श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तचत्वारिंश: सर्ग:
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतस: ।। 2.47.1 ।।
अथ पौरवृत्तान्तं दर्शयति–प्रभातायामित्यादि । शोकोपहतनिश्चेष्टा: शोकोपहतत्वान्निश्चेष्टा: । हतचेतस: मूढा: ।। 2.47.1 ।।
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्तत: ।
आलोकमपि रामस्य न पश्यन्ति स्म दु:खिता: ।। 2.47.2 ।।
शोकजेति । शोकजाश्रुभि: परिद्यूना: परिक्लान्ता: । आलोकमपि रामस्य रामसम्बन्ध्यालोकमपि । आलोक्यत इत्यालोक: तम् । आलोकसाधनं रथरेण्वादिकमपीत्यर्थ: ।। 2.47.2 ।।
ते विषादार्तवदना रहितास्तेन धीमता ।
कृपणा: करुणा वाचो वदन्ति स्म मनस्विन: ।। 2.47.3 ।।
धिगस्तु खलु निद्रां तां ययापहृतचेतस: ।
नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ।। 2.47.4 ।।
त इति । विषादार्तवदना: दु:खेन म्लानमुखा: । कृपणा: दीनवेषा: । करुणा वाच: दीनवचांसि । वदन्ति स्म, अन्योन्यमिति शेष: ।। 2.47.34 ।।
कथं नाम महाबाहु: स तथा वितथक्रिय: ।
भक्तं जनं परित्यज्य प्रवासं राघवो गत: ।। 2.47.5 ।।
यो न: सदा पालयति पिता पुत्रानिवौरसान् ।
कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गत: ।। 2.47.6 ।।
कथमिति । अवितथक्रिय: अमोघानुवृत्ति: ।। 2.47.56 ।।
इहैव निधनं यामो महाप्रस्थानमेव वा ।
रामेण रहितानां हि किमर्थं जीवितं हि न: ।। 2.47.7 ।।
इहैवेति । इहैव निधनं प्रायोपवेशनेन मरणम् । महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनम् । हि: प्रसिद्धौ ।। 2.47.7 ।।
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।
तै: प्रज्वाल्य चितां सर्वे प्रविशामो ऽथ पावकम् ।। 2.47.8 ।।
सन्तीति । प्रविशामोथेति अथवेत्यर्थ: ।। 2.47.8 ।।
किं वक्ष्यामौ महाबाहुरनसूय: प्रियंवद: ।
नीत: स राघवो ऽस्माभिरिति वक्तुं कथं क्षमम् ।। 2.47.9 ।।
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना ।
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ।। 2.47.10 ।।
निर्यातस्तेन वीरेण सह नित्यं जितात्मना ।
विहीनास्तेन च पुन: कथं पश्याम तां पुरीम् ।। 2.47.11 ।।
इतीव बहुधा वाचो बाहुमुद्यम्य ते जना: ।
विलपन्ति स्म दु:खार्ता विवत्सा इव धेनव: ।। 2.47.12 ।।
किं वक्ष्याम इति । किमपि वक्तुं शक्यमित्यर्थ: । तदेव विवृणोति महाबाहुरित्यादिना । नीत: वनमिति शेष: ।। 2.47.912 ।।
ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुन: ।
मार्गनाशाद् विषादेन महता समभिप्लुता: ।। 2.47.13 ।।
तत इति । मार्गानुसारेण किंचित् किंचिद्दूरम् । मार्गनाशात् रथमार्गादर्शनात् । तच्च वीरुत्तृणपटलपिहितप्रदेशे रथचारणादिति ज्ञेयम् । समभिप्लुता: व्याप्ता इत्यर्थ: ।। 2.47.13 ।।
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विन: ।
किमिदं किं करिष्यामो दैवेनोपहता इति ।। 2.47.14 ।।
ततो यथागतेनैव मार्गेण क्लान्तचेतस: ।
अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ।। 2.47.15 ।।
रथस्येति । दैवेनोपहता इति प्रलपन्त इति शेष: ।। 2.47.1415 ।।
आलोक्य नगरीं तां च क्षयव्याकुलमानसा: ।
अवर्तयन्त ते ऽश्रूणि नयनैश्शोकपीडितै: ।। 2.47.16 ।।
एषा रामेण नगरी रहिता नातिशोभते ।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ।। 2.47.17 ।।
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।
अपश्यन्निहतानन्दं नगरं ते विचेतस: ।। 2.47.18 ।।
आलोक्येत्यादिश्लोकद्वयमेकं वाक्यम् । अन्त इति करणं बोध्यम् । क्षयव्याकुलमानसा: सम्मार्जनलेपनादिक्षयेण व्यथितमनस्का: । अवर्त्तयन्त अमुञ्चन् ।। 2.47.1618 ।।
ते तानि वेश्मानि महाधनानि दु:खेन दु:खोपहता विशन्त: ।
नैव प्रजज्ञु: स्वजनं जनं वा निरीक्षमाणा: प्रविनष्टहर्षा: ।। 2.47.19 ।।
ते तानीति । दु:खेन सहितं स्वजनं वा पौरजनं वा । न प्रजज्ञु: नाज्ञासिषु: ।। 2.47.19 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तचत्वारिंश: सर्ग: ।। 47 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तचत्वारिंश: सर्ग: ।। 47 ।।