शतदूषणी
।।अथ संविदात्मत्वभङ्गवादःपञ्चविंशः ।।25।।
अन्योन्यव्यतिरिक्तयोरविजहद्धर्मत्वधर्मित्वयोर्व्यापारे गृहमेधिनोरिव ययोः साहित्यमासूत्र्यते ।
सा संवित्सकलार्थसाधकवपुस्तत्सिद्धभोगः प्रभुः, श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ।।
यदुच्यते – संविदात्मा अजडत्वात्, यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति, यथा घटः, इति; तदसत्; स्वस्मै भासमानत्वरूपस्याजडत्वस्य हेतोरसिद्धेः । अव्यभिचरितप्रकाशसत्ताकत्वस्यसुखादिभिर्व्यभिचारात् । तेषामपि संविद्वयतिरेकस्यानात्मत्वस्य च सौगतसुहृदा त्वयाऽप्यपरित्यागात् । सजातीयनैरपेक्षयादेरपि दीपादिभिर्घटादिभिरपि वा व्यभिचारत् । सर्वथा सजातीयनिरपेक्षप्रकाशत्वस्यपक्षेऽप्यसिद्धेः । सा खल्वात्मसम्बन्धसापेक्षप्रकाशा । अन्यथा स्वाश्रयव्यतिरिक्तेभ्योऽपि तत्प्रकाशप्रसङ्गात् । अत एवात्मनिरपेक्षत्वमप्यसिद्धम्; संविदन्तरनिरपेक्षप्रकाशत्वस्य स्वस्मै परस्मै वेति विकल्पे पूर्वस्यासिद्धेरुत्तरस्य विरुद्धत्वात, अन्यस्मा एव भासमानत्वनियमात्, घटादिवदनात्मत्वसिद्धेश्च । अन्यथा घटादरेपि भासमानत्वमात्रेणात्मत्वप्रसङ्गस्यावारणात् । अतो ज्ञानत्वमेव हेतुः परिशिष्यते ।
तच्च प्रकाशरूपत्वम् । तच्च स्वस्मै परस्मै वेति विकल्पेन दूषितमेव । न कस्मैचिदिति पक्षे तु प्रकाशत्वहानिः, तथैव सर्वत्र प्रसिद्धेः ।
किंचानेन हेतुना संविद आत्मत्वं साधयन्तः किमिदमात्मत्वमभिसन्धाय साधयन्ति? किं ज्ञातृत्वादिकम्? उत प्रत्येतुः प्रत्येतव्याद्यतिरिक्तत्वम् ? अथवा स्वस्मै भासमानत्वम्?उताव्यभिचरितप्रकाशसत्ताकत्वम्? यद्वा स्वप्रकाशत्वम्? उत स्वानतिरिक्तत्वम्? यद्वाऽन्यदेव किंचिदिति ।
नाद्यः, प्रत्यक्षविरोधात् । ज्ञातृत्वं हि ज्ञानाश्रयत्वम् । तत्र स्वापेक्षया स्वस्यैवाश्रयत्वं व्याहतम्, आश्रयत्वाश्रयित्वलक्षणविरुद्धधर्माध्यासात् । अत एव स्वाश्रयतादात्म्येन ज्ञातृत्वमपि प्रतिक्षिप्तम् । धर्मधर्मिभेदाभेदपक्षस्तु भवताऽपि नाङ्गीक्रियते । नापि ज्ञानान्तराश्रयत्वं वक्तुं शक्यम्, योग्यानुपलम्भनिरस्तत्वात्, इच्छादेरिच्छान्तराश्रयत्वादिवत् ।
किंच क्षणिकस्यैव ज्ञानस्य ज्ञातृत्वं साध्यते?उत स्थिरतयाऽभ्युपगतस्य तस्यैव? पूर्वत्र प्रतिसन्धानाद्यनुपपत्तिः। सौगतादीन्प्रति प्रयुक्ता भवन्तमास्कन्दति । उत्तरत्रापि किं निराश्रयस्य ज्ञानस्य ज्ञातृत्वं साध्यते? उत साश्रयस्य? आद्येऽप्यस्मदभिम (तज्ञानात्मका) तात्मनो ज्ञातृत्वसाधने सिद्धसाधनत्वम् । निराश्रयज्ञानान्तरपक्षीकारे तु आश्रयासिद्धिः । सर्वाभ्युपेतसंविद एव निराश्रयत्वविवक्षायां प्रत्यक्षादिविरोधः । द्वितीये ज्ञातृद्वयोपलब्धिप्रसङ्गः । उत्तरोत्तरज्ञानानांमप्युक्तहेतुसम्बंधाविशेषण ज्ञातृत्वप्रसङ्गेनानवस्था व्यभिचारो वा ।
किंच सत्यज्ञातृत्व साधनेऽपसिद्धान्तः । आरोपितज्ञातृत्वसाधने त्वदुक्तवाक्यानुमानादिभिस्तदारोपस्यास्माभिरभ्युप गमात्सिद्धसाध्यता । प्रतीयमानज्ञातृत्वस्यारोपितत्व साधनं त्वनन्तरमेव दूषयिष्यामः । एवं ज्ञातृत्वकल्पप्रतिक्षेपेणैवद्वितीयः कल्पोऽपि प्रतिक्षिप्तः। अवेद्यत्वाभिमतानुभूतेर्वेद्यत्वप्रसंगस्त्वधिकः ।
नापि तृतीयः, प्रत्यक्षविरोधात् । स्वाश्रयायैव हि सा भासमाना दृश्यते । स्वस्मा इति प्रकाशफलित्वं हि ज्ञाप्यते । प्रकाशफलित्वं च प्रकाशाधीनव्यवहारादिमत्त्वम् । नच ज्ञानमात्रस्यैव व्यवहारादिकर्तृत्वं भवताऽप्यभ्युपगम्यते । फलित्वारोपसाधने तु प्राग्वदेव परिहारः ।
नापि चतुर्थः, सिद्धसाधनात् । तावता चात्मत्वसिद्धौ सुखदुःखादेरपि प्रसङ्गात् ।
पञ्चमषष्ठयोरपि सिद्धसाधनतैव । नापि सप्तमः; तत्किं परसम्प्रतिपन्नात्मतादात्म्यविधिपर्यवसितम्? उतानुभूतेर्यथाकथंचिदात्मशब्दप्रतिपाद्यतामात्रनिष्ठमिति? आद्ये व्याघातादिदोषस्तदवस्थः । द्वितीये तु सिद्धसाधनत्वमेवेति ।
अस्तु तर्ह्यात्मानं पक्षीकृत्यात्मत्वादेव ज्ञानतादात्म्यसाधनम्; ततो नोक्तदोषावकाशः इति चेन्न; धर्मिणोऽपि धर्मतादात्म्यविधेर्व्याहतत्वात् । तस्य ज्ञानत्वमात्रसाधने तु त्रय्यन्तविदां सिद्धसाधनात् । आत्मशब्दवाच्यस्यैव विषयोल्लेखलक्षणावस्थायोगः कल्पनालाघवाद्विधीयते इति चेन्न; तथाऽपि तथाविधावस्थैव ज्ञानम्, तदाश्रय आत्मेति वैशेषिकादिवत्तस्य ज्ञातृत्वमेव सिध्यति । अवस्थामिथ्यात्वाद्वैषम्यमिति चेन्न, बाधाभावादिना तत्सत्यत्वस्य दुरपह्नवत्वात् । तथाऽपि भवदभिमतानन्तावस्थनित्यज्ञानातिरिक्त आत्मा न सिध्यतीति चेन्न; ज्ञातुः तद्धर्मभूतज्ञानस्य च तावता दुरपह्नवत्वात् । ज्ञानं किमेकमेव सत्सामग्रीवशाद्विपयोल्लेखाद्यवस्थावद्भवति, उत ज्ञातर्येव ज्ञानलक्षणानन्तावस्थेति विशये श्रुतिशरणानां पूर्वःपक्षः, लाघवमात्रशरणानामुत्तर इति स्थिते द्वेधाऽपि भवदभिमतं न सिध्यत्येवेति का पूर्वरूपे वार्ता । उत्तररूपे दुस्तरं श्रुत्यदिकमनुसन्धत्स्वेति । श्रुतिरेवात्मनो ज्ञानानतिरिक्तत्वं साधयतीति चेन्न; परिहृतप्रायत्वात् । तत्र हि – “श्रुतिप्रत्यक्षसंसिद्धे ज्ञातृत्वे ज्ञानताश्रुतिः । नेया तद्गुणसारत्वात्स्वप्रकाशतयाऽपि वा । ”
वदन्ति हि “विज्ञातारमरे केन विजानीयादि” (बृह.4 – 14)त्याद्याःपरश्शताः श्रुतयः साक्षाज्ज्ञातृत्वमेव । तदविरोधाय ज्ञानमात्रश्रुतिरपि जडत्वं प्रतिक्षिपति, न तज्ज्ञातृत्वम्, अन्यथा प्रत्यक्षादिभिश्च विरोधात् ।
येनैव शास्त्रेण ज्ञानरूपत्वमात्मनः साध्यते संविदात्मत्वपक्षे तस्य श्रोताऽपि न सिध्येत् । न ह्यनात्मानं प्रत्युपदिश्यत इति भवताऽपीष्यते । आत्मा तु संविन्मात्ररूपो ज्ञातृत्वाभावान्न श्रोतुमीष्टे । अहंकारः श्रृणोतीति चेत्, स किं स्वार्थं परार्थं वा श्रृणोति? नाद्यः, स्वनाशपर्यन्तत्वात्; अहमर्थात्यन्तविलयगर्भो हि भवत्पक्षे मोक्षः । न हि कश्चित्स्वनाशाय मोक्षशास्त्रं श्रृणोति । अत एव नद्वितीयः, स्वात्यन्तनाशेन परोपकारस्य कस्याप्यनभिमतत्वात्; अहमर्थस्य चात्मत्वमस्मन्मतेन सिद्धमिति ।।
।।इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रईमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविदात्मत्वभङ्गवादः पञ्चविंशः ।।25।।