श्रीविष्णुपुराणम्
षोडशोऽध्यायः
और्व : –
हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च । सौकरच्छागलैणेपरौरवैर्यगवयेन च ॥ १ ॥
हविष्येति ॥ हविष्येणैकं मासं तृप्तिः, मत्स्येन द्वौ, मांसेन त्रीन् मासान् । अत्र मांसो हारिणादि, • त्रीन् मासान् हरिणेन तृप्तिरिति मनूक्तेः । छागल:-अजः, रुरुर्महान् कृष्णसारः ॥ १ ॥
औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रीणसामिपैः ॥ २ ॥
औरभ्रेति ॥ उरभ्रः ऊर्णायुः । गव्यं पयः, पायसं वा * संवत्सरं तु गव्येन पयसा पायसेन वा* इति स्मृतेः । गव्यं मांसमित्यन्ये । संवत्सरं गव्येन प्रीतिर्भूयात् । अतो माहिषेणैतेन *ग्राम्पारण्यानां पशूनां मांसं मेध्यं पुण्यं पुण्यतमम् * इत्यापस्तंबोक्तिः । मासवृद्ध्या-एकाद्येकोत्तरं द्वादशमासान्तं मासवृद्ध्या तृप्तिः। *कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः । स वै वार्ध्रीणसः प्रोक्त इत्येषा नैगमी कुतिः ॥ इति, * त्रिः: पिबन्तं पयः क्षीरं वृद्धं श्वेतमजापतिम् । वाघ्रीणसं तु तं प्राहुः याज्ञिकाः श्राद्धकर्मणे ॥ इति च ॥ २ ॥
खड्गमांसमतीवात्र कालशाकं तथा मधु । शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥ ३ ॥
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते । सफलं तस्य तज्जन्म जायते पितृतुष्टिदम् ॥ ४॥
खड्गमांसमिति ॥ कालशाकः कैठर्यः ॥ ३, ४ ॥
प्रशान्तिकास्सनीवाराश्श्यामाका द्विविधास्तथा । वन्यौषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥ ५ ॥
प्रशान्तिका इति ॥ प्रशान्तिकः कालयवाख्यधान्यविशेषः ॥ ५ ॥
यवाः प्रियगवो मुद्गा गोधूमा व्रीहयस्तिलाः । निष्पावाः कोविदाराश्च सर्षपाश्चात्र शोभनाः ॥ ६ ॥
यवा इति ॥ कोविदार:-कोद्रवः, युगपत्राक्ष्यवृक्षो वा ॥ ६ ॥
अकृताग्रयणं यच्च धान्यजातं नरेश्वर । राजमाषाणानणूंश्चैव मसूरांश्च विवर्जयेत् ।। ७॥
अकृतेति ॥ राजमाषः, अणु:-क्षुद्रधान्यविशेषः ॥ ७ ॥
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् । गाम्धारककरंभाणि लवणान्यौपराणि च ॥ ८ ॥
अलांब्विति ॥ मसूरं गृञ्जनं पलाण्डुश्च लशुनजातिविशेषः। पिण्डमूलकं-कन्दविशेषः । गांधारक: सुगन्धशालिविशेषः । आरनालकमित्यन्ये । करंबः – भ्रष्टनिस्तुषधान्यचूर्णम् । लवणं –लवणोत्कटम् ॥ ८ ॥
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च । वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥ ९ ॥
आरक्ता इति ॥ निर्यासः-हिंग्वादि ॥ ९॥
नक्ताहृतमनुच्छिष्टं तृप्यते न च यत्र गौः । दुर्गन्धि फेनिलं चांबु श्राद्धयोग्यं न पार्थिव ॥ १० ॥
नक्ताहृतमिति ॥ अनुच्छिष्टम् -अभिनवोदकम् । यद्वा अवत्सायाः पयः ॥ १० ॥
क्षीरमेकशफानां यदौष्ट्रमाविकमेव च । मार्गं च माहिषं चेव वर्जयेच्छ्राद्धकर्मणि ॥ ११ ॥
क्षीरमिति ॥ शफ:-खुरः ॥ ११ ॥
षण्डापविद्धचण्डालपापिपाषण्डरोगिभिः । कृकवाकुश्वाननग्नवानरग्रामसूकरैः ॥ १२ ॥
षण्डेति ॥ अपविद्धः–गुरुद्विजादिबहिष्कृतः । नग्नः– वेदधर्मत्यागी ॥ १२ ॥
उदक्यासूतिकाशौचमृतहारैश्च वीक्षिते । श्राद्धे सुरा न पितरो भुञ्जन्ते पुरुषर्षभ ॥ १३ ॥
उदक्येति ॥ अशौच:-शौचहीनः । मृतहार:-शवोद्धारवृत्तिः ॥ १३ ॥
तस्मात्परिश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥ १४ ॥
तस्मादिति ॥ परिश्रिते-संवृते ॥१४॥
नखादिना चोपपन्नं केशकीटादिभिर्नृप । न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ॥ १५ ॥
नखादिनेति ॥ अभिषवैः — निष्पीडितरसैः तण्डुलजलैर्वा, मिश्रं न भुञ्जत इत्यनुषंगः ॥ १५ ॥
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः । यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ १६ ॥
श्रद्धेति ॥ यदन्नं यन्नामगोत्रान् पितृनुद्दिश्य दत्तं तल्लोकान्तरस्थानामपि तत्तल्लोकतत्तज्जात्युचिताहारत्वेन परिणतं सत् भोगाय स्यात् । तद्यथा–ते पितरस्स्वर्गिणो जाताश्चेत्तत्रामृतं स्यात् , मनुष्याश्चेदन्नं, तिर्यञ्चश्चेत्तृणादि ॥ १६ ॥
श्रूयते चापि पितृभिर्गीता गाथा महीपते । इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥ १७ ॥
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥१८॥
श्रूयत इति ॥ कलापः-हिमवत्पार्श्वे कश्चिद्ग्रामविशेषः ॥ १७, १८ ॥
अपि नस्स कुले जातो यो नो दद्यात्रयोदशीम् । पायसं मधुसर्षिभ्यां वर्षासु च मघासु च ॥ १९ ॥
अपि न इति ॥ त्रयोदशीं-त्रयोदश्याम् । वर्षासु-भाद्रपदे। मघासु-मघानक्षत्रे । मघानक्षत्रयुक्तभाद्रपदकृष्णत्रयोदश्यामित्यर्थः ॥ १९ ॥
गौरी वाऽप्युदहेत्कन्यां नीलं वा वृषमुत्सृजेत् । यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥ २० ॥
गौरीमिति ॥ उद्वहेत्-दद्यात्। * लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ २० ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे
षोडशोऽध्यायः ॥ १६॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते
विष्णुचित्तीये तृतीयेशे षोडशोऽध्यायः ॥ १६॥