श्रीविष्णुपुराणम् Amsa 04 Ady 01-10

श्रीमते रामानुजाय नमः

श्रीविष्णुपुराणम्

चतुर्थांऽशेप्रथमोऽ ध्यायः

श्रीमैत्रेय उवाच

भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः ।

तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥१॥

वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।

श्रोतुमिच्छाम्यहं वंशं राज्ञां तद् ब्रूहि मे गुरो ॥२॥

तृतीयेंऽशे भगवतस्थितिहेतुभूत मन्वादिरूप मेदानामधिकारमेद उक्तः । विशेषतश्व जगतः स्थितिहेतु-र्वर्णाश्रमधर्मः सदाचारचोक्तः। चतुर्थेशे तु तत्स्थापकधार्मिकसोमसूर्योद्भवक्षत्रवंशस्तदनुचरितं चोच्यते ॥ १,२॥

श्रीपराशर उवाच

मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः ॥३॥

तदस्य वंशस्यानुपूर्वामशेषपापप्रक्षालनाय मैत्रेयैतां श्रृणु ॥४॥

सकलजगतामादिरनादिभूतस्स ऋग्यजुस्सामादिमयो भगवान् विष्णुः । तस्य

ब्रह्मणो मूर्त्तं स्वरूपं हिरण्यगर्भाख्यो ब्रह्माण्डभूतो भगवान् ब्रह्मा प्राग्बभूव ॥५॥

मैत्रेयेति ॥ बीरः—उत्साही । शूरः- पराभिभावी ।। ३-५॥

ब्रह्मणश्च दक्षिणांगुष्ठजन्मा दक्षप्रजापतिः ।

दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥६॥

मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तनाभागदिष्टकरूषपृषध्राख्या नव पुत्रा बभूवुः ॥७॥

ब्रह्मण इति ॥ अदितिः ह्यजनिष्ट दक्षया दुहिता तव तां देवा अन्वजायन्त इत्यादिश्रुतिसम्म-तत्वाद्ब्रह्मदक्षादिक्रम उक्तः । न तु ब्रह्ममरीच्यादिः ॥ ६, ७ ॥

इष्टिं च मित्रावरूणयोर्मनुः पुत्रकामश्चकार ॥८॥

तत्र तावदपह्नुते होतुरपचारादिला नाम कन्या बभूव ॥९॥

सैव च मित्रावरूणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥१०॥

पुनश्चेश्वरकोपात्स्त्री सती सा तु सोमसूनोः बुधस्याश्रमसमीपे बभ्राम ॥११॥

सानुरागश्च तस्यां बुधः पुरुरवसमात्मजमुत्पादयामास ॥१२॥

इष्टिं चेति ॥ इक्ष्वाक्कादिपुत्रोत्पत्तेः पूर्व इष्टिं चकार । तस्मादिक्ष्वाकायुत्पत्तेः प्राक् इलाजन्म, अकरोत् पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ॥ अनुत्पन्नेषु नवसु पुत्रेष्वेतेषु सुव्रत ॥ इति बायूक्तेः ॥ ८–१२  ।।

जातेऽपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋड्‌मयो यजुर्मयस्साममयोऽथर्वणमयस्सर्ववेदमयो मनोमयो ज्ञानमयो विज्ञानमयोऽन्नमयोऽमृतमयो न किञ्चिन्मयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिः यथावदिष्टः तत्प्रसादादिला पुनरपि सुद्युम्नोऽभवत् ॥१३॥

तस्याप्युत्कलगयविनतास्त्रयः पुत्रा बभुवुः ॥१४॥

सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे ॥१५॥

तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात ॥१६॥

जाते चेति ॥ न किंचिन्मयः- कर्मकृतदेवादिरूपतत्कृतज्ञान संकोचादिरहितः । १३-१६ ।।

तदन्वयाश्च क्षत्रियास्सर्वे दिक्ष्वभवन् । पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छुद्रत्वमगमत् ॥१७॥

मनोः पुत्रः करुषः कुरूषात्कारूषाः क्षत्रिया महाबलपराक्रमा बभूवुः ॥१८॥

दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्वलन्धनः पुत्रोऽभवत् ॥१९॥

बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥२०॥

वत्सप्रीतेः प्रांशुरभवत् ॥२१॥

प्रजापतिश्च प्रांशोरेकोऽभवत् ॥२२॥

ततश्च खनिमित्रः ॥२३॥

तस्माच्चक्षुषः ॥२४॥

चक्षुषाच्चातिबलपराक्रमो विंशोऽभवत् ॥२५॥

ततो विविंशकः ॥२६॥

तस्माच्च खनिनेत्रः ॥२७॥

ततश्चातिविभूतिः ॥२८॥

अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोऽभवत् ॥२९॥

तस्मादप्यविक्षित् ॥३०॥

अविक्षितोऽप्यातिबलपराक्रमः पुत्रो मरुत्तो नामाभवत; यस्येमावद्यापि श्लोकौ गीयेते ॥३१॥

मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ॥ सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥३२॥

पृषघ्र इति ॥ सूचीकटाहन्यायेनाल्पत्वात्प्रथमं पृषध्रादिवशोक्तिः । बलंधनोत्पत्तेः पश्चान्नाभागस्य वैश्यत्वप्राप्तिः ॥ १७-३२ ॥

अमाद्यादिन्द्रस्सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः ॥३३॥

स मरुत्तश्चक्रवर्ती नरिष्यन्तनामानं पुत्रमवाप ॥३४॥

तस्माच्च दमः ॥३५॥

दमस्य पुत्रो राजवर्धनो जज्ञे ॥३६॥

राजवर्धनात्सुवृद्धिः ॥३७॥

सुवृद्धेः केवलः ॥३८॥

केवलात्सुधृतिरभूत् ॥३९॥

ततश्च नरः ॥४०॥

तस्माच्चन्द्रः ॥४१॥

ततः केवलोऽभूत् ॥४२॥

केवलाद्वन्धुमान् ॥४३॥

बन्धुमतो वेगवान् ॥४४॥

वेगवतो बुधः ॥४५॥

ततश्च तृणबिन्दुः ॥४६॥

तस्याप्येका कन्या इलविलानाम् ॥४७॥

ततश्चालम्बुसानाम वराप्सरास्तृणबिन्दुं भेजे ॥४८॥

तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालां निर्ममे ॥४९॥

हेमचद्रश्च विशालस्य पुत्रोऽभवत् ॥५०॥

ततश्चन्द्रः ॥५१॥

तत्तनयो धूम्राक्षः ॥५२॥

तस्यापि सृंजयोऽभूत् ॥५३॥

सृंजयात्सहदेवः ॥५४॥

ततश्च कृशाश्वो नाम पुत्रोऽभवत् ॥५५॥

सोमदत्तः कृशाश्वाज्जज्ञे यो दशाऽश्वमेधानाजहार ॥५६॥

तत्पुत्रो जनमेजयः ॥५७॥

जनमेजयात्सुमतिः ॥५८॥

एते वैशालिका भूभृतः ॥५९॥

श्‍लोकोऽप्यत्र गीयते ॥६०॥

तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तोऽतिधार्मिकाः ॥६१॥

शर्यातेः कन्या सुकन्यानामाभवत यामुपयेमे च्यवनः ॥६२॥

आनर्तनामा परमधार्मिकश्शर्यातिपुत्रोऽभवत् ॥६३॥

आनर्तस्यापि रेवतनामा पुत्रो यज्ञे योऽसावानर्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥६४॥

रेवतस्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्येष्ठोऽभवत् ॥६५॥

तस्य रेवती नाम कन्याभवत् ॥६६॥

अमाद्यदिति ॥ परिवेष्टारः – मोजयितारः ॥ ३३-६६ ॥

स तामादाय कस्येयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम ॥६७॥

तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥६८॥

स इति ॥ ब्रह्मलोकं जगामेति ॥ ब्रह्मलोकः-सत्यलोकः न तु मेरुस्थः; यतो रैवते ब्रह्मणोन्तिके तिष्ठत्येव मेरुस्थो ब्रह्मा देवस्सहाष्टाविंशद्वापरांते कृष्णावतारार्थं क्षीरोदमगमदिति पंञ्चमेंशे वक्ष्यति । अतस्सत्य-लोकस्य हिरण्यगर्भाशोऽन्यो ब्रह्मा मेरुस्थ इति न विरोधः ॥ ६७, ६८ ॥

तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतश्श्रृण्वन्मुहूर्त्तमिव मेने ॥६९॥

गीतावसाने च भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥७०॥

ततश्चासौ भगवानकथयत् कथय योऽभिमतस्ते वर इति ॥७१॥

पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।

क एषां भगवतोऽभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥७२॥

ततः किञ्चिदवनतशिरास्सस्मितं भगवानब्जयोनिराह ॥७३॥

य एते भवतोऽभिमता नैतेषां साम्प्रतं पुत्रपौत्रापत्यापत्यसन्ततिरप्यवनीतलेस्ति ॥७४॥

बहूनि तवात्रैव गान्धर्वं श्रृण्वतश्चतुर्युगान्यतीतानि ॥७५॥

तदिति ॥ परिवृत्तयः–परिवर्ता: । एते दत्तिलादिषु द्रष्टव्याः । त्रिमार्गपरिवृत्तैः चित्रदक्षिण-धात्र्याख्यास्त्रिमार्गाः तद्विषये काल विशेषयुक्तगीतगानक्रियाभ्याम् । अनेकयुगपरिवृत्तीरिति कालावनोरिति द्वितीया । परिवृत्तीरिति च पाठः ॥ ६९-७५ ॥

साम्प्रतं महीतलेऽष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ॥७६॥

आसन्नो हि कलिः ॥७७॥

अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाऽभिमताय देयम् ॥७८॥

भवतो‍ऽपि पुत्रमित्रकलत्रमंत्रिभृत्यबन्धुलकोशादयस्समस्ताः काले नैतेनात्यन्तमतीताः ॥७९॥

ततः पुनरप्युत्पन्नासाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥८०॥

भववन्नेवमवस्थिते मयेयं कस्मै देयेति ॥८१॥

ततस्स भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरम्भोजयोनिराह ॥८२॥

सांप्रतमिति ॥ अष्टाविंशतितमे चतुर्युगम् ॥ ७६-८२ ।।

श्रीब्रह्मोवाच

न ह्यादिमध्यान्तमजस्य यस्य विद्यो वयं सर्वमयस्य धातुः ।

न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥८३॥

न हीति ॥ स्वरूपं-ज्ञानानन्दादिलक्षणम् । प्रभावम्- पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी-इत्याद्युक्त प्रभावम् । सारम् – विश्वधारणनियमनादिक्षमं बलम् ॥ ८३।।

कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।

अजन्मनाशस्य सदैकमूर्तैरनामरूपस्य सनातनस्य ॥८४॥

कलेति ॥ कलामुहूर्तेत्यनेन  त्रिपादस्यामृतं दिवि  यत्र पूर्वे साध्यास्सन्ति देवाः दिव्यं स्थानमजरम् । इत्यादिश्रुतिसिद्धस्य परमपदस्याकाल काल्यत्वमुच्यते । अजन्मनाशस्य-कर्मनिमित्तशरीरप्रहण-तद्वियोगरहितस्य । सदैकमूर्त्तेः- सदैकरूपस्य समस्तमूर्तेरिति च पाठ: । अनामरूपस्य-कर्मकृतदेवादि नामरूपास्पृष्टस्य ॥ ८४ ॥

यस्य प्रसादादहमच्युतस्य भूतः प्रजासृष्टिकरोऽन्तकारी ।

क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ॥८५॥

मद्रूपमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी ।

रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुस्समस्तम्‌ ॥८६॥

पाकाय योऽ‍ग्नित्वमुपैति लोकान्बिभर्ति पृथ्वीवपुरव्ययात्मा ।

शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश्च तमो हिनस्ति ॥८७॥

यस्येति ॥ यस्माच्च मध्य इति । स्रष्टृसंहर्त्रोर्मध्ये स्थितिहेतुभूतः पुरुषस्स्वयं परस्माद्यस्माद्रामादिवत् प्रादुर्भूतः ॥ ८५-८७ ॥

करोति चेष्टारश्चसनस्वरूपी लोकस्य तृप्तिं च जलान्नरुपी ।

ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी ॥८८॥

करोतीति ॥ विश्वस्थितिसंस्थितः– विश्वस्थित्यै संस्थितः,  विष्टम्याहम्, इत्युक्त्वात् ॥ ८८ ॥

यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।

विश्वात्मकस्संह्नियतेऽन्तकारी पृथक् त्रयस्यास्य च योऽव्ययात्मा ॥८९॥

यस्मिन्जगद्यो जगदेतदाद्यो यं चाश्रितोऽस्मिञ्जगति स्वयम्भूः ।

स सर्वभूतप्रभवो धरित्र्यां स्वांशेन विष्णुर्नृपतेऽवतीर्णः ॥९०॥

मस्सृज्यत इति ॥ सर्गकृद्यः विश्वात्मना आत्मनैव सृज्यत इत्यन्वयः । आत्मनेति प्रकृत्या तृतीया । विश्वात्मभूतः स्वयमेव सृज्यत इत्यर्थः । एवमुत्तरत्रापि । त्रयस्य सृज्यादेः स्रष्ट्रादेश्च | पृथङ् न यस्यास्तीति पाठे एतदनात्मकं नास्तीत्यर्थः । न तदस्ति विना यत्स्यात्  इति ॥ ८९, ९० ।।

कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।

सा द्वारका सम्प्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥९१॥

कुशस्थलीति ॥ पूर्वं वेलास्थिता सती कुशस्थली कृष्णेन समुद्राल्लन्धद्वादशयोजनस्थलेन सह द्वारका कृता ॥ ९१ ॥

तस्मै त्वमेनां तनयां नरेन्द्र प्रयच्छ मायामनुजाय जायाम् ।

श्‍लाघ्यो वरो‍ऽसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥९२॥

श्रीपराशर उवाच

इतीरितोऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् ।

ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसस्स्वल्पविवेकवीर्यान् ॥९३॥

कुशस्थलीं तां च पुरीमुतेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् ।

सीरायुधाय स्फटिकाचलाभवक्षः स्थलायातुलधीर्नरेन्द्रः ॥९४॥

उच्चप्रमाणामिति तामवेक्ष्य स्वलांगलाग्रेण च तालकेतुः ।

विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ॥९५॥

तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।

दत्त्वाथ कन्यां स नृपो जगाम हिमालयं वै तपसे धृतात्मा ॥९६॥

तस्मा इति ॥ मायामनुजाय—संकल्पभूतमनुजाय ।। ९२-९६ ।।

इति श्रीविष्णुचित्तीये श्रीविष्णुपुराणव्याख्याने चतुर्थांशे प्रथमोऽध्यायः ॥ १ ॥

चतुर्थांशेद्वितीयोऽध्यायः

श्रीपराशर उवाच

यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः ।। १ ।।
तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे ।। २ ।।
तदन्वयाश्च क्षत्रियास्सर्वदिक्ष्वभवन् ।। ३ ।।
वृष्टस्यापि वार्ष्टकं क्षत्त्रमभवत् ।। ४ ।।
नाभागस्यात्मजो नाभागसंज्ञोऽभवत् ।। ५ ।।
तस्याप्यंबरीषः ।। ६ ।।
अंबरीषस्यापि विरूपोभवत् ।। ७ ।।
विरूपात्पृषदश्वो जज्ञे ।। ८ ।।
ततश्च रथीतरः ।। ९ ।।

१-९॥ एत इति ॥

अत्रायं श्लोकः-
एते क्षत्रप्रसूता वै पुनश्चांगिरसाः स्मृताः ।
रथीतराणां प्रवराः क्षत्त्रोपेता द्विजातयः इति ।। १० ।।

रथीतराणां प्रवरा:- वंश्याः केन चित्संबधेनांगिरोगणप्रविष्टत्वात्क्षत्रजत्वाच्च ब्रह्मक्षत्रतां

गताः। एतेषां हि तपसैव ब्रह्मत्वं, यथाह वायुः,विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः । बार्धाश्वः पुरु-

कुत्सश्च भास्वान् गृत्समदः प्रभुः ॥ अर्ष्टिषेणोऽजमीढश्च छागो गार्ग्यस्तथैव च । कक्षीवांश्च विरूपश्च मुद्गलो

हरितस्तथा  रथीतरश्च कण्वश्च विष्णुवृद्धादयो नृपाः । क्षत्रोपेता द्विजा ह्येते तपसा चर्षितां गताः ॥ इति ॥

१० ॥

क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ।। ११ ।।
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदंडाख्यास्त्रयः पुत्रा बभूवुः ।। १२ ।।
शकुनिप्रमुखाः पंचाशत्पुत्राः उत्तरापथरक्षितारो बभूवुः ।। १३ ।।
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ।। १४ ।।
स चेक्ष्वाकुरष्टकायामुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास ।। १५ ।।
तथेति गृहीताज्ञो विधृतशरासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रांतोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत्
शेषं च मांसमानीय पित्रे निवेदयामास ।। १६ ।।
इक्ष्वाकुणा इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह
अलमनेनामेध्येनामिषेण दुरात्मनानेन तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः ।। १७ ।।
ततश्चासौ विकुक्षिर्गुरुणैवमुक्तश्शशादसंज्ञामवाप पित्रा च परित्यक्तः ।। १८ ।।
पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतश्शशास ।। १९ ।।
शशादस्य तस्य पुरंजयो नाम पुत्रोभवत् ।। २० ।।

क्षुतवत इति ॥ क्षुतवतः- क्षुतं कुर्वतः इति इक्ष्वाकुनामनिरुक्तिः ।। ११-२० ।।

तस्येदं चान्यत् ।। २१ ।।
पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् ।। २२ ।।
तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवंतं विष्णुमाराधयांचक्रुः ।। २३ ।।
प्रसन्नश्च देवानामनादिनिधनोखिलजगत्परायणो नारायणः प्राह ।। २४ ।।
ज्ञातमेतन्मया युष्माभिर्यदभिलषितं, तदर्थमिदं श्रूयताम् ।। २५ ।।
पुरंजयो नाम राजर्षेश्शशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेहमंशेन स्वयमेवावतीर्य तानशेषानसुरान्निहनिष्यामि तद्भवद्भिः पुरंजयोऽसुरवधार्थमुद्योगं कार्यतामिति ।। २६ ।।
एतच्च श्रुत्वा प्रणम्य भगवंतं विष्णुममराः पुरंजयसकाशमाजग्मुरूचुश्चैनम् ।। २७ ।।

तस्येति ॥ इदं चान्यत्-तस्य पुरंजयस्य ककुत्स्थ इति नाम ॥२१-२७ ।।

भोभोः क्षत्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभंगो न कार्य इत्युक्तः पुरंजयः प्राह ।। २८ ।।
त्रैलोक्यनाथो योयं राजा युष्माकमिन्द्रः शतक्रतुः ,अस्य यद्यहं स्कंधाधिरूढो युष्मादरातिभस्सह योत्स्ये तदहं भवतां सहायः स्याम् ।। २९ ।।

भोभो इति ॥ प्रणयभंगः – प्रणयो याच्ञा ॥ २८-२९ ॥

इत्याकर्ण्य समस्तदेवैरिंद्रेण च बाढमित्येवं समन्विच्छितम् ।। ३० ।।
ततश्च शतक्रतोर्वृषरूपधारिणः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चराचरगुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान ।। ३१ ।।
यतश्च वृषभककुदि स्थितेन तेन राज्ञा दैतेयबलं निषूदितं ततश्चासौ ककुत्स्थसंज्ञामवाप ।। ३२ ।।
ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत् ।। ३३ ।।
पृथुरनेनसः ।। ३४ ।।
पुथोर्विष्टराश्वः ।। ३५ ।।
तस्यापि चांद्रो युवनाश्वः ।। ३६ ।।
चांद्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ।। ३७ ।।
शावस्तस्य बृहदश्वः ।। ३८ ।।
तस्यापि कुवलयाश्वः ।। ३९ ।।

इतीति | समन्विच्छितम्-अनुमतम् ॥ ३०-३९ ।।

योसावुदङ्कस्य महर्षेरपकारिणं दुंदुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशतिभिः परिवृतो जघान दुंदुमारसंज्ञा चावाप ।। ४० ।।

य इति ॥ एकविंशतिभिरित्येतत्संख्येयपरम् ॥४०॥

तस्य च तनयास्समस्ता एव दुंदुमुखनिश्वासाग्निना विप्लुष्टा विनेशुः ।। ४१ ।।
दृढाश्वचंद्राश्वकपिलाश्वाश्च त्रयः केवलं शेषिताः ।। ४२ ।।
वृढाश्वाद्धर्यश्वः ।। ४३ ।।
तस्माच्च निकुंभः ।। ४४ ।।
निकुंभस्यामिताश्वः ।। ४५ ।।
ततश्च कृशाश्वः ।। ४६ ।।
तस्माच्च प्रसेनजित् ।। ४७ ।।
प्रसेनजितो युवनाश्वोभवत् ।। ४८ ।।
तस्य चापुत्रस्यातिनिर्वेदान्मुनीनामाश्रममंडले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टः कृता ।। ४९ ।।
तस्यां च मध्यरात्रौ निवृत्तायां मंत्रपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः ।।५० ।।
सुप्तेषु तेषु अतीव तृट्परीतस्स भूपालस्तमाश्रमं विवेश ।। ५१ ।।

तस्य चेति ॥ विप्लुष्टाः – दग्धाः ॥ ४१-५१॥

सुप्तांश्च तानृषीन्नैवोत्थापयामास ।। ५२ ।।
तच्च कलशजलमपरिमेयमाहात्म्यमंत्रपूतं पपौ ।। ५३ ।।
प्रबुद्धाश्च ऋषयः पप्रछुः केनैतं मंत्रपूतं वारि पीतम् ।। ५४ ।।
अत्र हि पीते राज्ञो युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति,
इत्याकर्ण्ये स राजा अजानता मया पीतमित्याह ।। ५५ ।।
गर्भश्च युवनाश्वस्योदरे अभवत्क्रमेण च ववृधे ।। ५६ ।।
प्राप्तसमयश्च दक्षिणांगुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ।। ५७ ।।

सुप्तानिति ॥ नैवोत्थापयामास क्षुत्तृदक्षामकंठत्वान्निद्राभंगभयादा ॥ ५२, ५७ ॥

स चासौ राजा ममार ।। ५८ ।।

स इति ॥ स चासो राजा ममार ॥ ५८॥

जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ।। ५९ ।।
अथागत्य देवराजोब्रवीत् मामयं धास्यतीति ।। ६० ।।
ततो माधातृनामा सोभवत्,
वक्त्रे चास्य प्रदेशिनी देवेंद्रेण न्यस्ता तां पपौ ।। ६१ ।।
तां चामृतस्राविणीमास्वाद्याह्नैव स व्यवर्द्धत ।। ६२ ।।
ततस्तु मांधाता चक्रवर्त्ती सप्तद्वीपां महीं वुभुजे ।। ६३ ।।
तत्रायं श्लोकः ।। ६४ ।।

जात इति ॥ कं धास्यतीति स्तनाभावात् ॥ ५९-६४ ॥

यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते ।। ६५ ।।
मांधाता शतबिंदोर्दुहितरं बिंदुमतीमुपयेमे ।। ६६ ।।
पुरुकुत्समंबरीषं मुचुकुंदं च तस्यां पुत्रत्रयमुत्पादयामास ।। ६७ ।।
पंचाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः ।। ६८ ।।
एतस्मिन्नंतरे बह्वृचश्च सौभरिर्नाम महर्षिरंतर्जले द्वादशाब्दं कालमुवास ।। ६९ ।।

तत्र चांतर्जले संमदो नामातिबहु- प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ।। ७० ।।
तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमंतस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे ।। ७१ ।।
स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतः खैः पुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुतरां रेमे ।। ७२ ।।

यावदिति ॥ यावत्तावच्च साकल्ये ॥ ६५-७२ ॥

अथांतर्जलावस्थितस्सौभरिरेकाग्रतस्समाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपौत्रदौहित्रादिभिःसहातिरमणीयं लालितमवेक्ष्याचिंतयत् ।। ७३ ।।
अहो धन्योयमीदृशमप्यनभिमतं योन्यंतरमवाप्यैभिरात्मजपौत्रदौहित्रादिभिस्सह रममाणोतीवास्माकं स्पृहामुत्पादयति ।। ७४ ।।

अथेति ॥ लालित — क्रीडितम् ॥ ७३, ७४ ॥

वयमप्येवं पुत्रादिभिस्सह ललितं रमिष्याम इत्येवमभिकांक्षन् स तस्मादंतर्जलान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मांधातारं राजानमगच्छत् ।। ७५ ।।
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ।। ७६ ।।

वयमिति ॥ निवेष्टुकाम: — उद्बोढुकामः ॥ ७५, ७६ ॥

सौभरिरुवाच

निवेष्टुकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभांक्षीः ।
न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयांति ।। ७७ ।।
अन्येपि संत्येव नृपाः पृथिव्यां मांधातरेषां तनयाः प्रसूताः ।
किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतं श्लाघ्यमिदं कुलं ते ।। ७८ ।।

निवेष्टुकाम इति ॥ प्रणयं– याच्ञाम्, मां विभांक्षी:- भग्नं मा कृथाः ॥ ७७, ७८ ॥

शतार्धसंख्यास्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ ।
यत्प्रार्थनाभंगभयाद्बिभेमि तस्मादहं राजवरातिदुःखात् ।। ७९ ।।

शतार्धेति ॥ अतिदुःखात्प्रार्थनाभंगभयाद्विमेमीति यत् तस्मात्कन्यां प्रयच्छ ॥ ७९ ॥

श्रीपराशर उवाच

इति ऋषिवचनमाकर्ण्य स राजा जराजर्झरितदेहं तमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्च शापभीतो बिभ्यत्किंचिदधोमुखश्चिरं दध्यौ  ।। ८० ।।

इतीति ॥ शापतः — शापात् कारणात् । तस्मात् – मुनेः बिम्यत् ॥ ८० ॥

सौभरिरुवाच

नरेंद्र कस्मात्समुपैषि चिंतामसह्यमुक्तं न मयात्र किंचित् ।
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ।। ८१ ।।

श्रीपराशर उवाच

अथ तस्य भगवतश्शापभीतस्सप्रश्रयस्तमुवाचासौ राजा ।। ८२ ।।

नरेन्द्रेति ॥ किं न लब्धा- किं न लप्स्यते ? कर्मणि लुट् । न लब्धमिति पाठे, मया किं न

उन्धम् कृतर्थोऽस्मीत्यर्थः ॥ ८१, ८२ ॥

राजोवाच

भगवन् अस्मत्कुलस्थितिरियं य एव कन्याभिरुचितोऽभिजनवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचरवर्त्तिनी कथमप्येषा संजाता । तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मयाऽचिंत्यत इत्यभिहिते च तेन भूभुजा मुनिरचिंतयत् ।। ८३ ।।
अयमन्योऽस्मत्प्रत्याख्यानोपायः, वृद्धोयमनभिमतः स्त्रीणां किमत कन्यकानामित्यमुना संचिंत्यैतदभिहितम्, एवमस्तु तथा करिष्यामीति संचिंत्य मांधातारमुवाच ।। ८४ ।।
यद्येवं तदादिश्यतामस्माकं प्रवेशाय कन्यान्तः पुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाऽहं दारसंग्रहं करिष्यामि, अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम ।। ८५ ।।
ततश्च मांधात्रा मुनिशापशंकितेन कन्यान्तः पुरवर्षवरस्समाज्ञप्तः ।। ८६ ।।
तेन सह कन्यान्तः पुरं प्रविशन्नेव भगवानखिलसिद्धगंधर्वमनुष्येभ्योऽतिशयेन कमनीयं रूपमकरोत् ।। ८७ ।।
प्रवेश्य च तमृषिमंन्तः पुरे वर्षवरस्ताः कन्याः प्राह ।।८८ ।।
भवतीनां जनयिता महाराजस्समाज्ञापयति ।। ८९ ।।
अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ।। ९० ।।

भगवन्निति ॥ भवद्याश्चा मनोरथानामगोचरवर्त्तिनी-अत्यंतदुर्लमा, कमप्येषा संजाता दैवात् ।। ८३, ९० ।।

मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवंतं वरयति तत्कन्याच्छंदे नाहं परिपंथानं करिष्यामीत्याकर्ण्य सर्वा एव ताः कन्याः सानुरागाः स प्रमदाः करेणव इवेभयूथपतिं तमृषिमहमहमिकया वरयांबभूवुरूचुश्च ।। ९१ ।।

अलं भगिन्योऽहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः ।
ममैष भर्त्ता विधिनैव सृष्टस्सृष्टाऽहमस्योपशमं प्रयाहि ।। ९२ ।।

मयेति ॥ छंदे इच्छायां, परिपंथानं-प्रातिकूल्यम् । सप्रमदाः । प्रमदो हर्षः ॥ ९१, ९२ ॥

वृतो मयाऽयं प्रथमं मयाऽयं गृहं विशन्नेव विहन्यसे किम् ।
मया मयेति क्षितिपात्मजानां तदर्थमत्यन्तकलिर्बभूव ।। ९३ ।।
यदा तु सर्वाभिरतीव हार्दाद्वृतः स कन्याभिरनिन्द्यकीर्तिः ।
तदा स कन्याधिकृतो नृपाय यथावदाचष्ट विनम्रमूर्त्तिः ।। ९४ ।।
श्रीपराशर उवाच

तदवगम्य किमेतत्कथमेतत्किं  करोमि किं मयाऽभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजाऽनुमेने ।। ९५ ।।
कृतानुरूपविवाहश्च महर्षिस्सकला एव ताः कन्यास्स्वमाश्रममनयत् ।। ९६ ।।

वृत इति ॥ कलि: कटहः ॥ ९३-९६ ॥

तत्र चाऽशेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपंकजाः कूजत्कलहंसकारंडवादिविहंगमाभिरामजलाशयास्सोपवनास्सोपधानाः सावकाशास्साधुशय्यापरिच्छदाः प्रासादाः क्रियंतामित्यादिदेश ।। ९७ ।।
तच्च तथैवानुष्ठितमशेषशिल्पविशेषाचार्यः त्वष्टा दर्शितवान् ।। ९८ ।।

तत्रेति ॥ शिल्पकल्प:- शिल्पशास्त्रम् ॥ ९७, ९८ ॥

ततः परमर्षिणा सौभरिणाऽऽज्ञप्तस्तेषु गृहेष्वनिवार्यानंदकुंदमहानिधिरासांचक्रे ।। ९९ ।।

तत इति ॥ कुंदमहानिधिः-कुंदास्र्यनिधिविशेषः । निधिर्ना शेवधिर्भेदाः पद्मशंखादयो निधेः ।

ह्यपद्मश्च पद्मश्च शंखो मकरकच्छपौ ॥ मुकुंदकुंदनीलाश्च वरश्च निधयो नव । इत्यमरसिंहः ॥ ९९ ॥

ततोऽनवरतभक्ष्यभोज्यलेह्याद्युपभोगेरागतानुगतभृत्यादीनहर्निशमशेषगृहेषु ताः क्षितीशदुहितरो भोजयामासुः ।। १०० ।।
एकदा दुहितृस्नेहाकृष्टहृदयस्स महीपतिः किमतिदुःखितास्ता उत सुखिता वा इति विचिंत्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श ।। १०१ ।।

तत इति ॥ अनुगताः – अनुचराः ॥ १००, १०१ ॥

प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भोऽब्रवीत् ।। १०२ ।।
अप्यत्र वत्से भवत्यास्सुखमुत किञ्चिदसुखमपि ते महर्षिस्स्नेहवानुत न स्मर्यतेऽस्मद्गृहवासः इत्युक्ता तं तनया पितरमाह ।। १०३ ।।
तातातिरमणीयः प्रासादोऽत्रातिमनोज्ञमुपवनमेते कलवाक्यविहंगमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुकूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम् ।। १०४ ।।
तथापि केन वा जन्मभूमिर्न स्मर्यते ।। १०५ ।।
त्वत्प्रसादादिदमशेषमतिशोभनम् ।। १०६ ।।
किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहात् महर्षिरयम्मद्भर्त्ता न विष्क्रामति, ममैव केवलमतिप्रीत्या समीपपरिवर्त्ती, नान्यासामस्मद्भगिनीनाम् ।। १०७ ।।
एवं च मम सोदर्योऽतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपविष्टस्तथैव पृष्टवान् ।। १०८ ।।
तयाऽपि च सर्वमेव प्रासादाद्युपभोगसुखं भृशमाख्यातं स्वपित्रे, ममैव केवलमतिप्रीत्या भर्ता पार्श्वपरिवर्त्ती नान्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविश्य तनयाः तथैवावृच्छत् ।। १०९ ।।
सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भरविवशहृदयो भगवंतं सौभरिमेकांतावस्थितमुपेत्य कृतपूजोऽब्रवीत् ।। ११० ।।
दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावः नैवंविधमन्यस्य कस्यचिदस्माभिर्विभूतिविलसितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण सह किंचित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम ।। १११ ।।
कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ।। ११२ ।।
अनुदिनानुरूढस्नेहप्रसरश्च स तत्रातीव ममताकृष्टहृदयोऽभवत् ।। ११३ ।।

अप्येतेऽस्मत्पुत्राः कलभाषिणः पद्भ्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येम अप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पश्येमेत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानवेक्ष्यैतच्चिंतयामास ।। ११४ ।।
अहो मे मोहस्यातिविस्तारः ।। ११५ ।।
मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः ।

पूर्णेषु पूर्णेषु मनोरथानां उत्पत्तयस्संति पुनर्नवानाम् ।। ११६ ।।

प्रविश्य चेति ॥ प्रवृद्धेन स्नेहेन नयनयोरम्बुगर्भ यस्य स तथोक्तः ॥ १०२-११६

पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्छति मेंऽतरात्मा ।। ११७ ।।
द्रक्ष्यामि तेषामिपि चेत्प्रसूतिं मनोरथो मे भविता ततोऽन्यः ।
पूर्णेऽपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ।। ११८ ।।
आमृत्युतो नैव मनोरथानां अन्तोऽस्ति विज्ञातमिदं मयाऽद्य ।
मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ।। ११९ ।।

पद्भ्यामिति ॥ प्रसूताः—जातापत्याः ॥ ११७-११९॥

स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्सहसैव नष्टः ।
परिग्रहस्संगकृतो मयाऽयं परिग्रहोत्था च ममतिलिप्सा ।। १२० ।।
दुःखं यदैवैकशरीरजन्म शतार्द्धसंख्याकमिदं प्रसूतम् ।
परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत ।। १२१ ।।

स इति ॥ लिप्सा–लब्धुमिच्छा ॥ १२०, १२१ ॥

सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां च परिग्रहेण ।
विस्तारमेष्यत्यतिदुःखहेतुः परिग्रहो वै ममताभिधानः ।। १२२ ।।
चीर्णं तपो यत्तु जलाश्रयेण तस्यार्द्धिरेषा तपसोंऽतरायः ।
मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोऽस्मि तेन ।। १२३ ।।
निस्संगता मुक्तिपदं यतीनां संगादशेषाः प्रभवंति दोषाः ।
आरूढयोगोऽपि निपात्यतेऽधस्संगेन योगी किमुताल्पबुद्धिः ।। १२४ ।।

सुतेति ॥ तेषां स्वपरिग्रहेण–तेषां खं-पुत्रपौत्रादि, तत्परिग्रहेण । विस्तारमेष्यतीत्यन्वयः ॥ १२२-१२४ ॥

सोऽहं चरिष्यामि तदात्मनोर्थे परिग्रहग्राहगृहीतबुद्धिः ।
यदा हि भूयः परिहीनदोषो जनस्य दुःखैर्भविता न दुःखी ।। १२५ ।।

सोऽइमिति ॥ जनस्य –भार्यादेः ॥ १२५ ।।

सर्वस्य धातारमचिंत्यरूपं अणोरणीयांसमतिप्रमाणम् ।
सितासितं चेश्वरमीश्वराणां आराधयिष्ये तपसैव विष्णुम् ।। १२६ ।।
तस्मिन्नशेषौजसि सर्वरूपिण्यव्यक्तविस्पष्टतनावनंते ।
ममाचलं चित्तमपेतदोषं सदास्तु विष्णावभवाय भूयः ।। १२७ ।।

सर्वस्येति || सिनासिनं– बद्धमुक्तरूपेण स्थितम् । यद्वा-युगभेदेन सितासितवर्णम् ॥ १२६,१२७ ॥

समस्तभूतादमलादनंतात् सर्वेश्वरादन्यदनादिमध्यात् ।
यस्मान्न किंचित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुम् ।। १२८।।

श्रीपराशर उवाच

इत्यात्मानमात्मनैवाभिधायासौ सौभरिरपहाय पुत्रगृहासनपरिच्छदादिकमशेषमर्थजातं सकलभार्यासमन्वितो वनं प्रविवेश ।। १२९ ।।
तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् ।। १३० ।।

समस्तभूतादिति ॥ समस्तं भूतं जगदूपं यस्य सः तस्मात् समस्तभूतात् अन्यत्-अतदात्मकं

कॅचिदपि नास्ति । १२८-१३०।।

भगवत्यासज्याखिलं कर्मकलापं अजमविकारमरणादिधर्ममवाप परमनन्तं परवतामच्युतं पदम् ।। १३१ ।।
इत्येतन्मांधातृदुहितृसंबंधादाख्यातम् ।। १३२ ।।
यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्याष्टौ जन्मानि दुस्संततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणमशेषहेयेषु वा ममत्वं न भवति ।। १३३ ।।

भगवतीति ॥ भगवत्यासज्य – भगवदाराधनमित्यनुसंधाय ।। १३१-१३३ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशे द्वितीयोऽध्यायः ।। २ ।।

चतुर्थांशेतृतीयोऽध्यायः

व्रतश्च मांधातुः पुत्रसंततिरभिधीयते ।। १ ।।
अंबरीषस्य मांधातृतनयस्य युवनाश्वः पुत्रोऽभूत् ।। २ ।।

॥१,२ ॥

तस्माद्धारीतः यतोंऽगिरसो हारीताः ।। ३ ।।

तस्मादिति यतोंगिरस इति । अथ हारीतानां त्र्यार्षेयाः आंगिरसांवरीषयौवनाश्वा इति

वरपाठात् ॥ ३ ॥

रसातले मौनेया नाम गंधर्वा बभूवुष्षट्कोटिसंख्यातास्तैरशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियंत ।। ४ ।।

रसातल इति ॥ मौनेया:-काश्यपपत्न्याः मुनेस्तनयाः ॥ ४ ॥

तैश्च गंधर्ववीर्यावधूतैरुरगेश्वरैः तूयमानो भगवानशेषदेवेशः तवश्रवणोन्मीलितोन्निद्रपुंडरीकनयनो जलशयनो निद्रावसानप्रबुद्धः प्रणिपत्याभिहितः, भगवन्नस्माकमेतेभ्यो गंधर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ।। ५ ।।
आह च भगवाननादिनिधनः पुरुषोत्तमो योऽसौ यौवनाश्वस्य मांधातुः पुरुकुत्सनामा पुत्रस्तमहमनुप्रविश्य तानशेषान् दुष्टगंधर्वानुपशमं नयिष्यामीति ।। ६ ।।
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदां च पुरुकुत्सानयनाय चोदयामासुः ।। ७ ।।
सा चैनं रसातलं नीतवती ।। ८ ।।
रसातलगतश्चासौ भगवत्तेजसाऽऽप्यायितात्मवीर्य्यस्सकलगंधर्वान्निजघान ।। ९ ।।
पुनश्च स्वपुरमाजगाम ।। १० ।।
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः,
यस्तेऽनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति ।। ११ ।।
अत्र च श्लोकः ।। १२ ।।
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ।। १३ ।।

तैश्चेति ॥ जलशयनं । श्रीराब्धौ शेषतल्पम् ॥ ५-१३ ॥

इत्युच्चार्याहर्निशमंधकारप्रवेशे वा सर्पैर्न दश्यते, न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति ।। १४ ।।
पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो वरं ददुः ।। १५ ।।
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् ।। १६ ।।
त्रसद्दस्युतस्संभूतोऽनरण्यः यं रावणो दिग्विजये जघान ।। १७ ।।
अनरण्यस्य पृषदश्वः, पृषदश्वस्य हर्यश्वः पुत्रोऽभवत् ।। १८ ।।
तस्य च हस्तः पुत्रोऽभवत् ।। १९ ।।
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः ।। २० ।।

इतीति ॥ कृतानुस्मरणभुजः-नर्मदां स्मृत्वा अन्नादि मुञ्जानस्य ॥ १४-२० ।।

त्रय्यारुणेस्सत्यव्रतः योऽसौ त्रिशंकुसंज्ञामवाप ।। २१ ।।
स चंडालतामुपगतश्च ।। २२ ।।
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चंडालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबंध ।। २३ ।।
स तु परितुष्टेन विश्वामित्रेण सशरीरस्स्वर्गमारोपितः ।। २४ ।।
त्रिशंकोर्हरिश्चन्द्रः तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चंचुश्चंचोर्विजयवसुदेवौ रुरुको विजयाद्रुरु कस्य वृकः ।। २५ ।।
ततो वृकस्य बाहुः योऽसौ हैहयतालजंघादिभिः पराजितोऽन्तर्वत्न्या महिष्या सह वनं प्रविवेश ।। २६ ।।
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः ।। २७ ।।
तेनास्य गर्भः सप्तवर्षाणि जठर एव तस्थौ ।। २८ ।।
स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार ।। २९ ।।
सा तस्य भार्या चितां कृत्वा तमारोप्यानुमरणकृतनिश्चयाऽभूत् ।। ३० ।।
अथैतामतीतानागतवर्त्तमानकालत्रयवेदी भगवानौर्वस्स्वाश्रमान्निर्गत्याब्रवीत् ।। ३१ ।।

प्रय्यारुणेरिति ॥ परिणीयमानविप्रकन्याहरणक्रुद्धस्य स्वपितुशापात् चंडालतां गतः, वसिष्ठधेनुं

हत्वा वृथा जिघासेति त्रिमिर्दोषैस्त्रिशंकुः । यथा हरिवंशे – पितुश्शापादिदोषेण गुरुदोग्ध्रीवधेन च ।

अप्रोक्षितोपयोगाच्च त्रिविधस्तद्व्यतिक्रमः || एवं त्रीव्यस्य शंकूनि तानि दृष्ट्वा महायशाः । त्रिशंकुरिति होवाच

त्रिशंकुस्तेन स स्मृतः इति ॥ २१-३१ ॥

अलमलमनेनासद्ग्राहेणाखिल भूमंडलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्त्ता तवोदरे चक्रवर्त्ती तिष्ठति ।। ३२ ।।
मैवमतिसाहसाध्यवसायिनी भवेत्युक्ता सा तस्मादनुमरणनिर्बंधाद्विरराम ।। ३३ ।।
तेनैव च भगवता स्वाश्रममानीता ।। ३४ ।।
तत्र कतिपयदिनाभ्यंतरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ।। ३५ ।।
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ।। ३६ ।।
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यशेषाण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ।। ३७ ।।
उत्पन्नबुद्धिश्च स मातरमब्रवीत् ।। ३८ ।।
अंब कथय कथमत्र वयं क्व तातोऽस्माकमित्येवमादि पृच्छंतं माता सर्वमेवावोचत् ।। ३९ ।।
ततश्च पितृराज्यापहरणादमर्षितो हैहयतालजंघादिवधाय प्रतिज्ञामकरोत् ।। ४० ।।
प्रायशश्च हैहयतालजंघाञ्जघान ।। ४१ ।।
शकयवनकांभोजपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ।। ४२ ।।
अथैनान्वसिष्ठो जीवन्मृतकान् कृत्वा सगरमाह ।। ४३ ।।

अलमटमिति || असग्राहेण–बृपा निर्बंधेन ॥ ३२-४३॥

वत्सालमेभिर्जीवन्मृतकैरनुमृतैः ।। ४४ ।।
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः ।। ४५ ।।
तथेति तद्गुरुवचनमभिनंद्य तेषां वेषान्यत्वमकारयत् ।। ४६ ।।
यवनान्मुंडितशिरसोऽर्द्धमुंडिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ्श्मश्रुधरान् निस्स्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार ।। ४७ ।।
एते चात्मधर्मपरित्यागाद्ब्राह्मणैः परित्यक्ता म्लेच्छतां ययुः ।। ४८ ।।

वत्सेति ॥ जीवन्मृतः स्वधर्माद्यः परिभ्रष्टो विप्रैर्यश्च बहिष्कृतः । स जीवन्नेव लोकेऽस्मिन् मृत

इत्यभिधीयते ॥ इति स्मृतेः। अनुमृतैः-पुनर्मृतैः ॥ १५२५४८ ।।

सगरोऽपि स्वमधिष्ठानमागम्य अस्खलितचक्रस्सप्तद्वीपवतीमिमामुर्वीं प्रशशास ।। ४९ ।।

सगर इति ॥ चक्रम्—आज्ञा, बलं वा ॥४९॥

इति श्रीविष्णुमहापुराणे चतुर्थांशो तृतीयोऽध्यायः ।। ३ ।।

चतुर्थांशेचतुर्थोऽध्यायः

श्रीपराशर उवाच

काश्यपदुहिता सुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम् ।। १ ।।
ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात् ।। २ ।।

एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्राणां जनयिष्यति यस्या यदभिमतं तदिच्छया गृह्यतामित्युक्ते केशिन्येकं वरयामास ।। ३ ।।
सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ।। ४ ।।
तथेत्युक्ते अल्पैरहोभिः केशिनी पुत्रमेकमसमंजसनामानं वंशकरमसूत ।। ५ ।।
काश्यपतनयायास्तु सुमत्याः षष्टिं पुत्रसहस्राण्यभवन् ।। ६ ।।
तस्मादसमंजसादंशुमान्नाम कुमारो जज्ञे ।। ७ ।।

॥ १-७ ॥

स त्वसमंजसो बालो बाल्यादेवासद्वृत्तोऽभूत् ।। ८ ।।
पिता चास्याचिंतयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति ।। ९ ।।
अथ तत्रापि च वयस्यतीते असच्चरितमेवैनं पिता तत्याज ।। १० ।।
तान्यपि षष्टिः पुत्रसहस्राण्यसमंजसचरितमेवानुचक्रुः ।। ११ ।।
ततश्चासमंजसचरितानुकारिभिस्सागरैरपध्वस्तयज्ञादिसन्मार्गे जगति देवास्सकलविद्यामयमसंस्पृष्टमशेषदोषैर्भगवतः पुरुषोत्तमस्यांशभूतं कपिलं प्रणम्य तदर्थमूचुः ।। १२ ।।
भगवन्नेभिस्सगरतनयैरसमंजसचरितमनुगम्यते ।। १३ ।।
कथमेभिरसद्वृत्तमनुसरद्भिर्जगद्भविष्यतीति ।। १४ ।।
अत्यार्त्त जगत्परित्राणाय च भगवतोऽत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैरैव दिनैर्विनंक्ष्यन्तीति ।। १५ ।।
अत्रांतरे च सगरो हयमेधमारभत ।। १६ ।।
तस्य च पुत्रैरधिष्ठितमस्याश्वं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ।। १७ ।।

स त्विति । असवृत्तः – दुराचारः ।। ८-१७ ॥

ततस्तत्तनयाश्चाश्वखुरगतिनिर्वंधेन वसुधातलमेकैकं योजनमवनेश्च निचख्नुः ।। १८ ।।

पाताले चाश्वं परिभ्रमन्तं तमवनीपतितनयास्ते ददृशुः ॥ १९ ।।

नातिदुरेऽवस्थितं च भगवन्तमपघने शरत्कालेऽर्कमिव तेजोभिरवनतमूर्ध्वमधश्चाशेष दिशश्रोद्भासयमानं कपिलर्षिमपश्यन्  ।। २० ।।

ततश्चोद्यतायुधादुरात्मानो हयहर्ताऽयमस्मदपकारी यज्ञविघ्नकारी हन्यतां हन्यतामित्यवोचन्नभ्यधावंश्च ।। २१ ।।

ततश्चेति ॥ अवनेर्योजनम् – अवनिमारभ्याधस्तायोजनम् ॥ १८-२१ ॥

ततस्तेनापि भगवता किंचिदीषत्परिवर्तितलोचने नावलोकिता स्स्वशरीरसमुत्थेनाग्निना दह्यमाना

विनेशुः ॥ २२ ॥

सगरोऽप्यवगम्याश्वानुसारि तत्पुत्रबलमशेष परमर्षिणा कपिलेन तेजसा दग्धं ततोंऽशुमन्तमसमंजस पुत्र माहूयाश्वानयनाय युयोज ॥ २३ ॥

स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तुष्टाव ॥ २४ ॥

अथैनं भगवानाह ॥ २५ ॥

गच्छेनं पितामहायांश्च प्रापय वरं वृणीष्व च पुत्र पौत्रश्च ते स्वर्गाद्गंगां भुवमानेष्यतीति ॥ २६ ॥

तत इति ॥ किंचिदित्यनादरावलोकिताः ॥ २२-२६ ।।

अथांशुमानपि स्वर्यातानां ब्रह्मदंडहतानामस्मत्पितॄणा मस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह ।। २७ ।।
तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाऽद्य पौत्रस्ते त्रिदिवाद्गंगां भुवमानयिष्यतीति ।। २८ ।।
तदंभसा च संस्पृष्टेष्वस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति ।। २९ ।।
भगवद्विष्णुपादांगुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ।। ३० ।।

अयेति ॥ ब्रह्मदंड: ब्राह्मणशापः । स्वर्यातानां – मृतानाम् ॥ २७-३० ॥

यन्न केवलमभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकं किंत्वनभिसांधितमप्यस्यां प्रेतप्राणस्य भस्मास्थिचर्मस्नायुकेशाद्युत्सृष्टं शरीरजं यदपि पतितं सद्यश्शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहयज्ञमाजगाम् ।। ३१ ।।
सगरोऽप्यश्वमासाद्य तं यज्ञं समापयामास ।। ३२ ।।

यदिति ॥ यन्न केवलगित्यादि । अभिसंधिपूर्वकं स्नानाद्येव न केवलमुपकारकं किं त्वपेतप्राणस्य

उत्सृष्टशरीर स्थ मप्यस्थि चर्मादि जले नामिसंहितमपि पतितं शरीरिणं स्वर्गं नयतीति यत्, एतन्माहात्म्यम्-एतद्दूंगाजलस्य माहात्म्यमिति पूर्वेणान्वयः ॥ ३१, ३२ ॥

सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ।। ३३ ।।
तस्यांशुमतो दिलीपः पुत्रोऽभवत् ।। ३४ ।।
दिलीपस्य भगीरथः योऽसौ गंगां स्वर्गादिहानीय भागीरथीसंज्ञां चकार ।। ३५ ।।
भगीरथात्सुहोत्रस्सुहोत्राच्छ्रुतः तस्यापि नाभागः ततोम्बरीषः तत्पुत्रस्सिंधुद्वीपः सिंधुद्वीपादयुतायुः ।। ३६ ।।

सागरमिति || सागरं सगरसुतैर्वर्द्धितम् ॥ ३३-२६ ॥

तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोऽक्षहृदयज्ञोऽभूत् ।। ३७ ।।
ऋतुपर्णपुत्रस्सर्वकामः ।। ३८ ।।
तत्तनयस्सुदासः ।। ३९ ।।
सुदासात्सौदासो मित्र सहनामा ।। ४० ।।
स चाटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयमपश्यत् ।। ४१ ।।
ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ।। ४२ ।।

तत्पुत्रश्चेति || अक्षहृदयं-द्यूतादिषु संख्याज्ञानम् ॥ ३७-४२ ॥

म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत् ।। ४३ ।।
द्वितीयोऽपि प्रतिक्रियां ते करिष्यामीत्युक्त्वांऽतर्धानं जगाम ।। ४४ ।।
कालेन गच्छता सौदासो यज्ञमयजत् ।। ४५ ।।

म्रियमाण इति ॥ करालं— दंतुरम् ॥ ४३-४५ ।।

परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रांते तद्रक्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रांतः ।। ४६ ।।
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ।। ४७ ।।

असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ।। ४८ ।।
आगताय वसिष्ठाय च निवेदितवान् ।। ४९ ।।
स चाप्यचिंतयदहोऽस्य राज्ञो दौश्शील्यं येनैतन्मांसमस्माकं प्रयच्छति, किमेतद्द्रव्यजातमिति ध्यानपरोऽभवत् ।।  ५० ।।
अपश्यच्च तन्मांसं मानुषम् ।। ५१ ।।
अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ।। ५२ ।।

परिनिष्ठितेति ॥ देयमिति । इतिः हेतौ, तत्-भोजनम् ॥ ४६–५२ ॥

यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ।। ५३ ।।
अनंतरं च तेनापि भगवतैवाभिहितोऽस्मीत्युक्ते किं किं मयैवाभिहितमिति मुनिः पुनरपि समाधौ तस्थौ ।। ५४ ।।
समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यंतिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति ।। ५५ ।।

यस्मादिति ॥ लोलुपता – अत्यन्तेच्छा ॥ ५३–५५ ॥

असावपि प्रगृह्योदकांजलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयंत्या स्वपत्न्या प्रसादितस्सस्यांबुदरक्षणार्थं तच्छापाम्बु नोर्व्यां न चाकाशे चिक्षेप, किं तु तेनैव स्वपादौ सिषेच ।। ५६ ।।

असाविति ॥ नोर्व्यां न चाकाशे चिक्षेप सस्यांबुदरक्षणार्थम् ॥ ५६ ॥

तेन च क्रोधाग्निश्रितेनांबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततः स कल्माषपादसंज्ञामवाप ।। ५७ ।।

तेन चेति ॥ क्रोधाग्निश्रितेन – क्रोधाग्नितप्तेन । कल्माष:-कृष्णपांडुरः ॥ ५७ ॥

वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमुमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ।। ५८ ।।
एकदा तु कंचिन्मुनिमृतुकाले भार्यासंगतं ददर्श ।। ५९ ।।
तयोश्च तमतिभीषणं राक्षसरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्राह ।। ६० ।।
ततस्सा ब्राह्मणी बहुशस्तमभियाचितवती ।। ६१ ।।
प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मित्रसहो न राक्षसः ।। ६२ ।।

वसिष्ठशापादिति ॥ षष्ठे काले – षष्ठभोजनकाले, तृतीयदिनांते ॥ ५८-६२ ॥

नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामिममस्मद्भर्त्तारं हंतुमित्येवं बहुप्रकारं तस्यां विलपंत्यां व्याघ्रः पशुमिवाऽरण्येऽभिमतं तं ब्राह्मणमभक्षयत् ।। ६३ ।।
ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ।। ६४ ।।
यस्मादेवं मय्यतृषप्तायां त्वयाऽयं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तोन्तं प्राप्स्यसीति ।। ६५ ।।
शप्त्वा चैवं साऽग्निं प्रविवेश ।। ६६ ।।

नेति ॥ स्त्रीधर्मः सुरतम् ॥ ६३-६६ ॥

ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयंती तं स्मारयामास ।। ६७ ।।
ततः परमसौ स्त्रीभोगं तत्याज ।। ६८ ।।
वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयंत्यां गर्भाधानं चकार ।। ६९ ।।
यदा च सप्तवर्षाण्यसौ गर्भो न जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ।। ७० ।।
पुत्रश्चाजायत ।। ७१ ।।
तस्य चाश्मक इत्येव नामाभवत् ।। ७२ ।।
अश्मस्य मूलको नाम पुत्रोऽभवत् ।। ७३ ।।

तत इति ॥ स्मारयामास तं ब्राह्मण्याश्शापम् ॥ ६७-७३ ॥

योसौ निःक्षत्रे क्ष्मातलेऽस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरंति ।। ७४ ।।
मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ।। ७५ ।।
तस्माच्च खट्वांगः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ।। ७६ ।।
स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ।। ७७ ।।
यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ।। ७८ ।।
अनंतरं च तैरुक्तं एकमुहूर्त्तप्रमाणं तवायुरित्युक्तोऽथास्खलितगतिना विमानेन लघिम्ना युक्तो मर्त्यलोकमागम्येदमाह ।। ७९ ।।

य इति ॥ निःक्षत्रिये क्रियमाणे, जामदग्न्येनेति शेषः ॥ ७४-७९ ॥

यथा न ब्राह्मणेभ्यस्सकाशादात्माऽपि मे प्रियतरः, न च स्वधर्मोल्लंघनं मया कदाचिदप्यनुष्ठितं, न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वप्यच्युतव्यतिरेकवर्तिनी दृष्टिर्ममाभूत् तथा तमेव देव मुनिजनानुस्मृतं भगवंतमस्खलितगतिः प्रापयेयमित्यशेषदेवगुरौ भगवत्यनिर्द्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ।। ८० ।।

यथेति ॥ प्रापयेयम्, आत्मानमिति शेषः । प्रास्यामीति च पाठः । अनिर्देश्यवपुषि-समस्तविलक्षण-

सर्वाश्चर्यजगद्द्वीजशुभा श्रयमवपुषि, सत्तामात्रात्मनि – अपक्षयादिरहिततया यस्सदाऽस्तीति केवलमित्युक्ते परमात्मनि आत्मानं युयोज- ब्रह्मणे त्वा महसे यत्पुरुषेण हविषा अहमेवाहं मां जुहोमि स्वाहा इति च ॥ ८० ॥

अत्रापि श्रूयते श्लोको गीतः सप्तर्षिभिः पुरा ।
खट्वांगेन समो नान्यः कश्चिदुर्व्यां भविष्यति ।। ८१ ।।

येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् ।
त्रयोऽतिसंहिता लोका बुद्ध्या सत्येन चैव हि ।। ८२ ।।
खट्वांगाद्दीर्घबाहुः पुत्रोऽभवत् ।। ८३ ।।
ततो रघुरभवत् ।। ८४।।
तस्मादप्यजः ।। ८५ ।।
अजाद्दशरथः ।। ८६ ।।

येनेति ॥ त्रय इत्यादि । त्रयो लोकाः सात्विक्यांदिगतयः, अतिसंहिताः- अतीताः । अनुसंधिता:

इति पाठे आत्मसात्कृताः, विष्णौ लयात् । यद्वा त्रयो लोकात्र्यैलोक्यम, अभिसंहिताः- प्राप्ताः, सर्वविशिष्टः

परमात्मा हि मुक्तप्राप्यः, इमान् लोकान् कामान्नी कामरूप्यनुसंचरन् सर्वेषु लोकेषु कामनारो भवति

सर्व इ पश्यः पश्यति सर्वमाप्नोति सर्वशः  इत्यादेः । बुद्ध्या-ध्यानेन, सत्येन- तदुक्तत्रिविवशपथेन ।।८२-८६॥

तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांशेन रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वमायासीत् ।। ८७ ।।
रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ।। ८८ ।।
यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ।। ८९ ।।
सुबाहुप्रमुखांश्च क्षयमनयत् ।। ९० ।।
दर्शनमात्रेणैवाहल्यामपापां चकार ।। ९१ ।।
जनकगृहे च माहेश्वरं चापमनायासेन बभंज ।। ९२ ।।
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ।। ९३ ।।
सकलक्षत्त्रियक्षयकारिणमशेषहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ।। ९४ ।।
पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ।। ९५ ।।
विराधखरदूषणादीन् कबंधवालिनौ च निजघान ।। ९६ ।।
बद्धा चांभोनिधिमशेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंकामप्यनलप्रवेशशुद्धामशेषदेवसंघाः स्तूयमानशीलां जनकराजतनयामयोध्यामानिन्ये ।। ९७ ।।
ततस्तयोरभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते, संक्षेपेण श्रूयताम् ।। ९८ ।।
लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समु-त्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेन्द्राग्नियमनिर्ऋतिवरुणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसि-ष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिर्मु-निवरैः ऋग्यजुस्सामाथर्वैः संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्यैर्वीणावेणुमृदंगभेरीपटहशंखकाहलगोमुखप्रभृतिभिस्सुना-दैस्समस्त भूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेंद्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियस्सिंहासनगत एकादशाब्दसहस्राणि राज्यमकरोत् ।। ९९ ।।
भरतोऽपि गंधर्वविषयसाधनाय गच्छन् संग्रामे गंधर्वकोटीस्तिस्रो जघान ।। १०० ।।
शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता ।। १०१ ।।
इत्येवमाद्यतिबलपराक्रमविक्रमणैरतिदुष्टनिबर्हणादशेषस्यास्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः ।। १०२ ।।

तस्येति ॥ आयासीत् प्राप्तोभूत् ॥ ८७-१०२ ॥

येऽपि तेषु भगवदंशेष्वनुरागिणः कोसलनगरजानपदास्तेऽपि तन्मनसस्तत्सालोक्यतामवापुः ।। १०३ ।।
अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ, लक्ष्मणस्यांगदचंद्रकेतू, तक्षपुष्कलौ भरतस्य, सुबाहुशूरसेनौ शत्रुघ्नस्य ।। १०४ ।।
कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् ।। १०५ ।।
निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुंडरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभः तस्माच्छंखणस्तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे ।। १०६ ।।
तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेश्शिष्याद्याज्ञवल्क्याद्योगमवाय ।। १०७ ।।
हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततस्सुदर्शनस्तस्मादग्निवर्णः ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् ।। १०८ ।।
योऽसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति ।। १०९ ।।
आगामियुगे सूर्यवंशक्षत्रप्रवर्त्तयिता भविष्यति ।। ११० ।।
तस्यात्मजः प्रशुश्रुकस्तस्यापि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः ।। १११ ।।
तस्य बृहद्बलः योऽर्जुनतनयेनाभिमन्युना भारतयुद्धे क्षयमनीयत ।। ११२ ।।
एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः ।
एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ।। ११३ ।।

पठत्येषां तु चरितं यो वै श्रद्धासमन्वितः ।

सर्वान्कामानवाप्येह ह्यन्ते स्वर्गे महीयते ।।११४ ।।

य इति ॥ कोसलनगरेत्यादिना उच्यन्ते ॥ १०३-११४

इति श्रीविष्णुमहापुराणे चतुर्थांशेचतुर्थोऽध्यायः ४

चतुर्थांशेपञ्चमोऽध्यायः

श्रीपराशर उवाच

इक्ष्वाकुतनयो योऽसौ निमिर्नाम्ना, स तु सहस्रं वत्सरं सत्रमारेभ ।। १ ।।

वशिष्ठं च होतारं वरयामास ।। २ ।।

तमाह वशिष्ठः, अहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः ।। ३ ।।

तदनन्तरं च प्रतिपाल्यताम्, आगतस्तवापि ऋत्विक् भविष्यामि, इत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान् ।। ४ ।।

वशिष्ठोऽप्यनेन समन्वीच्छितमित्यमरपतेर्यागमकरोत् ।। ५ ।।
सोऽपि तत्काल एवान्यैर्गौतमादिभिर्यागमकरोत् ।। ६ ।।

समाप्ते चामरपतेर्यागे त्वरमाणो वशिष्ठो निमियज्ञं करिष्यामीत्याजगाम ।। ७ ।।

॥ १–७ ॥

तत्कर्म्मकर्त्तृत्वं च तत्र गौतमस्य दृष्ट्वा स्वपते स तस्मै राज्ञे मामप्रत्याख्यायैव तदनेन गौतमाय कर्म्मान्तरं समर्पितं यस्मात्, तस्मादयं विदेहो भविष्यातीति शापं ददौ ।। ८ ।।
प्रबुद्धश्वासाववनीपतिरपि प्राह ।। ९ ।।

यस्मान्मामसम्भाष्याजानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्वकार, तस्मात् तस्यापि देहः पतिष्यतीति प्रतिशापं दत्त्वा देहमत्यजत् ।। १० ।।

तत्कर्मेति कर्मान्तरं कर्मावकाशः ॥ ८-१० ।।

तच्छापाच्च मित्रावरुणयोस्तेजसि वशिष्ठतेजः प्रविष्टम् ।। ११ ।।

उर्व्वशीदर्शनादुद्भूतबीजप्रपातयोस्तयोः सकाशाद्वशिष्ठो देहमपरं लेभे ।। १२ ।।

तच्छापादिति ॥ तेजसि — वीर्ये वसिष्ठतेज:- लिंगशरीरम् । वसिष्ठचेत इति च पाठः ॥ ११, १२ ॥

निमेरपि तच्छरीरमतिमनोहरगंधतैलादिभरुप संस्क्रियमाणं नैव क्लेदादिकं दोषमवाप, सद्योमृतमिव तस्थौ ।। १३ ।।
यज्ञसमाप्तौ च भागग्रहणाय देवानागतान् ऋत्विज ऊचुः, यजमानाय वरो दीयतामिति ।। १४  ।।

निमेरिति ॥ मृतराजदेहस्थितिर्यज्ञसमाप्त्यर्था अराजकत्वपरिहारार्था च ॥ १३, १४ ॥

देवैशेच छन्दितोसो निमिराह ।। १५ ।।
भगवन्तोऽखिलसंसारदुः खहन्तारः ।। १६ ।।

न ह्येतावदृगन्यद्दुः खमस्ति, यच्छरीरात्मनोर्व्वियोगो भवति ।। १७ ।।

तदहमिच्छामि सकललोकलोचनेषु वस्तुम्, न पुनः शरीरग्रहणं कर्त्तुमित्येवमुक्तैर्देवैरसावशेष भूतानां नैत्रेष्ववतारितः ।। १८ ।।

ततो भूतान्युन्मेषनिमेषं चक्रुः ।। १९ ।।

अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयोऽरण्यां ममन्थुः ।। २० ।।
तत्र कुमारो जज्ञे ।। २१ ।।

देवेरिति ॥ छंदितः –प्रचोदितः ।। १५-२१ ।।

जननाञ्जनकसंज्ञां चावाप ।। २२ ।।

जननादिति ॥ जन्नात् आविर्भाव लक्षणाजननाज्जनकमंज्ञामवाप ॥ २२ ॥

अभूद्विदेहोऽस्य पितेति वैदेहो मथनान्मिथिरितिभू ।। २३ ।।

तस्योदावसुः पुत्रोऽभूत् ।। २४ ।।

उदावसोर्नन्दिवर्धनस्ततस्सुकेतुः तस्याद्देवरातः ततश्च बृहदुक्थः, तस्य च महावीर्य्यः, तस्यापि सत्यधृतिः ।। २५ ।।

ततश्व धृष्टकेतुरजायत ।। २६ ।।

धृष्टकेतोर्हर्य्यश्वस्तस्य च मरुः मरोः प्रतिकः तस्मात्कृतरथः तस्य देवमीढः तस्य च विबुधः विबुधस्य महाधृतिस्तस्य कृतरातः ततो महारोमा तस्य स्वर्णरोमा तत्पुत्रो ह्रस्वरोमा ह्रस्वरोम्णस्सीरध्वजोऽभवत् ।। २७ ।।

अभूदिति ॥ एवं वैदेहमिथिसंज्ञादयः ॥ २३-२७ ॥

तस्य पुत्रार्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ।। २८ ।।

सीरध्वजस्य भ्राता साङ्काश्याधिपतिः कुशध्वजनामासीत् ।। २९ ।।

सीरध्वजस्यापत्यं भानुमान् बानुमतः शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्ज्जनामा पुत्रो जज्ञे ।। ३० ।।

तस्यापि शतध्वजः ततः कुतिः कुतेरञ्जनः तत्पुत्रः पुरुजित् ततोऽरिष्टनेमिः तस्मात् श्रुतायुः श्रुतायुषः सुपार्श्वः तस्मात्सृञ्जयः ततः क्षेमावी  क्षेमाविनोनेनाःतस्माद्भौमरथः तस्य सत्यरथः तस्मादुपगुः उपगोरुपगुप्तः तत्पुत्रः स्वागतस्तस्य च स्वानंद तस्य च स्वापनः तस्माच्च सुवर्च्चाः तस्य च सुपार्श्वः तस्यापि सुभाषः तस्य सुश्रुतः तस्मात्सुश्रुज्जयः तस्य पुत्रो विजयः विजयस्य ऋतः ऋतात्सुनयः सुनयाद्वीतहव्यः, तस्मात् धृतिः धृतेर्बहुलाश्वः तस्य पुत्रः कृतिः ।। ३१ ।।

तस्येति ॥ सीरे हले ॥ २८-३१ ।।

कृतौ सन्तिष्ठत्यऽयं जनक-वंशः ।। ३२ ।।
इत्येते मैथिलाः ।। ३३ ।।

प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति ।। ३४ ।।

कृताविति ॥ संतिष्ठति-समाप्यते ॥ ३२-३४ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशोपञ्चमोऽध्यायः ५

चतुर्थांशेषष्ठोऽध्यायः

श्रीमैत्रेय उवाच

सूर्यस्य वंश्या भगवन्कथिता भवता मम ।

सोमस्याप्यखिलान्वंश्याञ्छ्रोतुमिच्छामि पार्थिवान् ॥ १ ।।

कीर्त्यते स्थिरकीर्तीनां येषामद्यापि सन्ततिः ।

प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि ॥ २ ।।

श्रीपराशर उवाच

श्रूयतां मुनिशार्दूल वंशः प्रथिततेजसः ।

सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन् ॥ ३ ।।

अयं हि वंशोऽतिबलपराक्रमद्युतिशीलचेष्टावद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृः तमहं कथयामि श्रूयताम् ॥ ४ ॥

अखिलजगत्स्त्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः ॥ ५ ॥

अत्रेस्सोमः ॥ ६ ॥

तं च भगवानब्जयोनिः अशेषौषधिद्विजनक्षत्राणामाधिपत्येऽभ्यवेचयत् ॥ ७ ॥

स च राजसूयमकरोत् ॥ ८

तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाचैनं मद आविवेश ॥ ९ ॥

मदावलेपाच्च सकलदेवगुरोर्बृहस्पतेस्तारां नाम पत्नीं जहार ॥ १० ॥

बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानः सकलैश्च देवर्षिभिर्याच्यमानोऽपि न मुमोच ॥ ११ ॥

कीर्त्यत इति ॥ अद्यापीत्यनेन पुराणोक्तवंशकालीनपरीक्षद्वंशप्रशंसा ॥ १-११॥

तस्य चन्द्रस्य च बृहस्पतेर्द्वेषादुशना पार्ष्णिग्राहोऽभूत् ॥ १२ ॥

तस्येति || पार्ष्णिप्राहः— अनुचरः, सहाय इति यावत् ॥ १२ ॥

अङ्गिरसश्च सकाशादुपलब्धविद्यो भगवान्रुवो बृहस्पतेः साहाय्यमकरोत् ।। १३ ।।

यतश्चोशना ततो जम्मकुम्भाद्याः नमस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः ॥ १४ ।।

अंगिरस इति ॥ रुद्रः बृहस्पतेः साहाय्यमकरोत्, बृहस्पते: आंगिरसत्वात् ॥ १३,१४ ॥

बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽभवत् ॥ १५ ॥

एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् ॥ १६ ॥

ततश्च समस्तशस्त्राण्यसुरेषु रुद्रपुरोगमा देवाः देवेषु चाशेषदानवा मुमुचुः ॥ १७ ॥

एवं देवासुराहवसंक्षोभक्षुब्धहृदयमशेषमेव जगद्ब्राह्माणं शरणं जगाम ॥ १८ ॥

ततश्च भगवानब्जयोनिरप्युशनसं शङ्करमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् ॥ १९ ॥

तां चान्तः प्रसवामवलोक्य बृहस्पतिरप्याह ॥ २० ॥

बृहस्पतेरिति ॥ शक्रोऽभवत्सदायः ॥ १५-२० ॥

नैव मम क्षेत्रे भवत्यान्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधाष्ट्येनेति ॥ २१ ॥

नेति । क्षेत्रे—बीजावापार्हे उदरे ॥ २१ ॥

सा च तेनैवमुक्ताऽतिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तम्बे गर्भमुत्ससर्ज ॥ २२ ॥

स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप ॥ २३ ॥

बृहस्पतिमिन्दुं च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवास्समुत्पन्नसन्देहास्तारां पप्रच्छुः ॥ २४ ।।

सत्यं कथयास्माकमिति सुधगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति ।। २५ ।।

एवं तैरुक्ता सा तारा हिया किञ्चिन्नोवाच ॥ २६ ॥

बहुशोऽप्यभिहिता यदासौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्मुमुद्यतः प्राह ॥ २७ ॥

दुष्टेऽम्ब कस्मान्मम तातं नाख्यासि ॥ २८ ॥

सेति ॥ अतिपतिव्रतेति पदेन गर्भो बलादाहित इति गम्यते । इषीका-काशः ॥ २२-२८ ॥

अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि ॥ २९ ॥

अद्येति ॥ अलीकलज्जा मिथ्यालज्जा ॥ २९ ॥

यथा च नैवमद्याप्यतिमन्थरवचना भविष्यसीति ॥ ३०

अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छतां ताराम् ॥ ३१ ॥

कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाऽऽह सोमस्येति ॥ ३२ ॥

ततः प्रस्फुरच्छ्वसितामलकपोलकान्तिर्भगवानुडुपतिः कुमारमालिङ्ग्य साधु साधु वत्स प्राज्ञोऽसीति बुध

इति तस्य च नाम चक्रे ॥ ३३ ॥

तदाख्यातमेवैतत् स च स्थेलायामात्मजं पुरूरवसमुत्पादयामास ॥ ३४ ॥

यथेति ॥ मंथरा–बक्रहृदया, स्तब्धा वा ॥ ३०-३४ ॥

पुरूरवास्त्वतिदानशीलोऽतियज्वाऽतितेजस्वी यं सत्यवादिनमतिरूपवन्तं मनस्विनं मित्रावरुणशापान्मानुषे

लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ॥ ३५ ॥

दृष्टमात्रे च तस्मिन्नपहाय मानमशेषमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे ॥ ३६ ॥

पुरूरवास्विति ॥ अतिरूपस्विनमिति —अतिरूपमेव स्वं धनं तदस्यास्तीति ॥ ३५, ३६ ॥

सोऽपि च तापति शयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलासहासादिगुणामवलोक्य तदायत चित्तवृत्तिर्बभूव ॥ ३७ ॥

स इति ॥ अतिशयिताः सकललोकस्त्रीणां कांत्यादिगुणाः यया ताम् । तथा च रूपके-मन्म-

थाप्यायितच्छाया शोभा कान्तिरुदाहृता । सौकुमार्यं मृदुत्वं च लावण्यं दीप्तिरुच्यते ॥ तात्कालिको विशेषस्तु

विलासोऽङ्गक्रियादिषु || इति ॥ ३७ ।।

उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् ॥ ३८ ॥

उभयमिति ॥ तन्मनस्कम् – उभयमनस्कं, परस्परमनस्कमित्यर्थः ॥ ३८ ॥

राजा तु प्रागल्भ्यात्तामाह ।। ३९ ।।

राजेते ॥ प्रागल्भ्यं निस्साध्वसत्वम् ॥ ३९ ॥

सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदानुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह ॥ ४० ॥

भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनरपि तामाह ॥ ४१ ॥

आख्याहि मे समयमिति ॥ ४२ ॥

अथ पृष्टा पुनरप्यब्रवीत् ॥ ४३ ॥

सुभ्विति । अनुरागमुद्वह, मयीति शेषः । लज्जाबखंडित-लज्जया मंथरं, सगद्गदमित्यर्थः ॥४०-४३॥

शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ॥ ४४ ॥

भवांश्च मया न नग्नो द्रष्टव्यः ॥ ४५ ॥

घृतमात्रं च ममाहार इति ॥ ४६॥

एवमेवेति भूपतिरप्याह ॥ ४७ ॥

तया सह स चावनिपतिरलकायां चैत्ररथादि वनेष्वमलपद्मखण्डेषु मानसादिसरस्स्वतिरमणीयेषु रममाणः एकषष्टिवर्षासहस्राण्यनुदिनप्रवर्द्धमान प्रमोदोऽनयत् ॥ ४८ ॥

उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्द्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार ॥ ४९ ॥

विना चोर्वश्या सुरलोकोऽप्सरसां सिद्ध गन्धर्वाणां च नातिरमणीयोऽभवत् ।। ५०

ततःचोर्वशीपुरूरवसोस्समयविद्विश्वावसुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ॥ ५१ ॥

तस्य चाकाशे नीयमानस्योर्वशी शब्दमशृणोत् ॥ ५२ ॥

एवमुवाच च ममा नाथायाः पुत्रः केनापह्रियते के शरणमुपयामीति ॥ ५३ ॥

तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ ॥ ५४ ॥

अथान्यमप्युरणक मादाय गन्धर्वा ययुः ॥ ५५ ॥

तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषाश्रयेत्यार्त्तराविणी बभूव ॥ ५६ ॥

राजाऽप्यमर्षवशादन्धकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोऽसीति व्याहरन्नभ्यधावत् ॥ ५७ ॥

तावच्च गन्धर्वैरप्यतीवोज्ज्वला विद्युजनिता ॥ ५८ ॥

शयनेति । उरणकः-मेषः ॥ ४४-५८ ॥

तत्प्रभया चोर्वशी राजानमपगताम्बरं दृष्टापवृत्तसमया तत्क्षणादेवापक्रान्ता ॥ ५९ ॥

परित्यज्य तावप्युरणकौ गन्धर्वास्सुरलोकमुपगता: ॥ ६० ॥

राजाऽपि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ॥ ६१ ॥

तां चापश्यन् व्यपगताम्बर एवोन्मत्तरूपो बभ्राम ।। ६२ ।।

कुरुक्षेत्रे चाम्भोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श ॥ ६३ ॥

तदिति । अपवृत्तसमया-निवृत्तसमया ॥ ५९-६३

ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि घोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् ॥ ६४ ॥

आह चोर्वशी ॥ ६५ ॥

महाराजालमनेनाविवेकचेष्टितेन ॥ ६६ ॥

अन्तर्वत्न्यहमब्दान्ते भवताऽत्रागन्तव्यं कुमारस्ते भविष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टस्स्वपुरं जगाम ॥ ६७ ॥

तासां चाप्सरसामुर्वशी कथयामास ॥ ६८ ॥

अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति ॥ ६९ ॥

एवमुक्तास्ताश्चाप्सरस ऊचुः ॥ ७० ॥

साधुसाध्वस्यरूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ॥ ७१ ॥

अब्दे च पूर्णे स राजा तत्राजगाम ॥ ७२ ॥

कुमारं चायुषमस्मै चोर्वशी ददौ ॥ ७३ ॥

दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप ॥ ७४ ॥

उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदास्संवृत्ताः व्रियतां च वर इति ॥ ७५ ॥

आह च राजा ।। ७६ ॥

विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशोऽस्मि, नान्यदस्माकमुर्वशीसालोक्याप्राप्तव्यमस्ति तदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वा राज्ञेऽग्निस्थाल ददुः ॥ ७७ ॥

ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशीसलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः, ततोऽवश्यमभिलषितमवाप्स्यसीत्युक्तस्तामग्नि स्थालीमादाय जगाम ॥ ७८ ॥

अन्तरटव्यामचिन्तयत्, अहो मेऽतीव मूढता किमहमकरवम् ॥ ७९ ॥

वह्निस्थाली मयैषाऽऽनीता नोर्वशीति ॥ ८० ॥

अथैनामटव्यामेवाग्रिस्थाली तत्याज स्वपुरं च जगाम ॥ ८१ ॥

व्यतीतेऽर्द्धरात्रे विनिद्रश्चाचिन्तयत् ॥ ८२ ।।

ममोर्वशीसालोक्यप्राप्त्यर्थमग्निस्थाली गन्धर्वेर्दत्ता सा च मयाऽटव्यां परित्यक्ता ॥ ८३ ॥

तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ॥ ८४ ॥

शमीगर्भ चाश्वत्थमग्निस्थालीस्थाने दृष्ट्वाचिन्तयत् ॥ ८५ ।।

मयाऽत्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत् ॥ ८६ ।।

तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरूपास्तिं करिष्यामीति ॥ ८७ ॥

एवमेव स्वपुरमभिगम्यारणिं चकार ।। ८८ ॥

तत्प्रमाणं चाङ्गुलैः कुर्वन् गायत्रीमपठत् ॥ ८९ ॥

ततश्चेति ॥ हे जाये मनसि घोरे तिष्ठ वचसि-मया वाङ्मिश्रणं कुरु । अनेन  अये जाये मनसा

तिष्ठ घोरै वचांसि मिश्रीकृणबावहे इत्याद्यष्टादशं च तयोस्संवादसूक्तं स्मारितम् ॥ ६४-८९ ॥

पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्यभवत् ॥ ९० ॥

तत्राग्निं निर्मथ्याग्नित्रयमानायासारी भूत्वा जुहाव ॥ ९१ ॥

उर्वशीसालोक्यं फलमभिसंधितवान् ॥ ९२ ॥

तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकानवाप्योर्वश्या सहावियोगमवाप ॥ ९३ ||

एकोऽग्निरादावभवत् एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥ ९४ ॥

पठत इति ॥ गायत्रीं पठतः अक्षरसंख्यानि-तदक्षरसंख्यान्यंगुलानि अरणिरभवत् । चतुर्विंशत्यंगुलारणिः कार्या इति विधिः || ९०-९४ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशेषष्ठोऽध्यायः ६

चतुर्थांऽशेसप्तमोऽध्यायः

श्रीपराशर उवाच

तस्याप्यायुर्धीमानमावसुर्विश्वावसुःश्रुतायुश्शतायुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन् ॥ १ ॥

॥ १ ।।

तथाऽमावसोर्भीमनामा पुत्रोऽभवत् ॥ २ ॥

भीमस्य काञ्चनः काञ्चनात्सुहोत्रः तस्यापि जह्रुः ॥ ३ ॥

योऽसौ यज्ञवाटमखिलं गङ्गाम्भसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलामेव गङ्गामपिबत् ॥ ४ ॥

अथैनं देवर्षयः प्रसादयामासुः ॥ २॥

दुहितृत्वे चास्य गङ्गामनयन् ॥ ६ ॥

जह्वोश्च सुमन्तुर्नाम पुत्रोऽभवत् ॥ ७ ॥

तस्याप्यजकस्ततो बलकाश्वस्तस्मात्कुशस्तस्यापि कुशाम्बकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ८ ॥

तेषां कुशाम्बः शक्रतुल्यो मे पुत्रो भवेदिति तपश्चकार ॥ ९ ॥

तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मतुल्यवीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ।। १० ॥

स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ ११ ॥

गाधिश्व सत्यवतीं कन्यामजनयत् ॥ १२ ॥

तां च भार्गव ऋचीको वव्रे ॥ १३ ॥

गाधिरप्यति रोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतश्श्याम कर्णानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ १४ ॥

तेनाप्यृषिणा वरुणसकाशादुपलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्त्रं दत्तम् ।। १५ ।।

ततस्तामृचीकः कन्यामुपयेमे ॥ १६ ॥

ऋचीकश्च तस्याश्चरुमपत्यार्थं चकार ॥ १७ ।।

तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरुमपरं साधयामास ॥ १८ ॥

एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्यगुपयोज्यः इत्युक्त्वा वनं जगाम ॥ १९ ॥

उपयोगकाले च तां माता सत्यवतीमाह ॥ २० ॥

तथेति । अल्पवात्प्रथमममावसोवंशोक्तिः, एवं नहुषस्याप्यनन्तराध्याये ।। २-२० ।।

पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ २१ ॥

अतोऽर्हसि ममात्मीयं चरुं दातुं मदीयं चरुमात्मनोपयोक्तुम् ॥ २२ ॥

मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसम्पदेत्युक्ता सा स्ववरुं मात्रे दत्तवती ॥ २३ ॥

अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ २४ ॥

आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥ २५ ॥

पुत्रीति ॥ आत्मजाया – आत्मनो भार्या ॥ २१-२५ ।।

नूनं त्वया त्वन्मातृसात्कृतश्चरुरुपयुक्तः न युक्तमेतत् ॥ २६ ॥

मया हि तत्र चरौ सकलैश्वर्यवीर्यशौर्यबलसम्पदारोपिता त्वदीयचरावप्यखिलशान्ति ज्ञानतितिक्षादिब्राह्मणगुणसम्पत् ॥ २७ ॥

नूनमिति ॥ मातृसात्कृतः – मातुस्संबंधी ॥ २६,२७ ॥

तच्च विपरीतं कुर्वन्त्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति, तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ २८ ॥

प्रणिपत्य चैनमाह ॥ २९ ॥

तच्चेति ॥ अस्त्रवारणम् – अस्त्रविद्यान्तगमनम् ॥ २८,२९. ॥

भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु, मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ३० ॥

एवमस्त्विति ॥ ३१ ॥

अनन्तरं च सा जमदग्रिमजीजनत् ॥ ३२ ॥

तन्माता च विश्वामित्रं जनयामास ॥ ३३ ॥

सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ३४ ॥

जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ३५ ॥

तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतस्सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ३६ ॥

भगवन्निति ॥ काममिति इच्छानुमतौ ॥ ३०-३६ ॥

विश्वामित्रपुत्रस्तु भार्गव एव शुनश्शेपो देवैर्दत्तः ततश्च देवरातनामाऽभवत् ।। ३७ ॥

ततश्चान्ये मधुच्छन्दोधनञ्जयकृतदेवाष्टककच्छपहरिताख्या विश्वामित्रपुत्रा बभूवुः ॥ ३८ ॥

विश्वामित्रेति ॥ भार्गव एवेति । जमदग्निसोदरत्वात् भार्गवः शुनश्शेषः । यथाह -ओर्वस्य ऋषिकस्यर्षेः सत्यवत्यां महायशाः । जमदग्निः सुतो विद्वाञ्जज्ञे वेदविदां वरः || मध्यमक्ष शुनश्शेष: इत्यादि ।

अयं च विश्वामित्रस्य स्वस्त्रीयः पुत्रवद्देवैर्दतत्वादेवरातः ॥ ३७, ३८ ॥

तेषां बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवन् । ३९ ।।

तेषामिति ॥ ऋष्यन्तरेध्विति ॥ ऋष्यन्तरेषु विवाह्याः – समानप्रवरेष्वविवाद्याः । इदं सर्वगोत्राणां

प्रायेण समानम् एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्यत्र त्वंगिरोगणात् ॥ इति सूत्रकारोक्तैः

॥ ३९ ॥

इति श्रीविष्णुपुराणे चतुर्थांऽशेसप्तमोऽध्यायः ७

चतुर्थांऽशे अष्टमोऽध्यायः

श्रीपराशर उवाच

पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोदुहितरमुपयेमे ॥ १ ॥

॥ १-५ ।।

तस्यां च पञ्च पुत्रानुत्पादयामास ॥ २ ॥

नहुष क्षत्रवृद्धरम्भरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत् ॥ ३ ॥

क्षत्रवृद्धात्सहोत्रः पुत्रोऽभवत् ॥ ४ ॥

काश्यकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥ ५ ॥

गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयिताऽभूत् ॥ ६ ॥

काश्यस्य काशेयः काशिराजः तस्माद्राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥ ७ ॥

धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥ ८ ॥

गृत्समदस्येति प्रवर्तयिता–जनकः ॥ ६-८ ॥

स हि संसिद्धकार्यकरणस्सकलसम्भूतिष्वशेषज्ञानविदा भगवता नारायणेन चातीतसम्भूतौ तस्मै वरो दत्तः ॥ ९ ॥

सहीति ॥ संसिद्धिकार्यकरण: वशीकृतप्रकृतिः, अजरदेहेन्द्रियो वा अतीतसंभूतौ-क्षीरोदा-

दुत्पत्तौ ॥ ९ ॥

काशिराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति ॥ १० ॥

तस्य च धन्वन्तरेः पुत्रः केतुमान् केतुमतो भीमरथस्तस्यापि दिवोदासस्तस्यापि प्रतर्दनः ॥ ११ ॥

स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत् ॥ १२ ॥

तेन च प्रीतिमताऽऽत्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् ॥ १३ ॥

सत्यपरतया ऋतध्वजसंज्ञामवाप ॥ १४ ॥

ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥ १५ ॥

तस्य च वत्सस्य पुत्रोऽलर्कनामाभवद् यस्यायमद्यापि श्लोको गीयते ॥ १६ ॥

षष्टिवर्षसहस्त्राणि षष्टिवर्षशतानि च ।

अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥ १७

तस्याप्यलर्कस्य सन्नतिनामाभवदात्मजः ।। १८ ।।

सन्नतेः सुनीथस्तस्यापि सुकेतुस्तस्माच्च धर्मकेतुर्जज्ञे ॥ १९ ॥

ततश्च सत्यकेतुः तस्माद्विभुः तत्तनयस्सुविभुः तश्च सुकुमारस्तस्यापि धृष्टकेतुः ततश्च वीतिबोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यप भूभृतः कथिताः ॥ २० ॥

रजेस्तु सन्ततिः श्रूयताम् ॥ २१ ॥

काशीराजेति ॥ अष्टधा–अष्टाङ्गम् | यथाह बाहुल: कायबालप्रहोर्ध्वाङ्गशल्यदंष्ट्राज-

राविषान् । अष्टाङ्गानि तस्याहुश्चिकित्सा येषु संस्थिता ॥ इति ।। १०-२१ ॥

इति श्रीविष्णुपुराणे चतुर्थेऽशे अष्टमोऽध्यायः ॥ ८

चतुर्थांऽशे अष्टमोऽध्यायः

श्रीपराशर उवाच

रजेस्तु पञ्च पुत्रशतान्यतुलबलपराक्रमसाराण्यासन् ॥ १ ॥

देवासुरसंग्रामारम्भे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्माणमुपेत्य पप्रच्छुः ॥ २ ॥

भगवन्नस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यतीति ॥ ३ ॥

अथाह भगवान् ॥ ४ ॥

येषामर्थे रजिरात्मात्तायुधो योत्स्यति तत्पक्षो जेतेति ॥ ५ ॥

अथ दैत्यैरुपेत्य रजिरात्मसाहाय्यदानायाभ्यर्थितः प्राह ॥ ६ ॥

योत्स्येऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामीति आकर्ण्यैतत्तैरभिहितम् ॥ ७ ॥

न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामोऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम इत्युक्त्वा गतेश्वसुरेषु देवैरप्यसाववनिपतिरेवमेवोक्तस्तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्विच्छितम् ॥ ८ ॥

रजिनाऽपि देवसैन्यसहायेनानेकैर्महास्त्र स्तदशेषमसुरबलं निषूदितम् ॥ ९ ॥

अथ जितारिपक्षश्च देवेन्द्रो रजिचरणयुगलमात्मनः शिरसा निपीड्याह ।। १० ।।

भयत्राणादन्नदानाद्भवानस्पत्पिताऽशेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः ॥ ११ ॥

स चापि राजा प्रहस्याह ॥ १२ ॥

रजेरिति । सारः-स्थैर्यम् ।। १-१२ ॥

एवमस्त्वेवमस्त्वनतिक्रमणीया हि वैरिपक्षादप्यनेकविधचाटुवाक्यगर्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम ।। १३ ॥

शतक्रतुरपीन्द्रत्वं चकार ॥ १४ ॥

एवमिति ॥ प्रणतिरनतिक्रमणीय प्रणतादाज्य न ग्राह्यमिति राजधर्मः ॥ १३,१४॥

स्वर्याति तु रजौ नारदर्शिचोदिता रजिपुत्राश्शतक्रतुमात्म पितृपुत्रं समाचाराद्राज्यं याचितवन्तः ॥ १५ ॥

अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः ।। १६ ।।

ततश्च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभाग: शतक्रतुरुवाच ॥ १७ ॥ बदरीफलमात्रमप्यर्हस ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच॥ १८ ॥

स्वर्यात इति ॥ आचारात्- पितृदायादन्यायात || १५-१८ ।।

यद्येवं त्वयाऽहं पूर्वमेव चोदितस्स्यां तन्मया त्वदर्थ किमकर्त्तव्यमित्यल्पैरेवाहोभिस्त्वां निजं पदं प्रापयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारकं बुद्धिमोहाय शक्रस्य तेजोऽभिवृद्धये जुहाव ॥ १९ ॥

ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखा बभूवुः ।।२० ॥

ततस्तानपेतधर्माचारानिन्द्रो बभूवुः जघान ।। २१ ॥

पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रमत् ॥ २२ ॥

एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंशं दौरात्म्यं च नाप्नोति ॥ २३ ॥

रम्भस्त्वनपत्योऽभवत् ॥ २४ ॥

पुरोधसाऽपि यजमानचोदितेनैव काम्यं कर्म कर्तव्यं न त्वन्यथा, तदिच्छाया अज्ञातत्वादित्यभि-

प्रेत्याह-यद्येवमिति ॥ १९-२४ ।।

क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥ २५ ॥

तत्पुत्रः सञ्जयः तस्यापि जयस्तस्यापि विजयस्तस्माच्च जज्ञे कृतः ॥ २६ ॥

तस्य च हर्यधनो हर्यधनसुतस्सहदेवस्तस्माददीनस्तस्य जयत्सेनस्ततश्च संस्कृतिस्तत्पुत्रः क्षत्रधर्मा इत्येते

क्षत्रवृद्धस्य वंश्याः ॥ २७ ॥

ततो नहुषवंशं प्रवक्ष्यामि ॥ २८ ॥

पूर्वं क्षत्रवृद्धात्सुहोत्रो गृत्समदाद् द्विजातिवंशकृदुक्त; इह तु प्रतिक्षत्रः क्षत्रैकवंशकृदुच्यते क्षत्रवृद्धसुतः

प्रतिक्षत्रोऽभवदित्यादिना ॥ २५-२८ ।।

इति श्रीविष्णुपुराणे चतुर्थेऽशे नवमोऽध्यायः ॥ ९

चतुर्थांशे दशमोऽध्यायः

श्रीपराशर उवाच

यतिययातिसंयात्यायातिवियातिकृतिसंज्ञा नहुषस्य षट्पुत्रा महाबलपराक्रमा बभूवुः  ॥ १ ॥

यतिस्तु राज्यं नैच्छत् ॥ २ ॥

ययातिस्तु भूभृदभवत् ॥ ३ ॥

उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं च शर्मिष्ठामुपयेमे  ॥ ४ ॥

अत्रानुवंशश्लोको भवति  ॥ ५ ॥

यदुं च दुर्वसुं चैव देवयानी व्यजायत  ।

द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी  ॥ ६ ॥

काव्यशापाच्चाकालेनैव ययातिर्जरामवाप  ॥ ७ ॥

प्रसन्नशुक्रवचनाच्च स्वजरां संक्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच  ॥ ८ ॥

वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यैवानुग्रहाद्भवतःसंचारयामि  ॥ ९ ॥

एकं वर्षसहस्रमतृप्तोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छमि  ॥ १० ॥

नात्र भवता प्रत्याख्यानं कर्तव्यमित्युक्तःस यदुर्नैच्छत्तां जरामादातुम्  ॥ ११ ॥

तं च पिता शशाप त्वत्प्रसूतिर्न राज्यार्हा भविष्यतीति  ॥ १२ ॥

अनन्तरं च दुर्वसुं द्रुह्यमनुं च पृथिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास  ॥ १३ ॥

तैरप्येकैकेन प्रत्याख्यातस्ताञ्छशाप  ॥ १४ ॥

अथ शर्मिष्ठातनयमशेषकनीयांसं पुरुं तथैवाह  ॥ १५ ॥

स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य महाप्रसादोयमस्माकमित्युदारमभिधाय जरां जग्राह  ॥ १६ ॥

स्वकीयं च यौवनं स्वपित्रे ददौ  ॥ १७ ॥

सोऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार  ॥ १८ ॥

सम्यक्च प्रजापालनमकरोत् ॥ १९ ॥

यदु मिति ॥ व्यजायत-असूत ॥ १-१९ ।।

विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनं तन्मनस्को बभूव  ॥ २० ॥

अनुदिनं चोपभोगतः कामानतिरम्यान्मेने  ॥ २१ ॥

ततश्चैनमगायत  ॥ २२ ॥

न जातु कामः कामानामुपभोगेन शाम्यति  ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते  ॥ २३ ॥

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः  ।

एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत् ॥ २४ ॥

विश्वाच्येति ॥ विश्वाची अप्सराः ।। २०-२४ ।।

यदा न कुरुते भावं सर्वभूतेषु पापकम्  ।

समदृष्टेस्तदा पुंसः सर्वाःसुखमया दिशः  ॥ २५ ॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः  ।

तां तृष्णां संत्यजेत्प्राज्ञःसुखेनैवाभिपूर्यते  ॥ २६ ॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः  ।

धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः  ॥ २७ ॥

पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः  ।

तथा प्यनुदिनं तृष्णा मम तेषूपजायते  ॥ २८ ॥

तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम्  ।

निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह  ॥ २९ ॥

श्रीपराशर उवाच

पुरोःसकाशादादाय जरां दत्त्वा च योवनम्  ।

राज्येऽभिषिच्च पूरुं च प्रययौ तपसे वनम्  ॥ ३० ॥

दिशि दक्षिणपूर्वस्यां दुर्वसुं च समादिशत् ।

प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम्  ॥ ३१ ॥

उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान्  ।

सर्वपृथ्वीपतिं पूरुं सोऽभिषिच्य वनं ययौ  ॥ ३२ ॥

यदेति ॥ पापकं रागद्वेषादि । २५-३२ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशे दशमोऽध्यायः (१०)

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.