याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः स्त्रीसंग्रहणप्रकरणम्

याज्ञवल्क्यस्मृतिः

व्यवहाराध्यायः

स्त्रीसंग्रहणप्रकरणम्

पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयोस्तथा । । २.२८३ । ।

नीवीस्तनप्रावरण सक्थिकेशावमर्शनम् ।
अदेशकालसंभाषं सहैकासनं एव च । । २.२८४ । ।

स्त्री निषेधे शतं दद्याद्द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा । । २.२८५ । ।

सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् । । २.२८६ । ।

अलंकृतां हरन्कन्यां उत्तमं ह्यन्यथाधमम् ।
दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः । । २.२८७ । ।

सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः ।
दूषणे तु करच्छेद उत्तमायां वधस्तथा । । २.२८८ । ।

शतं स्त्रीदूषणे दद्याद्द्वे तु मिथ्याभिशंसने ।
पशून्गच्छन्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् । । २.२८९ । ।

अवरुद्धासु दासीसु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् । । २.२९० । ।

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् । । २.२९१ । ।

गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् ।
अगृहीते समं दाप्यः पुमानप्येवं एव हि । । २.२९२ । ।

अयोनौ गच्छतो योषां पुरुषं वाभिमेहतः ।
चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे । । २.२९३ । ।

अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत् ।
शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः । । २.२९४ । ।

*********

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.