श्रीविष्णुपुराणम्
अथ तृतीयोऽध्यायः
मैत्रेय:-
ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः ॥१॥
एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे ॥ २ ॥
यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तं तमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद ॥३॥
श्रीपराशर:-
वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्रशः । न शक्या विस्तराद्वक्तुं संक्षेपेण शृणुष्व त्वम् ॥४॥
द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने। वेदमेकं सुबहुधा कुरुते जगतो हितः ॥ ५ ॥
ज्ञातमिति ।। जगद्विष्णुरिति तदात्मकत्वमुक्तं, विष्णाविति लयस्थित्योः स्थानत्वं, विष्णुत इति कारणत्वम् ॥ १-५ ॥
वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान्करोति सः ॥६॥ ययाऽसौ कुरुते तन्वा वेदमेकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा च मूतिर्मधुद्विपः ॥७॥
यस्मिन्मन्वन्तरे व्यासा येये स्युस्तान्निबोध मे । यथा च भेदश्शाखानां व्यासेन क्रियते मुने ॥८॥
अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः । वैवस्वतेऽन्तरे तस्मिन्द्वापरेषु पुनःपुनः ॥९॥
वीर्यमिति ॥ वीर्यम् – उत्साहः, तेज: – तपोयोगादिजनितः प्रभावः, बलं – धारणाशक्तिः ॥६-९॥
वेदव्यासा व्यतीता ये ह्यष्टाविंशति सत्तम । चतुर्धा येः कृतो वेदो द्वापरिषु पुनःपुनः ॥१०॥
वेदव्यासा इति ॥ व्यतीता:–निवृत्ताधिकाराः । अष्टाविंशतीत्यार्षस्सुलोपः ॥ १० ॥
द्वापरे प्रथमे व्यस्तस्स्वयं वेदस्वयंभुवा। द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ ११॥
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः। सविता पञ्चमे ब्यासः षष्ठे मृत्युस्मृतः प्रभुः ॥१२॥
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः। सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ १३ ॥
एकादशे तु त्रिशिखो भरद्वाजस्ततः परः । त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे ॥ १४ ॥
त्रय्यारुणः पञ्चदशे षोडशे तु धनञ्जयः । ऋतुञ्जयः सप्तदशे तदूर्ध्वं च जयस्स्मृतः ॥ १५ ॥
द्वापर इति । द्वितीयो मनुर्व्यासः,* ब्रह्मा मनुमुवाचेदं वेदान्व्यस्य प्रजापते, इति वायूक्तेः॥११-१५॥
ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः। गौतमादुत्तरो व्यासो हर्यात्मा योऽभिधीयते ॥१६॥
अथ हर्यात्मनोऽन्ते च स्मृतो वाजश्रवा मुनिः। सोमशुष्कायणस्तस्मात्तृणबिन्दुरिति स्मृतः॥१७॥
ऋक्षोऽभृद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥१८॥
जातुकर्णोऽभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टाविंशतिरित्येते वेदव्यासाः प्रकीर्तिताः ॥१९॥
तत इति ॥ उत्तमादिचतुष्कस्य पुराणान्तरप्रसिद्धानि हर्यात्मादिनामान्तराणि ॥१६-१९॥
एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु ॥ २०॥
भविष्ये द्वापरे चापि द्रौणिर्व्यासो भविष्यति । व्यतीते मम पुत्रेऽस्मिन् कृष्णद्वैपायने मुने ॥ २१ ॥
एक इति ॥ द्वापरादिषु-द्वापरः आदिर्येषां तानि द्वापरादीनि तेषु, द्वापरसन्ध्यंशेष्वित्यर्थः, द्वापरान्ते वेदविभागप्रसिद्धेः। द्वापरे तु परावृत्ते मनोस्वायंभुवेऽन्तरे । ब्रह्मा मनुमुवाचेदं वेदान्व्यस्य प्रजापते . इति वायूक्तेः, शंतनुसमकाले द्वैपायनोत्पत्तिप्रसिद्धेश्च ॥ २०, २१ ॥
ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते ॥ २२ ॥
अथ वेदविभागान् वक्ष्यन् प्रथमं परतत्त्वप्राप्त्युपायतयोपास्यमिति दर्शयितुं प्रणवात्मकं शब्दब्रह्म प्रणमति-ध्रुवमिति द्वयेन ॥ ध्रुवमिति ॥ ध्रुवम्-अविनाशि, ओमित्येव व्यवस्थितं-वेदविभागेऽप्यविभक्तम् अविकृतं च, यत्प्रणवाख्यमेकाक्षरं ब्रह्म तद्बृहत्वबृंहणत्वाभ्यां ब्रह्मेत्यभिधीयते, * यस्मादुच्चार्यमाण एव बृहति बृंहयति तस्मादुच्यते परं ब्रह्म • इति श्रुतेः ॥ २२ ॥
प्रणवावस्थितं नित्यं भूर्भुवस्स्वरितीर्यते । ऋग्यजुस्सामाथर्वाणो यत्तस्मै ब्रह्मणे नमः ॥२३॥
बृहत्त्वबृंहणत्वे उपपादयति-प्रणवावस्थितमिति ॥ व्याहृतित्रयमृगादिचतुष्टयं च प्रणवावस्थितमीर्यत इति यावत् , तस्माच्छब्दात्मने तस्मै ब्रह्मणे नम इत्यन्वयः । प्रणवस्य कारणावस्थायामन्तर्गतव्या — -हृत्यादिकत्वेन बृहत्त्वम् । कार्यावस्थायां व्याहृतिवेदरूपेण परिणामात् बृंहणत्वमिति भावः ॥ २३ ॥
जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥२४॥
अथ प्रणवं कारणतया प्रधानतादात्म्येन स्तुवन् प्रणमति-जगत इत्यादिना बहुधात्मकमित्यन्तेन ॥ जगत इति ॥ प्रलयोत्पत्त्योरिति । प्रधानाद्धि जगदुत्पत्तिः, तस्मिन् लयः, तस्मात्तयोस्तत्कारणम् ॥ २४॥
अगाधापारमक्षय्यं जगत्संमोहनालयम् । स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ २५ ॥
अगाधापारमिति ॥ जगत्संमोहनालय-पापिनां संगहनतमोगुणालयम् । स्वप्रकाशप्रवृत्तिभ्यां-सत्त्वरज:कार्याभ्यां ज्ञानकर्मभ्यां पुरुषार्थस्य साधनम् ॥ २५ ॥
सांख्यज्ञानवतां निष्ठा गतिश्शमदमात्मनाम् । यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम् ॥ २६ ॥
सांख्येति ॥ निष्ठा-प्रतिष्ठा । पुरुषविवेकोपायतया शमदमात्मनां योगिनां गति:– शमादिप्राप्त्युपायः ॥२६॥
प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते । अविभागं तथा शुक्रमक्षयं बहुधात्मकम् ॥ २७ ॥
प्रधानमिति ॥ आत्मनो योनि:-आत्मा-परमात्मा, तस्य योनिः-उपनिषत्स्वव्यक्ताद्यक्षरान्तैः शब्दैर्यत् बहुधात्मकं-बहुविधं शब्द्यते तस्मै प्रधानात्मने शब्दब्रह्मणे नमः । कार्यदशायां महदादिरूपेण वा बहुधात्मकम् । उक्तैर्गुणैः पूजितत्वात्सुशब्दप्रयोगः ॥ २७ ॥
परमब्रह्मणे तस्मै नित्यमेव नमोनमः । यद्रूपं वासुदेवस्य परमात्मस्वरूपिणः ॥ २८ ॥
अथ प्रणवं भगवद्रूपत्वेन स्तुवन् प्रणमति-परमब्रह्मण इति ॥ परमब्रह्मत्वं च वासुदेवरूपत्वात्॥२८॥
एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः । सर्वभूतेष्वभेदोऽसौ भिद्यते भिन्नबुद्धिभिः ॥ २९ ॥
एतदिति ॥ अकाराद्यवयवरूपेण त्रिधा मिन्नम् , अवयविरूपेण च अभिन्नम् एतत्-प्रणवरूपं ब्रह्म, स प्रभुः वासुदेवः, तद्रूपत्वात्तद्वाचकत्वाच्च । स च सर्वभूतेष्वात्मतयाऽवस्थितोऽप्यभेद:—एकः, प्रभुत्वादकलुषश्च, स्वाधिष्ठिताभिर्भिन्नाभिर्मूर्तिभिरेव भिद्यते ॥ २९॥
स ऋङ्मयस्साममयः सर्वात्मा स यजुर्मयः । ऋग्यजुस्सामसारात्मा स एवात्मा शरीरिणाम् ॥३०॥
अतस्सर्वात्मत्वात्स एवं ऋगादिमूर्तिरित्याह-स ऋङ्मय इति ॥ सार:-ऋगादिप्रतिपाद्यश्चतुर्विधः पुरुषार्थः, तदात्मा । शरीरिणां-क्षेत्रज्ञानाम् ॥ ३० ॥
स भिद्यते वेदमयस्स्ववेदं करोति वेदैर्बहुभिस्सशाखम् ।शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवाननन्तः ॥३१॥
भगवतस्सर्वात्मत्वं निगमयति-स भिद्यत इति ॥ सः अव्यस्तवेदमयस्सन् ऋग्वेदाद्यात्मना भिद्यते । स एव शाखाप्रणेतृभूतव्यासादिर्भूत्वा वेदं सशाखं बहुभिरवान्तरशाखाभेदैर्भिन्नं च करोति । समस्तशाखाश्च स एव ॥ ३१ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे तृतीयोऽध्यायः ॥ ३ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयांशे तृतीयोऽध्यायः ॥ ३ ॥