श्रीविष्णुपुराणम्
नवमोऽध्यायः
और्व उवाच:-
बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥१॥ शौचाचारवता तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥२॥ उमे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥ ३॥
शौचाचारवतेति ॥ व्रतानि–प्राजापत्यादीनि मधुमांसादिवर्जनादीनि च । कृतबुद्धिना-अवहितबुद्धिना ॥ २-३॥
स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न सञ्चरेत् ॥ ४ ॥
तेनैवोक्तः पठेद्वेदं नान्यचित्तः पुरस्थितः । अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥५॥
स्थित इति ॥ आसति-आसीने गुरौ ॥४,५॥
अवगाहेदपः पूर्वमाचार्येणावगाहिताः । समिञ्जलादिकं चास्य काल्यं काल्यमुपानयेत् ॥ ६ ॥
अवगाहेदिति ॥ काल्यं—प्रातः ॥६॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य च । गार्हस्थ्यमाविशेप्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ ७॥
गृहीतेति ॥ गृहीतग्राह्यवेद:–अर्थज्ञानपर्यन्तं गृहीतस्वशाखः, * स्वाध्यायोऽध्येतव्यः* इति, * स्थाणुरयं भारेवहः किलाभूत् अधीत्य वेदं न विजानाति योऽर्थम् , योऽर्थज्ञ इह सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा * इति श्रुतेः । गुरोर्निष्कृतिरत्र दक्षिणा ॥७॥
विधिनाऽवाप्तदारस्तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः ॥ ८॥
विधिनेति ॥ विधिना-स्वगृह्योक्तप्रकारेण । स्वकर्मणा-याजनादिवृत्या ॥ ८॥
निवापेन पितृनर्चन्यज्ञैर्देवांस्तथाऽतिथीन् । अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ ९॥
निवापेनेति ॥ निवापः-पितृदानम् ॥९॥
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥१०॥
भिक्षाभुजश्व ये केचित्परिवाइब्रह्मचारिणः । तेऽप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥ ११ ॥
वेदाहरणकार्याय तीर्थस्नानाय च प्रभो। अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥१२॥
भूतानीति | निजकर्मसमार्जितान्—स्वीयकर्मसाधितान् प्राजापत्यादीन् । * सर्व एते पुण्यलोका भवन्ति* इति श्रुतौ *य एतानव्यग्रो यथोपदेशं कुरुते नित्यस्वर्गः पुष्टश्च * इति स्मृतौ च नित्यानां प्रत्यवायव्यतिरेकं फलान्तरस्य चोक्तेः ॥ १०-१२ ॥
अनिकेता ह्यनाहारा यत्रसायंगृहाश्च ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥ १३ ॥
तेषां स्वागतदानादि वक्तव्यं मधुरं नृप । गृहागतानां दद्याच्च शयनासनभोजनम् ॥ १४ ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १५ ॥
अनिकेता इति ॥ यत्र सायं स्यात् तत्रैव गृहं स्थितिर्येषां ते ज्ञानिनः । प्रतिष्ठा—आश्रयः, योनिः–माता, अन्नादिना देहपोषकत्वात् ॥ १३-१५ ॥
अवज्ञानमहंकारो दंभश्चैव गृहे सतः। परितापोपघातौ च पारुष्यं च न शस्यते ॥ १६ ॥
अतिथिं प्रति अवज्ञानं न कार्यमित्याह—अवज्ञानमित्यादि । परितापः–दानानुशयः, उपधात:–ताडनादिः ॥१६॥
यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् । सर्वबन्धविमुक्तोऽसौ लोकानाप्नोत्यनुत्तमान् ॥ १७ ॥
वयःपरिणतौ राजन्कृतकृत्यो गृहाश्रमी। पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ १८ ॥
यस्विति ॥ तत्तद्वर्णोक्तनित्याकरणजप्रत्यवायरूपात् तत्तल्लोकप्राप्तिप्रतिबन्धान्मुक्तः ॥१७,१८॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत्तत्र मुनिस्सर्वार्थनिस्पृहः ॥ १९ ॥
चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके । तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर ॥ २० ॥
वर्णेति । अत्र केशशब्दो लोमवचनः ॥ १९, २० ॥
देवताभ्यर्चनं होमस्सर्वाभ्यागतपूजनम् । भिक्षावलिप्रदानं च शस्तमस्य नरेश्वर ॥ २१॥
वन्यस्नेहेन गात्राणामभ्यङ्गश्चास्य शस्यते । तपश्च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता ॥ २२ ॥
यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥ २३ ॥
चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ २४ ॥
पुत्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ २५ ॥
देवतेति ॥ नास्त्यागतस्य तिथि:-एकदिनमपीत्यतिथिः, धर्माद्यर्थी नूतनोऽतिथिः अज्ञातपूर्वः, अन्ये अभ्यागताः ॥ २१-२५॥
त्रैवर्गिकांस्त्यजेत्सर्वानारम्भानवनीपते । मित्रारिषु समो मैत्रस्समस्तेष्वेव जन्तुषु ॥ २६ ॥
जरायुजाण्डजादीनां वाङ्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ २७ ॥
त्रैवर्गिकानिति ॥ त्रैवर्गिकान्-धर्मार्थकामसाधनभूतान् , आरम्भान्-लौकिकवैदिकोद्योगान्, त्यक्त्वा मुक्त्यर्थं ब्रह्मज्ञाने निष्ठा कार्या * ब्रह्मसंस्थोऽमृतत्वमेति * इति श्रुतेः, संन्यासस्य च मोक्षमार्गत्वात् । तदशक्तस्य च जपतीर्थयात्रादि चानुमतम् । * प्रणवात्मको वेदः प्रणवं ध्यायेदिति, * प्रणवो ब्रह्मभूयाय कल्पत इति च ॥ २६, २७ ॥
एकरात्रस्थितिमे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथा प्रीतिर्द्वेषो वा नास्य जायते ॥ २८ ॥
एकेति ॥ अष्ठौ मासान्विहारास्तु यतेरुक्ता मनीषिभिः । वाराणसीं प्रविष्ठस्य विद्यते न हि सञ्चरः॥ इति वचनाच्च ॥२८॥
प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥ २९ ॥
कामः क्रोधस्तथा दर्पः मोहलोभादयश्च ये। तांस्तु सर्वान्परित्यज्य परिव्राण्णिर्ममो भवेत् ॥ ३० ॥
अभयं सर्वभूतेभ्यो दत्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ ३१ ॥
प्राणयात्रेति ॥ प्रशस्तवर्णाः अमिशस्तपतितवर्जिताः ॥ २९-३१ ॥
कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्षोपहितैर्हविर्भिश्चिताग्निकानां व्रजति स्म लोकान् ॥ ३२ ॥
कृत्वेति ॥ प्राजापत्येष्ट्यनन्तरमग्निहोत्रं खशरीरसंस्थं कृत्वा-आत्मन्यारोप्येत्यर्थः । शारीरमग्निं जाठराग्निभूतं प्राणादियुक्तम् । तमुद्दिश्य मुखे कुण्डस्थानीये अग्निहोत्रबुद्ध्या भिक्षान्नरूपैः हविर्भिर्यो जुहोति “प्राणोऽग्निरेवेदमत्ति चान्नं नाहं भेक्ता” इत्यनुसन्धाय, सः चिताग्नीनाम्-अग्निचितां लोकान् व्रजति । तृतीयान्तपाठे चिताग्निना-ज्ञानाग्निना दर्शितान् लोकान् व्रजति । अयमविद्वद्विषयश्लोकः, उत्तरस्तु ब्रह्मविद्विषयः ॥३२॥
मोक्षाश्रमं यश्चरते यथोक्तं शुचिस्सुसङ्कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तस्स ब्रह्मलोकं श्रयते द्विजातिः ॥ ३३॥
मोक्षाश्रममिति ॥ मोक्षाश्रमं-पारिव्राज्यं, सुसङ्कल्पितबुद्धियुक्त:-सम्यक् संपादितबुद्धियोगयुक्तः। लोक्यत इति लोकः, ब्रह्मैव लोको ब्रह्मलोकः, ब्रह्मणो लोक इति वा विग्रहः । द्विजातिरिति विप्रस्यैव संन्यासे अधिकारोक्तिः । * गतिस्तुर्याश्रमे नास्ति बाहुजोरुजयोः क्वचित् । तुर्याश्रमे गतिः प्रोक्ता मुखजानां स्वयंभुवा ॥* इति दत्तात्रेयोक्तेः ॥ ३३ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयांशे नवमोऽध्यायः ॥ ९ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते विष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयांशे नवमोऽध्यायः ॥ ९ ॥