शतदूषणी
।। अथ भेददूषणनिस्तारवादः त्रयोदशः ।। 13 ।।
श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तेष्वासनिर्गतः ।
भेदं बिभित्सतां चित्तं भिन्ते तर्कात्मकः शरः ।।
यदेतत्स्वमर्मघट्टनम् – भेदः स्वरूपं धर्मोवा ।
न तावत् स्वरूपम्शुक्तिरजतादिभ्रमानुत्पत्तिप्रसङ्गात् । इदमित्यधिष्ठानतया हि शुक्तिस्वरूपमवगम्यते; अन्यथा निरधिष्ठानभ्रमप्रसङ्गात् । अवगते शुक्तिस्वरूपे तस्यैव रजताद्भेदत्वेन कथं शुक्तिरजतयोर्भेदाग्रहः? कथंतरां च तन्मूलः शुक्तौ रजताध्यासः कथंतमां च तदधीनाः कलधौताभिलाषिणः करतलप्रसारण – ग्रहण – चेलाञ्चलनिबन्धन – तद्रक्षणप्रभृतयः?। कथं चाध्यासाभावे, नेदं रजतमिति बाधः?
किंच नेदं रजतमिति व्यवहारहेतुर्भेदग्रहः पूर्वमस्ति वा, न वा? अस्ति चेत्, प्रथममेव तथा व्यवहारः स्यात् । न चेत्, भेदस्याग्रहे स्वरूपस्याप्यग्रहात् इदमिति स्वरूपव्यवहारः इदं रजतमित्यध्यासश्च न स्याताम् । यदि च घटस्वरूपमेव पटस्य भेदः, तदा घटो भेद इति पर्यायता प्रसज्येत । घटो भिन्न इति व्यवहारे घटो घटविशिष्ट इत्युक्तं च स्यात्; भिन्नशब्दस्य भेदविशिष्टवाचित्वात्; भेदस्य च घटस्वरूपत्वात् । यद्वा घटो भेद इत्येव व्यवहारस्स्यात् । यदि च घटाद्भेदः पटस्य स्वरूपम्, तदा कुड्ये पटस्वरूपत्वाभावात् कुड्यस्य घटाद्भेदाभावे घटकुड्यतादात्म्यं प्रसज्येतेति तेनैव क्रमेण सर्वस्य जगतस्तादात्म्ये स्वरूपभेदवादः सर्वाभेद एव पर्यवस्यतीति जितमायुष्मता । अथैतद्दोषपरिहाराय घटव्यतिरिक्तानां तत्तद्वस्तूनां तानि तानि स्वरूपाणि प्रत्येकं घटाद्भेद इति मन्वीथाः,तदा घटव्यतिरिक्तेष्वखिलेषु वस्तुषु परस्परव्यावृत्तेषु घटाद्भिन्न इत्यनुवृत्तव्यवहारस्यानुवृत्तोपाध्यभावात् निर्विषयव्यवहारायोगाच्च परस्परस्वरूपाण्येव परस्परानुवृत्तानीति पुनरपि तदेव सर्वतादात्म्यं प्रसज्येत । किंच घटादीनां स्वरूपाणि सप्रतियोगिकानि निष्प्रतियोगिकानि वा? पूर्वत्र प्रतियोगिस्मृत्यभावे घटः पट इत्यादि व्यवहारो न स्यात् । उत्तरत्र सप्रतियोगिकभेदस्वरूपं व्याहन्येत ।
अथ धर्मो भेदः, तदा धर्मधर्मिणोर्भेदोऽस्ति, न वा? न चेत्, धर्मधर्मिणोरभेदात् धर्मस्यैवाभावेन धर्मभेदाभावात् पुनरपि सर्वतादात्म्यं प्रसज्येत । यद्वा धर्मिण एवाभावात् कस्य भेदो वर्णनीयः? अथ धर्मधर्मिणोर्भेदोऽभ्युपगम्यते, तत्रापि भेदः स्वरूपं धर्मो वेति विकल्पे स्वरूपपक्षस्य दूषितत्वात् धर्मपक्ष एव परिशिष्यते । ततश्च तस्यापि धर्मभेदापेक्षयाऽनवस्था स्यात् । एवंच स्वरूपधर्मयोरन्यतरकोटिबहिर्भावा भावात् अन्योन्याभाव – पृथक्त्व – विशेषाणामपि भेदत्वं पलायितमिति ।
किंच धर्मधर्मिणोराश्रयप्रतियोगिनोश्च भेदग्रहस्तदाकारग्रहणमन्तरेण स्वरूपेण गृह्यमाणयोर्न संभवति, धर्मधर्मित्वादितत्तदाकारग्रहश्च तयोर्भेदग्रहे सतीति परस्पराश्रयणम् । वस्त्वन्तरसिद्धौ एकविधिरन्यव्यवच्छेदः व्यवच्छेदसिद्धौ वस्त्वन्तरसिद्धिरिति च । न च भेदग्रहणमन्तरेणापि स्वरूपेण गृह्यमाणयोर्धर्मित्वादिग्रह इति वाच्यम् । भेदग्रहाभावे हि गृह्यमाणयोरेकत्वग्रहे पर्यवसान स्यात्,अनेकत्वाग्रहे वा । उभयथाऽपि धर्मत्वधर्मित्वलक्षणवैलक्षण्यं कथञ्चिदपि न संभवति ।।
कथं तर्हि सार्वलौकिकोऽयं भेदग्रहः? अविद्यामाहत्म्यादिति ब्रूमः । न चाविद्यामूलेऽपि भेदग्रहे विचाराः प्रागुक्ताः प्रक्रमन्ते; अविचारितरमणीयतैकवेषत्वात् । न चैतावता परमार्थत्वसिद्धिः,वस्तुतो विचारासहत्वात् । न च वाच्यं प्रमाण – प्रमेय – तदुपकरण – तदवान्तरभेद – कथक – सिद्धान्त – साधन – दूषणादिभेदव्यवस्थाभङ्गात् स्ववचनविरोध – स्वसाध्यभङ्गादिरिति, साध्यत्वाभिमतविश्वानुप्रविष्टस्ववचन स्वसाध्यादिभङ्गेऽपि स्वाभिमताद्वैतसिद्धेरवर्जनीयत्वात् । किञ्च असिद्धभेदेन केनचिद्भेदसाधनमशक्यम्, अन्यथा त्वनवस्थैवेत्येषा दिक् ।
अत्रोच्यते – न तावत् भेदप्रतीत्यपह्नवः शक्यः; स्ववचनविरोध – बाधापसिद्धान्तादिप्रसङ्गात् । तथा सति हि “युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः इतरेतरभावानुपपत्तौसिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्ति” (शांकरभाष्यं) रित्यादि भाषणमपि व्याहन्येतेति । न च भेदप्रतीतिकारणापह्नवः शक्यः; कार्यस्य कारणावश्यम्भावात् अन्यथा लोकायतमतापातात् । न च भेदप्रतीतेरकार्यत्वं वक्तुं शक्यम्; नित्यत्वतुच्छत्वयोस्त्यवयैव त्यागात् । न च दुर्निरूपंतत्कारणमितिवाच्यम्; एतत्कारणत्वेनैव सुनिरूपत्वात् । अन्वयव्यतिरेकवशादिन्द्रियादि विशेषप्रसिद्धेश्च । भवताऽपि चाविद्या कारणमिति विशेषतो निर्णीतम्; अन्यथा परमार्थत्वप्रसङ्गात् । न चास्य निर्विषयत्वं सुवचम्; प्रतीत्यपह्नवपक्षोक्तदोषावश्यम्भावात् । स्वबाध्यभेदविषयप्रतीत्यभावेन परसिद्धान्तस्थिरीकरणाच्च । अतो बाध्यविषयत्वमवशिष्यते । तदपि दुर्वचम्; बाधकप्रमाणस्य भेदग्राहित्वे, भेदाभावग्राहित्वे, यत्किञ्चिद्ग्राहित्वाभावे च भेदस्य स्थिरीकरणात् । भेदाभावोऽपि सिद्ध्यन् भेदाद्भिन्न एव सिद्ध्यति;अन्यथा तदसिद्धेस्तत्सिद्धेर्वा भेदसिद्ध्यापातात् । एवंच सामान्यतः स्थापिते भेदे न पृथग्जल्पानामुत्तरापेक्षा ।
या चात्र भेदतिरस्करिणी, साऽपि साध्वसाधुविवेकदिव्यचक्षुषि जने न जागर्ति । तथाहि स्वरूपं धर्मो वेति विकल्पयन् किं सामान्यतः स्वरूपधर्मयोः भेदमङ्गीकृत्य विकल्पयति, अनङ्गीकृत्य वा? न प्रथमः; विकल्पस्य निष्फलत्वात् । अन्यथा अभ्युपगमबाधात् । न द्वितीयः; विकल्पस्यानुत्थानात् । न पुनः पर्यायेण विकल्पः । न च निर्मुक्तोपाधिभेदैकवस्तुगोचरयोः शब्दयोरपर्यायता प्रातीतिकभेदमूलोऽयं विकल्पः; परमार्थविमर्शभेदमूलं तद्दूषणमिति चेन्न – विमर्शभेदस्यापि पारमार्थिकत्वानभ्युपगमात् । स्वमूलघातायोगाच्च । अत एव परमतसिद्धभेदोपजीवनेन विकल्प इति प्रत्युक्तम्; अनङ्गीकृतमूलघातकेन परमतेन तत्सिद्धेः । अन्यथा परमतेनापि तदसिद्धेस्तन्मूलविकल्पासंभवात् । अतो यदि विकल्पयसि, सिद्धो भेदः। यदि न, तथाऽपि सिद्धः विकल्पोपक्रमत्वात् तद्दूषणस्य ।
न चानुपलब्धेः किं विकल्पेनापीति वाच्यम्, तथा सति तस्यानिर्वचनीयपक्षनिक्षेपासंभवात् संविदनुपलम्भवाचोयुक्तेश्चैवं सुलभत्वात् ।
किंच अभेदः स्वरूपं धर्मो वा? स्वरूपं चेत्, भेदभ्रमः क्वचिदपि न स्यात्; भेदविरोधिन्यभेदे दृष्टे तदारोपासंभवात् । अभिन्नो घट इत्यादेः पर्यायतादिप्रसङ्गश्च प्राग्वत् । अथ तु धर्मः, तर्हि सिद्धो भेदः, धर्मधर्मिभावस्य तद्याप्तत्वात् । यद्यभेदरूपेणापि धर्मेणाभेदः, स चेत्स्वरूपम्, स एव दोषः। धर्मश् – चेदनवस्थेति त्वदुक्तमर्यादाप्रवर्तने का वार्ता । उपलम्भ इति चेत् तुल्यं । न कादाचिदिति चेत् किमर्थस्तर्हिभेदापह्नवः । अनन्यार्थ एवेति चेन्न; अप्रविष्टमाध्यमिकपक्षेण त्वया तथाऽनभ्युप गमात् ।। न भेदापह्नवसाध्यमद्धैतम्; अपितु स्वतस्सिद्धमिति चेन्न; अद्वैतमित्येव तत्सिद्धेः । अन्यथा स्वरूपमात्रस्य भेदाभेदविकल्पसहस्य तत्त्वायोगात् । तस्मात् भेदस्वरूपमपह्नुवानैरभेदस्वरूपमप्यपह्नुवं स्यात् । न च अस्त्विति वाच्यम्, माध्यमिकमतापातात् । न चानुभयाकारत्वसिद्धिः, उभयाकारत्ववत् व्याघातात् । न च वयमेकस्यैवैकस्माद्भेदमभेदं च स्वीकुर्मः, येनास्मन्मते तत्प्रसङ्गः । न चाभेदमपि सर्वत्र परित्यजामः; येन प्रकारेण भवत इव सर्वाभावः स्यात्; अतः सर्वं वस्तुजातं स्वव्यतिरिक्तात् सर्वस्माद्भिन्नं स्वस्माच्चाभिन्नमिति सांसिद्धिकीयं तत्त्वव्यवस्था ।
अथ यावत्संभवं च विकल्पितं देवानांप्रियेण, धर्मान्तराणां स्वाश्रयस्य च स्वरूपधर्मबहिर्भावात् व्यावर्तकत्वेन भेदत्वस्य वक्ष्यमाणत्वाच्च उभयं वेत्यपि विकल्पः किं न विकल्पितः? स एव हि नस्समयः । यथासंभवं स्वरूपधर्मयोर्भेदत्वस्यानुप्रवेशोपलम्भात् । व्यावृत्तव्यवहारहेतुर्हि भेदः । स च व्यवहार; क्वचित् स्वरूपतः क्वचित् धर्मतश्च दृश्यते । शुक्तिरजतभ्रमादेः शुक्तित्वादिधर्मभेदाप्रतीतिनिबन्धनत्व स्यान्वयव्यतिरेकसिद्धत्वान्न भ्रमाद्यनुपपत्तिः । न हि शुक्त्यादीनां स्वरूपमेव रजतादिभ्यो भेदः ।
घटो भिन्न इति व्यवहारगतचोद्यान्यपि घटशब्दप्रवृत्तिनिमित्तविलक्षण – सार्वत्रिकप्रयोगयोग्य – भिन्न शब्दप्रवृत्तिनिमित्तयोगात् परिहृतानि । तच्च निमित्तं घटत्वादिभेदानामेव व्यावृत्तव्यवहारहेतुत्वं भ्रान्ति प्रतिपक्षोपलम्भत्वमित्यादिरूपेण ग्राह्यम् । अत एव व्यावृत्त्यनुवृत्त्यादिप्रयुक्तव्यवहारसाधनतादात्म्य प्रसङ्गोऽपि प्रत्युक्तः; स्वरूपशब्दवत् । घटस्वरूपं पटस्वरूपमिति भेदोल्लेखेनैव हि स्वरूपशब्दः सर्वत्र प्रयुज्यते । तत एव तत्रापि स्वरूपमात्रतादात्म्यमिति चेन्न; स्वधीवचनादिविरोधात् । भेदःस्वरूपमित्यनेनाभेदस्वरूपसिद्धिरिति कस्त्वदन्यो मन्येत? सप्रतियोगिकत्वाप्रतियोगिकत्वविकल्पोऽपि, भिन्न इति व्यवहारमात्रस्य प्रतियोगिनिरूपिताकारे व्युत्पन्नत्वात् प्रतियोगिसाकांक्षतेति निरस्तः । स्वरूपधर्मभेदसमर्थनाच्च धर्मधर्मिणोर्भेदोऽनवस्थापरिहारश्च सिद्धः । अयमत्र संग्रहः “यस्मिन् यद्दर्शने येषामध्यासो नोपपद्यते । तस्य भेदः स तेभ्यः स्यात् तदुक्तिस्तु विवक्षया” ।। इति ।।
एवं तर्हि धर्मभेदपक्ष एवंगीकृतः स्यात्, न पुनः स्वरूपस्य भेदत्वसिद्धिः; तस्य भ्रमसहत्वात् इति चेत्; सत्यम्; तथाऽपि धर्मविशेषाणां धर्म्यन्तरमनपेक्ष्यैव स्वस्मिन्नन्यतादात्म्याध्यासविरोधित्वात् तेषां स्वरूपमेव स्वेषां स्वधर्मिपर्यन्तेभ्य इतरेभ्यो भेद इत्येष्टव्यम् । तच्च स्वरूपमाश्रयापेक्षया धर्मः भेद इत्यपि व्यपदिश्यते । स्वपरनिर्वाहकसमाधिश्च संवेदनादिषु त्वयाऽपि स्वीकृतः । धर्मिस्वरूपस्य न कदाचित् भेदत्वसिद्धिरिति चेन्न, अगृहीतभेदेषु केषुचित् धर्मेष्वाश्रयभेदात् भेदव्यवहारदर्शनात् । सौरभादिषु हि धर्मत्वमवगम्य कस्येदमिति सन्दिहानाः तदाश्रयविशेषदर्शनादिभिस्ततन्निष्ठतामध्यवस्यन्तःतदन्यनिष्ठादन्यतां मन्यन्ते । अतोऽस्ति धर्मिणोऽपि क्वचित् भेदत्वम् । सोऽपि धर्मी स्वधर्ममितरगतधर्मात् भिन्दानो धर्मान्तरेण भिन्न इति, न; “निर्भेदेन भिद्यते” इति शङ्का, येन भेदासिद्धिरनवस्थादिकं वा प्रसज्येत । यस्य च धर्मस्य धर्मी भेदः, सोऽपि कदाचित् तस्यैव धर्मिणो भेदस्स्यात्, यदा ह्याकारादिसादृश्यमात्रेण तस्यैव धर्मिणो धर्म्यन्तराद्व्यवच्छेदासिद्धिः ; यथा विलीने घृते तैलसन्देहदशायां गन्धविशेषेण तद्ध्यावृत्तिः । अतोऽत्र नान्योन्याश्रयशङ्काऽपि, अपेक्षानियमाभावात्, गन्धजातिभेदस्य धर्मिभेदाप्रतीतावपि प्रत्यक्षेण पटुकरणानां प्रतीतेः । अस्फुटरूपधर्मद्वयभेदाभेदचिन्तायाच्च तद्भेदकस्याश्रयादिभेदस्य प्रत्यक्षावसिततदाकारान्तरयोगित्वेनैव सिद्धिः । एवं विषयधर्मादिषु विषयादिभ्योऽपि भेद उदाहर्तव्यः ।
यच्चोक्तम् – धर्मधर्मित्वादिग्रहो भेदग्रहात् ततश्च स इत्यन्योन्याश्रय इति तदपि न; तयोर्भेदानभ्युपगमात् । धर्मधर्मित्वादिरेव हि भेद इष्यते । तथा आत्माश्रयापात इति चेन्न; तस्यैव तत्र हेतुत्वानभ्युपगमात् । प्रत्यक्षादिसामग्रीवशादेव हि तद्ग्रहः समर्थित एव । स च जात्यादिरूपभेदः प्रत्यक्षादियोग्य इति ।
यच्च वस्त्वन्तरसिद्धौ एकविधिरन्यव्यवच्छेदः, व्यवच्छेदसिद्धौ वस्त्वन्तरसिद्धिरिति – तदपि न; वस्तुनोर्द्वयोरपि प्रतिनियतधर्मविशिष्टतया प्रत्यक्षादिर्भिग्रहणात् तावत एव व्यवच्छेदग्रहरूपत्वात् ।
यच्चोक्तम् – अविद्यावशात् भेदग्रहः; तत्र चाविचारितरमणीयतैकवेषत्वात् वस्तुतो विचारासहत्वान्न कश्चिद्दोष इति; तत्र किं प्रत्यक्षस्यैव शिरसि भारोऽयं निक्षिप्यते । तत्प्रामाण्यसिद्ध्यर्थमिति चेत्, तदपि वा किमर्थं न परित्यज्यते । लोकविरोधादिति चेत्, तुल्यं विकल्पेऽपि । तत्सिद्धेः स्वरूपमात्रे बाधकाभावादिति चेन्न, भेदेऽपि बाधकाभावस्योक्तत्वात् । अस्तु तर्हि प्रत्यक्षमप्यप्रमाणमिति चेत्, हन्त! तर्हि तत्सिद्धस्वरूपमात्रस्यापि मिथ्यात्वात् जितं माध्यमिकैः । केनाप्यसिद्धं तत् स्वतस्सिद्धमिति चेत्, तथाभावे तस्य किं त्वया प्रमाणमुपन्यसनीयम् । न किंचिदिति चेत्, साधु सिद्धान्तः समर्थितः । अथ प्रत्यक्षादिकमेव किमप्रमाणमपि प्रमाणतया उपन्यस्तं कार्यकरम्? तथा च सति परपक्षप्रतिक्षेपः कस्यापि न सिद्ध्येत् । परैः प्रमाणतयाऽभ्युपगमात् तदुपन्यास इति चेत्, न तावता निर्णायकत्वम्, तत्त्वव्यवस्थित्यसिद्धेः । किंच स्वयंप्रकाशप्रत्यक्षेणापि सकलेतरव्यावृत्तमेव प्रत्यग्वस्त्ववभासत इत्यतोऽपि भेदः प्रत्यक्ष एष्टव्यः; अन्यथा जडतादात्म्यप्रसङ्गात् , आकारभेदानभ्युपगमेन सामान्यस्फुरणायोगात्, तावतश्च भ्रमसहत्वेन भेदत्वासिद्धेश्चेति ।
।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां भेददूषणनिस्तारवादः त्रयोदशः ।।13।।