दयोः पर्यायवदविशेषत्वोप पादनाच्च सामान्यो मुण्डशब्दश्शिखाव्यतिरिक्तविषय इति स्वारसिकम्, विकल्पाङ्गीकारे त्वमुख्यत्वं दर्शितमस्माभिः । वाशब्दश्चार्थ इति परमाचार्या व्याचख्युः । अतः परमहंसैरप्येकमुपवीतमवश्यं धार्यम्, त्रिदण्डशिखे च मुख्यतया परिग्राह्ये इति सिद्धम् । तदेतत् * वर्णाश्रमोचितेत्युचितशब्देन भाष्यकारैरपि सूचितमिति ।।
।।इति शतदूषण्यां यतिलिङ्गभेदभङ्गवादः चतुःषष्टितमः ।।64।।