शतदूषणी
।।अथ संविदद्वैतभङ्गः वादः त्रयस्रिंशः।।33।।
बहुविधभक्तिज्ञानप्रभावपूतैर्निषेवितं बहुभिः ।
प्रभयेव भानुमन्तं लक्ष्म्या सेव्यन्तु लक्षयामस्तम् ।
अत्र खलु महार्णवावर्तगर्तकुहरेषु आवर्तमानाः पुरुषा आवर्तयन्ति नियतमेतादृशानि वाक्यानि – एकैव संविदनेकज्ञातृज्ञेयतदवच्छिन्नज्ञप्तिरूपेण विवर्तन इत्येवमादीनि । तदसङ्गतम्, घटादि विषयैकैकधियांतथा विवक्षायां क्वचिदपि विदिताविदितविभागा भावप्रसङ्गात् । तत्तत्पूर्वोत्तरकालयोः प्रपञ्चानुपलब्धिप्रसङ्गाच्च । सैव संवित्तच्चातच्च वेद्यं क्रमेणोपसर्पतीति चेन्न; – घटादेरिव सुखादेरिव च संविदोप्युत्पत्तिविनाशादिप्रत्ययस्य निराबाधत्वात् । यौक्तिकबाधस्य सुखदुःखादावपि वक्तुं शक्यत्वात् । विषयाश्रय रूपोपाधिमात्रं व्यावर्तते, संवित्तु प्रत्यभिज्ञाबलात्सर्वत्रैकैवेति चेन्न, – अहमर्थस्य तद्धर्मसुखादेश्च तद्वत्प्रसङ्गात् । निराकारायास्संविदः स्वतो भेदाप्रतीतेः विषयाश्रयाभ्यान्तत्प्रतीतेश्च तद्भेद आैपाधिक इति चेन्न; – संयोगादिष्वपि सम्बन्धिव्यङ्ग्यभेदत्वेन तथा प्रसङ्गात् । अन्वयव्यतिरेकाभ्यां तत्कार्यत्वादिसिद्धिरिति चेत्? तुल्यम् । व्यक्तिमात्रमेव संविद इतिचेन्न; – श्रद्धधानस्य ते संयोगादावपि तथाध्यवसातव्यत्वात् । अथान्या काचिन्निराश्रया निर्विषया नित्या संवित् सर्वविषयभागिनीति चेन्न; – तस्यास्सर्वमानानाघ्रातत्वेन खपुष्पायमाणत्वात् । आघ्रातत्वेपि मिथ्याकोटिनिवेशात् । तदभ्युपगमेपि तदेव सर्वदा सर्वोपलब्धिप्रसङ्गात् । क्रमेण नियत विषयोल्लेखस्वभावेयमिति चेन्न; – तन्नित्यत्वेन हेतुतो नियमायोगात् । निर्विकारत्वेन विकाररूपोल्लेखस्यापि दुर्वचत्वात् । नित्यं व्यापित्वेन सन्निधितदभावनियमस्याप्ययोगात् । विषयसत्वमेवोल्लेख इति चेन्नः – मिथ्यात्वेनाभ्युपगते सत्त्वाभ्युपगमायोगात् । वर्तमानत्वमिहसत्त्वमिति चेन्न; – भूतभविष्यतोःकदाचिदनुल्लेखप्रसङ्गात् । तत्काले वर्तमानत्वं विवक्षितमिति चेन्न; – तदभावेपि भ्रान्त्योल्लेखस्य विद्यमानत्वात् । तत्कालवर्तित्वेनाध्द्यसनमुल्लेखशब्दार्थ इति चेन्न; – अध्द्यासरूपस्यैव उल्लेखस्य निरूप्यमाणत्वात् । अतो नित्यैकसर्वसाक्षि संविदभ्युपगमे युगपत्सर्वोपलब्ध्यादिप्रसङ्गो दुर्वारः । नवा किञ्चित्कदाचिदपि भायात् । सर्वेषाञ्चायत्रलभ्यं सार्वज्ञ्यम् । सर्वेप्यन्धबधिराद यश्च स्युः । गुरुशिष्यपण्डितजडादिभेदश्च ज्ञानभेदनिबन्धनो निर्मूलः स्यात् ।
ननु विषय एव नास्तीति वादिनं प्रति सर्वविषयोपलम्भादिप्रसङ्गो निरर्थक इति चेत्? किमिह विषयानुल्लेखो विवक्षितः? स्वमात्रविषयत्वं वा, मिथ्याविषयत्वं वा, तथाविधमन्यद्वा? नाद्यः, सर्वलोकोपलम्भस्ववचनसिद्धान्तादिविरोधात् । बन्धाभावेन शास्त्रवैय्यर्थ्यादिप्रसङ्गाच्च । न द्वितीयः, नीलादिकमन्तर्भाव्यैव स्वशब्दोक्तौ नीलादिनानात्वेन संविन्नानात्वप्रसङ्गात् । तन्नानात्वे पह्नवे च सर्वविरोधः, नानात्वैकत्वसमुच्चयस्य चित्राद्वैतस्य च त्वदनभिमतत्वात् । अभ्युपगच्छतामपि व्याघातशतवात्यावैयात्य निरासघूर्णितत्वात् । अथानन्तर्भाव्य, तथासति कथं तत्प्रकाशः, तदप्रकाशेवा कथं तद्व्यवहारः, तदभावे च कथं तदनन्तर्भावोक्तिः । न तृतीयः, सर्वोपलब्ध्यादिप्रसङ्गस्य दीर्घायुष्ट्वात् । नच मिथ्याभूतं सर्वमेकम्, विचित्रोल्लेखव्याघातात् । तथापि तत्प्रसङ्गस्थितेश्च । न चतुर्थः, असद्विषयत्वादौ दत्तोतरत्वात् । अनिरूपितभेदाभेदाविद्याविलासदौर्घट्यविश्रमेऽ स्मदुक्तदूषणाभ्युपगतिमन्तरेणापर्सपणासिद्धेः । अवस्तुनि प्रयुक्ता दोषा न दोषा इति चेन्न, – प्रपञ्चइव खपुष्पादौ प्रसङ्गात् । वस्तुनि च दोषानवकाशात् क्व दोषः? न क्वचिदिति चेत्? जितं जैनेन । सर्वत्रेति चेत्? त्यज संविदमपि । न संविदीति चेत्? आशामात्रमेतदिति ।
विद्याविद्ययोरपि भेदाभेदानिरूपणे कथं शोधकवाक्यावकाशः । कथं चशुद्धविद्यात्मब्रह्मविज्ञानादपवर्ग इति नियमः । तत्स्वरूपादिदौस्थ्यं च स्वदेशे द्रष्टव्यमिति । अविद्येति विद्याभावस्तदन्यस्तद्विरुद्धो वा कश्चिदर्थः? विद्या च ब्रह्म वा, तदन्यद्वा किञ्चित्? न तावदभावः, ब्रह्मणो देशादिभेदेपि तदयोगात् । न च तदन्यः, अन्याभावस्य सिद्धान्तितत्वात् । तन्मिथ्यात्वादिवर्णनस्यच निस्सारत्वात् । नच तद्विरुद्धः, अनाद्यविद्यानुवृत्तिवैघट््यात् । ब्रह्मव्यतिरिक्तस्य तु सर्वस्या विद्यात्मकत्वेन विद्याकोटिनिक्षेपासिद्धेः । भ्रान्तिरूपविद्याविरोधित्वे मुमुक्षूपकारकत्वप्रसङ्गात् ।
किञ्च – यदि दुर्घटाविद्या विश्वकर्त्री, ब्रह्मैवाविद्या स्यात्, निरधिष्ठान एव विश्वभ्रमः । तत्वमेव भेदाभेदौ, तत्वावेदकवाक्यान्येवातत्वावेदकानि, सत्तैव नास्ति, शून्यमेव तत्वम्, ज्ञानमेवाज्ञानम्, पूर्वपक्ष एव सिद्धान्तः, प्रमाणमेवाप्रमाणम्, अनुपपत्तिरेवोपपत्तिः, जय एव पराजयः, तत्वज्ञानमेवातत्वज्ञानम्, इत्यादिजल्पान् किमिति नकल्पयन्ति । कल्पयन्तिचेत्? न नः काचित्क्षतिः । लौकिकाः परिहसन्ति, वैदिकाः प्रतिक्षिपन्ति । किं बहुना स्वयमप्यन्तर्हसन्तीति तानाक्षिपन्ति सन्तः । तथाचानिरूपितरमणीयत्वव्यावहारिकत्वादिविडम्बनमप्यम्बरककुसुमायते,प्रातिभासिकवद्व्यावहारिकस्यापि अप्रामाणिकत्वाविशेषात् । तस्याप्यविचारितरमणीयत्वस्य तैरेवाङ्गीकारात् । तथाच अशेषस्यापि वेदान्तस्य व्यवहारसम्बन्धित्वात् तत्वावेदकातत्वावेदकवाक्ययोः स्वरूपतः प्रवृत्तितो विषयतः फलतो वैषम्या भावात् । तद्धैषम्ये भेदवादप्रसङ्गः । तत्वावेदकवेद्यं चेद्ब्रह्ममिथ्येति कथ्यते । अब्रह्मवेद्यतापक्षे भेदवादः प्रसज्यते ।।
इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविदद्वैतभङ्गः त्रयास्रिंशो वादः ।। (33)