अध्यात्मचिन्ता

श्रीमते रामानुजाय नमः ।।
श्रीवादिकेसरिसुन्दरजामातृमुनिविरचिता
अध्यात्मचिन्ता ।।

सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजम्
संसारार्णवसम्मग्नजन्तुसन्तारपोतकम् ।।

नमोऽस्त्वस्मद्गुरुभ्यश्च तद्गुरुभ्यस्तथा नमः
परमेभ्यो गुरुभ्यश्च निखिलेभ्यो नमो नमः।। ।।
नमो रामानुजायेदं पूर्णाय महते नमः
यामुनाय मुनीन्द्राय नमस्सर्वार्थवेदिने।। ।।
नमोऽस्तु राममिश्राय पुण्डरीकदृशे नमः
नाथाय मुनये नित्यं नमः परमयोगिने।। ।।
आद्याय कुलनाथाय नमोऽस्तु शठवैरिणे
नमः सेनाधिपतये ज्ञानयाथात्म्यवेदिने ।। ।।
श्रियै श्रीशानपायिन्यै जगन्मात्रे नमो नमः
श्रीधरायादिगुरवे नमो भूयो नमो नमः ।। ।।
इत्थं संचिन्त्य मनसा शुभां गुरुपरम्पराम्
अध्यात्मविषयां चिन्तां करोम्यात्मविशुध्दये।।
आत्मा देवो नरो तिर्यक् स्थावरो
देहो नेन्द्रियन्नैव मनः प्राणो नापि धीः।। ।।
जडो विकारी ज्ञानमात्रात्मको
स्वस्मै स्वयंप्रकाश: स्यादेकरूपस्वरूपभाक्।। ।।
चेतनो व्याप्तिशीलश्च चिदानन्दात्मकस्तथा
अहमर्थः प्रतिक्षेत्रं भिन्नोऽणुर्नित्यनिर्मलः।। ।।
तथा ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मकः
परमात्मैकशेषत्वस्वभावस्सर्वदा स्वतः।। १० ।।
एवं सामान्यतः सिद्धनिजाकारयुतोऽप्यहम्
अनादेर्गुणमायायाः बलेनैव तिरोहितः।। ११ ।।
अप्रकाशनिजाकारो नित्यमान्द्यमुपेयिवान्
अपथे कर्मपाशेन कृश्यमाणो निराश्रयः।। १२ ।।
अजानन्ननुकूलञ्च प्रतिकूलं तथात्मनः
अन्यथा तत्तदारोप्यरागद्वेषौ प्रवर्तयन्।। १३ ।।
अकृत्यकरणादावप्यत्यन्तोद्भटवृत्तिकः
मत्तप्रमत्तोन्मतानां वर्ते सदृशचेष्टितः।। १४ ।।
गर्भजन्माद्यवस्थासु दुःखमत्यन्तदुस्सहम्
किञ्चिद्गणयन्नित्यं चरामीन्द्रियगोचरे।। १५ ।।
एवं विषयतृष्णाया विरागस्य जरा मम
तद्भोगे करणानां शैथिल्यं कुरुते भृशम्।। १६ ।।
तथा तु तृष्णामाहात्म्यात् करणानामपाटवात्
भोगालाभसमुद्भूतः शोकोऽपि भवति ध्रुवम्।। १७ ।।
तथा पुत्रकळत्रादिबन्धुवर्गावमानजम्
दुःखं दुस्सहमेवापि सहन्नत्राप्रतिक्रियः।। १८ ।।
आधिव्याधिभिरत्यर्थं पीडितो मूढचेतनः
अर्थादिषु तदानीमप्यभिवृद्धस्पृहो भवन्।। १९ ।।
तादृग्बन्धुवियोगेषु तापेन महतार्दितः
कालशेषं नयाम्यत्र कर्मबन्धवशानुगः।। २० ।।
अथ देहावसाने दुःखमुत्क्रान्तिसंभवम्
कुच्छ्रेण देहान्निष्क्रान्तिं यमकिङ्करदर्शनम्।। २१ ।।
यातनादेहसम्बन्धं याम्यपाशैश्च कर्षणम्
उग्रमार्गगतिक्लेशं यमस्य पुरतः स्थितिम्।। २२ ।।
तन्नियोगसमायाता यातनाश्च सहस्रशः
श्रुत्वा स्मृत्वा दूयेऽहं तत्प्रवेशभयाकुलः।। २३
पुनश्च गर्भजन्मादिप्रवेशं कर्मनिर्मितम्
मुहुर्विचिन्त्य मच्चिन्तं कम्पते जलचन्द्रवत्।। २४ ।।
एवं मां भवचक्रेऽस्मिन् भ्रममाणं सुदुःखितम्
कृपया केवलं श्रीमन् रक्ष नाथ कटाक्षतः।। २५ ।।
अहमुत्पत्तिवेळायां त्वत्कटाक्षादिवीक्षितः
सत्त्वोद्रेकेण सम्पन्नः सद्गत्याकाङ्क्षयान्वितः ।। २६
बाह्येषु विमुखो नित्यं वैदिकेऽभिमुखस्तथा
सद्भिस्सहैव निवसन् सत्कथाश्रवणे रत:।। २७ ।।
सदाचार्योपसत्तौ साभिलाषस्त्वदात्मकम्
तत्त्वज्ञाननिधिं तत्त्वनिष्टं सद्गुणसागरम्।। २८ ।।
सतां गतिं कारुणिकं तमाचार्यं यथाविधि
प्रणिपातनमस्कारप्रियवाग्भिश्च तोषयन्।। २९ ।।
त्वत्प्रसादवशेनैव तदङ्गीकारलाभवान्
तदुक्ततत्त्वयाथात्म्यज्ञानामृतसुसंभृतः।। ३० ।।
अर्थ रहस्यत्रितयगोचरं लब्धवानहम्
केवलं कृपया मां तु नयतस्ते प्रसादतः।। ३१ ।।
कारणं रक्षकं श्रीशं शेषिणं त्वां विचिन्तयन्
त्वदर्थमितरेषां शेषिणां विनिवर्तनात्।। ३२ ।।
अनन्यार्हं स्वतो नित्यं प्रकृत्यादिविलक्षणम्
पञ्चविंशं चिदानन्दस्वरूपगुणसंयुतम्।। ३३ ।।
अहमर्थमणुं नित्यमात्मवर्गं निरूप्य
तं स्वानर्हतासिद्धेरहन्ताममतोज्झिता।। ३४ ।।
स्वरक्षणेऽप्यस्वतन्त्रं त्वद्रक्ष्यत्वनिरूपितम्
विज्ञाय त्वदुपायत्वादनन्यशरणं तथा।। ३५ ।।
नित्यनि:सीमनिस्सङ्ख्यविभूतीनामुपाश्रयम्
तदन्तर्यामिणं देवं नाथं नारायणं प्रति।। ३६ ।।
नित्यं सर्वत्र निखिलावस्थं निरवशेषतः
प्रीतिकारितकैङ्कर्यनिरतं चिन्तयाम्यहम्।। ३७ ।।
इत्थं चेतनसामान्यरूपान्तर्भावतः स्वतः
स्वात्मनोऽप्यनुसन्धानं तथैव विदधाम्यहम्।। ३८ ।।
अकारार्थार्थभूतोऽहमनन्यार्हो ऽचितः परः
स्वार्थतारहितो नित्यमनन्यशरणस्तथा।। ३९ ।।
नारायणाय नाथाय किङ्करः स्यां निरन्तरम्
इति मन्त्रं स्वयाथात्म्यपरमेवानुसन्दधे।। ४० ।।
इत्थं प्रकाशितस्वात्मयाथात्म्यस्योचितामहम्
वृत्तिं प्रवृत्तिं निश्चित्य विदधामि द्वयेन ताम्।। ४१ ।।
त्वां श्रितां निखिलैस्सेव्यां श्रियं घटकभावतः
समाश्रित्य तया नित्यं युक्तं वात्सल्यसागरम्।। ४२ ।।
स्वामिनं शीलजलधिं सुलभं सुगमं तथा
सर्वज्ञं शक्तिसम्पन्नमाप्तकामञ्च शेषिणम्।। ४३ ।।
कारणं करुणापूर्णमशेषफलदायिनम्
त्वां विनिश्चित्य कल्याणनित्यमङ्गळरूपिणम्।। ४४ ।।
चरणौ तव सर्वात्मसाधारणशुभाश्रयौ
अरिष्टविनिवृत्त्यर्थमिष्टप्राप्यर्थमेव ।। ४५ ।।
उपायभावाच्छरणं प्रपद्येऽध्यवसायवान्
इयं प्रपत्तिविश्वासपूर्वकप्रार्थना मतिः।। ४६ ।।
तस्मान्ममापि मुख्यार्थप्रवृत्तिरियमित्यदः
त्वमेवोपायभूतस्सन् मां पाहि करुणाकर।। ४७ ।।
सर्वातिशायिताकारं स्वरूपगुणसम्पदा
श्रिया नित्यं सहासीनां देवदेवं जगत्पतिम्।। ४८ ।।
भवन्तमनुभूयाहमाह्लादपरिबृंहितः
नित्यं सार्वत्रिकं सर्वावस्थं सर्वविधं तथा।। ४९ ।।
ऐश्वर्यकैवल्याकीर्णं त्वदानन्दाद्विलक्षणम्
लक्ष्मीभोगाद्विशिष्टं कैङ्कर्यसुखमाप्नुयाम्।। ५० ।।
तत्र स्वार्थत्वसंभूतमहन्ताममतात्मकम्
प्रतिबन्धमशेषेण विनिवर्तय माधव ।। ५१ ।।
इत्थं द्वयार्थं संचित्य पूर्णप्रपदनात्मकम्
तत्र त्वदादरात्पुण्यं जाने श्लोकविधानतः।। ५२ ।।
अभीष्टोपायरूपेण साध्यानां चिरकालतः
स्वकर्मज्ञानभक्तीनां स्वरूपपरिशोधनात्।। ५३ ।।
स्वविलम्बाक्षमत्वेन स्वाकिञ्चन्यविरोधतः
स्वानुपायत्वनिष्कर्षात् सर्वं सन्त्यज्य दूरतः।। ५४ ।।
त्यागं स्वीकारविद्याङ्गं विनिश्चित्य मानतः
त्वत्सारथ्ये स्थितत्वेन सुशीलं भक्तवत्सलम् ।। ५५ ।।
अनन्यापेक्षरूपं त्वमद्वितीयमनुत्तमम्
अरिष्टध्वंसने दक्षमुपायं परिचिन्तयन्।। ५६ ।।
मनोवाक्कायसम्पन्नगतित्रितयगोचरम्
वर्जनं सर्वभावेन कुरु विश्वासपूर्वकम्।। ५७ ।।
अहं स्वार्धं सर्वात्मबन्धमोक्षविधिक्रम:
सार्वज्ञ्यसर्वशक्तित्वपूर्तिप्राप्तिदयोदधिः।। ५८ ।।
मयि निक्षिप्तकर्तव्यतन्त्रनिर्भरमुज्वलम्
त्वां प्रपत्तिक्रियामुद्रामुद्रितं मत्परायणम्।। ५९ ।।
पूर्वोत्तरारब्धाकारविभागेन विशेषितान्
निरस्तसाङ्ख्याद्दुर्मोचान्निखिलात् पापसंचयात्।। ६० ।।
मुक्तमेव करिष्यामि सङ्कल्पादेव मामकात्
कथं लभेतावस्थानं तमः समुदिते रवौ ।। ६१ ।।
तस्मादुपायसाध्यत्वदौष्कर्यात् त्वं विशेषतः
फलसिद्धिविलम्बाच्च शोकं कर्तुमर्हसि ।। ६२ ।।
इत्थं पार्थ समुद्दिश्य विधानाच्चरमोदितात्
भवतो बहुमन्तव्यां प्रपत्तिमनुसन्दधे।। ६३ ।।
एतावन्तं सदा ध्यानमित्थं मां कृपया नयन्
शेषाध्वलेशनयनं त्वमेव कुरु माधव।। ६४ ।।
त्वत्स्वरूपगुणाकारविभूतिविषयां मतिम्
विशदीकृत्य तां देव भक्तिरूपां कुरुष्व मे।। ६५ ।।
परभक्तिं परज्ञानं परमां भक्तिसम्पदम्
आविष्कुरु ममात्यर्थमात्मधर्मत्वयोगतः।। ६६ ।।
पूर्वाघमुत्तराघञ्च समारब्धमघं तथा
त्वत्प्राप्तिरोधकं कृत्स्नं निःशेष परिहारय।। ६७ ।।
शरीरे दारपुत्रादौ वनक्षेत्रादिके तथा
सङ्गं दुर्मोचमखिलं सहसैव विनाशय।। ६८ ।।
त्वद्गुणानुभवास्वादरसिकेषु महात्मसु
त्वदीयेषु परं प्रेम त्वमेव परिवर्धय।। ६९ ।।
द्वयार्थगतवाक्चित्तं तापैस्त्रिभिरनाकुलम्
यावच्छरीरपातं मां कुरुष्व त्वं त्वदन्तिके।। ७० ।।
योऽसौ त्वयैव दत्तो मे व्यवसायमहोदयः
कुरुष्व निश्चलममुं यावत्प्राप्त्यनुवर्तनम्।। ७१ ।।
ततो देहावसाने त्यक्तसर्वेतरस्पृहः
त्वामेवातिप्रबुद्धस्सन् पश्येयं भगवन्नहम्।। ७२ ।।
अव्यक्तबुध्यहङ्कारज्ञानकर्माक्षमानसैः
तन्मात्रमहाभूतैः परिकल्पितमादितः।। ७३ ।।
चर्मासृङ्मांसमेदोऽस्थिमज्जाशुक्लादिसंस्थितम्
तथा मूत्रपुरीषादिपूर्णं नित्यजुगुप्सितम्।। ७४ ।।
इदं शरीरं दुःखैकनिदानं परितप्य
नाड्या शतातिशायिन्या मां निर्गमय देहतः।। ७५ ।।
वह्न्यहःशुक्लपक्षोदगयनाब्दानिलास्थितान्
मार्गास्तैस्सत्कृतो गत्वा भित्वा सूर्यस्य मण्डलम्।। ७६ ।।
चन्द्रविद्युज्जलेशेन्द्रप्रजापतिसुपूजितः
अण्डमावृतिभेदांश्च व्यतिवर्त्य दशोत्तरान्।। ७७ ।।
अथ संख्याविहीनं तदव्यक्तमतिवर्तयन्
विरजाममृताकारां मां प्रापय महानदीम्।। ७८
कृत्वा सूक्ष्मशरीरस्य चिरसक्तस्य धूननम्
तस्माद्राहुविनिर्मुक्तचन्द्रसान्निभमण्डलम्।। ७९ ।।
तां नदीं मनसा तीर्य वैद्युतेनानुगच्छता
अमानवेन सहितं मां विभूतिं परां नय।। ८० ।।
तत्र स्वाभाविकाकारानवबोधादिकान् गुणान्
अनन्तानपरिच्छिन्नानसङ्ख्यान् मे प्रकाशय।। ८१ ।।
ततस्त्वप्राकृतं दिव्यं शुद्धसत्त्वप्रकाशकम्
पञ्चोपनिषदाकारं विग्रहं सुमनोहरम्।। ८२ ।।
प्रापय्य दिव्यामोदं ते रसं तेजः प्रवेश्य
स्वस्वरूपाभिनिष्पत्त्या लब्धसाम्यं मां कुरु।। ८३ ।।
ततश्चैरम्मदीयाख्ये तटाकेऽश्वत्थमूलतः
दिव्याप्सरोगणैः पञ्चशतसंख्यासमन्वितैः।। ८४ ।।
मालाचूर्णांजनक्षौमभूषाहस्तैरुपस्थितैः
ब्रह्मालङ्काररूपेण सादरं समलङ्कृतम्।। ८५ ।।
अभ्युत्थानार्थमायातैर्दिव्यजानपदैस्सुरै:
संघशस्समवेतैश्च सत्कृतं संभ्रमाकुलैः।। ८६ ।।
संसारनिरयादेवमुत्थाप्य करुणानिधे
मां त्वं गमय ते देव तद्विष्णोः परमं पदम्।। ८७ ।।
ततस्सूरिजनैदिव्यैर्वैकुण्ठपुरवासिभिः
राजमार्गगतं लाजपुष्पवृष्ट्यादितोषितम्।। ८८ ।।
दृष्ट्वा प्रणम्य चोत्थाय वैकुण्ठद्वारगोपुरम्
अन्तःप्रविष्टं पश्यन्तं धाम दिव्यमितस्ततः।। ८९ ।।
अथ मण्डपरत्नं तदानन्दपरिपूरितम्
महावकाशमाणिक्यस्तम्भसाहस्रशोभितम्।। ९० ।।
आरोप्य सूरिपरिषदन्तर्भावमहोदयम्
गमय त्वं त्वदीयं मां कृतकृत्यस्सुखी भवन्।। ९१ ।।
तत्र चाधारशक्त्यादिक्रमेण परिकल्पिते
धर्माद्यैस्सूरिभिस्तत्तत्पदगात्रमयात्मकैः।। ९२ ।।
निर्मिते निर्मले पीठे नानारत्नसमन्विते
शुभास्तरणसंयुक्ते सुन्दरेऽतिमनोहरे।। ९३ ।।
विलसद्दळसाहस्रपुण्डरीकाक्षिगोचरे
तत्कण्ठिकोपरितले तत्र चामीकरोज्वले।। ९४ ।।
अनन्तभोगपर्यंके विमले विस्तृतोच्छ्रिते
फणासहस्रमाणिक्यप्रभाचित्रवितानके।। ९५ ।।
आसीनमखिलस्यास्य स्वामिन्या जगतः स्वयम्
देव्या त्वदनपायिन्या श्रिया भूम्या नीळया।। ९६ ।।
समेतं सच्चिदानन्दशान्तोदितदशात्मकम्
सन्मङ्गळगुणावासं सदैकाकारविग्रहम्।। ९७ ।।
लावण्यकान्तिमयुतायोयनादिगुणोदधिम्।।
विश्वाधिराज्यपिशुनकिरीटमकुटोच्छ्रितै:।।। ९८
सुस्निग्धनीलकुटिलैरलकैर्ललिताळिकम्
सुविभक्तललाटास्थिमध्यपुण्डेन सेतुना।। ९९ ।।
आकर्णनासमालोलपुण्डरीकायतेक्षणम्
ऋजुनासमुखाघ्रातनिजश्यामोदसम्पदम्।। १०० ।।
अंसावलम्बिरत्नाढ्यकर्णिकामकरच्छविम्
निरस्तनिस्तुलाधिक्यदन्तमन्तस्स्मितोज्वलम् ।। १०१ ।।
शुद्धकोमलवत् स्वादुप्रवाळसदृशाधरम्
प्रफुल्लगण्डफलकं कर्णपूरपरिष्कृतम्।। १०२ ।।
पद्यचन्द्रामृतसर:प्रस्पार्धमुखमण्डलम्
भ्रूक्षेपालोकितालापैर्भुवनाह्लादकारणम्।। १०३ ।।
ग्रैवेयभूषाविलसत्कम्बुबन्धुरकन्धरम्
उन्नतांसमुदारोरस्फारच्छ्रीवत्सकौस्तुभम् ।। १०४ ।।
उदग्रपरीवरोदारदीर्घबाहुचतुष्टयम्
हारकेयूरकटकैरंगुलीयैश्च शोभितम् ।।१०५।।
भुजद्वयधृतोदग्रशंखचक्रविराजितम्
जानुप्रसारितभुजं पर्यंकन्यस्तबाहुकम्।। १०६ ।।
तनुमध्यं जगद्रक्षानिबद्धोदरबन्धनम्
नूतनाभिद्रदोदभूतविधिसूतिग्रहाम्बुजम् ।। १०७ ।।
कटीनिबद्धकाञ्चीकं कनकोज्वलवाससम्
रम्भेभहस्तकरभकान्तिचौर्यक्षमोरुकम्।। १०८ ।।
ककुद्मत्ककुदोदारजानुद्वितयशोभितम्
मनोज्ञजङ्घाद्वितयं महार्हमणिनूपुरम्।। १०९ ।।
शारदाम्भोजसदृशचरणद्वयसुन्दरम्
शरण्यं सर्वलोकानां चतुर्वर्गफलप्रदम्।। ११० ।।
अपौरुषेयवचसामभूमिं भक्तवत्सलम्
दुष्प्रापं विधिरुद्राद्यैः सुप्रापं भक्तिशालिभिः।। १११ ।।
शङ्खचक्रगदाखड्गशार्डाद्यैरायुधोत्तमैः
परीतं पुरुषाकारैरास्थानत्राणतत्परैः।। ११२ ।।
अनन्तविहगाधीशसेनान्याद्यैश्च सेवितः
गजाननाद्यैश्चण्डाद्यैः कुमुदाद्यैस्तथैव ।। ११३ ।।
अन्यैः परिजनैनित्येर्मुक्त गपरायणैः
पराङ्कुशाद्यैर्भक्तैरप्याचार्यस्समुपस्थितम्।। ११४ ।।
अवाप्तकामं लोकानामखिलानामधीश्वरम्
आत्मानुभवजानन्दादवाकीनमनादरम्।। ११५ ।।
भवन्तं तत्र दृष्ट्वैव प्रणमन् भवता स्वयम्
अङ्कमारोपितः प्रेम्णा भुजैरालिङ्गितस्तदा ।। ११६ ।।
आघातो मूर्ध्नि सस्नेहमात्रालोकाभिलक्षितः
शृणुयां सान्त्ववाक्यानि श्रोतृकर्णामृतानि ते।। ११७ ।।
ततः प्रणम्य पुरतः पाश्चयोस्त्वां तु पृष्ठतः
भक्तिरूपप्रबोधेन पश्यन् सह विभूतिभिः ।। ११८ ।।
सर्वत्र प्रसृतालादहठात्कारेण कारितः
त्वरमाणस्सदा कुर्यां कैङ्कर्याण्यखिलान्यहम्।। ११९ ।।
एकधा दशधा चैव शतधा सहस्रधा
अनन्तधा स्वयंकल्पादात्तकिङ्करविग्रहः।। १२० ।।
यथा द्रव्येषु लोकेषु तथा त्वां दययाश्रितम्
इमान् लोकान् कामभोगः कामरूप्यनुसञ्चरन्।। १२१ ।।
सर्वदा दूरविध्वस्तदुःखलेशलवांशकः
गुणानुभवजप्रीत्या कुर्यां दास्यमशेषतः।। १२२ ।।
यथा शेषञ्च गरुडं सुमित्रातनयं तथा
कुरुष्व मामनुचरं दययैव दयानिधे।। १२३ ।।
आत्मान्तरात्मरूपेण स्थितं चानुभवन् सदा
भवन्तमनुवर्तय स्वच्छन्दानुगतात्मकः।। १२४ ।।
पश्यन् नमन् समुत्तिष्ठन् प्रवृद्धप्रणयो भवन्
स्तुवन् नृत्यन् प्रमोदेन भवेयं भवदन्तिके।। १२५ ।।
यावदात्मकमानन्दान् साम गायन् सहामरैः
आशिषीय श्रिया साधं भवन्तमपि निर्विशन्।। १२६ ।।
इत्थं त्वत्सन्निधौ वाचमुक्तां मम दयानिधे
सत्यां कुरुष्व दयया तथा तत्प्रतिपादनात्।। १२७ ।।
सौम्यजामातृमुनिना सम्यग्दृष्टामिमां सदा
अध्यात्मविषयां चिन्तां परिचिन्वन् भवेत् सुखी ।। १२८ ।।

अस्मद्विधपरित्राणप्रेमप्रद्राणमानसम्
वादिकेसरिणं वन्दे सौम्यजामातरं मुनिम्।।

अध्यात्मचिन्ताग्रन्थ: समाप्तः ।।

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.