श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टसप्ततितम: सर्ग:
अथ यात्रां समीहन्तं शत्रुध्नो लक्ष्मणानुज: ।
भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ।। 2.78.1 ।।
अथेत्यादि । अथ अपरक्रियां निर्वर्त्य गृहं प्रति गमनानन्तरं यात्रां रामसमीपगमनं समीहन्तं समीहमानम्, यात्रोद्युक्तमित्यर्थ: ।। 2.78.1 ।।
गतिर्य: सर्वभूतानां दु:खे किं पुनरात्मन: ।
स राम: सत्त्वसम्पन्न: स्त्रिया प्रव्राजितो वनम् ।। 2.78.2 ।।
गतिरिति । सर्वभूतानां प्राणिमात्रस्य दु:खे सति यो गति: स आत्मनो दु:खे सति गतिरिति किं पुन: किं वक्तव्यम् । एवं दु:खनिस्तारक्षमो राम: सत्त्वसम्पन्नोपि बलसम्पन्नोपि स्त्रिया अत्यन्ताबलया वनं प्रव्राजित: इदमत्यन्तचित्रमिति भाव: ।। 2.78.2 ।।
बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम यो ऽप्यसौ ।
किं न मोचयते रामं कृत्वा स्म पितृनिग्रहम् ।। 2.78.3 ।।
पितृपरतन्त्रो राम: किङ्करोत्वित्यत्राह–बलवानित्यादिना । नामेति कुत्सने । “नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने” इति वैजयन्ती । लक्ष्मणो नाम यो ऽपीत्यनादरोक्ति: । असौ पितृनिग्रहं कृत्वापि रामं वनवासात् किं न मोचयते किं न मोचितवान् इदमप्यपरमाश्चर्यमिति भाव: ।। 2.78.3 ।।
पूर्वमेव तु निग्राह्य: समवेक्ष्य नयानयौ ।
उत्पथं य: समारूढो नार्या राजा वशं गत: ।। 2.78.4 ।।
पितृनिग्रहे दोषो नास्तीत्याशङ्कां परिहरति–पूर्वमित्यादिना । यो राजा नार्या वशं गत: उत्पथं समारूढ: अपथं प्राप्त: स: नयानयौ नीत्यनीती समवेक्ष्य सम्यक्विचार्य पूर्वमेव अन्यायप्रवृत्तिसमापनात् पूर्वमेव निग्राह्य इति योजना ।। 2.78.4 ।।
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।
प्राग्द्वारे ऽभूत्तदा कुब्जा सर्वाभरणभूषिता ।। 2.78.5 ।।
इतीति । कुब्जा प्राग्द्वारे ऽभूत् स्वाभिलषितो भरताभिषेक: कदा भविष्यतीति अवसरं प्रतीक्षमाणा भरतशत्रुघ्नाधिष्ठितराजगृहस्य प्राग्द्वारे दैवादागता ऽभूत् ।। 2.78.5 ।।
लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती ।
विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता ।। 2.78.6 ।।
लिप्तेति । चन्दनसारेण चन्दनपङ्केन । राजवस्त्राणि राजार्हवस्त्राणि कैकेयीदत्तानि । कञ्चुकान्तरीयोत्तरीयादिभेदाद्बहुवचनम् । तैस्तैरिति तत्तदवयवोचितत्वमुच्यते । एकैकाभरणे रत्नखचितत्वादिवैविध्यमाह विविधैरिति । विविधमिति क्रियाविशेषणम् । तेन भूषणसंस्थानविशेष उच्यते ।। 2.78.6 ।।
मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणै: ।
बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ।। 2.78.7 ।।
मेखलादामभिरिति । भूषणशब्दोपि मेखलादामभिन्नपर: गोबलीवर्दन्यायात् । अन्यै: मेखलाप्रदेशधारणीयै: । बद्धेति विशेषणात् भूषणानि बन्धनस्थानीयानि नतु शोभाकराणीत्युक्तम् ।। 2.78.7 ।।
तां समीक्ष्य तदा द्वास्स्था: सुभृशं पापकारिणीम् ।
गृहीत्वा ऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयन् ।। 2.78.8 ।।
तामिति । अकरुणां निर्दयाम् ।। 2.78.8 ।।
यस्या: कृते वने रामो न्यस्तदेहश्च व: पिता ।
सेयं पापा नृशंसा च तस्या: कुरु यथामति ।। 2.78.9 ।।
शत्रुघ्नश्च तदाज्ञाय वचनं भृशदु:खित: ।
अन्त:पुरचरान् सर्वानित्युवाच धृतव्रत: ।। 2.78.10 ।।
तीव्रमुत्पादितं दु:खं भ्रातृ़णां मे तथा पितु: ।
यया सेयं नृशंसस्य कर्मण: फलमश्नुताम् ।। 2.78.11 ।।
एवमुक्ता तु तेनाशु सखीजनसमावृता ।
गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ।। 2.78.12 ।।
यस्या इति । वने अभूदिति शेष: । कुरु शिक्षणमिति शेष: ।। 2.78.912 ।।
तत: सुभृशसन्तप्तस्तस्या: सर्व: सखीजन: ।
क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वश: ।। 2.78.13 ।।
तत इति । विपलायतेति “उपसर्गस्यायतौ” इति रेफस्य लत्वम् ।। 2.78.13 ।।
आमन्त्रयत कृत्स्नश्च तस्या: सर्व: सखीजन: ।
यथायं समुपक्रान्तो निश्शेषान्न: करिष्यति ।। 2.78.14 ।।
आमन्त्रयतेति । आमन्त्रयत अन्योन्यमाह्वयत् । तस्या: सर्व: सखीजन: कृत्स्न: तदितर: सर्वोपि जन: यथा येन प्रकारेणायं शत्रुघ्न: उपक्रान्त: यथा न: निश्शेषान्करिष्यति । जनापेक्षया पुंस्त्वम् ।। 2.78.14 ।।
सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् ।
कौसल्यां शरणं याम सा हि नो ऽस्तु ध्रुवा गति: ।। 2.78.15 ।।
स च रोषेण ताम्राक्ष: क्षत्रुघ्न: शत्रुतापन: ।
विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ।। 2.78.16 ।।
वदान्यां वल्गुवाचम् । “वदान्यो वल्गुवागपि” इति वैजयन्ती । कौसल्यां शरणं याम सा नो ध्रुवा गतिरस्त्वित्यन्योन्यमाह्वयदित्यन्वय: ।। 2.78.1516 ।।
तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्तत: ।
चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ।। 2.78.17 ।।
तस्या इति । भाण्डं भूषणं “वणिङ्मूलधने पात्रे भाण्डं भूषाश्वभूषयो:” इति वैजयन्ती । पृथिव्यां तद्व्यशीर्यत विशीर्णमासीत् (पाठभेद: । पृथिव्यां तद्विशीर्यते विशीर्णमासीत्) ।। 2.78.17 ।।
तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम् ।
अशोभत तदा भूय: शारदं गगनं यथा ।। 2.78.18 ।।
तेनेति । शारदं प्रसन्ननक्षत्रमित्यर्थ: ।। 2.78.18 ।।
स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभ: ।
कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वच: ।। 2.78.19 ।।
स इति । बलवत्क्रोधात् अतीव क्रोधात् । कैकेयीमभिनिर्भर्त्स्येत्यनेन मन्थरामोचनार्थं तदा कैकेयी समागतेत्यवगम्यते ।। 2.78.19 ।।
तैर्वाक्यै: परुषैर्दु:खै: कैकेयी भृशदु:खिता ।
शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता ।। 2.78.20 ।।
तैरिति । शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागतेत्यनेन भर्त्सनानन्तरं तां प्रहर्तुमप्युद्युक्तवानिति सूच्यते ।। 2.78.20 ।।
तां प्रेक्ष्य भरत: क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।
अवध्या: सर्वभूतानां प्रमदा: क्षम्यतामिति ।। 2.78.21 ।।
तामिति । क्षम्यतामित्यब्रवीदित्यन्वय: ।। 2.78.21 ।।
हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ।
यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ।। 2.78.22 ।।
हन्यामिति । नासूयेन्न गर्हेत ।। 2.78.22 ।।
इमामपि हतां कुब्जां यदि जानाति राघव: ।
त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ।। 2.78.23 ।।
भरतस्य वच: श्रुत्वा शत्रुघ्नो लक्ष्मणानुज: ।
न्यवर्त्तत ततो रोषात्तां मुमोच च मन्थराम् ।। 2.78.24 ।।
सा पादमूले कैकेय्या मन्थरा निपपात ह ।
निश्वसन्ती सुदु:खार्त्ता कृपणं विललाप च ।। 2.78.25 ।।
माभून्मातृहत्या, सर्वकुहनामूलभूतेयमेव कुब्जा हन्यतामित्यत्राह–इमामित्यादिना । नाभिभाषिष्यते इत्यब्रवीदिति अनुकृष्टेन पूर्वेण सम्बन्ध: ।। 2.78.2325 ।।
शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता ।
शनै: समाश्वासयदार्त्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ।। 2.78.26 ।।
शत्रुघ्नेति । विक्षेपो भ्रामणं तेन विमूढसंज्ञाम् अन्यथाभूतमतिम् । विलग्नां वागुरालग्नामिति भाव: । विविग्नामिति पाठे–कम्पवतीमित्यर्थ: ।। 2.78.26 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टसप्ततितम: सर्ग: ।। 78 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टसप्ततितम: सर्ग: ।। 78 ।।