श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टाविंशः सर्गः
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।
खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ।। 3.28.1 ।।
महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यङ्क्तुं खरोपकरणं हन्तारं राममाश्रये ।। निहतमित्यादि । निहतं दूषणं दृष्ट्वा रामस्य विक्रमं च दृष्ट्वा । स्थितस्य खरस्य त्रासो ऽभवदिति योजना ।। 3.28.1 ।।
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः ।
हतमेकेन रामेण त्रिशिरोदूषणावपि ।। 3.28.2 ।।
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ।
आससाद खरो रामं नमुचिर्वासवं यथा ।। 3.28.3 ।।
रक्षसां सम्बन्धि राक्षसम् । त्रिशिरोदूषणौ हतावित्यनुषङ्गः । बलं सैन्यं हतभूयिष्ठं हतप्रवरराक्षसं चतुर्दशसहस्रसङ्ख्याकाः प्रधाना हताः अवशिष्टं सैन्यं प्रेक्ष्यत्यर्थः । विमनाः विगतगर्वावस्थं मनो यस्य स तथा ।। 3.28.2,3 ।।
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् ।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ।। 3.28.4 ।।
बलवदत्यन्तं नाराचान् । “प्रक्ष्वेडनास्तु नाराचाः” इत्यमरः । रक्तभोजनानिति रक्तरूषितत्वेन रक्तभोजनत्वव्यपदेशः । आशीविषानिव सर्वानिव स्थितान् ।। 3.28.4 ।।
ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् ।
चकार समरे मार्गान् शरै रथगतः खरः ।। 3.28.5 ।।
शिक्षया धनुर्वेदशिक्षापाटवेन । ज्यां विधून्वन् अस्त्राणि दर्शयन्, अस्त्रप्रयोगपाटवं दर्शयन्नित्यर्थः । समरे शरैः मार्गान् नानाप्रकारांश्चकार ।। 3.28.5 ।।
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।
पूरयामास तं दृष्ट्वा रामो ऽपि सुमहद्धनुः ।। 3.28.6 ।।
स रामो ऽपि तं दृष्ट्वा बाणैः समुहद्धनुः सर्वा दिशः प्रदिशश्च पूरयामासेत्यन्वयः ।। 3.28.6 ।।
स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः ।
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ।। 3.28.7 ।।
सः रामः अविवरं नीरन्ध्रम् ।। 3.28.7 ।।
तद्बभूव शितैर्बाणैः खररामविसर्जितैः ।
पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ।। 3.28.8 ।।
पर्याकाशं परितः स्थितमाकाशम्, खररामयोश्चतुःपार्श्ववर्त्याकाशमित्यर्थः । सर्वतः सर्वत्र । अनाकाशम् अनवकाशं बभूव ।। 3.28.8 ।।
शरजालावृतः सूर्यो न तदा स्म प्रकाशते ।
अन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः ।। 3.28.9 ।।
शरजालेति । संरम्भात् कोपात् । “संरम्भः सम्भ्रमे कोपे” इत्यमरः । उभयोः शरजालावृत इत्यन्वयः ।। 3.28.9 ।।
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
आजघान खरो रामं तौत्रैरिव महाद्विपम् ।। 3.28.10 ।।
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ।
ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ।। 3.28.11 ।।
तौत्रैः गजशिक्षणयष्टिभिः ।। 3.28.10,11 ।।
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् ।
परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ।। 3.28.12 ।।
हन्तारमिति । खरः सर्वसैन्यहननपरिश्रान्तमपि रामं पौरुषे पर्यवस्थितं महासत्त्वं मेने । यद्वा उक्तविशेषणं रामं परिश्रान्तं मेने ।। 3.28.12 ।।
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।
दृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ।। 3.28.13 ।।
तम् । नोद्विजने नाचलत् । क्षुद्रमृगं शशम् ।। 3.28.13 ।।
ततः सूर्यनिकाशेन रथेन महता खरः ।
आससाद रणे रामं पतङ्ग इव पावकम् ।। 3.28.14 ।।
पतङ्ग इत्यनेन अमृत्वा अनिवृत्तिरुच्यते ।। 3.28.14 ।।
ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।
खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ।। 3.28.15 ।।
मुष्टिदेशे मुष्टिबन्धनसमीपदेशे । महात्मन इत्यनेन मुष्टिदेशे पततो बाणस्य परिहरणसामर्थ्यं व्यज्यते । लाघवं शैघ्य्रं चिच्छेद रामस्य किञ्चिच्छ्रान्तत्वेनानवधानादितिः भावः ।। 3.28.15 ।।
स पुनस्त्वपरान् सप्त शरानादाय वर्मणि ।
निजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ।। 3.28.16 ।।
पाणिलाघवमेवाह स पुनरित्यादिना । वर्मणि निजघान अवदारयति स्म ।। 3.28.16 ।।
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः ।
पपात कवचं भूमौ रामस्यादित्यवर्चसः ।। 3.28.17 ।।
ततः शरसहस्रेण राममप्रितमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ।। 3.28.18 ।।
आदित्यवर्चस इत्यनेन कवचपतनानन्तरं प्रकाशमानतेजोविशेष उच्यते ।। 3.28.17,18 ।।
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः ।
रराज समरे रामो विधूमो ऽग्निरिव ज्वलन् ।। 3.28.19 ।।
अर्पितः संयुक्तः । विधूम इत्यनेन ज्वालाधिक्यमुच्यते ।। 3.28.19 ।।
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ।
चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ।। 3.28.20 ।।
गम्भीरनिर्ह्रादं गम्भीरध्वनिकं धनुः रिपोरन्ताय नाशाय सज्यं चकारेत्यन्वयः ।। 3.28.20 ।।
सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।
वरं तद्धनुरुद्यम्य खरं समभिधावत ।। 3.28.21 ।।
यत्तदिति प्रसिद्ध्यतिशयवाची । महर्शिणा अगस्त्येन अतिसृष्टं दत्तम् । समभिधावत समभ्यधावत ।। 3.28.21 ।।
ततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः ।
बिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ।। 3.28.22 ।।
सन्नतपर्वभिः ऋजुपर्वभिः ।। 3.28.22 ।।
स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः ।
जगाम धरणीं सूर्यो देवतानामिवाज्ञया ।। 3.28.23 ।।
स इति । दर्शनीयः रम्यः । आज्ञया शापेन । उत्प्रेक्षेयम् ।। 3.28.23 ।।
तं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः ।
विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ।। 3.28.24 ।।
स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः ।
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ।। 3.28.25 ।।
मातङ्गं गजम् । तोमरैः गजशिक्षादण्डैः । चतुर्भिरित्यत्र वीप्सा बोध्या । बहुभिरित्यनुवादात् ।। 3.28.24,25 ।।
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।
मुमोच परमेष्वासः षट् शरानभिलक्षितान् ।। 3.28.26 ।।
स धनुरिति । परमेष्वासः उत्कृष्टशरासनः । अभिलक्षितान् प्रसिद्धान् ।। 3.28.26 ।।
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् ।
त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ।। 3.28.27 ।।
षण्णां विनियोगप्रकारमाह शिरसीत्यादिना । द्वाभ्यामिति बाह्वोरिति एकैकस्य बाहोरेकैकेनेत्यर्थः । चन्द्रार्धवक्त्रैः अर्धचन्द्राकारमुखैरित्यर्थः ।। 3.28.27 ।।
ततः पश्चान्महातेजा नाराचान् भास्करोपमान् ।
जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ।। 3.28.28 ।।
तत इति । त्रयोदश नाराचान् समादद इत्यन्वयः । अन्तिमपादे त्रयोदश शरान् शितानिति पाठे मुमोचेति क्रियाध्याहार्या ।। 3.28.28 ।।
ततो ऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ।। 3.28.29 ।।
त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु बाणेन खरस्य सशरं धनुः ।। 3.28.30 ।।
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ।। 3.28.31 ।।
त्रयोदशानां विनियोगमाह ततो ऽस्येत्यादिना । छित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र सम्बध्यते । त्रिवेणुर्नाम रथमुखस्थो युगाधारदण्डः । प्रहसन्निव लीलयेत्यर्थः ।। 3.28.2931 ।।
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ।। 3.28.32 ।।
अवप्लुप्य रथान् समुल्लङ्घ्य ।। 3.28.32 ।।
तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च ।
अपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ।। 3.28.33 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टाविंशः सर्गः ।। 28 ।।
तत्कर्म खरभङ्गकर्म । अपूजयन् अस्तुवन् । समेत्य समूहीभूय । समेताः आगताः ।। 3.28.33 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टाविंशः सर्गः ।। 28 ।।