[highlight_content]

40 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्वारिंश: सर्ग:

अथ रामश् सीता लक्ष्मणश् कृताञ्जलि: ।

उपसंगृह्य राजानं क्रुर्दीना: प्रदक्षिणम् ।। 2.40.1 ।।

तं ापि समनुज्ञाप्य धर्मज्ञ: सीतया सह ।

राघव: शोकसम्मूढो जननीमभ्यवादयत् ।। 2.40.2 ।।

अथेति । उपसंगृह्य पादग्रहणपूर्वकं प्रणम्य । दीना: वृद्धयोर्मातापित्रो: शुश्रूषा न लब्धेति दीना: ।। 2.40.12 ।।

अन्वक्षं लक्ष्मणो भ्रातु: कौसल्यामभ्यवादयत् ।

अथ मातु: सुमित्राया जग्राह रणौ पुन: ।। 2.40.3 ।।

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।

हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ।। 2.40.4 ।।

अन्वक्षमिति । अन्वक्षम् अनुपदम् । “अन्वगन्वक्षमनुगेनुपदम्” इत्यमर: ।। 2.40.34 ।।

सृष्टस्त्वं वनवासाय स्वनुरक्त: सुहृज्जने ।

रामे प्रमादं मा कार्षी: पुत्र भ्रातरि ग्छति ।। 2.40.5 ।।

सृष्ट इति । सृष्टस्त्वम्, दैवेनेति शेष: । भ्रातरि ग्छति देव्या सह पुष्पितवनदर्शनपारवश्येन ग्छति सतीत्यर्थ: । प्रमादम् अनवधानम् । मा कार्षी: सावधानो भवेत्यर्थ: । सृष्ट इति यथा कौसल्या लोकरक्षणार्थं पुत्रं प्रासूत एवं मया सुहृज्जने रामे स्वनु रक्तस्त्वं वनवासाय सृष्ट: । वने रामानुवर्तनायोत्पादित:, अतो रामे ग्छति प्रमादं मा कार्षी: । रामगमनसौन्दर्याकृष्टमनस्कतया रक्षणकर्मण्यनवहितो माभूरित्यर्थ: । यद्वा रामे वनं ग्छति त्वमत्रैव मा तिष्ठेति भाव: ।। 2.40.5 ।।

व्यसनी वा समृद्धो वा गतिरेष तवानघ ।

एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ।। 2.40.6 ।।

रामगमने गन्तव्यतायां निमित्तमाह–व्यसनीति । गतित्वे धर्मशास्त्रानुमतिं दर्शयति एष इति ।। 2.40.6 ।।

इदं हि वृत्तमुितं कुलस्यास्य सनातनम् ।

दानं दीक्षा यज्ञेषु तनुत्यागो मृधेषु ।। 2.40.7 ।।

[ज्येष्ठस्याप्यनुवृत्तिश् राजवंशस्य लक्षणम् ।]

ज्येष्ठानुवर्तनादपि परमधर्मं कुलोितं दर्शयति–इदमिति । मृधेषु युद्धेषु । तनुत्यागेनापि रामो रक्षणीय इति भाव: ।। 2.40.7 ।।

लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् ।

सुमित्रा ग्छग्छेति पुन:पुनरुवा तम् ।। 2.40.8 ।।

लक्ष्मणमिति । संसिद्धं “षिधु गत्याम्” इत्यस्माद्धातोर्निष्ठायां रूपम् । गमनोद्युक्तमित्यर्थ: । ग्छग्छेति वीप्सया सुमित्राया अपि रामानुवर्त्तने महानादरो द्योत्यते ।। 2.40.8 ।।

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।

योध्यामटवीं विद्धि ग्छ तात यथासुखम् ।। 2.40.9 ।।

तत: सुमन्त्र: काकुत्स्थं प्राञ्लिर्वाक्यमब्रवीत् ।

विनीतो विनयज्ञश् मातलिर्वासवं यथा ।। 2.40.10 ।।

वनवासे पितृमातृनगरस्मरणे मनश्ाञ्ल्यं भविष्यतीतिधिया तत्रैव प्रतिनिधिं कल्पयति–रामतिति । यथामुखं ग्छेत्यस्य इत्युवाेति पूर्वेण सम्बन्ध: । रामं दशरथं विद्धि, पितरमवग्छेत्यर्थ: । जनकात्मजां मां विद्धि, मातरं विद्धीत्यर्थ: । अटवीमयोध्याम्, तद्वत् भोगस्थानं विद्धि । ग्छ तात यथासुखम् तदनुवर्तनमेव उितं सुखमित्यर्थ: । यद्वा रामं दशरथं विद्धि दशति मत्स्यक्छपोरगादीन् दंष्ट्राव्यापारविषयान् करोतीति दश: पक्षी “दशं दशने” इति धातु: । दशनं दंष्ट्राव्यापार: । पाद्य् । पृषोदरादित्वा दनुनासिकलोप: । स गरुड: रथो यस्य तम्, विष्णुं विद्धीत्यर्थ: । जनकात्मजां मां लक्ष्मीं विद्धि । अटवीमयोध्याम् अपराजिताख्यां वैकुण्ठनगरीं विद्धि । तद्वासस्थानमिति भाव: । यद्वा रामं दशरथं विद्धि, उभयोस्तारतम्यं पश्येत्यर्थ: । मां जनकात्मजां विद्धि, गुणत: आलोय मदपेक्षया सीतैव तव हितपरेति भाव: । अयोध्याम् अटवीं विद्धि एतन्नगरापेक्षया वनमेव तव कैङ्कर्यैकान्तस्थानतयोत्कृष्टमित्यर्थ: । यद्वा दशरथं रामम् उपरतं विद्धि, मां जनकस्य पितुरात्मजां विद्धि, कैकेयीविवासिततया पितृगृहवर्तिनीं विद्धीत्यर्थ: । अयोध्यामटवीं विद्धि, निर्जनेयं भविष्यतीत्यर्थ: । एवं तात्पर्यान्तराण्यूह्यानि ।। 2.40.910 ।।

रथमारोह भद्रं ते राजपुत्र महायश: ।

क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ।। 2.40.11 ।।

रथमिति । यत्र यस्मिन् प्रदेशविषये ।। 2.40.11 ।।

तुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।

तान्युपक्रमितव्यानि यानि देव्या ऽसि ोदित: ।। 2.40.12 ।।

तुर्दशेति । तुर्दशवर्षेष्वेकदिवसापनयनमपि महान् लाभ इति धिया त्वरयति तान्युपक्रमितव्यानीति । देव्यासि ोदित: अद्यैव ग्छ इति कैकेय्या ोदितत्वादित्यर्थ: । ।। 2.40.12 ।।

तं रथं सूर्यसङ्काशं सीता हृष्टेन ेतसा ।

आरुरोह वरारोहा कृत्वालङ्कारमात्मन: ।। 2.40.13 ।।

तमिति । अलङ्कारं कृत्वा, श्वशुरदत्तवस्त्राभरणादिभिरिति शेष: ।। 2.40.13 ।।

अथो ज्वलनसङ्काशं ामीकरविभूषितम् ।

तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ।। 2.40.14 ।।

वनवासं हि सङ्ख्याय वासांस्याभरणानि

भर्तारमनुग्छन्त्यै सीतायै श्वशुरो ददौ ।। 2.40.15 ।।

तथैवायुधजालानि भ्रातृभ्यां कवानि

रथोपस्थे प्रतिन्यस्य सर्म कठिनं तत् ।। 2.40.16 ।।

सीतातृतीयानारूढान् दृष्ट्वा धृष्टमोदयत् ।

सुमन्त्र: संमतानश्वान् वायुवेगसमान् जवे ।। 2.40.17 ।।

एत्श्लोकानन्तरमथोज्वलनेति श्लोक: पठितव्य: । अथो अति । ज्वलनसङ्काशम् आयुधपूर्णत्वादिति भाव: । वनवासं हीति श्लोकस्तथैवेति श्लोकस्सीतातृतीयानितिश्लोकश्ैकं वाक्यम् । श्वशुरो दशरथ: । सीतायै यानि ददौ तानि रथोपस्थे प्रतिन्यस्य तथा भ्रातृभ्यां दत्तान्यायुधजालानि कवानि सर्म र्मपिनद्धम् अल्पकण्डोलं कठिनं तत् खनित्रं रथमध्ये प्रतिन्यस्य सीता तृतीयानारूढान् दृष्ट्वा अश्वानोदयदिति योजना । धृष्टं सधैर्यम् । सम्मतान् श्रेष्ठानित्यर्थ: । यथान्यासमेव वास्तु । तदा तं रथमितिश्लोको वनवासमिति श्लोक: तथैवेति श्लोकश्ैकं वाक्यम् । सीतात्मानो ऽलङ्कारं कृत्वा यानि श्वशुरो ददौ यानि भ्रातृभ्यामानीतानि आयुधजालानि कवानि सर्म कठिनं तत्सर्वं रथोपस्थे प्रतिन्यस्यारुरोहेत्यन्वय: ।। 2.40.1417 ।।

प्रतियाते महारण्यं िररात्राय राघवे ।

बभूव नगरे मूर््छा बलमूर््छा जनस्य ।। 2.40.18 ।।

प्रतियात इति । िररात्राय िरकालम् । नगरे मूर््छा बभूव नगरस्थस्त्रीबालादिषु दु:खातिशयेन विसंज्ञता बभूवेत्यर्थ: । बलमूर््छा अश्वगजादिमोह: । जनस्य उत्सवार्थमागतजनपदजनस्य ।। 2.40.18 ।।

तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम् ।

हयशिञ्जितनिर्घाषं पुरमासीन्महास्वनम् ।। 2.40.19 ।।

तदिति । समाकुलम् अन्त:करणक्षोभयुक्तम् । सम्भ्रान्तं बाह्येन्द्रियक्षोभयुक्तं, सर्वेन्द्रियक्षोभवत् पौरजनयुक्तमित्यर्थ: । मत्तसङ्कुपितद्विपं व्यसनातिशयेन सङ्कुपितमत्तद्विपमित्यर्थ: । हयशिञ्जितनिर्घोषं परितापातिशयेन ततइतश्लतां हयानां भूषणरवेण सञ्जातघोषमित्यर्थ: । “भूषणानां तु शिञ्जितम्” इत्यमर: । अत एव महास्वनमासीत् ।। 2.40.19 ।।

तत: सबालवृद्धा सा पुरी परमपीडिता ।

राममेवाभिदुद्राव घर्मार्त्ता सलिलं यथा ।। 2.40.20 ।।

तत इति । परमपीडिता रामविरहदु:खेनेति शेष: ।। 2.40.20 ।।

पार्श्वत: पृष्ठतश्ापि लम्बमानास्तदुन्मुखा: ।

बाष्पपूर्णमुखा: सर्वे तमूुर्भृशनिस्वना: ।। 2.40.21 ।।

संय्छ वाजिनां रश्मीन् सूत याहि शनै: शनै: ।

मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ।। 2.40.22 ।।

पार्श्वत इति । लम्बमाना: रथैकदेशमाश्रित्येति शेष: ।। 2.40.2122 ।।

आयसं हृदयं नूनं राममातुरसंशयम् ।

यद्देवगर्भप्रतिमे वनं यानि न भिद्यते ।। 2.40.23 ।।

आयसमिति । देव गर्भप्रतिमे देवकुमारसदृशे ।। 2.40.23 ।।

कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।

न जहाति रता धर्मे मेरुमर्कप्रभा यथा ।। 2.40.24 ।।

अहो लक्ष्मण सिद्धार्थ: सततं प्रियवादिनम् ।

भ्रातरं देवसङ्काशं यस्त्वं परिरिष्यसि ।। 2.40.25 ।।

महत्येषा हि ते सिद्धिरेष ाभ्युदयो महान् ।

एष स्वर्गस्य मार्गश् यदेनमनुग्छसि ।। 2.40.26 ।।

एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ।

नरास्तमनुग्छन्त: प्रियमिक्ष्वाकुनन्दनम् ।। 2.40.27 ।।

अथ राजा वृत: स्त्रीभिर्दीनाभिर्दीनेतन: ।

निर्ज्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ।। 2.40.28 ।।

शुश्रुवे ाग्रत: स्त्रीणां रुदन्तीनां महास्वन: ।

यथा नाद: करेणूनां बद्धे महति कुञ्जरे ।। 2.40.29 ।।

कृत्यकृत्येति । मेरुमर्कप्रभा यथेति सूर्यस्य प्रादक्षिण्येन मेरुगमनमिति सर्वदा तस्य मेरुसम्बन्धो ऽस्त्येव ।। 2.40.2429 ।।

पिता हि राजा काकुत्स्थ: श्रीमान् सन्नस्तदाभवत् ।

परिपूर्ण: शशी काले ग्रहेणोपप्लुतो यथा ।। 2.40.30 ।।

पितेति । सन्न: अवसन्नतेजा इत्यर्थ: ।। 2.40.30 ।।

श्रीमानिन्त्यात्मा रामो दशरथात्मज: ।

सूतं सञ्ोदयामास त्वरितं वाह्यतामिति ।। 2.40.31 ।।

स इति । अिन्त्यात्मा इयत्तया परि्छेत्तुमशक्यधैर्यइत्यर्थ: ।। 2.40.31 ।।

रामो याहीति सूतं तं तिष्ठेति स जनस्तदा ।

उभयं नाशकत् सूतं कर्तुमध्वनि ोदित: ।। 2.40.32 ।।

राम इति । याहि तिष्ठेति उभयत्राोदयदिति शेष: । उभयं यानं स्थानं । अध्वनि रामजनाभ्यां ोदित: सन् कर्तुं नाशकत् ।। 2.40.32 ।।

निर्ग्छति महाबाहौ रामे पौरजनाश्रुभि: ।

पतितैरभ्यवहितं प्रशशाम महीरज: ।। 2.40.33 ।।

निर्ग्छतीति । अभ्यवहितं सिक्तम् ।। 2.40.33 ।।

रुदिताश्रुपरिद्यूनं हाहाकृतमेतनम् ।

प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ।। 2.40.34 ।।

रुदिताश्रुपरिद्यूनमिति । हाहाकृतं हाहाकारवत् । मत्त्वर्थीयलोप: । अेतनं मूढम् । राघवस्य दशरथस्य । पुरं पुरस्थजना: ।। 2.40.34 ।।

सुस्राव नयनै: स्त्रीणामास्रमायाससम्भवम् ।

मीनसंक्षोभलितै: सलिलं पङ्कजैरिव ।। 2.40.35 ।।

सुस्रावेति । नयनै: नयनेभ्य: । आयाससम्भवं खेदजनितम् । संक्षोभ: उल्ललनम् । सलिलं मकरन्दरूपम् ।। 2.40.35 ।।

दृष्ट्वा तु नृपति: श्रीमानेकित्तगतं पुरम् ।

निपपातैव दु:खेन हतमूल इव द्रुम: ।। 2.40.36 ।।

दृष्ट्वेति । एकित्तगतम् एकित्ततां गतम् ।। 2.40.36 ।।

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठत: ।

नराणां प्रेक्ष्य राजानं सीदन्तं भृशदु:खितम् ।। 2.40.37 ।।

तत इति । प्रेक्ष्य, स्थितानामिति शेष: ।। 2.40.37 ।।

हा रामेति जना: केिद्राममातेति ापरे ।

अन्त:पुरं समृद्धं क्रोशन्त: पर्यदेवयन् ।। 2.40.38 ।।

हा रामेति । हा रामेति परिदेवनप्रकार: । राममातेत्यत्रापि हेत्यनुषञ्जनीयम् । सन्धिरार्ष: । राममातरित्यर्थ: । जना: क्रोशन्त: सन्त: । पर्यदेवयन् अरुदन् । समृद्धम् अन्त:पुरम् । अन्त:पुरजनश् पर्यदेवयदिति विपरिणामेनानुषङ्ग: ।। 2.40.38 ।।

अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तेतसम् ।

राजानं मातरं ैव ददर्शानुगतौ पथि ।। 2.40.39 ।।

अन्वीक्षमाण इति । अन्वीक्षमाण: आक्रोशानुसोरण पश्ात्सामान्यत ईक्षमाण: ।। 2.40.39 ।।

स बद्ध इव पाशेन किशोरो मातरं यथा ।

धर्मपाशेन संक्षिप्त: प्रकाशं नाभ्युदैक्षत ।। 2.40.40 ।।

पदातिनौ यानार्हावदु:खार्हौ सुखोितौ ।

दृष्ट्वा संोदयामास शीघ्रं याहीति सारथिम् ।। 2.40.41 ।।

स इति । किशोरो ऽश्वबाल: । संक्षिप्त: बद्ध इति यावत् । प्रकाशं नाभ्युदैक्षत अपाङ्गेनाभ्युदैक्षतेत्यर्थ: ।। 2.40.4041 ।।

न हि तत् पुरुषव्याघ्रो दु:खजं दर्शनं पितु: ।

मातुश् सहितुं शक्तस्तोत्रार्दित इव द्विप: ।। 2.40.42 ।।

नहीति । सहितुं सोढुम् । तोत्रार्दित: वैणुकेन पीडित: । “तोत्रं वैणुकम्” इत्यमर: ।। 2.40.42 ।।

प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।

बद्धवत्सा यथा धेनू राममाता ऽभ्यधावत ।। 2.40.43 ।।

प्रत्यगारमिति । बद्धवत्सा वत्सकारणात् अगारं प्रत्यायान्ती धेनुरिव । वत्सला राममाता अभ्यधावत् रथमिति शेष: ।। 2.40.43 ।।

तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ।

क्रोशन्तीं रामरामेति हा सीते लक्ष्मणेति ।। 2.40.44 ।।

रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् ।

असकृत् प्रैक्षत सतां नृत्यन्तीमिव मातरम् ।। 2.40.45 ।।

तथेत्यादि । नृत्यन्तीमिवेति तद्वदितस्तत: परिभ्रमन्तीमित्यर्थ: ।। 2.40.4445 ।।

तिष्ठेति राजा ुक्रोश याहियाहीति राघव: ।

सुमन्त्रस्य बभूवात्मा क्रयोरिव ान्तरा ।। 2.40.46 ।।

तिष्ठेति । सुमन्त्रस्य आत्मा मन: क्रयोरन्तरेव रथपूर्वपश्ाद्भागस्थितयोश्क्रयोर्मध्यगत: पुरुष इव बभूव । दशरथरामवनाभ्यामतिसङ्कटं प्राप्त इत्यर्थ: ।। 2.40.46 ।।

नाश्रौषमिति राजानमुपालब्धोपि वक्ष्यसि ।

िरं दु:खस्य पापिष्ठमिति रामस्तमब्रवीत् ।। 2.40.47 ।।

राजवनातिक्रमणे महान् दोषो भविष्यतीत्याशङ्कायामाह–नाश्रौषमिति । पुनरागमनानन्तरं राज्ञा किमर्थं मद्वाक्ये न स्थितो ऽसीति निन्दितोपि नाश्रौषं त्वद्वनमिति वक्ष्यसि । किमर्थमेवमसत्यवनम् ?तत्राह िरमिति । दु:खस्य इदानीमनुभूयमानदु:खस्य । िरं विलम्ब: पापिष्ठम् अतिदुस्सहम् ।। 2.40.47 ।।

रामस्य स व: कुर्वन्ननुज्ञाप्य तं जनम् ।

व्रजतोपि हयान् शीघ्रं ोदयामास सारथि: ।। 2.40.48 ।।

रामस्येति । तं जनं कौसल्यां परिवेष्ट्यागतमवरोधजनम् । अनुज्ञाप्य रामेणानुज्ञां प्रापय्येत्यर्थ: ।। 2.40.48 ।।

न्यवर्त्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् ।

मनसाप्यश्रुवेगैश् न न्यवर्त्तत मानुषम् ।। 2.40.49 ।।

न्यवर्ततेति । राज्ञो जन: राजसम्बन्ध्यवरोधजन: । मानुषं मानुषाणां समूह: । समूहार्थे ऽण्प्रत्यय: । मनसा अश्रुवेगैश् निवृत्तावरोधजनस्य मनसा अश्रुवेगैश् सह न न्यवर्ततेति सम्बन्ध: ।। 2.40.49 ।।

यमि्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत् ।

इत्यमात्या महाराजमूुर्दशरथं व: ।। 2.40.50 ।।

कालोितकर्तव्यज्ञा: सिवा: शास्त्रार्थकथनेन राजानं निवर्तयन्ति–यमि्छेदिति ।। 2.40.50 ।।

तेषां व: सर्वगुणोपपन्नं प्रस्विन्नगात्र: प्रविषण्णरूप: ।

निशम्य राजा कृपण: सभार्यो व्यवस्थितस्तं सुतमीक्षमाण: ।। 2.40.51 ।।

तेषामिति । व्यवस्थित: स्थितवान् ।। 2.40.51 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्वारिंश: सर्ग: ।। 40 ।।

इति श्रीगोविन्दीराजविरिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्वारिंश: सर्ग: ।। 40 ।।

Languages

Related Parts

error: Content is protected !!