[highlight_content]

मीमांसापादुका धर्मजिज्ञासाधिकरणम्

श्रीमद्वेदान्ताचार्यविरचिता

मीमांसापादुका

मीमांसापादुका धर्मजिज्ञासाधिकरणम्

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥

यस्य श्रीर्नित्यहृद्या निरुपधिगृहिणी नन्दति च्छन्दवृत्त्या यस्यापत्यं प्रजेशप्रभृति विहरणं यस्य विष्ववक्परार्थम् । लीलाभोगापदेशव्यतिभिदुरमिदं यस्य विश्वं विभूतिः सत्तासिद्धानुकम्पानिधिरवतु स नस्सप्तलोकीगृहस्थः ॥ १ ॥

यस्मादस्माभिरेतद्यतिपतिकथितप्राक्तनप्रक्रियोद्यत्कर्मब्रह्मावमर्शप्रभवबहुफलं सार्थमग्राहि शास्त्रम् । तं विष्वग्भेदविद्यास्थितिपदविषयस्थेयभूतं प्रभूतं वन्देयात्रेयरामानुजगुरुमनघं वादिहंसाम्बुवाहम् ॥ २ ॥

वेद्यं वेदैरशेषैर्विधितदितरयोर्विश्वमाज्ञापयन्तं धर्मैराराधनीयं पितृसुरमुखतश्शाश्वतं धर्ममेकम् । साङ्गाधीताक्षरौघस्वरससमुदितापातधीजातरागान्मीमांसेमह्यनन्तं व्यवहितवपुषं कञ्चुकैरुज्झितं च ॥ ३ ॥

निर्दोषाध्यक्षसिद्धं कथककुहनयाऽपह्नवार्हं न किंचिन्न्यायैः कस्यापि कॢप्तिः कथमपि न भवेदन्यथासिद्धिमद्भिः । निर्बाधान्नापि वाक्यादवगतमनृतं निश्चितेऽप्यान्यपर्ये त्रिस्थूणेऽस्मिन्प्रमाणैः स्थिरमतिभवने माति मीमांसितोऽर्थः ॥ ४ ॥

मीमांसेत्येकमेतच्छ्रुतिविषयनयस्तोमसंग्राहि शास्त्रं षट्काध्यायांघ्रिभेदैर्भिदुरतरतनुस्सा त्रिभिः काण्डभेदैः । सङ्गत्या च त्रयाणां क्रमनियतिरपि स्यादिहौचित्यवत्या विंशत्या लक्षणैः खल्वियमवयविनी वृत्तिकारोपदिष्टा ॥ ५ ॥

विद्यास्थानानि चत्वार्यगणिषत पृथग्वेदरूपत्वसाम्ये द्वे चाप्यन्ये विभक्ते ह्युपपदघटितं बृंहणत्वं दधाने । मीमांसाशास्त्रसाम्येऽप्यत इह घटते भिन्नविद्यापदत्वं मैवं मन्वादिभिस्तत्पृथगनुपठनाभावतस्तत्प्रहाणात् ॥ ६ ॥

काले कौमारिलादिष्वधिकबहुमतौ कस्त्वदिष्टं ग्रहीता कस्मै रोचेत पूर्वश्रुतहृतमनसे कॢप्तिरन्येति चेन्न । स्वीकुर्वन्त्यस्मदुक्तं स्वमतगुणतिरस्कारकप्रत्यनीकं प्रत्यग्विद्याधुरीणप्रथितबहुमहावंशजाता महान्तः ॥ ७ ॥

किंचित्केनापि दृष्टं प्रतिहतविषयं तेन तत्ते च तैस्तैर्द्वे चोपादायिषातां द्वितयमपि सदित्यप्रमत्तो न वक्ता । इत्थं सत्येकभक्तैरितरपरिहृतौ न व्यवस्थानसिद्धिः प्रत्येतव्यं तदर्थ्यं पटुतरमतिभिः प्राक्तनं नूतनं वा ॥ ८ ॥

शिष्याचार्यौ विरुद्धं न तु मतमधुना साधयन्तौ प्रसिद्धौ स्वाभीष्टाच्छास्त्रमन्यत्सुरसचिवमुखैः कल्पितं कि न विद्मः । तस्माद्ब्रह्मज्ञजैमिन्युपरचितमिदं त्याज्यमेतन्निरीशं मैवं व्याघातहानौ मुनिवचसि मुधा बाह्यवद्दृष्टिदौस्स्थ्यम् ॥ ९ ॥

सूत्राणामैदमर्थ्यं स्वरसगतिवशात्सम्प्रदायाच्च सिध्येद्बंहीयोभिः प्रमाणैः क्वचन बहुशिरःप्रत्ययश्शान्तिमेति । सन्दिग्धे वाक्यशेषप्रभृतिरभिदधे निर्णयोपायभूतष्षड्भिस्तात्पर्यलिङ्गैरपि खलु निखिलं दुर्णयं निर्णयन्ति ॥ १० ॥

सूत्रोक्तं नूनमन्यद्विदुरथ च मिथो व्याहतं वृत्तिकाराः प्राज्ञैर्नारायणार्यैस्तदिह विदधिरे सम्मतास्सूत्रभेदाः । सामाचार्योक्तिरेषा समरमुखगता तन्न सत्सङ्गृहीतेर्नत्वा नुत्वैनमाह द्रमिडगुरुरपि ब्रह्मविद्वाक्यभाष्यम् ॥ ११ ॥

आदौ कृत्स्नप्रतिज्ञा ह्यधिगमसुभगा धीसमाधायकत्वात्कर्माश्लिष्टां प्रतिज्ञामपि खलु घटयेत्तन्त्रमावर्तनं वा । यद्वा भागप्रतिज्ञाप्रणयनफलिता कृत्स्नचिन्ताप्रतिज्ञा त्रेधाऽपि ह्यत्र सौत्री गतिरियमुदिता सूत्रकृद्भावविद्भिः ॥ १२ ॥

सूत्रे भाष्यादिके च क्वचिदुपचरणावृत्तितन्त्रानुषङ्गाध्याहाराः कल्पनीयास्तदिदमनुमतं पण्डितैस्तत्रतत्र । सत्यामक्लिष्टवृत्तौ ह्यनुचितमितरन्नैव सर्वत्र तस्मादस्मत्सिद्धान्तवर्त्मन्यवहितमतिभिर्व्याहृतं न प्रणोद्यम् ॥ १३ ॥

निर्दिष्टा सूत्रकर्त्रा प्रथमत इह चेत् कृत्स्नवेदार्थचिन्ता किं पश्चाद्ब्रह्मचिन्ता पृथगनुपठिता संमतं चैकशास्त्र्यम् । सत्यं कृत्स्नप्रतिज्ञाकरणकबलितास्तत्तदर्थाः पुरस्तादध्यायादौ विभज्य स्फुटमभिदधिरे तद्वदत्रेति पश्य ॥ १४ ॥

योऽसौ शारीरकांशे निरवधिमहिमा साध्यते विश्वकर्ता यो वा को वा स भावी तदितरसदृशस्सोऽपि यष्टव्य इष्टः । निर्धारस्तस्य पश्चादथ तु परमिहानागतावेक्षणं स्यात् कर्मैवं किं न पश्चात्तनमिति न विभोश्शुद्धधीर्नात्र मृग्या ॥ १५ ॥

अन्तर्यन्तारमेकं निखिलदिविषदां प्राप्यबुद्ध्यैव केचित्तज्जातीयं च बुद्ध्वा कतिचन यदि वा सन्दिहाना यजन्ते । तेषामस्त्यन्तवत्तु स्मृतमिह हि फलं नैवमध्यात्मशास्त्रं तत्त्वे बुद्धे यथावस्थितभजनदशालब्धितस्तत्पदाप्तेः ॥ १६ ॥

चिन्तारभ्यत्वसूत्रे किमपि हि तदुपस्थापकं ख्यापनीयं तेनातश्शब्द उक्तो न खलु स विफलः पूर्वसंपिण्डितो वा । नासावार्षोपदेशो नयपदमनुसंधित्सतां सूत्रसृष्टेस्तस्माच्चिन्तार्थचिन्तास्पदमधिकरणं स्यादुपोद्घात एषः ॥ १७ ॥

निष्पन्नापातबुद्धेर्विषयविशयनाभ्यूहनिर्धारणार्थान्न्यायः पञ्चाधिकुर्वन्नधिकरणमिति व्याहरन्त्यार्यवृद्धाः । तस्मादेकैकशः प्रत्यधिकरणमिदं पञ्चकं प्रेक्षमाणश्शुद्धाङ्गन्यायदृष्टिश्श्रुतिगणविषयभ्रान्तिभेदं प्रमार्ष्टि ॥ १८ ॥

स्वेन ख्यातिं विवृण्वन्विषय इह मतिस्संशयो निश्चयान्या तेनाभ्यूहो विचारः प्रमितिरभिदुरा निर्णयस्तर्कमानैः । तत्साध्यं कर्तुरिष्टं फलमनितरजं तानि पञ्चाधिकुर्वन्न्यायो बाधं विपक्षे प्रथयति विविधं स्वाङ्गदोषो न दृष्टे ॥ १९ ॥

आहुश्चान्ये दशाङ्गान्यधिकरणगणे वेद्यमाद्यं तथाऽर्थे संशीतिं तन्निदानं विविधमपि तथा सङ्गतेश्च प्रकारम् । तादर्थ्यार्थं विचारं फलफलिभवनं पक्षयोर्न्याययुग्मं निर्णीतिं तत्फलं चाप्ययमपि निपुणन्यायवित्संप्रदायः ॥ २० ॥

अत्राहुः केचिदाद्याध्ययनविधिरसावक्षराणां गृहीत्यै तस्मादर्थे विवक्षा न भवति न ततस्तस्य चिन्तेति पूर्वः । पक्षोऽन्यस्तु स्वशक्त्या प्रभवति निगमः स्वार्थबोधे सतर्कस्तेनाधीतार्थचिन्ता स्फुरितबहुफला स्यादिति स्थापनेति ॥ २१ ॥

अन्येऽनाघ्रातदोषान्मिषति निगमतश्शक्यहेतौ पुमर्थे मानत्वे निर्विशङ्केऽप्यवसरफलयोर्हानितो नार्थचिन्ता । इत्युद्यत्पूर्वपक्षप्रशमनमनसा सूत्रमाद्यं प्रणीतं कल्प्या तत्कालसिद्धिः फलमिह विशयभ्रान्त्यबोधव्युदासः ॥ २२ ॥

आनन्तर्योक्तिरत्र ह्युचितमवसरं शक्तितो वक्तुमीष्टे धर्मप्राथम्यसिद्ध्यै त्वथ पदमिति यद्योजनाभेदतस्तत् । हेतूक्तिर्निर्णिनीषावधिरिह गमयेर्न्निर्णयाप्तेः फलत्वं तस्मात्तत्क्षेपणीयस्त्वयमुचिततया दर्शितः पूर्वपक्षः ॥२३ ॥

वेदाधीतेर्न पूर्वं न च सह घटते वेदवेद्यार्थचिन्ता पश्चात्तु स्नानपूर्वैरवसरहरणं तत्कथं सेति चेन्न । स्नानादेः प्राग्विचारस्तदनुगुणधनाद्यार्जनन्यायतस्स्यादूर्ध्वं च श्रावयित्राद्यवसरनयतोऽमुष्य लभ्योऽवकाशः ॥ २४ ॥

ज्ञातं किंचिन्न चिन्त्यं न च तदविदितं तत्क्व चिन्तेति चेन्न ज्ञाताज्ञातांशभाजि स्वपरमतजुषां चिन्तनस्य प्रवृत्तेः । सामान्यात्तन्निरासे विहतिरविहता को विशेषो विशेषे विंशत्यध्यायतोऽसावविशदविशदीकारसाफल्यकल्प्या ॥ २५ ॥

ख्यातस्तर्कोऽप्रतिष्ठस्स्वयमिह मुनिना सूत्रितं चैवमेतत्तस्मान्मीमांसमानैरपि निगमगतिर्दुर्निरूपेति चेन्न । तर्कस्य ह्यप्रतिष्ठां क्वचिदभिदधता दर्शितो यस्तु पन्थास्तत्संवादेन सर्वं न भवति शिथिलं शिक्ष्यमाणं सुधीभिः ॥ २६ ॥

नास्तिक्यारम्भकत्वं मुनिभिरभिहितं यत्तु मीमांसकानां तत्प्रायो हैतुकेषु प्रविशति यदि वा पूर्वपक्षप्रवृत्तौ । शास्त्रज्ञानं च बुद्धेश्चलनजनकमित्युक्तिरन्याशया स्यान्नोचेद्रोचेत शङ्काकबलितमनसे केवलः क्वोपदेशः ॥ २७ ॥

धर्मज्ञानां मुनीनां मतमिह भिदुरं धर्मविद्वाक्यसिद्धं स्वोक्तार्थाद्वैपरीत्यं स्वयमभिदधते तत्क्व चिन्तेति चेन्न । कर्तव्यानां विकल्पे मुनिवचनमिते धर्मतैवोभयत्र व्याख्याभेदाद्विकल्पे त्वनवगतिभवे शिष्टमेवैकशेष्यम् ॥ २८ ॥

न्यायाख्यं धर्मविद्यास्थितिपदमुदितं तत्रतत्राप्तशास्त्रे तेनैवालं तदन्यद्भवति कृतकरं नीतिमात्रप्रवृत्तेः । इत्येतन्नानुयोज्यं नयपथविषयो मानतर्कादिमात्रं मीमांसायां तु तत्तच्छ्रुतिगतिविषया नीतिभेदा निरूप्याः ॥ २९ ॥

वेदार्थव्यक्तिरस्तु स्मृतिगणसहितैस्सेतिहासैः पुराणैरङ्गैरन्यैश्च किं तद्वद पुनरपि यत्तत्र मीमांसितव्यम् । तन्न स्मृत्यादिकेऽपि ह्यवितथसरणिर्नीतिशुद्ध्यैव साध्या सद्भिस्साफल्यविद्भिस्तदिह बहुफला कल्पितेयं त्रिकाण्डी ॥ ३० ॥

शिक्षां वर्णस्वरादेस्सुपदविभजनं तन्निरुक्तं विचित्रां छन्दोवर्गव्यवस्थां समयनियमनं साध्वनुष्ठानकॢप्तिम् । स्मृत्याद्यैर्भागयुग्मप्रथनमथ नयस्थापनं च श्रयन्ती मीमांसा वेदवाक्ये व्यपनयदमनी वृत्तिमर्थ्यां व्यनक्ति ॥ ३१ ॥

मीमांसासूत्रवृत्तिप्रभृति निगमवन्न स्वरूपेण नित्यं विच्छेदश्च प्रवाहे नियत इतरथा पूर्वहानाद्ययुक्तेः । तस्मात्तन्मध्यकालेष्विव भवतु सदा नैरपेक्ष्यं श्रुतीनां तन्न प्रज्ञापराधप्रशमनरुचिभिस्सूरिभिस्सूत्रकॢप्तेः ॥ ३२ ॥

धर्मादेर्निर्णये हि श्रुतिरिह करणं सा च नित्यानपेक्षा मीमांसा क्वोपकुर्यादिति न यत इदं सेतिकर्तव्यताकम् । न स्यादत्रानवस्था विधिषु चरमविध्यन्तवन्नैरपेक्ष्यात्सिंहारण्यादिनीत्या मिथ उपकुरुतो मानतर्कौ यथार्हम् ॥ ३३ ॥

नित्याम्नायप्रसाध्ये न खलु करणनिष्पादकं किंचन स्यान्निष्पन्ने चानपेक्ष्यं करणमिति वदन्वक्ति च स्वेष्टभङ्गम् । योग्यत्वादेर्विमर्शो न हि भवति मुधा तर्कतोऽस्यापि तद्वत्स्यादेवं संनिपत्योपकृतिरितरथा वेति चिन्त्यं यथार्हम् ॥ ३४ ॥

श्रुत्यङ्कौ(क्षौ) शब्दतद्वच्छकनमथ सहव्याहृतिर्वाक्यमन्यैराकांक्षा प्रक्रियाङ्गेष्वथ पुनरुदितस्संनिधिस्संनिधानम् । नामाप्याध्वर्यवादि स्फुरदवयवशक्त्यन्वितं नामधेयं तेषामेषां विरोधे प्रथममधिगुणं तेन पाश्चात्यबाधः ॥ ३५ ॥

सर्वं स्रष्टा स देवः प्रकृतिपुरुषतत्कर्मपूर्वैस्सहायैस्तद्वानुक्तस्तदन्ये किमुत जनिमतां किं न सामग्र्यधीनम् । तर्केणानुग्रहोऽतः प्रमितिजनकतां प्राणयेत श्रुतीनां स्पष्टे तर्कानपेक्षा क्वचिदपि न तथाभावसार्वत्रिकत्वम् ॥ ३६ ॥

केनेदानीं सुसाधा जगति मितधिया कृत्स्नवेदार्थचिन्ता मध्यः काण्डश्च लुप्तस्थितिरिह निगमैरल्पशेषैरभावि । प्रज्ञातव्ये सशेषे प्रमितमपि खलु स्यादनाश्वासपात्रं तच्चिन्त्यं कल्पसूत्रप्रभृति कृतधियः शक्यचिन्ता न दुष्येत् ॥ ३७ ॥

आदत्ते ब्रह्मचारी स्वविहितमनघं न स्वयं चिन्तितार्थस्तद्वत्कुर्याद्गृहस्थप्रभृतिरपि मुधा तत्र मीमांसनं चेत् । तन्नाशेषैः परोक्त्या स्वचरितचरणं श्रद्दधानाभिनन्द्यं मूलं जिज्ञासमानैः स्वयमधिगतये निर्विशङ्को विचारः ॥ ३८ ॥

स्वीकृत्यानर्थतां तद्विरहमपि विधेरान्यपर्येतराभ्यां पक्षौ पूर्वापरौ ये परिजगृहुरिह स्वोक्तिबाधादयस्स्युः । व्युत्पत्त्यादिस्वभावात्स्वत उपजनितापातधीतः प्रवृतौ मीमांसाक्षेपतत्स्वीकरणकथनयोर्न क्वचिद्व्याहतिः स्यात् ॥ ३९ ॥

स्वाध्यायस्यार्थवत्वाच्छ्रवणमभिदधेऽधीतवेदस्य भाष्ये तत्खल्वापातबोधप्रजननशकनव्यक्तिसिद्ध्यैव भाव्य(ष्य)म् । नैरर्थक्यं तु शङ्कास्पदमिह न भवेत्सद्भिरध्यापितानां नो चेच्छुश्रूषणादिप्रयतनकथनं दुस्सहं कस्सहेत ॥ ४० ॥

प्राञ्चं स्वाध्यायलाभं स्वयमिह तु फलं स्वान्यसिद्धं विहाय व्यर्था कौमारिलानामनियतगतिमद्विश्वजिन्न्यायशङ्का । चिन्तावैधत्वभङ्गे त्ववसरविहतिः स्नानशिष्ट्येति मन्दं स्यात्कालश्श्रावयित्राद्यवसरवदिति स्थापितं पूर्वमेव ॥ ४१ ॥

अव्युत्पन्नस्य शब्दः कथमिव जनयेत्काञ्चिदापातबुद्धिं स्वाङ्गैश्चेत्तत्र चैवं ग्रह इह तु स किं साङ्ग इत्यल्पमेतत् । साङ्गेष्वापातबोधं स हि सह जनयेत्संस्कृतप्रायदेशे दृष्टश्चाङ्गोपकारस्तदनुगुणमतस्तद्ग्रहं केचिदूचुः ॥ ४२ ॥

तत्साम्ये त्वर्थचिन्ता क्रमनियतिगतिर्नेक्ष्यतेऽङ्गाङ्गिवर्गे दौष्कर्यं यौगपद्ये तत इह कथमारम्भ इत्यप्यचिन्त्यम् । सौकर्ये तारतम्यात्स्वयमुपनिपतच्छ्रावकादिक्रमाद्वा स्वेच्छावैचित्र्यतो वा क्रम इति सकलारम्भसंपूर्तिसिद्धेः ॥ ४३ ॥

सिद्धं साध्यं च धर्मं प्रभवति गदितुं धर्मशब्दोऽथवाऽर्थादाराध्यादेर्विचारः स्फुरतु निगदितः कृत्स्नचिन्तोद्यमश्च । स्वाध्यायत्वाविशेषे स्थितवति निखिलेऽधीतनानांशचिन्ता केषांचित्त्वेकदेशाध्ययनमगतितस्ते तु नात्र प्रसक्ताः ॥ ४४ ॥

धर्मस्सूत्रे द्वितीये ननु परिपठितश्चोदनालक्षणोऽर्थस्तेनास्मिन् सिद्धधर्मग्रहणमनुचितं तन्न तल्लक्षणैक्यात् । शास्त्रोक्तेष्टाभ्युपायस्स इति खलु समं लक्षितौ सिद्धसाध्यौ स्वीकार्यस्स्वेष्टसिद्ध्यै य इह स तु भवेत्तस्य तस्मिन्नुपायः ॥ ४५ ॥

आसंसारं प्रसिद्धे भगवति सहसा बिभ्यतोऽपह्नवोक्तेर्नेशानः क्षिप्यते किं त्वनुमितिरिति ये भक्ततां भावयन्ति । भद्रास्ते भारतादिप्रणिहितमनसां नास्तिकत्वं कुतस्स्यान्नित्यं धर्मं जहुर्ये विचिनुम इह तान्वेदवादान् कुवाचः ॥ ४६ ॥

सद्वाराद्वारवृत्तिद्वितयनियतया वाचकानां प्रवृत्त्या सर्वश्रुत्यर्थभूतः श्रुतिभिरभिहितस्तस्य चोक्त्या तथोऽन्यैः । तस्मादीशो वितन्वन्निजमहिमबलाद्विश्वमेकातपत्रं प्रख्यातस्सार्वभौमः पशुभिरिव न संवेद्यते मोहनिघ्नैः ॥ ४७ ॥

धर्मद्वारा विचार्यं निखिलमनुसृतं छत्रिनीत्याऽथवा स्यात्तात्पर्यारोहि सर्वं प्रथयितुमजहल्लक्षणेयं समीची । आपातस्फूर्तिसाम्यादनभिमतपरीहारनित्योन्मुखानां हेयप्रख्यापनार्थं ध्रुवमियमखिलैरत्र निर्धारणीया ॥ ४८ ॥

धर्मादेव प्रयुक्तादभिदधति सतां धर्मकामार्थमोक्षान्नान्यार्थौ काममोक्षौ धनमबहुफलं दोषवर्गान्वितं च । सिद्धानेकाधिकारैर्धृतिकृदयमतस्सेव्यते सावधानैरादावेतं निबध्नन्विषयफलयुतं शास्त्रमाविश्चकार ॥ ४९ ॥

तत्तत्कर्मप्रवाहप्रभवरुचिभिदातारतम्यानुरोधाद्वेदे वात्सल्यभाजि व्यतिषजति चतुर्वर्गचर्योपदेशः । उक्तं मोक्षप्रधाने त्रिकमितरदपि ह्यादितो भारतादौ विस्रम्भार्थं तु मुक्तेस्तदितरकथनं कीर्तितं सात्वते च ॥ ५० ॥

अस्यासौ ग्रन्थराशेर्विषय इति मतिः प्रेक्षितॄणां स्वतस्स्यान्मोघा पूर्वं तदुक्तिर्नतिरिव न हि सा भाविनी भद्रचर्या । उद्देशोऽप्यर्थसिद्धस्तदुचितवपुषो लक्षणस्य प्रणीतौ सत्यं संक्षिप्तदृष्टेर्मतिरवदधती संदिदृक्षेत शेषम् ॥ ५१ ॥

आप्तत्वं ग्रन्थकर्तुर्यदि विमतमिह स्वेन किं तत्फलोक्त्या तन्निर्धारे ततस्तत्फलमनुमिमते निष्फला सेत्यसारम् । सन्देहेपि प्रवृत्तिं प्रजन(सफल)यितुमियं कल्पते विश्वदृष्ट्या निश्शङ्कानां निजेष्टं प्रमुखयति ततो धुक्षयेत्संजिघृक्षाम् ॥ ५२ ॥

सूत्रेऽस्मिन्नास्ति नीतिर्विषयफलकथामात्रमेवोपजीव्यं यत्साम्नां वक्ष्यमाणं तदनुसरणतोऽधीतिरध्यायशेषः । इत्याहुः केचिदेतन्मृदुफलमपि चाधर्मचिन्ताऽप्यकारोपश्लेषात्कल्पनीयेत्यपि परिजगृहुः क्लिष्टगत्यन्तरं तत् ॥ ५३ ॥

वक्तुं कञ्चित् प्रबन्धं यदि विषयफले तस्य पूर्वं ब्रवीति स्पष्टः सम्बन्धवर्गः किमिति पुनरिमं वर्णयेतेत्यवर्ण्यम् । तत्तत्सम्बन्धवर्गप्रमथनकथनोद्दण्डवैतण्डिकोक्तिव्यामुग्धच्छात्रषण्डभ्रमभिदुरगिरामानृशंस्यं न शास्यम् ॥ ५४ ॥

काम्यं कर्मैव धर्मस्सुखजनकतया दुःखहेतुस्त्वधर्मो धर्मोऽधर्मश्च न स्यादनुभयजनकं नित्यमित्याहुरेके । मन्दं तन्नित्यवर्गेऽप्यनभिमतनिवृत्त्याद्यभीष्टार्थवत्त्वाद्धर्मत्वे दुर्निवारे पृथगभिलपनं गोबलीवर्दवत्स्यात् ॥ ५५ ॥

ज्ञानं सूत्रे विचारस्तदधिकरणतो निर्णयस्त्वर्थलभ्यश्चिन्तायां सन्प्रयोगो विधिपरिहरणाद्रागसिद्धिं व्यनक्ति । धर्मस्येत्यत्र षष्ठी प्रतिपदविहिता यद्यपि स्यात्तथाऽपि प्रोक्ता कृद्योगजेयं समसनविषयः शाबराकूतमन्यत् ॥ ५६ ॥

जिज्ञासां निर्णिनीषां विदुरिह कतिचित्तत्र गम्यो विचारस्तस्यैवारम्भयोगादिह स तु भवतु ज्ञानमिच्छाधिरूढम् । सामान्योक्तिर्विशेषे प्रकरणवशतो विन्दते स्वां प्रतिष्ठां नोचेद्विश्रान्तिरस्याः कथमिह भवतां निर्णयाख्ये विशेषे ॥ ५७ ॥

रागप्राप्तो विचारो यदि वितथमिदं तद्विधानाय सूत्रं मैवं विध्यन्तरत्वान्नहि तदकरणे पापमत्र प्रकाश्यम् । प्राप्ता रागात्प्रवृत्तिस्त्ववसदनवती पूर्वपक्षोक्तयुक्त्या प्रत्यापद्येत सिद्धान्त्यभिहितनयतस्सेष्टहेतुः प्रसिद्धा ॥ ५८ ॥

सम्यङ्न्यायैः परीष्टिः करणमवगतं लोकतस्तत्त्वबोधे नैवास्मिन्विध्यपेक्षा न यदि कथमसौ नेष्यते भोजनादौ । रागप्राप्ते हि तस्मिन्नियमयति विधिः प्राङ्मुखत्वादिमात्रं तद्वन्मीमांसमाने स्वयमथ नियमाः केवलं सन्तु केचित् ॥ ५९ ॥

कृत्ये रागं वितन्वन्विधिरपि पुरुषं प्रेरयेत्तत्र काम्ये रागाभावान्निवृत्तो न भवति फलभाक्तेन न प्रत्यवेयात् । नित्ये स्यादन्यथाऽत्र त्वविधिसमुदिताद्रागतस्संप्रवृत्तौ शुद्धां विन्देत बुद्धिं तदभवन इह प्रत्यवायस्त्वनुक्तः ॥ ६० ॥

स्वेच्छाया हेतुतायामनियतिरिति चेत्तन्न दत्तोत्तरत्वात्क्वाचित्क्या त्वप्रवृत्त्या ऋतुगमननयात्सन्ततिं सा न जह्यात् । वैधत्वस्थापनेऽपि ह्यलसजडविधित्यागिनो न प्रवृत्तास्तस्मादास्माकदृष्ट्या स्वममिह यतनं तत्क्षमे स्थापनीयम् ॥ ६१ ॥

अध्येतुस्स्वोपयुक्तावगतिरथ मनाक्तद्बुभुत्सुः प्रवत्स्यन् संरुद्धः पूर्वयुक्त्या परत इह पुनः प्रस्थितः प्राप्स्यतीति । ज्ञात्वोत्स्वप्नायिताद्वा किमपि नयविविक्त्या हि तन्न व्यतिस्ते रागादेव प्रवृत्तिः प्रथममिह विधिप्रेरणाकाङ्क्षिणोऽपि ॥ ६२॥

व्याप्तत्वासन्नताद्यैर्ग्रहणमिह फलं तेन चाऽऽवृत्तिसिद्धिर्वैतुष्यन्यायतस्स्यात् फलति च नियमोऽप्यन्यतस्तद्वदेव । वर्णैस्सामर्थ्यवद्भिस्त्रिभिरिति विधयस्स्वर्गकामादिनिष्ठास्संप्राप्ता नैरपेक्ष्यं न तदितरसहा द्रव्यभाव्ये यथा हि ॥ ६३ ॥

प्रत्यक्षादिप्रमाणैर्निजविषयमितौ विध्यपेक्षा ह्यसिद्धा शब्दोऽन्यार्थस्स्ववमर्थं प्रकटयितुमलं भद्रदीपादिनीत्या । शक्तिर्नार्थे स्वकीया यदि नियमविधिर्दृष्टहानेर्न सिध्येत् वाक्ये विध्युक्त्यभावेऽप्यवगतिरुचिता व्यर्थवाक्ये यथा हि ॥

स्वर्गे वाऽऽचार्यके वा फल इह कथिते जायते स्वार्थबुद्धिः न ह्यन्यत्रोपयोगे विधिवचनबलाद्वार्यते शब्दशक्तिः । बाधो हेतोश्च दोषो न भवति निगमे मानताऽन्यानपेक्षा तस्मान्नाम्नायभागे क्वचिदपि घटते पूर्वपक्ष्युक्तकॢप्तिः ॥

स्वाध्यायप्राप्तये ह्यध्ययनमभिहितं पावकाधानसाम्यात् व्रीह्यादिप्रोक्षणादिः स्वकृतिषु गदिता संस्कृतिर्वादिमुख्यैः । सिद्धस्संस्कार्यभावो निजनिगमगिरां भाविकार्योपयोगाद्दृष्टान्यार्थो विभक्तेर्विपरिणतिवशात्सक्तुहोमस्त्वगत्या ॥

दृष्टार्था संस्क्रियेयं न भवति घटते ह्यन्यथाऽप्यत्र दृष्टं नादृष्टार्थाऽपि वैधप्रकरणविरहे न ह्यसौ स्यात्तदर्था । तस्मात्स्वाध्यायसाध्याध्ययनविधिरसौ सक्तुहोमादिकत्स्यान्न स्यादुक्तोत्तरत्वान्न कथमितरथाऽऽधानमर्थ्यं न योज्यम् ॥ ६४ ॥

अध्येतुस्संस्क्रियैषाऽध्ययनमिति किल स्यान्नियोगार्थतायां तामेव प्रोक्षणादिष्वपि गतिमवदन् केचिदेतत्तु वार्तम् । भावार्थैर्द्रव्यनिष्ठैरतिशय उचितः कर्मभूतेष्वबाधे तस्मात्स्वाध्यायसंस्कृत्युपपदनगतिर्भाष्यकारैरभाषि ॥ ६५ ॥

स्वाध्यायं संस्क्रियार्हं कथमिव कथयेच्छब्दमद्रव्यमिच्छन्द्रव्यं संस्कारमर्हेदिति हि नयविदस्तन्न तात्पर्यभेदात् । आराध्यप्रीतिरेव ह्यतिशय उदि(चि)तो नैगमैश्चोदितेषु स्वाधीतस्स्यादसौ तद्विषय इति दशा तादृशी संस्क्रियाऽत्र ॥ ६६ ॥

नित्यं चेन्निष्फलं स्याद्भवति तु फलवत् काम्यभावादनित्यं मैवं त्यागेन तादृग्ग्रहणफलवतः प्रत्यवायानुशिष्टेः । नैष्फल्यं सर्वथा चेत्कथमिव मतिमांस्तत्र बुद्ध्या प्रयस्येत्तस्मान्नित्येऽप्यपूर्वं तदितरदपि वा स्यात्फलं तत्रतत्र ॥ ६७ ॥

दुःखाभावस्सुखं वा तदुभयकरणं तस्य चोपक्रियार्हं पुंसः प्रेप्सोः पदं स्यात्कथय तदितरत्कार्यमित्थं कथं ते । तत्सिद्ध्या कर्मयोग्यो यदि भवति तथा स्याद्गृहीत्याऽक्षराणां वेदानध्यायपूर्वं तदितरयतने शूद्रतादि स्मरन्ति ॥ ६८ ॥

सूत्रात्संमाननादेरुपगत इह तः कर्त्रभिप्रायबाधी त्रेधाऽन्योक्तां गतिं तु क्षपयति वरणाधानसाध्यावमर्शः । स्पष्टं कर्तर्यकर्तर्यपि हि फलमिदं पूर्वसूत्रप्रसूतं सवेदित्रोर्द्वयोश्चाव्यवहितमपि तद्दृश्यतेऽकर्तृगामि ॥ ६९ ॥

निर्णीतं याजयेदित्यपि यजनविधौ तत्परं नीतिविद्भिस्तत्प्रायाध्यापनोक्तावुपनयनमपि ह्यन्तरङ्गावरुद्धम् । तस्मादध्येतृसंस्कृत्युपनयनफलं तत्फलार्थक्रियार्थं नो खल्वाचार्यकाख्यं किमपि फलमिहालौकिकं शक्यशङ्कम् ॥ ७० ॥

शिष्यः किञ्चोपनीतो वरमथ गुरवे किंनिमित्तं प्रयच्छेदाचार्यत्वं वरश्चेत्युभयमपि फलं कल्पयन् भ्रान्तकल्पः । वृत्त्यर्थाध्यापनं च स्मृतिभिरधिगतं क्वापि नाचार्यकार्थं नो चेन्नानाप्रकारा विधय इह तथा तत्रतत्राऽऽविलाः स्युः ॥ ७१ ॥

तत्तत्कामोपनीतावुपनयनफलं कर्तृगामीत्ययुक्तं तत्सामान्यात्तदेकाश्रयफलमिह नस्त्वष्टवर्षोपनीतौ । सिद्धेऽन्यत्र प्रधाने गुणफलमुचितं तस्य नाद्यापि सिद्धिः नित्यं काम्यप्रयोगे घटितमिति पृथक्कालिकत्वं तु सह्यम् ॥ ७२ ॥

यन्नित्यं ब्रह्मचारिण्यपरमपि कथं तस्य तस्मिन्प्रबोधः पित्राद्यैश्शिक्षितत्वादिति तु सममिदं सर्वहानं न चेत्स्यात् । संस्कर्तारं तमीप्सेत् तत उचितमधीयीत चेत्यादिदृष्ट्या नेत्थन्तायाः प्रबोधोऽस्त्यविदितनिगमेऽप्यष्टवर्षादिमात्रे ॥ ७३ ॥

शिष्यस्य ब्राह्मणत्वप्रभृति तव मते यद्वदाचार्यकार्थं शिष्योत्कर्षाय तद्वद्विधिरयमिह नस्तादृगाचार्यधर्मः । ऋत्विग्धर्मादयो वा कतिकति विहिता यायजूकादिसिद्ध्यै तस्माद्योग्योपनीतः सनियमकमधीयीत चेत्येव योज्यम् ॥ ७४ ॥

यच्चात्राध्यापयेदित्यभिदधति पदे स्वेष्टसिद्ध्यानुगुण्यं तच्चोन्नीतं प्रमादाण्णिच इह न किलाकर्तृगामित्वमर्थ्यम् । विद्यादानाददृष्टं यदपि निजगदुस्तेन नाचार्यकं स्याच्चत्वारश्चाश्रमास्तद्विधिमनुसरतां संप्रदानीभवन्ति ॥ ७५ ॥

आचार्याख्यानिवेशे तदितरवदिह स्मृत्युपात्तं निमित्तं सिद्धिर्या चानुषङ्गान्न हि किमपि तदुद्देशतः स्याद्विधानम् । स्नानोत्कर्षः स्मृतेश्चेत्यसदुपनिषदि स्मृत्युपात्तक्रमोक्तेः श्रौताधीत्योरसाम्यं स्मृतिगतमपि चापोह्य तौल्यार्थ्यमूह्यम् ॥ ७६ ॥

आचार्यायेत्यधीतिं वदसि परमते निर्निमित्तां परस्तादाचार्यस्येत्यधीतिस्तव किमु सनिमित्तत्वमभ्येति पूर्वम् । भाव्येऽर्थे लक्षणां चेत्कथयसि विहतेस्संभवात्सा जघन्या भूते तु ज्यायसीयं तदिह सनियमाध्यापने शब्द एषः ॥ ७७ ॥

॥ इति धर्मजिज्ञासाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.