श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिसप्ततितम: सर्ग:
कैकेय्याप्येवमुक्तस्तु भरतो राघवानुज: ।
कर्णौ कराभ्यां प्रच्छाद्य पपात धरणीतले ।।]
श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।
भरतो दु:खसन्तप्त इदं वचनमब्रवीत् ।। 2.73.1 ।।
श्रुत्वेति । वृत्तम् अतीतम्, मृतमिति यावत् ।। 2.73.1 ।।
किंनु कार्यं हतस्येह मम राज्येन शोचत: ।
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ।। 2.73.2 ।।
किं न्विति । कार्यं प्रयोजनम् । हतस्य भाग्यहीनस्य ।। 2.73.2 ।।
दु:खे मे दु:खमकरोर्व्रणे क्षारमिवादधा: ।
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ।। 2.73.3 ।।
दु:ख इति । दु:खे दु:खकरणात् व्रणक्षारा धानसादृश्यम् ।। 2.73.3 ।।
कुलस्य त्वमभावाय कालरात्रिरिवागता ।
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ।। 2.73.4 ।।
मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।
सुखं परिहृतं मोहात् कुले ऽस्मिन् कुलपांसिनि ।। 2.73.5 ।।
त्वां प्राप्य हि पिता मे ऽद्य सत्यसन्धो महायशा: ।
तीव्रदु:खाभिसन्तप्तो वृत्तो दशरथो नृप: ।। 2.73.6 ।।
कुलस्येति । कालरात्रि: प्रलयकालोत्थितसर्वसंहारशक्ति: । उपगूह्य आलिङ्ग्य ।। 2.73.46 ।।
विनाशितो महाराज: पिता मे धर्मवत्सल: ।
कस्मात् प्रव्राजितो राम: कस्मादेव वनं गत: ।। 2.73.7 ।।
विनाशित इति । महाराज: कस्माद्विनाशित:, राम: कस्मात्प्रव्राजित इति सम्बन्ध: । त्वया सर्वं निष्फलमेव कृतमिति भाव: ।। 2.73.7 ।।
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ।। 2.73.8 ।।
कौसल्येति । यदि जीवेतां तदा दुष्करं जीवेतामिति सम्बन्ध: ।। 2.73.8 ।।
ननु त्वार्योपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् ।
वर्त्तते गुरुवृत्तिज्ञो यथा मातरि वर्त्तते ।। 2.73.9 ।।
ननु त्विति । आर्य: ज्येष्ठ: । वृत्तिं शुश्रूषाम् । वर्त्तते करोतीत्यर्थ: । मातरि वर्त्तते मातरि शुश्रूषते ।। 2.73.9 ।।
तथाज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी ।
त्वयि धर्मं समास्थाय भगिन्यामिव वर्त्तते ।। 2.73.10 ।।
तथेति । दीर्घदर्शिनी । दूरकालभाव्यनर्थदर्शिनी । “दूरानर्थस्य संदर्शी दीर्घदृष्टि: प्रकीर्त्तित:” इति ।। 2.73.10 ।।
तस्या: पुत्रं कृतात्मानं चीरवल्कलवाससम् ।
प्रस्थाप्य वनवासाय कथं पापे न शोचसि ।। 2.73.11 ।।
तस्या इति । तस्या: तादृशधर्मयुक्ताया: ।। 2.73.11 ।।
अपापदर्शनं शूरं कृतात्मानं यशस्विनम् ।
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ।। 2.73.12 ।।
अपापदर्शनमिति । किंनु पश्यसि कारणम् किं फलं पश्यसीत्यर्थ: । फलं हि प्रयोजकतया कारणम् । न किमपीत्यर्थ: ।। 2.73.12 ।।
लुब्धाया विदितो मन्ये न ते ऽहं राघवं प्रति ।
तथा ह्यनर्थो राज्यार्थं त्वया ऽ ऽनीतो महानयम् ।। 2.73.13 ।।
लुब्धाया इति । अहं राघवं प्रति यथा यादृशप्रकारयुक्त: तथा लुब्धायास्ते लुब्धया त्वया न विदित इति मन्ये । अविदितत्वे हेतुमाह तथा हीति । राज्यार्थं मम राज्यार्थम् । महानयमनर्थस्त्वया आनीतो हि आनीत: खलु सम्पादित: खलु ।। 2.73.13 ।।
अहं हि पुरुषव्याघ्रावपश्यं रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ।। 2.73.14 ।।
राघवं प्रत्यहं यादृश इत्युक्तं विवृणोति–अहमिति । अपश्यन् हि अपश्यन्नेव । “हि हेताववधारणे” इत्यमर: । केन शक्तिप्रभावेन शक्त्यतिशयेन । भ्रातृसम्पत्तिरेव मम शक्त्यतिशय इति भाव: ।। 2.73.14 ।।
तं हि नित्यं महाराजो बलवन्तं महाबल: ।
अपाश्रितो ऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ।। 2.73.15 ।।
न केवलं ममैव रामापेक्षा, पितुरपीत्याह–तमिति । मेरुर्मेरुवनं यथा मेरुजनितमेरुवनस्य तद्रक्षकत्वं परैराक्रमितुमशक्यत्वसम्पादनेन ।। 2.73.15 ।।
सो ऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् ।
दम्यो धुरमिवासाद्य वहेयं केन चौजसा ।। 2.73.16 ।।
केन शक्तिप्रभावेनेत्युक्तमर्थं सदृष्टान्तमाह–स इति । अहं बाल: । इमं प्रबुद्धपितृधृतम् । भारं राज्यभारम् । महाधुर्य्यो महाबलीवर्द: । धुरं वहतीति धुर्य्य: “धुरो यड्ढकौ” इति यत्प्रत्यय: । तेन समुद्धृतं धुरं भारम् । पुंस्त्वमार्षम् । दम्य: तरुणवत्स इव । “तर्णक: स्मर्यते वत्सोव दम्यो वत्सतरश्च स:” इति हलायुध: । “दम्यवत्सतरौ समौ” इत्यमरश्च । केनौजसा केनावष्टम्भेन । “ओजो ऽवष्टम्भबलयो:” इति वैजयन्ती । कथं केन प्रकारेण वहेयम् ।। 2.73.16 ।।
अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा ।
सकामां न करिष्यामि त्वामहं पुत्रगर्द्धिनीम् ।। 2.73.17 ।।
अथवेति । योगै: सामदानाद्युपायै: “याग: सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमर: । बुद्धिबलेन
ग्रहणधारणाद्यष्टाङ्गयुक्तबुद्धिबलेन वा मे शक्तिर्भवेत् । राजपुत्रत्वेन संभावितत्वात् । तथापि पुत्रगर्द्धिनीं पुत्रप्रयोजनाभिलाषवतीं त्वां सकामां न करिष्यामि, गर्हिताभिलाषत्वादिति भाव: ।। 2.73.17 ।।
न मे विकांक्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत् सदा ।। 2.73.18 ।।
नेति । रामस्य त्वयि मातृवत् मातरीव । सदा अवेक्षा भक्तिपूर्वकेक्षणं यदि न स्यात्तदानीं पापनिश्चयां त्वां त्यक्तुं मे विकाङ्क्षा काङ्क्षाराहित्यम्, न जायेत काङ्क्षा जायन्तैव । रामस्य त्वयि मातृवत् प्रतिपत्तिसद्भावात् त्वां त्यक्तुं नेच्छामीत्यर्थ: ।। 2.73.18 ।।
उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनि ।
साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ।। 2.73.19 ।।
उत्पन्नेति । न: पूर्वेषां पूर्वै: । विगर्हिता इयं बुद्धि: ज्येष्ठे विद्यमाने कनिष्ठस्य राज्यप्रार्थनाविषया बुद्धि: तव कथमुत्पन्ना ।। 2.73.19 ।।
अस्मिन् कुले हि पूर्वेषां ज्येष्ठो राज्ये ऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन् प्रवर्त्तन्ते समाहिता: ।। 2.73.20 ।।
अस्मिन्निति । पूर्वेषामिति निर्द्धारणे षष्ठी । अपरे कनिष्ठा भ्रातर: । तस्मिन्समाहिता: प्रवर्त्तन्ते, पितृवत्तच्चित्तानुवर्त्तने सावधाना जीवन्तीत्यर्थ: । तथाह मनु:– “ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषत: । शेषास्तमनुजीवेयुर्यथैव पितरं तथा ।।” इति ।। 2.73.20 ।।
नहि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे ।
गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ।। 2.73.21 ।।
नेति । राजधर्मं राज्ञां विहितं धर्मम् । नावेक्षसे नाद्रियसे अथवा राजवृत्तस्य राजसमाचारस्य । गतिं प्रकारं वा
न जानासीति मन्ये ।। 2.73.21 ।।
सततं राजवृत्ते हि ज्येष्ठो राज्ये ऽभिषिच्यते ।
राज्ञामेतत् समं तत्स्यादिक्ष्वाकूणां विशेषत: ।। 2.73.22 ।।
न केवलमस्माकमेवायं धर्म: किन्तु सर्वेषामपीत्याह–सततमिति । राजवृत्ते विचार्यमाण इति शेष: । एतद्राज्ञां सर्वेषां समम् । इक्ष्वाकूणां तु तत् ज्येष्ठाभिषेचनं विशेषत: स्यात्, अस्खलिताचारत्वादिति भाव: ।। 2.73.22 ।।
तेषां धर्मैक रक्षाणां कुलचारित्रशोभिनाम् ।
अत्र चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्त्तितम् ।। 2.73.23 ।।
तेषामिति । धर्मेण एका रक्षा येषां ते तथा । कुलचारित्रशोभिनां कुलक्रमागतचरित्रशोभिनाम् । “चरित्रं चरितं शीलं चारित्रं च समं मतम्” इति हलायुध: । चारित्रशौण्डीर्यं चरित्रगर्वितम् । चरित्रजनितसमुन्नतत्वमिति यावत् । त्वां प्राप्य विनिवर्त्तितम्, त्वत्सम्बन्धान्निवृत्तमित्यर्थ: ।। 2.73.23 ।।
तवापि सुमहाभागा जनेन्द्रा: कुलपूर्वगा: ।
बुद्धेर्मोह: कथमयं सम्भूतस्त्वयि गर्हित: ।। 2.73.24 ।।
स्वकुल चारित्रक्रममभिधाय मातृकुलाचारक्रममप्याह–तवेति । जनेन्द्रा: राजान: । कुलपूर्वगा: कुलपूर्वा: कुलज्येष्ठा: तान् गच्छन्तीति कुलपूर्वगा:, ज्येष्ठाभिषेचनशीला इत्यर्थ: । सुमहाभागा: सुचरित्रा: ।। 2.73.24 ।।
न तु कामं करिष्यामि तवाहं पापनिश्चये ।
त्वया व्यसनमारब्धं जीवितान्तकरं मम ।। 2.73.25 ।।
फलितमाह–न त्वित्यादिना ।। 2.73.25 ।।
एष त्विदानीमेवाहमप्रियार्थं तवानघम् ।
निवर्त्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम् ।। 2.73.26 ।।
न केवलमिष्टाकरणम्, अनिष्टमपि तव करोमीत्याह–एष इति । एष इत्यविलम्बोक्ति: । तव मद्व्याजेन राज्यं भोक्तुकामाया: ।। 2.73.26 ।।
निवर्त्तयित्वा रामं च तस्याहं दीप्ततेजस: ।
दासभूतो भविष्यामि सुस्थितेनान्तरात्मना ।। 2.73.27 ।।
न केवलं निवर्त्तनम्, दासश्च तस्य स्यामित्याह–निवर्तयित्वेति । दासभूत: छत्रचामरादिधारणेन किङ्करवृत्तिर्भविष्यामि । इदञ्च न त्वयि कोपात् किन्तु स्वरूपेणेत्याशयेनाह सुस्थितेनेति । सुप्रतिष्ठितेनान्त:करणेनेत्यर्थ: ।। 2.73.27 ।।
इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् ।
शोकातुरश्चापि ननाद भूय: सिंहो यथा पर्वतगह्वरस्थ: ।। 2.73.28 ।।
इतीति । तुदन् व्यथयन् । पर्वतगह्वरस्थ: पर्वतगुहास्थ: । गुहास्थत्वे सन्तोषातिशयात् सिंहस्य नादातिशय इत्यभिप्रायेण विशेषणमिदम् ।। 2.73.28 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिसप्ततितम: सर्ग: ।। 73 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिसप्ततितम: सर्ग: ।। 73 ।।