श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग:
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह ।
किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। 2.101.1 ।।
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह इत्यादि अयं सर्ग एवात्र लेखनीय: । ‘तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम्’ इत्यादिसर्गस्तु लेखकै: प्रमादाल्लिखित: । तस्योक्तप्रश्नोत्तरत्वाभावात् । अत्र भरतोच्यमानपितृमरणश्रवणानन्तरं रामस्य दु:खितत्वाश्रवणात् । अत्र महेश्वरतीर्थेन सर्गपौर्वापर्यवैपरीत्यमनालोच्य स्वदृष्टकोशमात्रप्रामाण्येन ‘तं तु राम: समाज्ञाय’ इत्यादिकं सर्गमेवैकोत्तरशततमं मन्वानेन तत्सर्गव्याख्यानान्ते तत्रत्यार्थविरोधमालोच्यैवमाक्षेपपरिहारावुक्तौ । “ननु–आर्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् । गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ।। इति । इमा: प्रकृतय: सर्वा विधवा मातरश्च या: । त्वत्सकाशमनुप्राप्ता: । इति च भरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घ्याभिषेकप्रत्याख्यानमेव किमिति कृतवान् नैष दोष: । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुषङ्गिकत्वेनोक्तं राज्यस्वीकरणमेव प्राधान्येनोक्तम् । अतो रामस्तदेवं मन्यते । पिता पुत्रशोकेन मृतकल्पा न पुनर्जीविष्यतीति मृत इत्युच्यते । मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते । अनेन ममाभिषेचनमेव प्राधान्येनोच्यत इत्यशोचन्नभिषेकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थ:” इति । अत्रायं परिहारो न युज्यते । यदि च पिता मृतकल्पत्वेन मृत इत्युच्यत इति रामो गृह्णीयात् तदा ‘व्यादिश्य च महातेजा दिवं दशरथो गत:’ इति नानुवदेत् । यस्तु स्वाशयं स्वयमेवैवमिति वदति तस्यान्येन गत्यन्तरे सति तद्विरुद्धाभिप्रायकल्पनं कथं कर्तुं शक्यम् ? अतो ऽनेनैवानुवादेन रामेण पिता मृत इत्येव गृहीतमिति भाति । किञ्च प्रकृतीनां मातृ़णां च समागमनात्पूर्वम् “इमा: प्रकृतय: सर्वा विधवा मातरश्च या: । त्वत्सकाशमनुप्राप्ता: प्रसादं कर्तुमर्हसि” इत्यङ्गुल्यादिनिर्देशानुपपत्तेश्च । अत: ‘तं तु राम: समाज्ञाय’ इत्यादिसर्ग: वसिष्ठं पुरत: कृत्वेति त्र्युत्तरशततमसर्गानन्तरं चतुरुत्तरशततमसर्गत्वेन लेखनीय: पठनीयश्च । तथा चेत्सङ्गत: स्यात् । अतो ऽत्र रामस्य वचनं श्रुत्वेत्ययं सर्ग एव व्याख्यायते–रामस्य वचनं श्रुत्वेत्यादि । धर्मात् त्वत्सेवारूपमुख्यधर्मात् । यद्वा धर्मात् त्वदुक्तराजधर्मानुष्ठानहेतुभूतराजभावात् । राजधर्म: त्वदुक्तनीतिस्थ: ।। 1.101.1 ।।
शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ ।
ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। 2.101.2 ।।
कुतस्ते राजभावाभाव इत्यत्राह–शाश्वत इति । अस्मासु अस्मत्पूर्वेषु ।। 2.101.2 ।।
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।
अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। 2.101.3 ।।
स समृद्धामिति । भवाय भद्राय । “भवो भद्रे हरे प्राप्तौ सत्ता संसारजन्मसु” इति वैजयन्ती ।। 2.101.3 ।।
राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। 2.101.4 ।।
न सर्वसुलभं राजत्वमित्याह–राजानमिति । प्राहु: प्राकृता जना इति शेष: । स राजा मम देवत्वे मत: । देवत्वेन सम्मत इत्यर्थ: ।। 2.101.4 ।।
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।
दिवमार्यो गतो राजा यायजूक: सतां मत: ।। 2.101.5 ।।
एवं सन्निहितनीति प्रश्नस्योत्तरमुक्त्वा प्राथमिकराजविषयप्रश्नस्योत्तरमाह–केकयस्थ इति । यायजूक: इज्याशील: । “इज्याशीलो यायजूक:” इत्यमर: ।। 2.101.5 ।।
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।
दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। 2.101.6 ।।
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: ।
अहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। 2.101.7 ।।
मन्निर्गमनानन्तरं कतिदिवसेषु राजा दिवं गत इत्यत्राह–निष्क्रान्तमात्र इति ।। 2.101.67 ।।
प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। 2.101.8 ।।
भवद्भ्यां दत्ते किं मयापि दातव्यमित्यत्राह–प्रियेणेति ।। 2.101.8 ।।
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। 2.101.9 ।।
प्रियत्वमेव दर्शयति–त्वामेवेति । रुग्ण: पीडित इति यावत् ।। 2.101.9 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ।। 101 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोत्तरशततम: सर्ग: ।। 101 ।।