श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनचत्वारिंशः सर्गः
एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे ।
इदानीमपि यद्वृतं तच्छृणुष्व निरुत्तरम् ।। 3.39.1 ।।
अपराधविहीनेषु नापराधं करोति यः । दयालुं सर्वभूतेषु तमहं राममाश्रये ।। एवमित्यादि । इदानीमपि । यद्वृत्तं मद्विषयमभूत् तत् निरुत्तरं शृणुष्व मध्ये वाक्याविच्छेदाकरणेन शृण्वित्यर्थः । यदुत्तरमिति पाठे यत्सर्वान्तोत्तरं तदतिरिक्तासाध्यं तदपि शृण्वित्यर्थः ।। 3.39.1 ।।
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ।। 3.39.2 ।।
राक्षसाभ्यामिति । तथाकृतः उक्तरीत्या प्राणसङ्कटं प्रापितो ऽपि । अनिर्विण्णः निर्वेदरहितः,
निर्वेदो निष्फलत्वधीः । अप्राप्ततद्विषयप्रवृत्तिवैराग्य इत्यर्थः ।। 3.39.2 ।।
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः ।
व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ।। 3.39.3 ।।
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण ।
अत्यन्तघोरो व्यचरं तापसान् सम्प्रधर्षयन् ।। 3.39.4 ।।
निहत्य दण्डकारण्ये तापसान् धर्मचारिणः ।
रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ।। 3.39.5 ।।
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् ।
तथा रुधिरमत्तोहं विचरन् धर्मदूषकः ।। 3.39.6 ।।
आसादयं तदा रामं तापसं धर्मचारिणम् ।
वैदेहीं च महाभागां लक्ष्मणं च महारथम् ।। 3.39.7 ।।
दीप्तजिह्वा इत्यादिविशेषणत्रयेण निरपेक्षहननसाधनभूयस्त्वं विवक्ष्यते ।। 3.39.37 ।।
तापसं नियताहारं सर्वभूतहिते रतम् ।
सो ऽहं वनगतं रामं परिभूय महाबलम् ।। 3.39.8 ।।
तापसो ऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ।
अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ।। 3.39.9 ।।
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ।
तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ।
विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः ।। 3.39.10 ।।
रामपराक्रमं जानन्नपि कथं तत्परिभवायोद्युक्त इत्यत्राह तापसो ऽयमिति । ज्ञात्वेति तापसत्वादहिंसापरेण भवितव्यमिति विश्वस्येत्यर्थः । एवंविधदुर्व्यापारप्रयोजकं वैरस्मरणम् अकृता अप्रवर्तिता प्रज्ञा बुद्धिर्यस्य सः ।। 3.39.810 ।।
ते बाणा वज्रसङ्काशाः सुमुक्ता रक्तभोजनाः ।
आजुग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः ।। 3.39.11 ।।
सर्वे इति प्रयोगयौगपद्यार्थमुक्तम् । सन्नतपर्वणः सन्नतपर्वाणः ।। 3.39.11 ।।
पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा ।
समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ।। 3.39.12 ।।
दृष्टं भयं येन करणेन स दृष्टभयः । उद्भ्रान्तः पलाय्य गतः । मुक्त इति पलायितेषु रामशराप्रवृत्तेरिति भावः । रामस्येति पदं काकाक्षिन्यायात् पूर्वोत्तरपदयोरन्वेति । यतः मया रामस्य शरः पुरा दृष्टभयः ततः रामस्य पराक्रमज्ञो ऽहं समुद्भ्रान्तः सन् मुक्तः । रामपराक्रमाज्ञौ तावुभौ राक्षसौ तु हतावित्यन्वयः ।। 3.39.12 ।।
शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम् ।
इह प्रव्राजितो युक्तस्तापसो ऽहं समाहितः ।। 3.39.13 ।।
प्रव्राजितः कृतसकलदुर्वृत्तपरित्याग इत्यर्थः । युक्तः उचिताचरणः । तापसः तपोनिष्ठः । समाहितः नियतमनस्कः ।। 3.39.13 ।।
वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।
गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ।। 3.39.14 ।।
वृक्षे वृक्षे इति । “हृदयान्नापयातो ऽसि दिक्षु सर्वासु दृश्यसे ।” “रामभूतं जगदभूद्रामे राज्यं प्रशासति ।” इत्यादाविव शोकरागभयादिजनितनिरन्तरसन्तन्यमानचिन्तासक्तस्य साक्षात्कारोपपत्तिः । भयस्योत्तरोत्तरभूमिकाभिप्रायेण दर्शनस्याप्युत्तरोत्तरदशेत्यनुसन्धेयम् ।। 3.39.14 ।।
अपि रामसहस्राणि भूतः पश्यामि रावण ।
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ।। 3.39.15 ।।
एकस्यैव रामस्य प्रतिवृक्षं गत्वा गत्वा दृश्यमानत्वमुच्यत इति भ्रमं वारयति अपीति । न केवलं प्रतिवृक्षं किन्तु सर्वत्र प्रदेश इत्याह रामभूतमिति ।। 3.39.15 ।।
राममेव हि पश्यामि रहिते राक्षसाधिप ।
दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ।। 3.39.16 ।।
नेदं रामस्य मायाकृतमित्याह राममेवेति । रहिते रामरहिते प्रदेशे । न केवलं जाग्रद्दशायामेव प्रतीतो ऽयं किन्तु स्वप्नदशायामपीत्याह दृष्ट्वेति । उद्भ्रमामि भ्रान्तं प्रलापं करोमीत्यर्थः ।। 3.39.16 ।।
रकारादीनि नामानि रामत्रस्तस्य रावण ।
रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ।। 3.39.17 ।।
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ।
बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः ।। 3.39.18 ।।
न केवलं दर्शनदशायां भीतिकार्यम्, श्रवणदशायामपीत्याह रकारादीनीति । कारप्रत्ययश्छान्दसः । रेफादीनि यानि रत्नादीनि नामानि तेषामाद्याक्षरोच्चारणे राममेवायमब्रवीदिति त्रासो जायते । द्वितीयाक्षरोच्चारणे शनैः स निवर्तत इति भावः ।। 3.39.17,18 ।।
रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस ।
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ।। 3.39.19 ।।
यदि वैरनिर्यातनं कर्तुमिच्छसि तदा रामेण रणे युद्ध्यस्व । यद्वा क्षमां कुरु खरादिवधं सहस्व सर्वथा चौरव्यापारो न कर्तव्य इति भावः । हितं चाह न त इति । रामकथा रामप्रसङ्गो ऽपि । ते त्वया न कार्या यदि मां द्रष्टुमिच्छसि जीवितुमिच्छसीत्यर्थः ।। 3.39.19 ।।
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।
परेषामपराधेन विनष्टाः सपरिच्छदाः ।। 3.39.20 ।।
लोकन्यायमाह बहव इति । युक्ताः सम्यगाचाराः धर्मम् अनुष्ठिताः अनुष्ठितवन्तः साधवो ऽपि परेषामपराधेन विनष्टाः असत्संसर्गदोषेणेत्यर्थः ।। 3.39.20 ।।
सो ऽहं तवापराधेन विनश्येयं निशाचर ।
कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह ।। 3.39.21 ।।
सामान्यन्यायं स्वविषये दर्शयति सो ऽहमिति । सो ऽहं साधुभूतो ऽहम् । यत्ते क्षमं यत्त्वया कर्तुं शक्यं तत् त्वमेव कुरु । अहं त्वा त्वां नानुयामि अनर्थस्य निश्चितत्वादित्यर्थः ।। 3.39.21 ।।
रामश्च हि महातेजा महासत्त्वो महाबलः ।
अपि राक्षसलोकस्य न भवेदन्तको ऽपि सः ।। 3.39.22 ।।
तत्र हेतुमाह रामश्च हीति । हिः प्रसिद्धौ । अपिः कामचारकरणे “अपिः सम्भावनाप्रश्नशङ्कागर्हासमु़च्चये । तथा युक्तपदार्थेषु कामचारप्रियासु च” इति विश्वः । द्वितीयो ऽपिशब्दः अवधारणे ।। 3.39.22 ।।
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।। 3.39.23 ।।
अत्र ब्रूबि यथातत्त्वं को रामस्य व्यतिक्रमः ।। 3.39.24 ।।
खरवधेन नाग्रहः कार्य इत्याह यदीति । सीतापरिभवकरणेन शूर्पणखा विरूपिता खरश्चातिवृत्तो रामस्योपरि गत्वा प्रहारोद्युक्तो रामेण हतः अत्र रामस्य व्यतिक्रमः कः? न कोपीत्यर्थः ।। 3.39.23,24 ।।
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे ।
सबान्धवस्त्यक्ष्यसि जीवितं रणे हतो ऽद्य रामेण शरैरजिह्मगैः ।। 3.39.25 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनचत्वारिंशः सर्गः ।। 39 ।।
अवश्यं वक्तव्यमर्थं पुनर्निष्कृष्य दर्शयति इदमिति । यथोच्यमानं परमार्थत उच्यमानम् । नाभिपत्स्यसे नाङ्गीकरोषि ।। 3.39.25 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ।। 39 ।।