श्रीमद्वेदान्ताचार्यविरचिता
मीमांसापादुका
मीमांसापादुका शब्दनित्यत्वाधिकरणम्
शब्दस्यार्थेन बन्धस्सहज इति वचोमात्रमत्र प्रसक्तं साकाङ्क्षे ह्यत्र शब्दाधिकरणमुदितं नित्यताप्त्यै पदानाम् । वर्णस्थैर्योक्तिपक्षे वितथविफलते स्तः पदस्थैर्यपक्षे सूत्राणां योजनं च स्वरसगति भवत्पक्षवन्नातिखेदः ॥ १३७ ॥
व्युत्यत्तिर्वाच्यवर्गे ह्यतिविषमतमा जातियोगान्निरूढा शिक्षेयं वाचकेऽपि प्रथयितुमुचिता शीलितन्यायवृत्तैः । किं चोदात्तादिभेदा अपि विलयभृतो वाचकेषूपयुक्तास्तादृक्त्वेनैव तेषां यदि नियमवचस्तद्वदत्रेति भाव्यम् ॥ १३८ ॥
वर्णा नित्या यदि स्युस्तदपि भवति किं मानताऽनाप्तवाक्ये ते चानित्या भवेयुः क्रमवदथ च सा किं न निर्दोषवाचि । वेदप्रामाण्यसिद्ध्यै तदिह बत मुधा वर्णनित्यत्वकॢप्तिर्वेदानित्यत्वशङ्कां प्रजनयति पदानित्यताऽतो निषेध्या ॥ १३९ ॥
शब्दस्पर्शादिहीनात्त्रिगुणजलनिधेरूर्मिजालैकदेशे श्रोत्रादिग्राह्यतत्तद्गुणगणघटितश्श्रावितो भूतवर्गः । शब्दस्याकाशनाशे लय इति कतिचित्प्रत्यभिज्ञानुरोधात्तैरप्यास्थायि नित्या पदनियतिरसौ वर्णसाजात्ययुक्ता ॥ १४० ॥
वर्णेभ्यः क्वापि वर्णान्तरजनिवचसामन्यथासिद्धिरस्तु प्रत्यक्षं त्वन्यतुल्यं प्रथयति जननं तच्च नात्राप्रमाणम् । सूक्ष्मा पश्यन्त्यसौ वाक्क्रमसमुदयनान्मध्यमा वैखरीति प्राप्ता भेदं विचित्राकृतिरुदयति तत्सुस्थितं वर्णजन्म ॥ १४१ ॥
एकाक्षग्राह्यवर्गे सहकृतिनियमो भाति निम्बत्वगादौ तद्वद्वर्णप्रभेदप्रतिनियतमरुद्भेद इत्यप्यपास्तम् । व्यक्तिर्निम्बत्वगादेर्न भवति परमुद्भूतिमात्रोपयोगात्तादृक्चेद्व्यक्तिहेतुर्न कथमिह भवेदन्यथाऽतिप्रसङ्गः ॥ १४२ ॥
गन्धादौ प्रत्यभिज्ञा भवति न च तया तत्र नित्यत्वमिष्टं सादृश्यात्तत्प्रकॢप्तिस्समगतिरुभयोरागृहीतिर्न चेत्स्यात् । व्यक्त्यानन्त्यं च दृष्टं सममिदमुभयोर्लाघवोक्तिश्च लघ्वी तस्माद्वैयात्यमात्रादयमुपनिहितो वर्णनित्यत्ववादः ॥ १४३ ॥
नित्यश्शब्दो यदीष्टस्सकथमभिमतो दृश्यमानातिरिक्तः प्रत्यक्षे शब्दवर्गे ध्वनिभिरपि परं तादृशैर्व्यक्तिरस्तु । अश्रद्धेयाऽत्र वैयाकरणसरणिरित्यर्थमर्थापयद्भिर्नित्यत्वं वर्णनिष्ठं भवतु च कथितं लाघवं लक्षयद्भिः ॥ १४४ ॥
वायोरेके विकारं कतिचन जगदुस्स्पर्शभाजां चतुर्णां पञ्चानां केचिदूचुः कतिचिदभिदधुः पञ्चमस्यैव धर्मम् । नित्यं तत्रापि केचिज्जनिलयभिदुरं शब्दमन्ये परे तु द्रव्यं वर्णाख्यमेतद्गतफलमखिलं शब्दमानत्वसिद्धौ ॥ १४५ ॥
कृत्वा रूपाणि नामान्यपि च वितनुते नाथ इत्यागमोक्त्या नानित्यत्वं पदानां पुनरपि हि यथापूर्वमेव प्रयुङ्क्ते । बाह्यक्षेपाय सूत्रैरिह कथयतु वा वर्णनित्यत्वमाप्तः कॢप्तं तद्वैभवात्स्यान्न कथमितरथा नैगमानां प्रकोपः ॥ १४६ ॥
उत्पत्त्यैव क्रमाप्तिं कतिचिदकथयन्बोधके वर्णवर्गे व्यक्त्यैकेऽन्ये तु तत्तद्व्यवहृतिकृदभिप्रायभेदाद्वदन्ति । युक्तं तद्यौगपद्यं न कथमपि ततस्संस्क्रियाजालजन्यस्मृत्यारूढेषु वर्णेष्ववगतिकरणं कल्प्यमेकं यथार्हम् ॥ १४७ ॥
वर्णान्यः कोऽपि वैयाकरणनिगदितस्स्फोटसंज्ञस्तु शब्दो न प्रत्यक्षो न कल्प्यो न च वचनमितो नान्यतोऽपि प्रसिद्धः । वर्णेषूक्तेषु बोधे भजति हि कलहस्स्फोटबोधेऽपि साम्यं शब्दव्युत्पत्तिसिद्धौ न च भवति मुधा स्फोटसिद्ध्यैव योगः ॥ १४८ ॥
वाक्यस्फोटोऽवकॢप्तः प्रतिफणिति पदस्फोटनीत्या निरस्तो वाक्ये तद्गोचरे वा कथमपि हि न निर्भागता जाघटीति । यद्भेदाङ्गप्रयुक्तिप्रभृति तदपि हि त्वन्मते दुर्घटं स्याच्छब्दादर्थो विभातीत्यपि समुदितधीमूल एकत्ववादः ॥ १४९ ॥
शुद्धे सिद्धान्तसूत्रे फलवति न तथा वर्णपक्षोक्तबाधौ पक्षाणां च त्रिकालप्रभवमतिभुवां का चिकित्सेति चेन्न । छद्मप्रक्षोभणीयच्छलगतिरमु(धु)ना शिक्षितश्चात्र गुप्त्यै दुष्टोपन्यासतन्निस्तरणकथनतस्तादृशान्योपरोधात् ॥ १५० ॥
दृष्टौ तद्धैक इत्याद्यकृतकफणितौ पूर्वपक्षोक्तिभङ्गौ तत्र स्वाध्यायपाठः फलमिति तु न सद्दृष्टहानादिदोषात् । सूत्रेऽप्येषैव रीतिर्भवति फलवती नान्यथाऽतिप्रसङ्गात् कः पूर्वः कश्च पक्षः पर इति नियमः स्वारसिक्या प्रवृत्या ॥ १५१ ॥
॥ इति शब्दनित्यत्वाधिकरणम् ॥