श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंश: सर्ग:
एवं श्रुत्वा तु संवादं लक्ष्मण: पूर्वमागत: ।
बाष्पपर्याकुलमुख: शोकं सोढुमशक्नुवन् ।। 2.31.1 ।।
स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दन: ।
सीतामुवाचातियशा राघवं च महाव्रतम् ।। 2.31.2 ।।
एवं रामेण सीतागमने ऽङ्गीकृते लक्ष्मणस्यानुगमनप्रार्थनमुपक्षिपति–एवमित्यादिना । श्लोकद्वयमेकं वाक्यम् । एवं संवादं पूर्वोक्तं सीतारामयोस्संवादम् । पूर्वमागत: कौसल्यागृहाद्रामेण सह पूर्वमेवागत: । शोकम् अर्द्धशरीरभूताया: सीताया अपि वनानुगमनं कृच्छ्रादप्यङ्गीकृतम् मम कथं तत्सम्भविष्यतीति विचारजं शोकम् ।। स्वानुवृत्तिरूपप्रयोजनाय सीतापुरुषकारेण रामे शरणागतिं विधत्ते–स भ्रातुरिति । स: रामानुवृत्तिरूपप्रयोजनाय उपायान्तरशून्य: । भ्रातुरित्यवर्जनीयसम्बन्धकथनाच्छरण्यत्वमुक्तम् । चरणौ निपीड्येति शरणागत्युक्ति: । गाढमित्यश्लथत्वोक्त्या महाविश्वास उक्त: । रघुनन्दन: लक्ष्मण: । अतियशा: आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनवान् । आदौ सीतां पुरुषकारत्वेन परिगृह्योवाच पश्चात्तत्पुरुषकारेण महाव्रतम् “न त्यजेयं कथंचन । एतद्व्रतं मम” इत्युक्तगुरुतरव्रतयुक्तम् । राघवं रघुराक्षससंवादादिप्रसिद्धकुलधर्मशरणागतरक्षणं च । उवाच शरणागते: सर्वफलप्रदत्वेन स्वाभिमतफलं विज्ञापयामास । निपीड्येत्यन्तेन द्वयस्य पूर्वखण्डोक्तशरणागतिरनूदिता । राघवमुवाचेत्यनेनोत्तरखण्डोक्तफलप्रार्थनोक्ता । सीतामुवाचेत्युभयत्र पुरुषकारपरिग्रहोक्ति: ।। 2.31.12 ।।
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् ।
अहं त्वा ऽनुगमिष्यामि वनमग्रे धनुर्धर: ।। 2.31.3 ।।
कैङ्कर्यप्रार्थनमेवाह–यदीति । यदीत्यनेन रामस्य वनगमनं स्वानभिमतमित्युक्तम् । कैङ्कर्यसाधनमाह धनुर्द्धर इति । धनुर्द्धरत्वे हेतुमाह–मृगेति । अहं त्वां अनु पश्चादग्रे च वनं गमिष्यामि तवाग्रे पश्चाद्वा यत्र दुष्टमृगशङ्का तत्र सावधानो गमिष्यामीत्यर्थ: । अत एव ‘मया समेत:’ इति वक्ष्यति ।। 2.31.3 ।।
मया समेतो ऽरण्यानि बहूनि विचरिष्यसि ।
पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्तत: ।। 2.31.4 ।।
मया धनुर्द्धरेण मया । त्वदीयं धनुर्वहतेति वार्थ: । बहूनीत्यनेन सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकैङ्कर्य्यप्रार्थनं कृतम् ।। 2.31.4 ।।
न देवलोकाक्रमणं नामरत्वमहं वृणे ।
ऐश्वर्यं वापि लोकानां कामये न त्वया विना ।। 2.31.5 ।।
एवं ब्रुवाण: सौमित्रिर्वनवासाय निश्चित: ।
रामेण बहुभि: सान्त्वैर्निषिद्ध: पुनरब्रवीत् ।। 2.31.6 ।।
अनन्योपायत्ववदनन्यप्रयोजनत्वमाह–नेति । देवलोकाक्रमणम् “देवानां पूरयोध्या” इत्युक्तपरमपदप्राप्तिं त्वया विना न वृणे । त्वत्कैङ्कर्य्यविनाकृतं मोक्षमपि न वाञ्छामीत्यर्थ: । अमरत्वम् “जरामरणमोक्षाय” इत्युक्तं कैवल्याख्यं मोक्षमपि न वृणे । लोकानामैश्वर्यं त्रिलोकाधिपतित्वम्, ब्रह्मत्वमिति यावत् । मोक्षमप्यकामयमानो ऽहं कथं कैवल्यादिकं कामयेयेति भाव: । यद्वा अवरोहक्रमेण त्रैलोक्यैश्वर्यादिकमपि न कामय इति । अतो न पतत्प्रकर्षदोष: । देवलोकगमनं देवत्वमिन्द्रत्वं वा न कामय इति वाक्यार्थस्तुच्छ: ।। 2.31.56 ।।
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।
किमिदानीं पुनरिदं क्रियते मे निवारणम् ।। 2.31.7 ।।
अनुज्ञात इति । अनुज्ञातश्च अनुज्ञात एव । “उपक्लृप्तं च यत्किञ्चिदभिषेकार्थमद्य मे । सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ।।” इति वचनात्। अन्यत्र च “तस्मादपरिताप: संस्त्वमप्यनुविधाय माम्। प्रतिसंहारय क्षिप्रमाभिषेचनिकी: क्रिया: ।।” इति । अपरत्र च “भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषत: । त्वया भरतशत्रुघ्नौ प्राणै: प्रियतरौ मम ।।” इति। भरतशत्रुघ्नयोरेवानुसरणीयत्वोक्तेश्चानुज्ञा सिद्धा ।। 2.31.7 ।।
यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छत: ।
एतदिच्छामि विज्ञातुं संशयो ऽयं ममानघ ।। 2.31.8 ।।
यदर्थमिति । अनुज्ञातत्वेपि प्रतिषेधात् किमद्य मया ऽपराद्धमिति संशय: ।। 2.31.8 ।।
ततो ऽब्रवीन्महातेजा रामो लक्ष्मणमग्रत: ।
स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ।। 2.31.9 ।।
तत इति । स्थितम् अग्रत: स्थितम् । प्राग्गामिनं प्रागेव गन्तुमुद्युक्तम् । वीरं प्राग्गमनोचितवीर्यवन्तम् । याचमानं गमनाज्ञां याचमानम् । कृताञ्जलिं याच्ञाव्यञ्जकाञ्जलियुक्तम् ।। 2.31.9 ।।
स्निग्धो धर्मरतो वीर: सततं सत्पथे स्थित: ।
प्रिय: प्राणसमो वश्यो भ्राता चापि सखा च मे ।। 2.31.10 ।।
स्निग्ध इत्यादिविशेषणानि स्वकार्यकरणार्हतानुगुणानि ।। 2.31.10 ।।
मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।
को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ।। 2.31.11 ।।
प्रतिषेधनिमित्तमाह–मयेति । कौसल्यादिभरणार्थमेव त्वं वारितोसि, पूर्वानुज्ञा तु तात्कालिकपरिहारायेति भाव: ।। 2.31.11 ।।
अभिवर्षति कामैर्य: पर्जन्य: पृथिवीमिव ।
स कामपाशपर्यस्तो महातेजा महीपति: ।। 2.31.12 ।।
राजैव भरिष्यतीत्यत्राह–अभिवर्षतीति । कामपाशपर्यस्त: पराभिलाषरूपपाशेन संयत इत्यर्थ: ।। 2.31.12 ।।
सा हि राज्यमिदं प्राप्य नृपस्याश्वपते: सुता ।
दु:खितानां सपत्नीनां न करिष्यति शोभनम् ।। 2.31.13 ।।
न स्मरिष्यति कौसल्यां सुमित्रां च सुदु:खिताम् ।
भरतो राज्यमासाद्य कैकेय्यां पर्य्यवस्थित: ।। 2.31.14 ।।
तर्हि भरतो भरिष्यतीत्यपेक्षायां सोपि कैकेयीपरवशो न भरिष्यतीत्याशयेनाह–सा हीत्यादि ।। 2.31.1314 ।।
तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।
सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ।। 2.31.15 ।।
मया वा कथं भर्तुं शक्यमित्यत आह–तामिति । राजानुग्रहणेन राजानुमत्या, तदभावे स्वयमेव वा भरेत्यर्थ: । अस्योत्तरं मा वदेत्याह उक्तमर्थमिमं चरेति ।। 2.31.15 ।।
एवं मम च ते भक्तिर्भविष्यति सुदर्शिता ।
धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ।। 2.31.16 ।।
त्वत्कैङ्कर्य्यपरस्य मे किमनेनेत्यत आह–एवमिति । एवम् एवं च सतीत्यर्थ: । मम मयीत्यर्थ: । गुरुपूजा मातृशुश्रूषणम् ।। 2.31.16 ।।
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन ।
अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम् ।। 2.31.17 ।।
एवमिति । अस्माभि: आवाभ्यां सीतया चेत्यर्थ: । न: नौ । “अस्मदो द्वयोश्च” इति द्विवचनस्य बहुवचनम् ।। 2.31.17 ।।
एवमुक्तस्तु रामेण लक्ष्मण: श्लक्ष्णया गिरा ।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ।। 2.31.18 ।।
एवमिति । वाक्यज्ञो वाक्यकोविदमिति “उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा” इत्युक्तवक्तृत्वविशिष्टम्, राममपि प्रतिवचनरचनाचातुर्येण तोषयितुं समर्थ इत्यर्थ: ।। 2.31.18 ।।
तवैव तेजसा वीर भरत: पूजयिष्यति ।
कौसल्यां च सुमित्रां च प्रयतो नात्र संशय: ।। 2.31.19 ।।
कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
यस्या: सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम् ।। 2.31.20 ।।
तदात्मभरणे चैव मम मातुस्तथैव च ।
पर्याप्ता मद्विधानां च भरणाय यशस्िवनी ।। 2.31.21 ।।
पूर्वं रामोक्तानुपपत्तिं परिहरति–तवैवेत्यादिना ।। 2.31.1921 ।।
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।
कृतार्थोहं भविष्यामि तव चार्थ: प्रकल्पते ।। 2.31.22 ।।
एवं रामोक्तं परिहृत्य प्रस्तुतं स्वाभिमतं कैङ्कर्य्यं प्रपञ्चयति–कुरुष्वेत्यादि । मां शेषभूतम् । अनुचरं शेषत्वानुगुणकैङ्केर्ययुक्तं कुरुष्व । तत्करणमपि तवैव प्रयोजनमित्यात्मनेपदाल्लभ्यते । वैधर्म्यं नेह विद्यते इहानुचरत्वकरणे वैधर्म्यं सेव्यसेवकधर्मराहित्यं नास्ति, तव सेव्यधर्म: पर्य्याप्त: स्वामित्वात् । मम सेवकधर्मश्च पूर्ण: स्वाभाविकशेषत्वात् । यद्वा वैधर्म्यं वैपरीत्यसाधकं न विद्यते त्वदुक्तहेतोरन्यथासिद्धेरुक्तत्वादित्याशय: । अनुचरकरणस्य किं प्रयोजनमित्यपेक्षायामाह तवेति । तवार्थ: स्वायासं विना फलमूलाद्याहरणं प्रकल्पते सिद्ध्यति । अहं च कृतार्थ: लब्धत्वत्कैङ्कर्यफलो भविष्यामि । यद्वा मां स्वाभाविकशेषभूतं माम् अनुचरं स्वरूपानुरूपशेषवृत्तियुक्तं कुरुष्व । इहास्मिन् जने मयि वैधर्म्यं शेषत्वविपर्यास: नास्ति, अनेन शेषत्वस्य स्वाभाविकत्वं तज्ज्ञानवत: फलं कैङ्कर्यं चेत्युक्तम् । कैङ्कर्याकरणे तव का हानिरित्यत्राह कृतार्थोहं भविष्यामीति । अकिञ्चित्कुर्वत: शेषत्वानुपपत्तेरिति भाव: । तच्च प्राप्यं कैङ्कर्यं निष्कृष्य दर्शयति तव चेति । चोवधारणे । तवैवार्थ:, न तु मम । परार्थकैङ्कर्यस्यैव पुरुषार्थत्वादिति भाव: । शेषत्वाध्यवसाय उपाय:, अस्वार्थशेषिकैङ्कर्य्यमेव फलमित्युपायोपेयनिष्कर्षोनेन कृत इति रहस्यम् । वैधर्म्यं नेह विद्यत इत्युक्ति: ज्येष्ठभ्रातु: पितृसमत्वात् । आवयो: श्रेयश्चास्तीत्याह कृतार्थ इतीति केचिद्व्याचक्षते ।। 2.31.22 ।।
धनुरादाय सशरं खनित्रपिटकाधर: ।
अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ।। 2.31.23 ।।
स्वकृतार्थत्वं प्रपञ्चयति–धनुरिति । धनुराद्यादानं हिंस्रनिवारणाय । खनित्रं मूलकन्दखननसाधनं कुद्दालादि । पिटका । अल्पार्थे कप्रत्यय: । फलमूलाद्याहरणयोग्याल्पकण्डोल: । “कण्डोलपिटौ” इत्यमर: ।। 2.31.23 ।।
आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ।। 2.31.24 ।।
एवं मार्गे सम्भावितं केङ्कर्यमुक्त्वा स्थाने संभावितमाह–आहरिष्यामीति । अन्यानि शाकप्रियालबीजक्षौद्रादीनि । स्वाहाराणि सुखेनाहर्त्तुं भोक्तुं योग्यानि ।। 2.31.24 ।।
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
अहं सर्वं करिष्यामि जाग्रत: स्वपतश्च ते ।। 2.31.25 ।।
एवं सर्वदेशकर्त्तव्यकैङ्कर्याण्युक्तानि, केङ्कर्यस्य विशिष्टविषयस्यैव रस्यत्वाद्विशिष्टविषयत्वमाह–भवांस्त्विति । जाग्रत: स्वपतश्च त इत्यनेन सर्वकालसर्वावस्थोचितकैङ्कर्यमुक्तम् । सर्वं करिष्यामीत्यनेन सर्वविधकैङ्कर्यमुक्तम् । तथा च देवीविशिष्टस्य शेषिण: सर्वदेशसर्वकालसर्वावस्थासु सर्वविधमपि कैङ्कर्यं शेषभूतेन कर्त्तव्यमिति दर्शितम् ।। 2.31.25 ।।
रामस्त्वनेन वाक्येन सुप्रीत: प्रत्युवाच तम् ।
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ।। 2.31.26 ।।
रामस्त्विति । अनेनानुगमनाज्ञा व्यञ्जिता ।। 2.31.26 ।।
ये च राज्ञो ददौ दिव्ये महात्मा वरुण: स्वयम् ।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ।। 2.31.27 ।।
अभेद्ये कवचे दिव्ये तूणी चाक्षयसायकौ ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ।। 2.31.28 ।।
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।
स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ।। 2.31.29 ।।
स सुहृज्जनमामन्त्र्य वनवासाय निश्चित: ।
इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ।। 2.31.30 ।।
तद्दिव्यं राजशार्दूल सत्कृतं माल्यभूषितम् ।
रामाय दर्शयामास सौमित्रि: सर्वमायुधम् ।। 2.31.31 ।।
ये चेत्यादि । जनकस्य राज्ञो यज्ञे महात्मा वरुण: स्वयमेव मह्यं यद्धनुरादिकं ददौ । आचार्यसद्मनि आचार्यस्य गृहे । पूजार्थं निहितं तदेतत्सर्वमायुधमादाय स: आपृष्टसुहृज्जनस्त्वं क्षिप्रमाव्रजेत्यन्वय: । अत्र धनुरादिषु सर्वत्र द्विवचनादावयोर्ददाविति सिद्धम् । बालकाण्डे ऽनुक्तोप्ययं वृत्तान्तो ऽनुवादात्सिद्ध:, यथा सुन्दरकाण्डे ऽभिहितं मणिबन्धनम् “मणिरत्नमिदं दत्तं वैदेह्या: श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते ।। ” इति । यथा चायोध्याकाण्डे ऽनभिहितोपि वायसवृत्तान्त: सुन्दरकाण्डे ऽनूद्यते– “स पित्रा च परित्यक्त: सुरैश्च समहर्षिभि: । त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गत: ।।” इति आचार्यो वसिष्ठ:। इक्ष्वाकुगुरुमागम्येत्युत्तरत्रानुवादात्, नहीक्ष्वाकुकुलगुरुर्वसिष्ठादन्योस्ति ।। 2.31.2731 ।।
तमुवाचात्मवान् राम: प्रीत्या लक्ष्मणमागतम् ।
काले त्वमागत: सौम्य कांक्षिते मम लक्ष्मण ।। 2.31.32 ।।
तमिति । प्रीत्योवाचेत्यन्वय: ।। 2.31.32 ।।
अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ।। 2.31.33 ।।
कांक्षितत्वमेवाह–अहमित्यादिना ।। 2.31.33 ।।
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमा: ।
तेषामपि च मे भूय: सर्वेषां चोपजीविनाम् ।। 2.31.34 ।।
वसन्तीति । यच्छब्दोर्थसिद्ध: । इह नगरे गुरुभक्त्या ये दृढं वसन्ति नित्यं गुरुशुश्रूषणं कुर्वन्तीत्यर्थ: । तेषामपि मे सर्वेषाम् उपजीविनां च । भूय: अतिशयेन नित्यदेयादधिकतया दातुमिच्छामि, तानानयेति शेष: ।। 2.31.34 ।।
वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम् ।
अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान् द्विजातीन् ।। 2.31.35 ।।
वसिष्ठपुत्रमिति । वसिष्ठपुत्रम् आर्यं द्विजानां प्रवरं सुयज्ञम् । अन्यानपि शिष्टानानय । सुयज्ञं तांश्चाभ्यर्च्याभिप्रयास्यामीत्यर्थ: ।। 2.31.35 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंश: सर्ग: ।। 31 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकत्रिंश: सर्ग: ।। 31 ।।