श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्यकाण्डे अष्टषष्टितम: सर्ग:
तेषां हि वचनं श्रुत्वा वसिष्ठ: प्रत्युवाच ह ।
मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वच: ।। 2.68.1 ।।
तेषामित्यादि । मित्रामात्यगणान् मित्रभूतामात्यगणान् सुमन्त्रादीन् । ब्राह्मणान् मार्कण्डेयादीन् ।। 2.68.1 ।।
यदसौ मातुलकुले पुरे राजगृहे सुखी ।
भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वित: ।। 2.68.2 ।।
तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयै: ।
आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ।। 2.68.3 ।।
यदित्यादि । राजगृहे राजगृहाख्ये पुरे । यद्यस्मात् वसति तत्तस्मात् जवना: वेगवन्त: दूता: गच्छन्त्विति सम्बन्ध: । किं समीक्षामहे किं विचारयाम: । राज्ञैव भरताय राज्यस्य दत्तत्वादिति भाव: ।। 2.68.23 ।।
गच्छन्त्विति तत: सर्वे वसिष्ठं वाक्यमब्रुवन् ।
तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ।। 2.68.4 ।।
तथैवामात्या अनुजानन्ति गच्छन्त्विति ।। 2.68.4 ।।
एहि सिद्धार्थ विजय जयन्ता शोकनन्दन ।
श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि व: ।। 2.68.5 ।।
एहीति । सिद्धार्थविजयजयन्ताशोकाख्या मन्त्रिसमाननामानो दूता: नतु मन्त्रिण: । मन्त्रिव्यतिरिक्तनन्दनशब्दसहपाठात् । ‘पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिण:’ इत्युपरि वक्ष्यमाणत्वाच्च । इतिकर्तव्यं कार्यकलापम् ।। 2.68.5 ।।
पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयै: ।
त्यक्तशोकैरिदं वाच्य: शासनाद्भरतो मम ।। 2.68.6 ।।
पुरमिति । त्यक्तशोकै:, भवद्भिरिति शेष: । इदं वक्ष्यमाणं वचनं मम शासनात् भरतो वाच्य: ।। 2.68.6 ।।
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिण: ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ।। 2.68.7 ।।
पुरोहित इति । मन्त्रिण: प्राहुरिति विपरिणाम: । अत्यय: कालातिपात: । तं प्राप्तमात्ययिकम् । “विनयादिभ्यष्ठक्” इतिठक् । तादृशं कृत्यमस्ति अतस्त्वरमाणो निर्याहीति वाच्य इत्यनुकर्ष: । यद्वा अत्यय: कृच्छ्रं तत्र भवमात्ययिकम् । “अत्ययो ऽतिक्रमे कृच्छ्रे” इत्यमर: । कृत्यमस्तीति शेष: ।। 2.68.7 ।।
मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।
भवन्त: शंसिषुर्गत्वा राघवाणामिमं क्षयम् ।। 2.68.8 ।।
मा चेति । मा शंसिषुरित्यन्वय: । राघवाणां क्षयम् अपचयम्, तेज:क्षयमित्यर्थ: । “निलयापचयौ क्षय:” इत्यमर: ।। 2.68.8 ।।
कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ।। 2.68.9 ।।
कौशेयानीति । कौशेयानि पट्टवस्त्रविशेषान् । राज्ञ: केकयराजस्य ।। 2.68.9 ।।
दत्तपथ्यशना दूता जग्मु: स्वं स्वं निवेशनम् ।
केकयांस्ते गमिष्यन्तो हयानारुह्य सम्मतान् ।। 2.68.10 ।।
दत्तपथ्यशना इति । दत्तपथ्यशना: दत्तमार्गाशनहेतुभूतद्रव्या इत्यर्थ: । स्वनिवेशगमनं स्त्रीप्रभृतीनां स्वप्रयाणं कथयितुम् । सम्मतान् जवनत्वेनाध्वश्रमसहत्वेन च सम्मतान् ।। 2.68.10 ।।
तत: प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् ।
वसिष्ठेनाभ्यनुज्ञाता दूता: सन्त्वरिता ययु: ।। 2.68.11 ।।
तत इति । प्रास्थानिकं प्रस्थानप्रयोजनकम् । अनन्तरं कार्यशेष पाथेयादिकं च कृत्वा पुनर्वसिष्ठेनाभ्यनुज्ञानं स्वविलम्बस्याल्पत्वं द्योतयितुम् ।। 2.68.11 ।।
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति ।
निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम् ।। 2.68.12 ।।
न्यन्तेनेति । अपरतालस्य अपरतालो नाम गिरि: तस्य न्यन्तेन नितरामन्तेन, चरमप्रदेशेनेत्यर्थ: । “अन्तो जघन्यं चरमम्” इत्यमर: । प्रलम्बस्य प्रलम्बाख्यगिरे: । उत्तरं प्रतिउत्तरभागमुद्दिश्य । तयोर्मध्येन मालिनीं नदीं निषेवमाणा जग्मु: । अपरताल: पुरस्ताद्दक्षिणोत्तरायत: प्रलम्ब: पश्चाद्भागे दक्षिणोत्तरायत: पूर्वापरायतश्चेति पर्वतसंनिवेश: । प्रथममयोध्याया: पश्चिमाभिमुखं निर्गच्छन्त: तयोर्मध्येन उदङ्मुखा: कियन्तमध्वानं मालिनीतीरमार्गेण गत्वा तत: प्रलम्बस्योत्तरभागेन पश्चिमाभिमुखा जग्मुरित्यर्थ: ।। 2.68.12 ।।
ते हस्तिनपुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययु: ।
पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ।। 2.68.13 ।।
सरांसि च सुपूर्णानि नदीश्च विमलोदका: ।
निरीक्षमाणास्ते जग्मुर्दूता: कार्यवशाद्द्रुतम् ।। 2.68.14 ।।
ते हस्तिनपुर इत्यादिश्लोकद्वयमेकं वाक्यम् । हस्तिनपुरे हस्तिनपुरसमीपे । गङ्गां तीर्त्वा प्रत्यङ्मुखा: सन्त: जग्मु:, ते दूता: मध्येन कुरुजाङ्गलं कुरुजाङ्गलस्य मध्यमार्गेण । “एनपा द्वितीया” इति द्वितीया । कुरुदेशैकदेशो जाङ्गल: हस्तिनपुरस्य कुरुदेशस्थत्वात्तदन्तर्गतजाङ्गलाख्यदेशमध्येन पाञ्चालदेशमासाद्य तत्र देशे सर:प्रभृतीन्निरीक्षमाणा जग्मु: ।। 2.68.1314 ।।
ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ।
उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् ।। 2.68.15 ।।
त इति । शरदण्डां शरदण्डाख्यां नदीम् । उपातिजग्मु: उपगम्यातीत्य जग्मु: ।। 2.68.15 ।।
निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् ।
अभिगम्याभिवाद्यं तं कुलिड्गां प्राविशन् पुरीम् ।। 2.68.16 ।।
निकूलवृक्षमिति । निकूलवृक्षं शरदण्डाया: पश्चिमकूलस्थं पुण्यवृक्षम् । दिव्यं देवाधिष्ठानवत् । सत्यमुपयाचनं प्रार्थनं यस्मादित्यन्वर्थनाम सत्योपयाचनमिति, अर्थितार्थप्रदमित्यर्थ: । अभिवाद्यं सर्वनमस्कार्यम् । अभिगम्य प्रदक्षिणीकृत्य, कुलिङ्गां पुरीं प्राविशन् ।। 2.68.16 ।।
अभिकालं तत: प्राप्य ते बोधिभवनाच्च्युताम् ।
पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम् ।। 2.68.17 ।।
अभिकालमिति । अभिकालं तदाख्यग्रामम् । कुलिङ्गासाहचर्यात् बोधिभवनात् तदाख्यात् पर्वतात् नदीमूलत्वोक्ते: । पितृपैतामहीं दशरथवंश्यानुभूताम्, तत्तीरप्रदेशग्रामा इक्ष्वाकूणामिति भाव: ।। 2.68.17 ।।
अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान् ।
ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम् ।। 2.68.18 ।।
अवेक्ष्येति । अञ्जलिपानान् अञ्जलिप्रमाणजलमात्राहारान् । ब्राह्मणान् इक्षुमतीतीरवासिन: । मध्येन बाह्लीकान् बाह्लीकदेशानां मध्येन । “एनपा द्वितीया” । सुदामानं सुदामाख्यम् ।। 2.68.18 ।।
विष्णो: पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् ।
नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ।। 2.68.19 ।।
पश्यन्तो विविधांश्चापि सिंहव्याघ्रमृगद्विपान् ।
ययु: पथाति महता शासनं भर्तुरीप्सव: ।। 2.68.20 ।।
विष्णो: पदमित्यादि । विष्णो: पदं विष्णो: पदाङ्कितं स्थानम् । इदं च स्थानं सुदामाख्यपर्वतवर्तिसान्निध्यात् । विपाशां सुदामपर्यन्तनदीम् । शाल्मलीं तत्तीरवर्तिशाल्मलीवृक्षम् । अत्र मार्गविशेषवर्णनं पुण्यभूमित्वेन नराणां सेवनीयत्वद्योतनार्थम् ।। 2.68.1920 ।।
ते श्रान्तवाहना दूता विकृष्टेन पथा तत: ।
गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा ।। 2.68.21 ।।
त इति । विकृष्टेन विप्रकृष्टेन अतिदूरेणेत्यर्थ: । गिरिव्रजमिति केकयपुरस्य नामान्तरम् । शीघ्रशब्दसान्निध्येन अञ्जसाशब्देन मानसत्वरोच्यते । अञ्जसा आर्जवेनेति वार्थ: ।। 2.68.21 ।।
भर्तु: प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम् ।
अहेडमानास्त्वरया स्म दूता रात्र्यां तु ते तत्पुरमेव याता: ।। 2.68.22 ।।
भर्तुरिति । भर्तु: दशरथस्य । प्रियार्थं शीघ्रानीतभरतकृतौर्द्ध्वदैहिकादिना दशरथस्य परलोकप्राप्तिहेतुत्वात् । कुलरक्षणार्थं सनाथीकरणेन कुलजातानां संरक्षणार्थम् । भर्तुर्वंशस्य इक्ष्वाकुवंशस्य । परिग्रहार्थं प्रतिष्ठार्थम् । यद्वा भर्तुर्वंशो भरतादि: तस्य परिग्रहार्थं प्रतिष्ठार्थम् । पित्रौर्द्ध्वहिककर्मनिर्वर्तनेन सज्जनपरिग्रहार्थं वा । अहेडमाना: “हेडृ अनादरे” इत्यस्माद्वातौ: शानच् । अनादरमकुर्वाणा:, सादरा इति यावत् । अत एव त्वरया युक्ता: दूता: रात्र्यामेव अस्तमयानन्तरमपि कियत्कालं गत्वा रात्र्यामेव तत्पुरं याता: ।। 2.68.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्यकाण्डे अष्टषष्टितम: सर्ग: ।। 68 ।।
इति श्रीगोविन्दराज0 श्रीरामायणभू0 पीता0 अयो0 अष्टषष्िटतम: सर्ग: ।। 68 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टषष्टितम: सर्ग: ।। 68 ।।