श्रीविष्णुपुराणम् Amsa 05 Ady 31-38

श्रीविष्णुपुराणम्

अथ पञ्चमांशे एकत्रिंशोऽध्यायः

श्रीपराशर उवाच

संस्तुतो भगवानित्थं देवराजेन केशवः ।

प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥

संस्तुत इति । भावगंभीरं – सूचितार्थगहनम् ॥ १ ॥

श्रीकृष्ण उवाच

देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।

क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥

पारिजाततरुश्चायं नीयतामुचितास्पदम् ।

गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥

देवराज इति ॥ अपराधकृतं – कृतापराधमित्यर्थः ॥ २, ३ ॥

वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया ।

तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ४ ॥

वज्रं चेति ॥ तवैव योग्यमिति शेषः ॥ ४॥

इन्द्र उवाच

विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।

जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ५ ॥

विमोहयसीति ।। नैव सूक्ष्मविदः सूक्ष्मरूपं न विद्मः ॥ ५ ॥

योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः ।

जगतः शल्यनिष्कर्षं करोष्यमुरसूदन ॥ ६ ॥

नीयतां पारीजातोऽयं कृष्ण द्वारवतींपुरीम् ।

मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ७ ॥

देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।

शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ ८ ॥

य इति ॥ शल्यनिष्कर्षं – कंटकोद्धारम् ॥ ६ – ८ ॥

श्रीपराशर उवाच

तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।

प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ९ ॥

ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।

हर्षमुत्पादयामास द्वारकावासिनां द्विज ॥ १० ॥

अवतीर्याथ गरुडात्सत्यभामा सहायवान् ।

निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ११ ॥

यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।

वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ १२ ॥

तथेति ॥ प्रसक्तैः – अनुबद्वैः ॥ ९ – १२ ॥

ततस्ते यादवाःसर्वे देहबन्धानमानुषान् ।

ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ १३ ॥

किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ।

विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ १४ ॥

तत इति ॥ मुखदर्शनम्——अभिमुखदर्शनम् । अमानुषान्– प्राचीनान् । ददृशुः—ज्ञातवन्तः ॥ १३, १४ ॥

कन्याश्च कृष्णे जग्राह नरकस्य परिग्रहान् ॥ १५ ॥

ततः काले शुभे प्राप्ते उपयेमे जनार्दनः ।

ताः कन्या नरकेणासन्सर्वतो यास्समाहृताः ॥ १६ ॥

एकस्मिन्नेव गोविन्दः काले तासां महामुने ।

जग्राह विधिवत्पाणीन्पृथग्गेहेषु धर्मतः ॥ १७ ॥

षोडशस्त्रीसहस्राणि शतमेकं ततोऽधिकम् ।

तावन्ति चक्रे रूपाणि भगवान्मधुसूदनः ॥ १८ ॥

एकैकमेव ताः कन्या मेनिरे मधुसूदनः ।

ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ १९ ॥

निशासु च जगत्स्रष्टा तासां गेहेषु केशवः ।

उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ २० ॥

कन्याश्चेति ॥ परिग्रहान्– स्वभूतान् ॥ १५ – २० ।।

इति श्रीविष्णुमहापुराणे पञ्चमांश एकत्रिंशोऽध्यायः ।। ३१ ।।

अथ पञ्चमांशे द्वात्रिंशोऽध्यायः

श्रीपराशर उवाच

प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथितास्तव ।

भानुभौमेरिकाद्यंश्च सत्यभामा व्यजायत ॥ १ ॥

दीप्तिमत्ताम्रपक्षाद्या रोहिण्यां कथिता हरेः ।

बभूवुर्जाम्बवत्यां च सांबाद्या बाहुशालिनः ॥ २ ॥

।। १, २ ॥

तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।

संग्रामजित्प्रधानास्तु शैब्यायां च हरेस्सुताः ॥ ३ ॥

वृकाद्याश्च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान् ।

अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ ४ ॥

तनया इति ॥ अत्राष्टप्रधान महिषीमध्ये शैव्यानुप्रवेशः प्रख्यातपुत्रवती प्रस्तावात् ॥ ३ – ४ ॥

अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।

अष्टायुतानि पुत्राणां सहस्राणी शतं तथा ॥ ५ ॥

प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ।

प्रद्युम्नादनिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥ ६ ॥

अन्यासां चेति ॥ अत्र अयुतसहस्रशतशब्दैः प्रत्येकमष्टशब्दः संबध्यते ॥ ५, ६ ॥

अनिरुद्धो रणेऽरुद्धो बलेः पौत्रीं महाबलः ।

उषां बाणस्य तनयामुपयेमे द्विजोत्तम ॥ ७ ॥

यत्र युद्धमभूद्धोरं हरिशङ्करयोर्महत् ।

छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ ८ ॥

मैत्रेय उवाच

कथं युद्दमभूद्ब्रह्यन्नुषार्थे हरकृष्णयोः ।

कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ ९ ॥

एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि ।

महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ १० ॥

अनिरुद्ध इति ॥ रणेरुद्ध इत्यत्र अरुद्ध इति पदच्छेदः ॥ ७ – १० ॥

श्रीपराशर उवाच

संस्तुतो भगवानित्थं देवराजेन केशवः ।

प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ ११ ॥

संस्तुत इति ।। भावगंभीरं–सूचितार्थगहनम् ॥ ११ ॥

श्रीकृष्ण उवाच

देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।

क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ १२ ॥

पारिजाततरुश्चायं नीयतामुचितास्पदम् ।

गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ १३ ॥

देवराज इति ॥ अपराधकृतं कृतापराधमित्यर्थः ॥ १२ १३ ॥

वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया ।

तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ १४ ॥

वज्रं चेति ।। तवैव योग्यमिति शेषः ॥ १४ ॥

इन्द्र उवाच

विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।

जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ १५ ॥

विमोहयसीति ॥ नैव सूक्ष्मविदः सूक्ष्मरूपं न विद्मः ॥ १५ ॥

योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः ।

जगतः शल्यनिष्कर्षं करोष्यमुरसूदन ॥ १६ ॥

नीयतां पारीजातोऽयं कृष्ण द्वारवतींपुरीम् ।

मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ १७ ॥

देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।

शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ १८ ॥

य इति ॥ शल्यनिष्कर्षं – कंटकोद्धारम् ॥ १६ – १८ ॥

श्रीपराशर उवाच

तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।

प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ १९ ॥

ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।

हर्षमुत्पादयामास द्वारकावासिनां द्विज ॥ २० ॥

अवतीर्याथ गरुडात्सत्यभामा सहायवान् ।

निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ २१ ॥

यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।

वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ २२ ॥

तथेति ॥ प्रसक्तैः – अनुबद्धैः ॥ १९ – २२ ॥

ततस्ते यादवाःसर्वे देहबन्धानमानुषान् ।

ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ २३ ॥

किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ।

विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ २४ ॥

तत इति ॥ मुखदर्शनम् अभिमुखदर्शनम् । अमानुषान् – प्राचीनान् । ददृशुः – ज्ञातवान्तः ॥ २३, २४ ॥

दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज ।

दृष्ट्याऽत्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ २५ ॥

दृष्टमात्र इति ।। स्वप्नलब्धे कान्ते दृटमांत्रे तस्मिन् रागाधिक्याल्लज्जा निराकृता ॥ २५ ॥

सोऽयंसोऽयमितीत्युक्ते तया सा योगगामिनी ।

चित्रलेखाऽब्रजीदेनामुषां बाणसुरां तदा ॥ २६ ॥

चित्रलेखोवाच

अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः ।

अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ २७ ॥

प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् ।

दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ २८ ॥

तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि ।

रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ २९ ॥

अचिरादागमिष्यामि सहस्व विरहं मम ।

ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ ३० ॥

सोऽयमिति ॥ सोऽयंसोऽयमिति प्रत्यभिज्ञाविस्मयाभ्यां वीत्सा । योगगामिनी –  योगविद्यया गगन गामिनी ॥ २६ – ३० ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वात्रिंशोऽध्यायः ।। ३२ ।।

अथ पञ्चमांशे त्रयस्त्रिंशोऽध्यायः

श्रीपराशर उवाच

बाणोऽपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम् ।

देव बाहुसहस्रेण निर्विण्णोऽस्म्याहवं विना ॥ १ ॥

बाण इति ।। अग्रे—अनिरुद्धवृत्तान्तात्प्राक् ॥ १ ॥

कच्चिन्ममैषां बाहूनां साफल्यजनको रणः ।

भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २ ॥

श्रीशङ्कर उवाच

मयूरध्वजभङ्गस्ते यदा बाणा भविष्यति ।

पिशिताशिजनानन्दं प्रप्स्यसे त्वं तदा रणम् ॥ ३ ॥

कच्चिदिति ॥ भाराय जातैः किं भुजैः ॥ २ – ३॥

श्रीपराशर उवाच

ततः प्रणम्य वरदं शंभुमभ्यागतो गृहम् ।

स भग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ॥ ४ ॥

एतस्मिन्नेव काले तु योगविद्याबलेन तम् ।

अनिरुद्धमथानिन्ये चित्रलेखा वराऽप्सराः ॥ ५ ॥

कन्यान्तःपुरमभ्येत्य रममाणं सहोषया ।

विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपते ॥ ६ ॥

व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना ।

जघान परिघं घोरमादाय परवीरहा ॥ ७ ॥

हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः ।

युध्यमानो यथाशक्ति यदुवीरेण निर्जितः ॥ ८ ॥

मायया युयुधे तेन स तदा मन्त्रिचोदितः ।

ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ ९ ॥

तत इति ।। देववचनात् दृष्ट: ध्वजभङ्गदर्शनाद्धान्तरं ययौ ।। ४–९ ।।

द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् ।

यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ १० ॥

द्वारवत्यामिति ॥ अनिरुद्धेत्यार्षः संधिः ॥ १० ॥

तं शोशितपुरं नीतं श्रुत्वा विद्याविदग्धया ।

योषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ॥ ११ ॥

ततो गरुडमारुह्य स्मृतमात्रागतं हरिः ।

बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ १२ ॥

पुरप्रवेशे प्रमथैर्युद्धमासीन्महात्मनः ।

ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः ॥ १३ ॥

ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।

बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना ॥ १४ ॥

तमिति ॥ नामरैरिति । पारिजातनिमित्तं बद्ध – रैरमरेर निरुद्धो हृतस्स्यादिति शङ्का हरिवंशोक्ता ॥ ११ – १४ ॥

तद्भस्मस्पर्शसंभूततापः कृष्णाङ्गसंगमात्।

अवाप बलदेवोऽपि श्रममामीलितेक्षणः ॥ १५ ॥

तद्भस्मेति ॥ तापः कृष्णांगसंगमात्, अवाप बलदेवोऽपि श्रममामीलितेक्षणः इति पाठः । तापः कृष्णांगसंगमात् शममिति पाठे अपिशब्दों न संगतः ।। १५ ।।

ततःस युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा ।

वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ १६ ॥

नारायणभुजाघातपरिपीडनविह्वलम् ।

तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ १७ ॥

तत इति ॥ कृष्णस्पर्शी ज्वरो वैष्णवेन ज्वरेण कृष्णदेहान्निराकृतः ॥ १६, १७ ॥

ततश्च क्षान्तमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम् ।

आत्मन्येव लयं निन्ये भगवान्मधुसूदनः ॥ १८ ॥

ततश्चेति ॥ लयं— सौक्ष्म्यं, न नाशम् । युवां ज्वरो ज्वरपती पीडायां मारणे प्रभू । पीडायां भवानस्तु मारणे मामको ज्वरः ॥ इति हरिवंशे भगवदुक्तेः ॥ १८ ॥

ज्वर उवाच

मम त्वया समं युद्धं ये स्मरीष्यन्ति मानवाः ।

विज्वरास्ते भविष्यन्ती त्युक्त्वा चैनं ययौ ज्वरः ॥ १९ ॥

ममेति ॥ मम त्वयेत्यनेन कृष्णज्वरयुद्धस्मरणं ज्वरशान्तिकरमुक्तम । अत्र मन्त्ररूपं श्लोकांतरम् आद्यन्तवन्तः कवय इत्यादि । आद्यन्तवन्तः जगतामाद्यन्तकर्तारः ॥ १९ ।।

ततोऽग्नीन्भगवान्पञ्च जित्वा नीत्वा तथा क्षयम् ।

दानवानां बलं कृष्णश्चूर्णयामास लीलया ॥ २० ॥

ततःसमस्तसैन्येन दैतेयानां बलेःसुतः ।

युयुधे शङ्करश्चैव कार्त्तिकेयश्च शौरिणा ॥ २१ ॥

हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् ।

चुक्षुभुःसकला लोकाः शस्त्रास्त्रांशुप्रतापितिः ॥ २२ ॥

प्रलयोऽयमशेषस्य जगतो नूनमागतः ।

मेनिरे त्रिदशास्तत्र वर्तमाने महारणे ॥ २३ ॥

जृंभकास्त्रेण गोविन्दो जृंभयामास शङ्करम् ।

ततः प्रणेशुर्दैतेयाः प्रमथाश्च समन्ततः ॥ २४ ॥

तत इति ॥ आद्यन्तवत: –  आद्यन्तकर्तृन् अग्नीन्– पुररक्षकान् रुद्रानुवरान् ॥ २० – २४ ॥

जृंभाभिभूतस्तु हरो रथोपस्थ उपाविशत् ।

न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २५ ॥

गरुडक्षतवाहश्च प्रद्युम्नास्त्रेण पीडितः ।

कृष्णहुङ्कारनिर्धूतशक्तिश्चापययौ गुहः ॥ २६ ॥

जृंभिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते ।

नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ २७ ॥

नन्दिना संगृहीताश्वमधिरूढो महारथम् ।

बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २८ ॥

जृम्भेति ॥ जृम्भो गात्रपारवश्यम् ॥ २५ – २८ ॥

बलभद्रो महावीर्यो बाणसैन्यमनेकधा ।

विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत ॥ २९ ॥

बलभद्र इति ॥ प्रभ्रश्येति । धर्मतः— युद्धधर्मात् प्रभ्रश्यापलायत ॥ २९ ॥

आकृष्य लाङ्गलाग्रेण मुकलेनाशु ताडितम् ।

बलं बलेन ददृशे बाणो बाणैश्च चक्रिणा ॥ ३० ॥

ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ॥ ३१ ॥

आकृष्येति ॥ बलेन चक्रिणा मुसलेन बाणैश्च पीडितं स्वचलं बाणो ददर्शेत्यन्वयः ॥ ३०, ३१ ॥

समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः ।

कृष्णश्चिच्छेद बाणैस्तान् बाणेन प्रहिताञ्छितान् ।

विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ॥ ३२ ॥

मुमुचाते तथाऽस्त्राणि बाणकृष्णौ जिगीषया ।

परस्परक्षतिकरौ लाघवादनिशं द्विज ॥ ३३ ॥

समस्यतोरिति ।। समस्यतो: कृष्णबाणर्योर्मध्ये कृष्णः बाणप्रहितान् तान् बाणांश्चिच्छेद ॥ ३२, ३३ ॥

भिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति ।

प्राचुर्येण ततो बाणं हन्तुं चक्रे हरिर्मनः ॥ ३४ ॥

ततोऽर्कशतसंघाततेजसा सदृशद्युति ।

जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ ३५ ॥

मिद्यमानेष्विति ॥ प्राचुर्येणास्त्रे व सीदति ॥ ३४, ३५ ॥

मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः ।

नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ ३६ ॥

तामग्रतो हरिर्दृष्ट्वा मीलिताक्षःसुदर्शनम् ।

मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ॥ ३७ ॥

मुञ्चत इति ॥ कोटरी विद्यारूपा दैतेयकुलदेवता गोर्याश्शक्तिः । तथा माथुरे हरिवंशे दिग्वासा देववचनात्प्रातिष्ठत्तत्र कोटरी लंवमाना महाभागा गौरीदेव्यास्तथाऽष्टमी ” इति । गोमंतद्धरिवंशे च शशाप चैनां भगवान्यश्च मां भक्तिसंयुतः । द्वादशाब्दं नमस्कुर्यात्तेना भूद्यत्फलं महत् ॥ त्वन्नमस्करणात्तस्य तत्सर्वं नश्यतां तदा । सदा दिगंबरा भूयास्तिष्ठ वा गच्छ वाऽग्रतः ॥ इति ॥ ३६, ३७ ॥

क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् ।

छेदं चक्रेऽसुरापास्तशस्त्रौ घक्षपणादृतम् ॥ ३८ ॥

छिन्ने बाहुवने तत्तु करस्थं मधुसूदनः ।

मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ ३९ ॥

समुपेत्याह गोविन्दं सामपूर्वमुमापतिः ।

विलोक्य बामं दोर्दण्डच्छेदासृक्स्राववर्षिणम् ॥ ४० ॥

शङ्कर उवाच

कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् ।

परेशं परमात्मानमनादिनिधनं हरिम् ॥ ४१ ॥

क्रमेणेति ।। असुरेति । असुरक्षिप्तशस्त्रौघक्षपणे आदृतम् ।। ३८ – ४१ ।।

देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।

लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ ४२ ॥

तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।

तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ॥ ४३ ॥

अस्मत्संश्रयदृप्तोऽयं नापराधी तवाव्यय ।

मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ ४४ ॥

श्रीपराशर उवाच

इत्युक्तः प्राह गोविदः शुलपाणिमुमापतिम् ।

प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ ४५ ॥

श्रीभगवानुवाच

युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर ।

त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ ४६ ॥

देवेति ।। देवतिर्यङ्मनुष्येषु मध्ये देवादिशरीरग्रहणात्मिका तत्तच्चेष्टा विशिष्ट। तव लीलेयम् ॥ ४२ – ४६ ।।

त्वया यदभयं दत्तं तद्दत्तमखिलं मया ।

मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ ४७ ॥

योऽहं स त्वं जगच्चेदं सदेवासुरमानुषम् ।

मत्तो नान्यदशेषं यत्तत्त्वञ्ज्ञातुमिहार्हसि ॥ ४८ ॥

त्वयेति ॥ मत्तोविभिन्नमात्मानमित्यत्र अविभिन्नमिति च्छेदः । योऽहं स त्वमितिवत् जगच्चेदं सदेवा – सुरमानुषंमित्युक्तत्वात् इतर क्षेत्रज्ञवदस्य ब्रह्मात्मकत्वेनैक्यमुच्यते, न तु स्वरूपतः ॥ ४७ – ४८ ॥

अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ।

वदन्ति भेदं पश्यन्ति चावयोरन्तरं हर ॥ ४९ ॥

प्रसन्नोऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ॥ ५० ॥

श्रीपराशर उवाच

इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति ।

तद्बन्धफणिनो नेशुर्गरुडानिलपोथिताः ॥ ५१ ॥

ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति ।

आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥ ५२ ॥

पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः ।

देवीभिः सततं विप्र भूभारतरणेच्छया ॥ ५३ ॥

अविद्येति ॥ भिन्नदर्शिन: –  अब्रह्मात्मकत्वेन भिन्नदर्शिनः ॥ ४९ – ५३ ।।

इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।

अथ पञ्चमांशे चतुस्त्रिंशोऽध्यायः

मैत्रेय उवाच

चक्रे कर्म महच्छौरिर्बिभ्राणो मानुषीं तनुम् ।

जिगाय शक्रं शर्वं च सर्वान्देवांश्च लीलया ॥ १ ॥

॥ १ ॥

यच्चान्यदकरोत्कर्म दिव्यचेष्टाविघातकृत् ।

तत्कथ्यतां महाभाग परं कौतूहलं हि मे ॥ २ ॥

श्रीपराशर उवाच

गदतो मम विप्रर्षे श्रूयतामिदमादरात् ।

नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ ३ ॥

यच्चान्यदकरोदिति । दिव्यचेष्टाविघातकृत् – दिव्यानां शर्वादीनां चेष्टांविघातकृत् ॥ २ – ३ ॥

पौण्ड्रको वासुदेवस्तु वासुदेवोऽभवद्भुवि ।

अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ ४ ॥

पौंड्रक इति । पौण्ड्क:–पुण्ड्रदेशेशः ॥ ४ ॥

स मेने वासुदेवोऽहमवतीर्णो महीतले ।

नष्टस्मृतिस्ततःसर्वं विष्णुचिह्नमचीकरत् ॥ ५ ॥

स इति ॥ अचीकरत् — अकारयत् ॥ ५ ॥

दूतं च प्रेषयामास कृष्णाय सुमहात्मने ।

त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः ॥ ६ ॥

वासुदेवात्मकं मूढ त्यक्त्वा सर्वमशेषतः ।

आत्मनो जीवितार्थाय ततो मे प्रणति व्रज ॥ ७ ॥

इत्युक्तःसंप्रहस्यैनं दूतं प्राह जनार्दनः ।

निजचिह्नमहं चक्रं समुत्सृक्ष्ये त्वयीति वै ॥ ८ ॥

वाच्यश्च पैण्ड्रको गत्वा त्वया दूत वचो मम ।

ज्ञातस्त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम् ॥ ९ ॥

गृहीतचिह्नवेषोहमागमिष्यामि ते पुरम् ।

उत्स्रक्ष्यामि च तच्चक्रं निजचिह्नमसंशयम् ॥ १० ॥

आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ।

संपादयिष्ये श्वस्तुभ्यं समागम्याविलंबितम् ॥ ११ ॥

दूतं चेति ॥ इत्युक्त्तवा दूतं च प्रेषयामासेति, इत्युक्तो दूतेनोक्त इति तंत्रेणेतिशब्दो योज्यः ॥ ६ – ११ ॥

शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।

यथा त्वत्तो भयं भूयो न मे किञ्चिद्भविष्यति ॥ १२ ॥

इत्युक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः ।

गरुत्मन्तमथारुह्य त्वरितस्तत्पुरं ययौ ॥ १३ ॥

ततस्तु केशवोद्योगं श्रुत्वा काशीपतिस्तदा ।

सर्वसैन्यपरीवारः पार्ष्णिग्राह उपाययौ ॥ १४ ॥

ततो बलेन महता काशीराजबलेन च ।

पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥ १५ ॥

तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् ।

चक्रहस्तं गदाशार्ङ्गबाहुं पाणिगतांबुजम् ॥ १६ ॥

शरणमिति ॥ शरणमित्यादि प्रणतिं व्रजेत्यस्योत्तरम् । समभ्येत्य ते शरणं – हिंसां कर्तास्मि; शीर्णाद्धि शत्रोर्न भूयो भयं भवेदिति भावगर्भम् ॥ १२ – १६ ॥

स्रग्धरं पीतवसनं सुपर्मरचितध्वजम् ।

वक्षस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः ॥ १७ ॥

स्रग्धरमिति ।। सुपर्णरचितध्वजं – सुपर्णरचनोपेतध्वजम् ॥ १७ ॥

किरीटकुण्डलधरं नानारत्नोपशोभितम् ।

तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥ १८ ॥

किरीटेति ॥ कृत्रिममपि मत्सारूप्यं सत्यमिव भातीति भावगम्भीरं जहास ॥ १८ ॥

युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज ।

निस्त्रिंशासिगदाशूलशक्तिकार्मुकशालिना ॥ १९ ॥

क्षणेन शार्ङ्गनिर्मुक्तैः शरैररिविदारणैः ।

गदाचक्रनिपातैश्च सूदयामास तद्बलम् ॥ २० ॥

काशीराजबलं चैवं क्षयं नीत्वा जनार्दनः ।

उवाच पैण्ड्रकं मूढमात्मचिह्नोपलक्षितम् ॥ २१ ॥

श्रीभगवानुवाच

पौण्ड्रकोक्तं त्वया यत्तु दूतवक्त्रेण मां प्रति ।

समुत्सृजेति चिह्नानि तत्ते संपादयाम्यहम् ॥ २२ ॥

चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता ।

गरुत्मानेष चोत्सृष्टःसमारोहतु ते ध्वजम् ॥ २३ ॥

युयुध इति ॥ हस्त्यश्वबलिना – हस्त्यश्वैर्बलवता ।। १९ – २३ ।।

श्रीपराशर उवाच

इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।

पातितो गदया भग्नो ध्वजश्चास्य गरुत्मता ॥ २४ ॥

इत्युच्चार्येति ।। चक्रेण विदारितः, गदया पातितः ॥ २४ ॥

ततो हाहाकृते लोके काशीपुर्यधिपो बली ।

युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २५ ॥

ततः शार्ङ्गधनुर्मुक्तैश्छित्त्वा तस्य शिरः शरैः ।

काशीपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ २६ ॥

हत्वा त पौड्रकं शौरि काशीराजं च सानुगम् ।

पुनर्द्वारवतीं प्राप्तो रेमे स्वर्गगतो यथा ॥ २७ ॥

तच्छिरः पतितं तत्र दृष्ट्वा काशीपतेः पुरे ।

जनः किमेतदित्याह च्छिन्नं केनेति विस्मितः ॥ २८ ॥

ज्ञात्वां तं वासुदेवेन हतं तस्य सुतस्ततः ।

पुरोहितेन सहितस्तोषयामास शङ्करम् ॥ २९ ॥

अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः ।

वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ ३० ॥

तत इति ॥ अपचितिः – पूजा ॥ २५ – ३० ॥

स वव्रे भगवन्कृत्या पितृहन्तुर्वधाय मे ।

समुतिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ ३१ ॥

स वव्र इत्यादि ॥ पितृहन्तुः –  जायमानो मातुरागर्भो हन्तीत्यादिमन्त्रलिङ्गात्, पित्रोररण्यो –  र्हन्तुरग्नेः – कृष्णस्य–कृष्णवर्णज्वालत्वेनाभिचारे ध्येयस्य मे – मदीयस्य शत्रों: नाशाय कृत्या समुत्तिष्ठत्वित्यर्थः । अनन्तरमेतद्वि – वृणोति—तस्यैवाग्निर्विनाशनीति । यद्वा मे पितृहन्तुः कृष्णस्य वधाय कृत्या समुत्तिष्ठत्विति ॥ ३१ ॥

श्रीपराशर उवाच

एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् ।

महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विनाशनी ॥ ३२ ॥

ततो ज्वालाकरालास्या ज्वलत्केशकपालिका ।

कृष्णकृष्णेति कुपिता कृत्या द्वारवरीं ययौ ॥ ३३ ॥

तामवेक्ष्य जनस्त्रासाद्विचलल्लोचनो मुने ।

ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ ३४ ॥

काशीराजसुतेनेयमाराध्य वृषभध्वजम् ।

उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ॥ ३५ ॥

एवं भविष्यतीति ॥ तस्यैतवाग्नेर्विनाशिनीति । तस्य दक्षिणाग्नेरेव विनाशिनीति । अनेन कृत्यायाः क्रौर्यमुच्यते। तस्यैवात्मविनाशिनीति पाठे, तस्यैव – अभिचरत एव ॥ ३२ – ३५ ॥

जहि कृत्यामिमामुग्रां वह्निज्वालाजटालकाम् ।

चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया ॥ ३६ ॥

तदग्निमालाजटिलज्वालोद्गारातिभीषणाम् ।

कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् ॥ ३७ ॥

जहीति ॥ जहीत्युत्सृष्टं चक्रम् अक्षक्रीडासक्तेन भगवता ॥ ३६, ३७ ॥

चक्रप्रतापनिर्दग्धा कृत्या माहेश्वरी तदा ।

ननाश वेगिनी वेगात्तदप्यनुजगाम ताम् ॥ ३८ ॥

कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ।

विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तम ॥ ३९ ॥

ततः काशीबलं भूरि प्रमथानां तथा बलम् ।

समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ॥ ४० ॥

शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद्बलमोजसा ।

कृत्यागर्भामशेषां तां तदा वाराणसीं पुरीम् ॥ ४१ ॥

सभूभृद्भृत्यपौरां तु साश्वमातङ्गमानवाम् ।

अशेषगोष्ठकोशां तां दुर्निरिक्ष्यां सुरैरपि ॥ ४२ ॥

ज्वालापरिष्कृताशेषगृहप्राकारचत्वराम् ।

ददाह तद्धरेश्चक्रं सकलामेव तां पुरीम् ॥ ४३ ॥

अक्षीणामर्षमत्युग्रं साध्यसाधनसस्पृहम् ।

तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ ४४ ॥

चक्रप्रतापेति ॥ ननाश – पलायांबभूव नाश: पलायने मृत्यौ इति वैजयन्ती ॥ ३८ – ४४ ॥ ३

इति श्रीविष्णुमहापुराणे पञ्जमांशे चतुस्त्रिंशोऽध्यायः ।। ३४ ।।

अथ पञचमांशे पञ्चत्रिंशोऽध्यायः

मैत्रेय उवाच

भूय एवाहमिच्छामि बलभद्रस्य धीमतः ।

श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि ॥ १ ॥

यमुनाकर्षणादीनि श्रुतानि भगवन्मया ।

तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ २ ॥

श्रीपराशर उवाच

मैत्रेय श्रुयतां कर्म यद्रामेणाभवत्कृतम् ।

अनन्तेनाप्रमेयेन शेषेण धरणीधृता ॥ ३ ॥

॥ १ – ३ ॥

सुयोधनस्य तनयां स्वयंवरकृतक्षणाम् ।

बलादादत्तवान्वीरः सांबो जांबवतीसुतः ॥ ४ ॥

ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः ।

भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम् ॥ ५ ॥

तच्छुत्वा यादवाःसर्वे क्रोधं दुर्योधनादिषु ।

मैत्रेय चक्रुः कृष्णश्च तान्निहन्तुं महोद्यमम् ॥ ६ ॥

तान्निवार्य बलः प्राह मदलोलकलाक्षरम् ।

मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ ७ ॥

सुयोधनस्येनि ॥ कृतक्षणां – कृतावसराम् । आदत्तवान्–आत्तवान् ॥ ४, ७ ॥

श्रीपराशर उवाच

बलदेवस्ततो दृष्ट्वा नगरं नागसाह्वयम् ।

बाह्योपवनमध्येऽभून्न विवेश च तत्पुरम् ॥ ८ ॥

बलमागतमाज्ञाय भूपा दुर्योधनादयः ।

गामर्घ्यमुदकं चैव रामाय प्रत्यवेदयन् ॥ ९ ॥

गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ।

आज्ञापयत्युग्रसेनःसांबमाशु विमुञ्चत ॥ १० ॥

ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो नृपाः ।

कर्मदुर्योधनाद्याश्च चुक्षुभुर्द्विजसत्तम ॥ ११ ॥

ऊचुश्च कुपिताःसर्वे बाह्लिकाद्याश्च कौरवाः ।

अराज्यार्हं यदोर्वशमवेक्ष्य मुसलायुध ॥ १२ ॥

भोभोः किमेतद्भवता बलभद्रेरितं वचः ।

आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ १३ ॥

बलदेव इति ॥ पुरं न विवेश, अपेक्षितासिद्धौ विरोद्धुम् ॥ ८ – १३ ॥

उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।

तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैर्विडंबनैः ॥ १४ ॥

तद्गच्छ बल मा वा त्वं सांबमन्यायचेष्टितम् ।

विमोक्ष्यामो न भवतश्चोग्रसेनस्य शासनात् ॥ १५ ॥

उग्रसेन इति ॥ विडम्बनैः – हासार्हैः । विडम्बितैरिति पाठे, उग्रसेनेन विडम्बितैर स्मच्छत्रैरलम् ॥ १४, १५ ॥

प्रणतिर्या कृताऽस्माकं मान्यानां कुकुरान्धकैः ।

न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ १६ ॥

प्रणतिरिति ॥ पूर्वं कृता अस्माकं या प्रणतिः सा अधुना, न नाम – न कृताऽस्तु । भृत्यतः – भृत्य – भूतादुग्रसेनात् ॥ १६ ॥

गर्वमारोपिता यूयं समानासनभोजनैः ।

को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता ॥ १७ ॥

अस्माभिरर्घो भवतो योऽयं बल निवेदितः ।

प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ १८ ॥

श्रीपराशर उवाच

इत्युक्त्वा कुरवः सांबं मुञ्चामो न हरेःसुतम्  ।

कृतैतनिश्चयस्तूर्णं विविशुर्गजसाह्वयम् ॥ १९ ॥

मत्तः कोपेन चाघूर्णस्ततोऽधिक्षेपजन्मना ।

उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २० ॥

ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः ।

आस्फोटयामास तदा दिशः शब्देन पूरयन् ॥ २१ ॥

उवाच चातिताम्राक्षो भृकुटीकुटिलाननः ॥ २२ ॥

गर्वमिति ॥ नीतिर्यत्प्रीत्या नावलोकितेति । नीचेष्वपि युष्मासु प्रीत्या युष्माकमुचितमवमानमकृत्वा आसनभोजनैः अस्मत्साम्यं नयद्भिरस्माभिरेव नीतिरुपेक्षिता । प्रीतिर्यत्प्रीत्येति पाठे, अस्माभिः समानासन – तैः युष्माकं कृता प्रीतिः एभिः प्रीत्या कृतेति नावलोकिता, किंतु मीत्येति ॥ १७ – २२ ॥

अहो मदावलेपोऽयमसाराणां दुरात्मनाम् ।

कौरवाणां महीपत्वमस्माकं किल कालजम् ।

उग्रसेनस्य येनाज्ञां मन्यन्तेऽद्यापि लङ्घनम् ॥ २३ ॥

अहो इति । अस्माकं – यादवानां महीपत्वं कालजं –  कस्मिंश्चित्काले जातं नान्वयागतमिति । अवलेपेन । लङ्घनम् – अतिक्रमम् । यद्वा ये कौरवाः आज्ञां न मन्यन्ते, किं तु लङ्घनं मन्यन्ते ॥ २३ ॥

उग्रसेनः समध्यास्ते सुधर्मां न शचीपतिः ।

धिङ्मानुषशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ २४ ॥

पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः ।

बिभर्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ॥ २५ ॥

समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु ।

अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तत्पुरीम् ॥ २६ ॥

कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।

दुश्सासनादीन्भूरिं च भूरिश्रवसमेव च ॥ २७ ॥

सोमदत्तं शलं चैव भीमार्जुनयुधिष्ठिरान् ।

यमौ च कौरवांश्चान्यान्हत्वा साश्वरथद्विपान् ॥ २८ ॥

वीरमादाय तं सांबं सपत्नीकं ततः पुरीम् ।

द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ २९ ॥

अथवा कौरवावासं समस्तैः कुरुभिः सह ।

भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ ३० ॥

अद्यापीति सूचितमैश्वर्यं दर्शयति उग्रसेन इत्यादिना ॥ उग्रसेन इति ॥ एषां मनुष्यशतोच्छिष्टेने तुष्टि: । घिगेतान् । २४ – ३० ।।

श्रीपराशर उवाच

इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् ।

प्राकारवप्रदुर्गस्य चकर्ष मुसलायुधः ॥ ३१ ॥

आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् ।

दृष्ट्वा संक्षुब्धहृदयाश्चुक्रुशुस्सर्वकौरवाः ॥ ३२ ॥

रामराम महाबाहो क्षम्यतां क्षम्यतां त्वया ।

उपसंह्रियतां कोपः प्रसीद मुसलायुध ॥ ३३ ॥

एष सांबःसपत्नीकस्तव निर्यातितो बलात् ।

अविज्ञातप्रभावानां क्षम्यतामपराधिनाम् ॥ ३४ ॥

श्रीपराशर उवाच

ततो निर्यातयामासुःसांबं पत्नीसमन्वितम् ।

निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुङ्गव ॥ ३५ ॥

भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।

क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ ३६ ॥

अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज ।

एष प्रभावो रामस्य बलशौर्योपलक्षणः ॥ ३७ ॥

ततस्तु कौरवाःसांबं संपूज्य बलि ना सह ।

प्रेषयामासुरुद्वाहधनभार्यासमन्वितम् ॥ ३८ ।।

इत्युक्त्वेति ।। कर्षणाधोमुखं – कर्षणार्थमधोमुखम् ॥ ३१ – ३८ ।।

इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चत्रिंशोऽध्यायः ।। ३५ ।।

अथ पञ्चमांशे षट्त्रिंशोऽध्यायः

श्रीपराशर उवाच

मैत्रेयैतद्बलं तस्य बलस्य बलशालिनः ।

कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां त्वया ॥ १ ॥

नरकस्यासुरेद्रस्य देवपक्षविरोधिनः ।

सखाऽभवन्महावीर्यो द्विविदो वानरर्षभः ॥ २ ॥

वैरानुबन्धं बलवान्स चकार सुरान्प्रति ।

नरकं हतवान्कृष्णो देवराजेन चोदितः ॥ ३ ॥

करिष्ये सर्वदेवानां तस्मादेतत्प्रतीक्रियाम् ।

यज्ञविध्वंसनं कुर्वन्मर्त्यलोकक्षयं तथा ॥ ४ ॥

ततो विध्वंसयामास यज्ञानज्ञानमोहितः ।

बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ॥ ५ ॥

मैत्रेयेति ॥ एतद्बलं – यमुनाकर्षणादिरूपम् । अन्यत् – द्विविदवधादि ॥ १ – ५॥

ददाह सवनान्देशान्पुरग्रमान्तराणि च ।

क्वचिच्च पर्वताक्षेपैर्ग्रामादीन्समचूर्णयत् ॥ ६ ॥

शैलानुत्पाट्य तोयेषु मुमोचांबुनिधौ तथा ।

पुनश्चार्णवमध्यस्थः क्षोभयामास सागरम् ॥ ७ ॥

ददाहेति ॥ ग्रामान्तराणि – ग्रामविशेषान् ॥ ६, ७ ॥

तेन विक्षोभितश्चाब्धिरुद्वेलो द्विज जायते ।

प्लावयंस्तीरजान्ग्रामान्पुरादीनतिवेगवान् ॥ ८ ॥

कामरूपी महारूपं कृत्वा सस्यान्यशेषतः ।

लुठन्भ्रमणसंमर्दैः संचूर्मयति वानरः ॥ ९ ॥

तेनेति ॥ उद्वेल: – वेलामतिक्रान्तः, जायते ॥ ८, ९ ॥

तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना ।

निःस्वाध्यायवषट्कारं मैत्रेयासीत्सुदुःखितम् ॥ १० ॥

एकदा रैवतोद्याने पपौ पानं हलायुधः ।

रेवती च महाभागा तथैवान्या वरस्त्रियः ॥ ११ ॥

तेनेति ॥ विप्रकृत –  विनाशितम् ॥ १०,११ ॥

उद्गीयमानो विलसल्ललनामौलिमध्यगः ।

रेमे यदुकुलश्रेष्ठः कुबेर इव नन्दने ॥ १२ ॥

उद्गीयमान इति ।। ललनानौलयः विजयिनीश्रेष्ठ्यः अशोकद्भुमो वा । गौलि: किरीटे चूडा – यामशोके केशसंहतौ  इति निघण्टुः । तदा ललनोप क्षिताशोकवनान्तस्थः ।। १२ ।।

ततःस वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ।

मुसलं च चकारास्य संमुखं च विडंबनम् ॥ १३ ॥

तथैव योषितां तासां जहासाभिमुखं कपिः ।

पानपूर्णाश्च करकाञ्चिक्षेपाहत्य वै तदा ॥ १४ ॥

ततः कोपपरीतात्मा भर्त्सयामास तं हली ।

तथापि तमवज्ञाय चक्रेकिलकिलध्वनिम् ॥ १५ ॥

ततः स्मयित्वा स बलो जग्राह मुसलं रुषा ।

सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ॥ १६ ॥

चिक्षेप स च तां क्षिप्तां मुसलेन सहस्रधा ।

विभेद यादवश्रेष्ठःसा पपात महीतले ॥ १७ ॥

अथ तन्मुसलं चासौ समुल्लङ्घ्य प्लवङ्गमः ।

वेगेनागत्य रोषेण करेणोरस्यताडयत् ॥ १८ ॥

तत इति ॥ विडम्बनं —– भ्रूनेत्रादिविकारः । सम्मुखस्येति च पाठः ॥ १३ – १८ ॥

ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ।

पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥ १९ ॥

पतता तच्छरीरेण गिरेः शृगमशीर्यत ।

मैत्रेय शतधा वज्रिवज्रेणेव विदारितम् ॥ २० ॥

पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ।

प्रशशंसुस्ततोऽभ्येत्य साध्वेतत्ते महत्कृतम् ॥ २१ ॥

अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।

जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ २२ ॥

इत्युक्त्वा दिवमाजग्मुर्देवा हृष्टःसगुह्यकाः ॥ २३ ॥

श्रीपराशर उवाच

एवंविधान्यनेकानि बलदेवस्य धीमतः ।

कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥ २४ ॥

तत इति ॥ क्षीण जीवित इत्यनेनास्या मृतप्राशनाद्दीर्घजीवित्वं महद्धिकारान्नष्टमित्युक्तम्, आयुः श्रियं । वित्तं लोकानाशिष एव च । हंति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ इति श्रीशुकोक्तेः ॥ १९ – २४ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे षट्त्रिंशोध्यायः ।। ३६ ।।

अथ पञ्चमांशे सप्तत्रिंशोऽध्यायः

श्रीपराशर उवाच

एवं दैत्यवधं कृष्णे बलदेवसहायवान् ।

चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ १ ॥

क्षितेश्च भारं भगवान्फाल्गुनेन समन्वितः ।

अवतारयामास विभुःसमस्ताक्षौहिणीवधात् ॥ २ ॥

एवमिति ॥ दुष्टक्षितीशानां वधमित्यनुषङ्गः ॥ १, २ ॥

कृत्वा भारावतरमं भुवो हत्वाऽखिलान्नृपान् ।

शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ॥ ३ ॥

कृत्वेति ॥ शापेति । उपसंहारे शापो व्याजमात्रं स्वेच्छैव हेतुः । यथोक्तम् भवितव्यं तथा तद्धि – मेतन्महात्मना इत्यादिना । कुलं – खम् ॥ ३ ॥

उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः ।

सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम् ॥ ४ ॥

मैत्रेय उवाच

स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् ।

कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥ ५ ॥

श्रीपराशर उवाच

विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः ।

पिण्डारके महारीर्थे दृष्ट्वा यदुकुमारकैः ॥ ६ ॥

उत्सृज्येत्यादि ॥ मानुष्यं मर्त्यदेहं, सांश: –  ससंकर्षणादिः, विष्णुमयं – विष्णुप्रचुरम् । तत्तेजस्त द्विभूति – तत्परिकरसूरिपूर्णमित्यर्थः । निजं स्थानं – परमव्योमपरमपदादिशब्दवाच्यं स्वासाधारणम् । यथा मौसले दिव्यं स्थानमजरं चाप्रमेयम् इत्यादि । अत्र मानुष्यमिति विशेषणात्, ऊर्ध्वं गच्छन् व्याप्य लोकान् स्वलक्ष्म्या इत्युक्त्तवा, अनन्तरं दिवं प्राप्तमित्यादिना वसुप्रभृतिभिर्देवैः प्रत्युद्गमनादिकमुत्तवा, ततो राजन् भगवानुग्रधन्वेत्यादिना

स्वस्थानप्रवेशमभिधाय, भुजैश्चतुर्भिस्समुपेतं ममेदमिति मौसलोक्तप्रकारेण स्वसाधारणदिव्य विग्रहवत एव गमनं ज्ञातव्यम् ॥ ४ – ६ ॥

ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।

सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा ॥ ७ ॥

प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरःसरम् ।

इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति ॥ ८ ॥

तत इति ॥ भावि कार्यं – भविष्यत्फलकर्म, तेन प्रचोदिताः ॥ ७, ८ ॥

श्रीपराशर उवाच

दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः ।

मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति ॥ ९ ॥

सर्वयादवसंहारकारणं भुवनोत्तरम् ।

येनाखिलकुलोत्सादौ यादवानां भविष्यति ॥ १० ॥

इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् ।

उग्रसेनाय मुसलं जज्ञे सास्वस्य चोदरात् ॥ ११ ॥

दिव्यज्ञानेति ।। दिव्यज्ञानोपपन्नाः – दिव्यस्य भगवदिच्छादेर्ज्ञानोपपन्नाः । यथा मौसल एव भवितव्यं तथा तद्धि दृष्टमेतन्महात्मना । उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ इत्यादि, कुतश्शापो मनीषिणाम् इत्यन्तम् ॥ ९ – ११ ॥

तदुग्रसेनो मुसलमयश्चूर्णमकारयत् ।

जज्ञे तदेरकाचूर्णं प्रक्षिप्तं तैर्महोदधौ ॥ १२ ॥

तदिति ॥ एरका – त्रिधारः तृणविशेषः ॥ १२ ॥

मुसलस्याथ लोहस्य चूर्णितस्य तु यादवैः ।

खण्डं चूर्णितशेषं तु ततो यत्तोमराकृति ॥ १३ ॥

मुसलस्येति ।। तोमरमत्र वाणशल्यम् ॥ १३ ॥

तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।

घातितस्योदरात्तस्य लुब्धो जग्रह तज्जराः ॥ १४ ॥

तदिति ॥ जरा नाग लुब्धकः ॥ १४ ॥

विज्ञातपरमार्थोपि भगवान्मधुसूदनः ।

नैच्छत्तदन्यथा कर्तुं विधिना यत्समीहितम् ॥ १५ ॥

विज्ञातेति ।। विधिना समीकृतं स्वसंज्ञानेन कृतम् ॥ १५ ॥

देवैश्च प्रहितो वायुः प्रणिपत्त्याह केशवम् ।

रहस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥ १६ ॥

वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह ।

विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो ॥ १७ ॥

देवैद्येति ॥ दूतः – वायुः ।। १६ १७ ॥

भारावतरणार्थाय वर्षाणामधिकं शतम् ।

भगवानवतीर्णोऽत्र त्रिदशैस्सह चोदितः ॥ १८ ॥

दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।

त्वया सनाथास्त्रिदशा भवन्तु त्रिदिवे सदा ॥ १९ ॥

तदतीतं जगन्नाथ वर्षाणामधिकं शतम् ।

इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ २० ॥

देवैर्विज्ञाप्यते देव तथाऽत्रैव रतिस्तव ।

तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः ॥ २१ ॥

श्रीभगवानुवाच

यत्त्वमात्थाखिलं दूत वेद्म्येतदहमप्युत ।

प्रारब्ध एव हि मया यादवानां परिक्षयः ॥ २२ ॥

भारावतरणार्थायेति ॥ अवतीर्णो वर्षाणामधिकं शतमत्र स्थित इति शेषः ॥ १८ – २२ ॥

भुवो नाद्यापि भारोऽयं यादवैरनिबर्हितैः ।

अवतार्य करोम्येतत्सप्तरात्रेण सत्वरः ॥ २३ ॥

यथा गृहीतमंभोधेर्दत्त्वाऽहं द्वारकाभुवम् ।

यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥ २४ ॥

मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् ।

प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथाऽमरैः ॥ २५ ॥

भुव इति ॥ भुवो भारो नाद्याप्यवतारित इति शेषः । एतत् गमनम् ॥ २३ – २५ ॥

जरासंधादयो येऽन्ये निहता भारहेतवः ।

क्षितेस्तेभ्यः कुमारोऽपि यदूनां नापचीयते ॥ २६ ॥

तदेतं सुमहाभारमवतार्य क्षितेरहम् ।

यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ २७ ॥

श्रीपराशर उवाच

इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।

मैत्रेय दिव्यया गत्या देवराजान्तिकं ययौ ॥ २८ ॥

जरासंधादय इति ॥ क्षितेर्भारहेतवो येऽन्ये जरासंधादयो निहताः तेभ्यः यदूनां संबन्धी शिशुरपि नापचितो युद्धे । कुमार इति पाठे, तेभ्योऽप्यधिको यदूनां संबन्धी कुभारः – भूभारः न क्षीयते ॥ २६ – २८ ॥

भगवानप्यथोत्पातान्दिव्यभौमान्तरिक्षजान् ।

ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ २९ ॥

तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् ।

महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम् ॥ ३० ॥

श्रीपराशर उवाच

एवमुक्ते तु कृष्णेन यादवप्रवरस्ततः ।

महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ ३१ ॥

भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् ।

मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ॥ ३२ ॥

नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ ३३ ॥

श्रीभगवानुवाच

गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।

यद्बदर्याश्रमं पुण्यं गन्धमादनपर्वते ।

नरनारायणस्थाने तत्पवित्रं महीतले ॥ ३४ ॥

मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ।

अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वै कुलम् ॥ ३५ ॥

द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ।

मद्वेश्म चैकं मुक्त्वा तु भयान्मत्तो जलाशये ।

तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया ॥ ३६ ॥

भगवानिति ॥ ग्रहर्क्षवैकृतं दिव्य उत्पातः, उल्कानिपातनिर्घातपरिवेषादिरान्तरिक्षः, चरस्थिरजो भौमः ॥ २९ – ३६ ॥

श्रीपराशर उवाच

इत्युक्तः प्रणिपत्यैनं जगामाशु तपेवनम् ।

नरनारायणस्थानं केशवेनानुमोदितः ॥ ३७ ॥

ततस्ते यादवाःसर्वे रथानारुह्य शीघ्रगान् ।

प्रभासं प्रययुःसार्धं कृष्णरामादिभिर्द्विज ॥ ३८ ॥

प्रभासं समनुप्राप्ताः कुकुरान्धकवृष्णयः ।

चक्रुस्तत्र महापानं वासुदेवेन चोदिताः ॥ ३९ ॥

पिबतां तत्र चैतेषां संघर्षेण परस्परम् ।

अतिवादेन्धनो जज्ञे कलहाग्निः क्षयावहः ॥ ४० ॥

मैत्रेय उवाच

स्वंस्वं वै भुञ्जतां तेषां कलहः किंनिमित्तकः ।

संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि ॥ ४१ ॥

श्रीपराशर उवाच

मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् ।

मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः ॥ ४२ ॥

ततश्चान्योन्यमभ्येत्य क्रिधसंरक्तलोचनाः ।

जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः ॥ ४३ ॥

क्षीणशस्त्राश्च जगृहुः प्रत्यासन्नामथैरकाम् ॥ ४४ ॥

एरका तु गृहीता वै वज्रभूतेव लक्ष्यते ।

तया परस्परं जघ्नुःसंप्रहारे सुदारुणे ॥ ४५ ॥

प्रद्युम्नसांबप्रमुखाः कृतवर्माऽथ सात्यकिः ।

अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ ४६ ॥

चारुवर्मा चारुकश्च तथाऽक्रूरादयो द्विज ।

एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ ४७ ॥

इत्युक्त’ इति ॥ अनुमोदितः – तत्त्वोपदेशपादुकाप्रदानादिनाऽनुगृहीतः । यादवत्वेऽपि भगवत् – स्वातन्त्र्य प्रदर्शनार्थं सात्वतविद्यासंतानायोद्धवो राजसंतानाय वज्रश्च शेषितौ ॥ ३७ – ४७ ॥

निवारयामास हरिर्यादवांस्ते च केशवम् ।

सहायं मेनिरेऽरीणां प्राप्तं जघ्नुः परस्परम् ॥ ४८ ॥

कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे ।

वधाय सोऽपि मुसलं मुष्टर्लौहमभूत्तदा ॥ ४९ ॥

निवारयामासेति ॥ माध्यस्त्यात्केशवो युध्यमानान् निवारयामास । ते च तम् अरीणां – स्वविपक्षाणां सहायं प्राप्तं मेनिरे । अतस्तमनादृत्यान्योन्यं च जप्नुः ॥ ४८, ४९ ॥

जघान तेन निःशेषान्यादवानाततायिनः ।

जघ्नुस्ते सहसाऽभ्येत्य तथाऽन्येपि परस्परम् ॥ ५० ॥

ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः ।

पश्यतो दारुकस्याथ प्रायादश्वैर्धृतो द्विज ॥ ५१ ॥

चक्रं गदा तथा शार्ङ्ग तूणी शङ्खोऽसिरेव च ।

प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्मना ॥ ५२ ॥

क्षणेन नाभवत्कश्चिद्यादवानामघातितः ।

ऋते कृष्णं महात्मानं दारुकं च महामुने ॥ ५३ ॥

चङ्क्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् ।

ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ ५४ ॥

निष्क्रम्य स मखात्तस्य महाभोगो भुजङ्गमः ।

प्रययावर्णवं सिद्धैः पुज्यमानस्तथोरगैः ॥ ५५ ॥

ततोऽर्घ्यमादाय तदा जलधिःसंमुखं ययौ ।

प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः ॥ ५६ ॥

दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ।

इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः ॥ ५७ ॥

जघानेति ॥ आततायी — वधोद्यतः ॥ ५० – ५७ ।।

निर्याणं बलभद्रस्य यादवानां तथा क्षयम् ।

योगो स्थित्वाऽहमप्येतत्परित्यक्ष्ये कलेवरम् ॥ ५८ ॥

वाच्यश्च द्वारकावासी जनः सर्वस्तथाऽऽहुकः ।

यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति ॥ ५९ ॥

तस्माद्भवद्भिः सर्वैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ।

न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ॥ ६० ॥

तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥ ६१ ॥

गत्वा च ब्रूहि कैन्तेयमर्जुनं वचनान्मम ।

पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ॥ ६२ ॥

त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् ।

गृहीत्वा यादि वज्रश्च यदुराजो भविष्यति ॥ ६३ ॥

श्रीपराशर उवाच

इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।

प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥ ६४ ॥

निर्याणमिति ॥ योगेन देहत्यागो लोकसंग्रहार्थः ॥ ५८ – ६४ ॥

स च गत्वा तदाचष्ट द्वारकायां तथाऽर्जुनम् ।

आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम् ॥ ६५ ॥

स चेति ॥ द्वारवत्यां स्थितमिति शेषः ।। ६५ ।।

भगवानपि गोविन्दो वासुदेवात्मकं परम् ।

ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ।

(निष्प्रपञ्चे महाभाग संयोज्यात्मानमात्मनि ।

तुर्यावस्थस्सलीलं च शेते स्म पुरुषोत्तमः ॥) ६६ ॥

भगवानपीति ॥ सर्वभूतेषु स्थितम् अत एव वासुदेवात्मकं ब्रह्म आत्मन्यधारयत् – आत्मानं ब्रह्म अभावयत् इत्यर्थः ॥ ६६ ॥

संमानयन्द्विजवचो दुर्वासा यदुवाच ह ।

योगयुक्तोऽभवत्पादं कृत्वा जानुनि सत्तम ॥ ६७ ॥

संमानयन्निति ॥ द्विजवचः – विप्रशापवचः । दुर्वासा यदुवाच तच्च संमानयन् पादं लुब्धकदृश्यं स्वस्तिकासनेन जानुनि कृत्वा योगं चक्रे । श्रीकृष्णो हि, मच्छिष्टेन सर्वाङ्गं लिम्पेति दुर्वाससो वचनात् विप्रो.. च्छिष्टं पादेन न स्प्रष्टव्यमिति पादवर्जं सर्वाने लिप्ते, पादौ न लिप्ताविति क्रुद्रेन दुर्वाससा तत्रैव पादे विद्धो भवेति सप्त इत्युक्तं भारते ॥ ६७ ॥

आययौ स जरा नाम तदा तत्र स लुब्धकः ।

मुसलावशेषलोहैकसायकन्यस्ततोमरः ॥ ६८ ॥

स तत्पादं मृगाकरमवेक्ष्यारादवस्थितः ।

तले विव्याध तेनैव तोमरेण द्विजोत्तम ॥ ६९ ॥

ततश्च ददृशे तत्र चतुर्बाहुधरं नरम् ।

प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ ७० ॥

अजानता कृतमिदं मया हरिणशङ्कया ।

क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि ॥ ७१ ॥

आययाविति ।। मुसलावशेषलोहम् एकसायके न्यस्तं तोमरं यस्य स तथोक्तः । अक्षराधिक्यमार्षम्  ॥ ६८ – ७१ ॥

श्रीपराशर उवाच

ततस्तं भगवानाह न तेऽस्तु भयमण्वपि ।

गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ॥ ७२ ॥

श्रीपराशर उवाच

विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् ।

आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ ७३ ॥

तत इति ॥ गच्छ त्वमित्यादिना लोकसंग्रहार्थं योगेन वदेहं त्यजन्नपि भगवानात्मनो निरतिशय – मैश्वर्यं प्रकटयितुम् अनर्हमपि लुब्धकं सशरीरमेव स्वर्गमगमयदित्यभिप्रेतम् ॥ ७२, ७३ ॥

गते तस्मिन्स भगवान्संयोज्यात्मानमात्मनि ।

ब्रह्मभूतेऽव्ययेऽचिन्त्ये वासुदेवमयेऽमले ॥ ७४ ॥

अजन्मन्यमरे विष्णावप्रमेयेऽखिलात्मनि ।

तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् ॥ ७५ ॥

गत इति ॥ गत इत्यादिश्लोकद्वयस्यैकान्वयः । तस्मिन् –  लुब्धके स्वर्गं गते सति भगवान् श्रीकृष्णः ब्रह्मभूत इत्याद्युक्त विशेषणविशिष्टे आत्मनि –  स्वस्मिन् आत्मानं – मनः संयोज्य, त्रिविधां –  सात्त्विकराजसतामसरूपेण त्रिविधां गतिमतीत्य ॥ ७४, ७५ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तत्रिंशोध्यायः ।। ३७ ।।

अथ पञ्चमांशे अष्टात्रिंशोऽध्यायः

श्रीपराशर उवाच

अर्जुनोऽपि तदाऽन्वीक्ष्य रामकृष्णकलेवरे ।

संस्कारं लंभयामास तथाऽन्येषामनुक्रमात् ॥ १ ॥

अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः ।

उपगुह्य हरेर्देह विविशुस्ता हुताशनम् ॥ २ ॥

रेवती चापि रामस्य देहमाश्लिष्य सत्तमा ।

विवेश ज्वलितं वह्निं तत्संगाह्लादशीतलम् ॥ ३ ॥

उग्रसेनस्तु तच्छुत्वा तथैवानकदुन्दुभिः ।

देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ ४ ॥

ततोऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।

निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥ ५ ॥

द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः ।

वज्रं जनं च कौतेयः पालयञ्छनकैर्ययौ ॥ ६ ॥

सभा सुधर्मा कृष्णेन कर्त्यलोके समुज्झिते ।

स्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ॥ ७ ॥

।। १ – ७ ॥

यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् ।

तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ॥ ८ ॥

प्लावयामास तां शून्यां द्वारकां च महोदधिः ।

वासुदेवगृहं त्वेकं न प्लावयति सागरः  ॥ ९ ॥

नातिक्रान्तुमलं ब्रह्मंस्तदद्यापि महोदधिः ।

नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ॥ १० ॥

तदतीव महापुण्यं सर्वपातकनाशनम् ।

विष्णुश्रियाऽन्वितं स्थानं दृष्ट्वा पापाद्विमुच्यते ॥ ११ ॥

यस्मिन्निति ।। कालकाय: – मलिनाङ्गेः । कालकाम इति पाठे कृष्णोपेक्षावसुर –  प्रतीक्षः ।। ८ – ११ ॥

पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।

चकार वासं सर्वस्य जनस्य मुनिसत्तमः ॥ १२ ॥

ततो लोभःसमभवत्पार्थेनैकेन धन्विना ।

दृष्ट्वास्त्रि यो नीयमाना दस्यूनां निहतेश्वराः ॥ १३ ॥

पार्थ इति ॥ पञ्चनदास्यो देशः ॥ १२, १३ ॥

ततस्ते पापकमाणो लोभोपहृतचेतसः ।

आभीरा मन्त्रयामासुःसमेत्यान्यन्तदुर्मदाः ॥ १४ ॥

अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् ।

नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् ॥ १५ ॥

हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् ।

कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ १६ ॥

यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिःस दुर्मतिः ।

सर्वानेवावजानाति किं वो बाहुभिरुन्नतैः ॥ १७ ॥

ततो यष्टिप्रहरणा दस्यवो लोष्टधारिणः ।

सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् ॥ १८ ॥

ततो निर्भर्त्स्य कौतेयः प्राहाभीरान्हसन्निव ।

निवर्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः ॥ १९ ॥

अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।

स्त्रीधनं चैव मैत्रेय विष्वक्सेन परिग्रहम् ॥ २० ॥

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि ।

आरोपयितुमारेभे न शशाक च वीर्यवान् ॥ २१ ॥

चकार सज्यं कृच्छ्राच्च तच्चाभूच्छिथिलं पुनः ।

न सस्मार ततोऽस्त्राणि चिन्तयन्नपि पाण्डवः ॥ २२ ॥

शरान्मुमोच चैतेषु पार्था वैरिष्वमर्षितः ।

त्वग्भेदं दे परं चक्रुरस्ता गाण्डीवधन्विना ॥ २३ ॥

वह्निना येऽक्षया दत्ताः शरास्तेऽपि क्षयं ययुः ।

युद्ध्यतःसह गोपालैरर्जुनस्य भवक्षये ॥ २४ ॥

अचिन्तयच्च कैन्तेयः कृष्णस्यैव हि तद्बलम् ।

यन्मया शरसंघातैः सकला भूभृतो हताः ॥ २५ ॥

मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।

आभीरैरपकृष्यन्त कामं चान्याः प्रदुद्रुवुः ॥ २६ ॥

ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः ।

जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने ॥ २७ ॥

प्रेक्षतस्तस्य पार्थस्य पुष्ण्यन्धकवरस्त्रियः ।

जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम ॥ २८ ॥

तत इति ॥ लोप्त्रं – चौर्यधनम् । लोभोपहृतचेतस इति च पाठः ॥ १४ – २८ ।।

ततःसुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् ।

अहो भगवताऽनेन मुष्टोऽस्मीति रुरोद वै ॥ २९ ॥

तत इति ॥ मुष्टः–मुषितः, मायया शक्तिहरणात् ॥ २९ ॥

तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः ।

सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ ३० ॥

अहोऽतिबलबद्दैवं विना तेन महात्मना ।

यदसामर्थ्ययुक्तेऽपि निचवर्गे जयप्रदम् ॥ ३१ ॥

तौ बाहू स च मे मुष्टिः स्थानं तत्सोऽस्मि चार्जुनः ।

पुण्येनैव विना तेन गतं सर्वमसारताम् ॥ ३२ ॥

ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् ।

विना तेन यदा भीरैर्जितोऽहं रथिनां वरः ॥ ३३ ॥

श्रीपराशर उवाच

इत्थं वदन्ययौ जिष्णुरिद्रप्रस्थं पुरोत्तमम् ।

चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ ३४ ॥

स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।

तमुपेत्य महाभागं विनयेनाभ्यवादयत् ॥ ३५ ॥

तं वन्दमानं चरणाववलोक्य मुनिश्चिरम् ।

उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ॥ ३६ ॥

तद्धनुरिति ॥ एकपदे –एकक्षणे ॥ ३० – ३६ ॥

अवीरजोनुगमनं ब्रह्महत्या कृताऽथ वा ।

दृढाशाभङ्गदुःखीव भ्रष्टच्छायोऽसि सांप्रतम् ॥ ३७ ॥

अवीरजोऽनुगमनमिति ॥ अविशब्देन अजजातिर्लक्ष्यते । अवि: स्वरादिजातिर्वा । अविशब्दस्यौणादिक संज्ञायाम् ॥ ३७  ॥

सांतानिकादयो वा ते याचमाना निराकृताः ।

अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ॥ ३८ ॥

भुङ्तेऽप्रदाय विप्रेभ्यो मृष्टमेकोऽथ वा भवान् ।

किं वा कृपणवित्तानि हृतानि भवताऽर्जुन ॥ ३९ ॥

कचिन्नु शुर्पवातस्य गोचरत्वं गतोऽर्जुन ।

दुष्टचक्षुर्हतो वाऽसि निःश्रीकः कथमन्यथा ॥ ४० ॥

सांतानिकादय इति ॥ सांतानिक: –  संतानार्थमुद्दोढुमिच्छन् । आदिशब्देन यक्ष्यमाणादयो गृह्यन्ते । यथाह मनुः सांतानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् । गुर्वर्थपितृमात्रर्थस्वाध्यायार्थ्युपतापिनः ॥ इति ॥ ३८ – ४० ।।

स्पृष्टो नखांभसा वाथ घटवार्युक्षितोऽपि वा ।

केन त्वं वाऽसि विच्छायो न्यूनैर्वा युधि निर्जितः ॥ ४१ ॥

श्रीपराशर उवाच

ततः पार्थो विनिश्वस्य श्रूयतां भगवन्निति ।

प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ॥ ४२ ॥

अर्जुन उवाच

यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः ।

या श्रीश्छाया च नः सोऽस्मान्परित्यज्य हरिर्गतः ॥ ४३ ॥

स्पृष्ट इति ॥ घटवारि—घटान्नीयमानाच्चलितादुच्चलद्वारि ॥ ४१ – ४३ ॥

ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा ।

हीना वयं मुने तेन जातास्तृणमया इव ॥ ४४ ॥

अस्त्राणां सायकानां च गाण्डीवस्य तथा मम ।

सारता याऽभवन्मूर्तिःस गतः पुरुषोत्तमः ॥ ४५ ॥

यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिः ।

न तत्याज स गोविन्दस्त्यक्त्वाऽस्मान्भगवान्गतः ॥ ४६ ॥

भीष्मद्रोणाङ्गराजाद्या स्तथा दुर्योधनादयः ।

यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥ ४७ ॥

ईश्वरेणेति ॥ इतरेणेव । महता –  महता सतापि इतरेणेव – प्राकृतेनेव स्मितादिकं कुर्वता तृणमया: – तृणकृताः पुरुषाः ।। ४४ – ४७ ।।

निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी ।

विभाति तात नैकोऽहं विरहे तस्य चक्रिणः ॥ ४८ ॥

यस्य प्रभावाद्भीष्माद्यैर्मय्यग्नौ शलभायितम् ।

विना तेनाद्य कृष्णेन गोपालौरस्मि निर्जितः ॥ ४९ ॥

गाण्डीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः ।

गतस्तेन विनाऽभीरलगुडैः स तिरस्कृतः ॥ ५० ॥

स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने ।

यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ ५१ ॥

निर्यौवनेति ।। नाहमेक एव निर्यौवनादिकः । यौवनशब्देन शक्तिर्लक्ष्यते । छाया – कान्तिः ।।४८ – ५१॥

आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम् ।

हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ ५२ ॥

निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् ।

नीचावमानपङ्काङ्की निर्लज्जोऽस्मि पितामह ॥ ५३ ॥

व्यास उवाच

अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि ।

अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ ५४ ॥

कालो भवाय भूतानामभवाय च पाण्डव ।

कालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ॥ ५५ ॥

नद्यः समुद्रा गिरयःसकला च वसुंधरा ।

देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ ५६ ॥

सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् ।

कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ ५७ ॥

कालस्वरूपी भगवान्कृष्णः कमललोचनः ।

यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय ॥ ५८ ॥

भारावतरकार्यार्थमवतीर्णस्स मेदिनीम् ।

भाराक्रान्ता धरा याता देवानां समितिं पुरा ॥ ५९ ॥

तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनः ।

तच्च निष्पादिनं कार्यमशेषा भूभुजो हताः ॥ ६० ॥

वष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ।

न किञ्चिदन्यत्कर्तव्यं तस्य भूमितले प्रभोः ॥ ६१ ॥

अतो गतःस भगवान्कृतकृत्यो यथेच्छया ।

सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम् ।

अन्तेऽन्ताय समर्थोऽयं सांप्रतं वै यथा गतः ॥ ६२ ॥

आनीयमानमिति ॥ कृष्ण – हे व्यास ॥ ५२ – ६२ ॥

तस्मात्पार्थ न संतापस्त्वया कार्यः पराभवे ।

भवन्ति भावाः कालेषु पुरुषाणां यतः स्तुतिः ॥ ६३ ॥

त्वयैकेन हता भीष्मद्रोणकर्णादयो रणे ।

तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ ६४ ॥

विष्णोस्तस्य प्रभावेन यथा तेषां पराभवः ।

कृतस्तथैव भवतो दस्युभ्यः स पराभवः ॥ ६५ ॥

स देवेशः शरीराणि समाविश्य जगत्स्थितिम् ।

करोति सर्वभूतानां नाशमन्ते जगत्पतिः ॥ ६६ ॥

भगोदये ते कैन्तेय सहायोऽभूज्जनार्दनः ।

तथान्ते तद्विपक्षास्ते केशवेन विनाशिताः ॥ ६७ ॥

कः श्रद्दद्ध्यात्सगाङ्गेयान्हन्यास्त्वं कौरवानिति ।

आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ॥ ६८ ॥

पार्थैतत्सर्वभूतस्य हरेर्लीलाविचेष्टितम् ।

त्वया यत्कौरावा ध्वस्ता यदाभीरैर्भवाञ्जितः ॥ ६९ ॥

गृहीता दस्युभिर्याश्च भवाञ्छोचति ताःस्त्रियः ।

एतस्याहं यथावृत्तं कथयामि तवार्जुन ॥ ७० ॥

अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् ।

बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ॥ ७१ ॥

जितेष्वसुरसंघषु मेरुपृष्ठे महोत्सवः ।

बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ ७२ ॥

तस्मादिति ॥ भावास्सर्वे, कालेषु – अभ्युदयकालेषु ।। ६३ – ७२ ॥

रंभातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः ।

तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ ७३ ॥

आकण्ठमग्नं सलिले जटाभारवहं मुनिम् ।

विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ॥ ७४ ॥

यथायथा प्रसन्नोऽसौ तुष्टुवुस्तं तथातथा ।

सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ॥ ७५ ॥

अष्टावक्र उवाच

प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते ।

मत्तस्तह्रियतां सर्वं प्रदास्याम्यतिदुर्लभम् ॥ ७६ ॥

रंभातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् ।

प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ॥ ७७ ॥

इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि ।

तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तम ॥ ७८ ॥

व्यास उवाच

एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः ।

तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ॥ ७९ ॥

तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।

ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ ८० ॥

यस्माद्विकृतरूपं मां मत्वा हासावमानना ।

भवतीभिः कृता तस्मादेतं शापं ददामि वः ॥ ८१ ॥

मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् ।

मच्छापोपहताःसर्वा दस्युहस्तं गमिष्यथ ॥ ८२ ॥

व्यास उवाच

इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः ।

पुनःसुरेद्रलोकं वै प्राह भूयो गमिष्यथ ॥ ८३ ॥

एवं तस्य मुनेः शापादष्टावक्रस्य चक्रिणम् ।

भर्तारं प्राप्य ता याता दस्युहस्तं सुराङ्गनाः ॥ ८४ ॥

तत्त्वाय नात्र कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव ।

तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ॥ ८५ ॥

रंभेति ॥ स्तुतिर्गानसहिता, प्रशंसा तद्रहिता ॥ ७३ – ८५॥

भवतां चोपसंहार आसन्नस्तेन पाण्डव ।

बलं तेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ ८६ ॥

जातस्य नियतो मृत्युः पतनं च तथोन्नतेः ।

विप्रयोगावमानस्तु संयोगः संचये क्षयः ॥ ८७ ॥

भवतामिति ॥ तेजः—पराभिभवासहिष्णुत्वम् । माहात्म्यम् – अस्त्रमन्त्रादिजं सामर्थ्यम् ॥ ८६ – ८७ ॥

विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये ।

तेषामेवेतरे चेष्टां शिक्षन्तःसंति तादृशाः ॥ ८८ ॥

विज्ञायेति । विबुधाः—विद्वांसः सन्ति तादृशाः – तादृशा भवन्ति ॥ ८८ ॥

तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिः सह ।

परित्यज्याखिलं तन्त्रं गन्तव्यं तपसे वनम् ॥ ८९ ॥

तद्गच्छ धर्मराजाय निवेद्यैतद्वचो मम ।

परश्वो भ्रातृभिः सार्ध यथा यासि तथा कुरु ॥ ९० ॥

तस्मादिति ॥ तन्त्र–परिच्छदम् ॥ ८९, ९० ॥

इत्युक्तोऽभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः ।

दृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ॥ ९१ ॥

व्यासवाक्यं च ते सर्वे श्रुत्वाऽर्जुनमुखेरितम् ।

राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ ९२ ॥

इत्युक्त इति ॥ दृष्टं—प्रत्यक्षितं व्यासोक्त्या श्रुतं च सर्वम् ॥ ९१,९२ ॥

इत्येतत्तव मैत्रेय विस्तरेण मयोदितम् ।

जातस्य यद्यदोर्वंशे वासुदेवस्य चेष्टितम् ॥ ९३ ॥

श्रीकृष्णलीलां निगमयति — इत्येतदिति ॥ ९३ ॥

यश्चैतच्चरितं तस्य कृष्णस्य शृणुयात्सदा ।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९४ ॥

भगवच्चरित्रश्रवणादिफलमाह – यश्चैतच्चरितमिति ॥ ९४ ॥

इति श्रीविष्णुमहापुराणे पञ्चमाशेऽष्टत्रिंशोऽध्यायः ।। ३८ ।।

इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते पञ्चमांशः समाप्तः 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.