श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्थः सर्गः
ह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ ।
उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ।। 3.4.1 ।।
अथ परमपुरुषवहनफलं वक्तुमुक्रमते ह्रियमाणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमवगच्छन्त्यपि स्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ।। 3.4.1 ।।
एष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः ।
रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ।। 3.4.2 ।।
सत्यवान् सत्यवचनवान् । शीलवान् सदाचारसम्पन्नः । शुचिः ऋजबुद्धिः ।। 3.4.2 ।।
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा ।
मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ।। 3.4.3 ।।
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ।
वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ।। 3.4.4 ।।
एवं दैवं प्रत्याक्रुश्य विराधं प्रत्याह मामिति । वृकाः ईहामृगाः । “कोकस्त्वीहामृगो वृकः” इत्यमरः । शार्दूलाः महाव्याघ्राः । द्वीपिनः अल्पव्याघ्राः । “व्याघ्रो मृगारिः शार्दूलो हिंसारुश्चित्रकीमृगात् । चण्डश्चाल्पस्त्वयं द्वीपी” इति वैजयन्ती । नमस्त इत्येवं चुक्रोशेति पूर्वोणान्वयः ।। 3.4.3,4 ।।
तस्य रोद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह ।
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ।। 3.4.5 ।।
सव्यमित । ननु विराधादाने कबन्धादाने च लक्ष्मणः सव्यं रामो दक्षिणं भुजमच्छिनदित्यविशेषेणोच्यते, किमत्र नियामकमिति चेत्? उच्यते सर्वदा लक्ष्मणो रामस्य दक्षिणपार्श्व एव तिष्ठति, अतो गृह्णन् दक्षिणेन रामं सव्येन लक्ष्मणं चागृह्णादित्यविरोधः । तरसा बलेन ।। 3.4.5 ।।
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः ।
धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ।। 3.4.6 ।।
संविग्नः भीतः ।। 3.4.6 ।।
मुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम् ।
उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ।। 3.4.7 ।।
स विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः ।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ।। 3.4.8 ।।
मुष्टिभिरिति बहुवचनमावृत्त्या उद्यम्योद्यम्य सूदयन्तौ मुष्ट्यादिकमुद्धृत्योद्धृत्य प्रहरन्तौ । स्थण्डिले भूतले ।। 3.4.7,8 ।।
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् ।
भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ।। 3.4.9 ।।
भयेष्वभवदः शापापायकरणाय प्रसन्न इत्युच्यते ।। 3.4.9 ।।
तपसा पुरुषव्याघ्र राक्षसो ऽयं न शक्यते ।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ।। 3.4.10 ।।
शस्त्रेण शस्त्रादिभिः । निखनावहे भूमौ निक्षिपेव ।। 3.4.10 ।।
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः ।
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ।। 3.4.11 ।।
प्रश्रितं विनयान्वितं यथा तथा प्रोवचेत्यन्वयः ।। 3.4.11 ।।
हतो ऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै ।
मया तु पूर्वं त्वं मोहन्न ज्ञातः पुरुषर्षभः ।। 3.4.12 ।।
रामपादस्पर्शेन प्रत्यभिजानन्नाहः हत इत्यादि । त्वयेति शेषः । पुरुषर्षभः पुरुषोत्तमस्त्वं रामत्वेनावतीर्ण इति न ज्ञात इत्यर्थः ।। 3.4.12 ।।
कौसल्यासुप्रजा राम तात त्वं विदितो मया ।
वैदेही च महाभागा लक्ष्मणश्च महायशाः ।। 3.4.13 ।।
ज्ञानप्रकारमाह कौसल्येति । तात सर्वलोकजनक त्वं कौसल्यायाः सुप्रजाः । “नित्यमसिच् प्रजामेधयोः” इत्यसिच् । इति विदितो ऽसि । महाभागा श्रीर्वैदेहीत्यवगता । अयं च त्वदंशभूतो महायशाः त्वदनुवर्तवनजकीर्तिमान् लक्ष्मण इति विदितः ।। 3.4.13 ।।
अपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम् ।
तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ।। 3.4.14 ।।
एतावत्पर्यन्तं कुतो न ज्ञातवानसीत्यत्राह , अपीति । अपिर्गर्हायाम् । कस्य केन शाप इत्यत्राह तुम्बुरुरित्यादि । अहमिति शेषः ।। 3.4.14 ।।
प्रसाद्यमानश्च मया सो ऽब्रवीन्मां महायशाः ।
यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ।। 3.4.15 ।।
तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति ।
इति वेश्रवणो राजा रम्भासक्तं पुरा ऽनघ ।
अनुपस्थीयमानो मां सङ्क्रुद्धो व्याजहार ह ।। 3.4.16 ।।
उपकारस्मृत्योपश्लोकयति महायशा इति । प्रकृतिं स्वरूपम् । शापनिमित्तमाह अनुपस्थीयमान इति । रम्भासक्तं माम् अनुस्थीयमानः अवसरे मया असेव्यमानः अत एव सङ्क्रुद्धः राजा अस्मत्स्वामी वैश्रवणः इति उक्तप्रकारेण राक्षसो भवेति व्याजहार । पुनर्मया प्रसाद्यमान इत्यब्रवीच्च उक्तप्रकारेण शापावसानं चोवाचेति योजना ।। 3.4.15,16 ।।
तव प्रसादान्मुक्तो ऽहमभिशापात् सुदारुणात् ।
भुवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परन्तप ।। 3.4.17 ।।
स्वं भुवनं स्वर्गलोकम् । उपकारस्मृत्या मङ्गलमाशास्ते स्वस्ति व इति ।। 3.4.17 ।।
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ।। 3.4.18 ।।
वाचिककैङ्कर्यमातनोति इत इति । प्रतापवान् महातपाः । अधिकमर्धं यस्य तदध्यर्धं तच्च तद्योजनं च तस्मिन्, सार्धयोजन इत्यर्थः ।। 3.4.18 ।।
अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः ।
तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ।। 3.4.19 ।।
क्षिप्रं तदग्निप्रवेशात्पूर्वम् । ते त्वत्तः श्रेयः ब्रह्मलोकं विधास्यति पोषयिष्यति । यद्वा ते श्रेयः निवासस्थानप्रवेशनादिकम् ।। 3.4.19 ।।
अवटे चापि मां राम प्रक्षिप्य कुशली व्रज ।
रक्षसां गतसत्त्वानामेष धर्मः सनातनः ।
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ।। 3.4.20 ।।
अवट इति । अवटे श्वभ्रे कुशली आर्तत्राणरूपकुशलयुक्तः । गतसत्त्वानां गतासूनाम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । एषः अवटप्रक्षेपः । अस्य धर्मस्य फलमाह अवट इति ।। 3.4.20 ।।
एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ।
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ।। 3.4.21 ।।
तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ।। 3.4.22 ।।
स्वर्गसम्प्राप्तः सम्प्राप्तप्राय इत्यर्थः । खननानन्तरं स्वर्गप्राप्तेः ।। 3.4.21,22 ।।
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण ।
वने ऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रकर्मणः ।। 3.4.23 ।।
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति ।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ।। 3.4.24 ।।
कुञ्जरस्येत्यादि श्लोकद्वयम् । वैपुल्यं विधाय निम्नतां विधत्ते प्रदरः खन्यतामिति । प्रकृष्टो दरः प्रदरः ।। 3.4.23,24 ।।
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् ।
अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ।। 3.4.25 ।।
उत्तमम् अतिनिम्नम् । महात्मनः महाकायस्य ।। 3.4.25 ।।
तं मुक्तकण्ठं निष्पिष्य शङ्कुकर्णं महास्वनम् ।
विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ।। 3.4.26 ।।
मुक्तकण्ठं कण्ठाक्रमणरहितम् अत एव महास्वनम् । शङ्कुकर्णं शङ्कुः कीलं तत्सदृशकर्णं गर्दभाकारं वा । “शङ्कुर्णौ गर्दभोष्ट्रौ” इति बाणः । भैरवस्वनं भयङ्करप्रतिध्वानं यथा भवति तथा नदन्तम् । महास्वनमित्यत्र स्वभावोक्तिः । अत्रोच्चारणरूपकार्योक्तिरिति भिदा । 3.4.26 ।।
तमाहवे निर्जितमाशुविक्रमौ स्थिरावुभौ संयति सामलक्ष्मणौ ।
मदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम् ।। 3.4.27 ।।
समस्तमुक्तमेवार्थं वृत्तान्तरेण सङ्गृह्णाति तमाहव इत्यादिना । संयति युद्धे स्थिरौ ।। 3.4.27 ।।
अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ ।
समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ।। 3.4.28 ।।
बिलप्रक्षेपनिमित्तमाह अवध्यतामिति । महासुरस्य वृत्राद्यसुरसदृशस्य । समर्थ्य अयमेवास्य वधोपाय इति निश्चित्य ।। 3.4.28 ।।
स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः ।
निवेदितः काननचारिणा स्ययं न मे वधः शस्त्रकृतो भवेदिति ।। 3.4.29 ।।
न केवलं स्वनिश्चयः, विराधेन चानन्तरं तथोक्तमित्याह स्वयमिति । काननचारिणा रामेण । प्रसह्य बलात्कृत्य आत्मनो वधार्थं स्वयमीप्सितः मृत्युः बिलप्रवेशरूपवधोपायः । न मे वधः शस्त्रकृतो भवेदित्युपायान्तरं प्रतिषिद्ध्य स्वयं निवेदितः उक्तो हीति योजना ।। 3.4.29 ।।
तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने ।
बिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ।। 3.4.30 ।।
रामेण तद्भाषितमेव निशम्य तस्य विराधस्य बिलप्रवेशने मतिः कृता । रामेण बलेन बिलं प्रवेश्यमानेन रक्षसा वनं विनादितमिति योदना ।। 3.4.30 ।।
प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्याः प्रदरे निहत्य तौ ।
ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ।। 3.4.31 ।।
प्रहृष्टरूपौ पुलकितशरीरौ । वस्तुतो हर्षशोकावनयोर्न स्तः किन्तु तन्नटनमात्रमिति इवशब्देन सूचयति ।। 3.4.31 ।।
ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् ।
विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव । 3.4.32 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्थः सर्गः ।। 4 ।।
पत्नीसहितस्य रामस्य तद्रहितस्य परतन्त्रस्य लक्ष्मणस्य चोपमानमाह चन्द्रदिवाकराविवेति ।। 3.4.32 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुर्थः सर्गः ।। 4 ।।