श्रीमद्वेदान्ताचार्यविरचिता
मीमांसापादुका
मीमांसापादुका वेदापाैरुषेयताधिकरणम्
कर्तृप्रत्यायकास्स्युश्श्रुतिषु सुविदिताः काठकाद्यास्समाख्यास्तेनेमाः पौरुषेय्यस्तदिह कुशलिनी विप्रलिप्सादिशङ्का । मैवं शारीरकोक्तां सरणिमवयतां नित्यसिद्धेषु वेदेष्वाविष्कारेऽधिकारात् कतिचन पुरुषाः कर्तृनिर्देशमापुः ॥ १५९ ॥
कल्पेकल्पे दयालुः स्थिरचरकृदधिष्ठाय रूपं कठाद्यं शाखाभेदान्विचित्रान् समतनुत ततोऽध्यापयामास चर्षीन् । इत्युक्तं न्यायभक्तैरिदमपि च परं भक्तिमात्रप्रसूतं निर्माणाध्यापने द्वे किमिति निगदिते पश्चिमेनैव लभ्ये ॥ १६० ॥
वाक्यत्वात्कर्तृमत्त्वे सति निगमगिरां कर्तृभेदे तु चिन्त्ये वृद्धव्याहारसिद्धास्तदवधृतिकृतः काठकाद्यास्समाख्याः । इत्येषा मुग्धभाषा बहुनिगमहता बाधशून्या विपक्षे नासौ वाक्यत्वहेतुर्निगमकृतकतां संप्रयोक्तुं क्षमेत ॥ १६१ ॥
वेदानां यच्च शाखाविभजनमुदितं द्वापरान्ते चतुर्णां नानित्यत्वं ततः स्यात्समुदितपृथगाम्नानमात्रप्रवृत्तेः । कृत्साम्नानक्षमाणामुपचिततपसां गोचरः कृत्स्नमादौ पश्चात्तु ज्ञानशक्त्योरपचयनियमाद्व्यासकॢप्तिस्समीची ॥ १६२ ॥
वेदाद्द्वेधाऽप्रधृष्यात् भवति विमृशतां वेदनित्यत्वसिद्धिर्मन्वादीनां च वाक्यैरवितथवचसां बाधदोषातिवृत्तैः । अङ्गोपाङ्गैरशेषैरपि कथितमिदं सद्गृहीतैस्तदस्मिन्प्रादुर्भावादिमात्रं प्रजनयति विभुस्सोऽपि पारम्यरम्यः ॥ १६३ ॥
कर्ता दृष्टः श्रुतो वा न हि परकथितस्तापसादिः श्रुतीनां प्रद्विष्टोक्तिर्न तत्त्वस्थितिमवगमयेन्नातिशक्ता नियोक्तुम् । श्रद्धेयैरन्यथोक्त्या भजति च विहतिं शङ्कनेऽतिप्रसक्तिश्शङ्का सार्वत्रिकी च स्वजनिविहतिकृत्सर्वचेतःप्रतीपा ॥ १६४ ॥
अन्या मन्वन्तरेषु श्रुतिरिति च वचः कालयोगप्रवाहाज्जप्यश्रुत्यादिनीत्या न कथमितरथा द्रव्यपूर्वेण भेदः । दिष्टा यत्रानधीते मुनिभिरनघता तत्र तत्कर्तृतोक्ता प्रोक्तं ब्रह्म स्वयंभ्वित्यपि जनिविलयाभावमत्र स्मरन्ति ॥ १६५ ॥
कल्पादावेवमीशः कथयति निगमान्पूर्वयैवाऽऽनुपूर्व्या तद्वन्मन्वन्तरादिष्वपि शिथिलसमाधानमात्रं क्रमैः स्यात् । नित्यश्रुत्यैव बाधादुपजनिविलयौ नानुमानैः प्रसाध्यौ मीमांसाप्राच्यपादप्रसृतिरविहता देशिकैर्दर्शितेयम् ॥ १६६ ॥
अन्यैरप्यर्थवादप्रभृतिषु निहितैरादिमाध्यायभेदैर्मानं तत्तत्प्रवृत्त्या निगममिह मुनिस्सूत्रयामास साध्व्या । इत्थं प्रामाण्यसिद्धिं व्यवहरणदशाभाविनीं भावयन्तस्स्वाभीष्टस्थापकानामपि खलु वचसां मूलघातं सृजन्ति ॥ १६७ ॥
ग्राह्यं सर्वत्र मानं परभजनविधौ भेदतादात्म्यचर्चा तत्रैवाङ्गप्रयुक्ती परिकरघटने मार्गभेदक्रमाप्तिः । कर्ता वैराग्यपादप्रभृतिषु विविधावस्थितिः स्थापनीयश्शेषं चाशेषमीदृग्विलगति बहुषु ब्रह्मकाण्डस्थलेषु ॥ १६८ ॥
श्रीमद्रामानुजोक्तां स्मृतिमनुसरतामैकशास्त्र्यादिसिद्धेरव्याजोपायविद्यापथिकगतिविधौ न्यासि दिङ्मात्रमेतत् । शेषं चाशेषमित्थं शितमतिभिरनुप्रेक्ष्य संरक्षितव्यं क्षुद्रक्षोभार्हतर्कोदितकुहककथावर्णिदुर्नाटकेभ्यः ॥ १६९ ॥
संक्षिप्तं विस्तृतं वा सरसबहुमतं सावधानप्रियं वा प्राधान्येन प्रणीतं परफणितिपरिष्कारवृत्त्या स्थितं वा । शिक्षासौकर्यतुष्टिप्रचितगुरुजनानुग्रहेद्धं सुधीभिश्श्रद्धेयं नाथजुष्टश्रुतियुवतिशिरोभूषणं भाषणं नः ॥ १७० ॥
तत्तत्प्रत्यर्थिवर्गप्रचकितनिगमस्तोमतत्त्वार्थचिन्ता विष्वग्वैघट्यघट्टोन्मथनपटुधिया वेङ्कटेशेन कॢप्ता । अक्षोद्या तर्कलोष्टैरतिमहति पदेऽप्यत्यजन्ती स्वसीमां मीमांसापादुकेयं मितिपथगतिकृन्मृद्नती कण्टकौघम् ॥ १७१ ॥
विख्यातो वेदघण्टापथ इति विततिं प्रस्तुतां प्रस्तुतार्थामुत्पद्यन्तां पृथिव्यामुपनिषदगदङ्कारवाचः प्रवाचः । मिथ्यादृष्टिप्रवाहोदितकुमतिकथाकन्दलीकन्दलीनां दृष्ट्यैवालीकलिप्सादृढनिहितमतिं दैत्यरोधी रुण(द्धु)द्धि ॥ १७२ ॥
शाक्योलूक्याक्षपादक्षपणककपिलामर्त्यवन्द्यप्रधानैरन्यैराम्नायचर्चाकवचधृतिकनद्गोमुखद्वीपिभिश्च । बंहीयः क्षोभिताऽपि श्रुतिरिह बहुधा जायमानेन गोप्त्रा कालेकालेऽभिगुप्ता कलहमतितरन्त्यक्षता रक्षतान्नः ॥ १७३ ॥
॥ इति वेदापाैरुषेयताधिकरणम् ॥
॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु मीमांसापादुका समाप्ता ॥