याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साहसप्रकरणम्

याज्ञवल्क्यस्मृतिः

व्यवहाराध्यायः

साहसप्रकरणम्

सामान्यद्रव्यप्रसभ हरणात्साहसं स्मृतम् ।
तन्मूल्याद्द्विगुणो दण्डो निह्नवे तु चतुर्गुणः । । २.२३० । ।

यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश्चैवं उक्त्वाहं दाता कारयेत्स चतुर्गुणम् । । २.२३१ । ।

अर्घ्याक्षेपातिक्रमकृद्भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् । । २.२३२ । ।

सामन्तकुलिकादीनां अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषां इति विनिश्चयः । । २.२३३ । ।

स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश्चोत्तमान्स्पृशेत् । । २.२३४ । ।

शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् । । २.२३५ । ।

वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् । । २.२३६ । ।

पितृपुत्रस्वसृभातृ दंपत्याचार्यशिष्यकाः ।
एषां अपतितान्योन्य त्यागी च शतदण्डभाक् । । २.२३७ । ।

वसानस्त्रीन्पणान्दण्ड्यो नेजकस्तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान्दश । । २.२३८ । ।

पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः । । २.२३९ । ।

तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश्च व्यवहर्ता यः स दाप्यो दमं उत्तमम् । । २.२४० । ।

अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् । । २.२४१ । ।

भिषङ्मिथ्याचरन्दण्ड्यस्तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राज पुरुषेषूत्तमं दमम् । । २.२४२ । ।

अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमं उत्तमम् । । २.२४३ । ।

मानेन तुलया वापि योऽंशं अष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् । । २.२४४ । ।

भेषजस्नेहलवण गन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश । । २.२४५ । ।

मृच्चर्ममणिसूत्रायः काष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः । । २.२४६ । ।

समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना । । २.२४७ । ।

भिन्ने पणे च पञ्चाशत् पणे तु शतं उच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् । । २.२४८ । ।

संभूय कुर्वतां अर्घं संबाधं कारुशिल्पिनाम् ।
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः । । २.२४९ । ।

संभूय वणिजां पण्यं अनर्घेणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः । । २.२५० । ।

राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत्स्मृतः । । २.२५१ । ।

स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी । । २.२५२ । ।

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च । । २.२५३ । ।

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.