[highlight_content]

83 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितम: सर्ग:

तत: समुत्थित: काल्यमास्थाय स्यन्दनोत्तमम् ।

प्रययौ भरत: शीघ्रं रामदर्शनकाङ्क्षया ।। 2.83.1 ।।

अग्रत: प्रययुस्तस्य सर्वे मन्त्रिपुरोधस: ।

अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ।। 2.83.2 ।।

तत इति । काल्यम् अहर्मुखम् । “प्रत्यूषो ऽहर्मुखं काल्यम्” इत्यमर: । प्राप्येति शेष: ।। 2.83.12 ।।

नवनागसहस्राणि कल्पितानि यथाविधि ।

अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ।। 2.83.3 ।।

यथाविधि कल्पितानि भरतनियोगमनतिक्रम्य कल्पितानि । नवनागसहस्राणीत्यनेन पुरस्थगजेषु नवनागसहस्रमात्रं प्रयाणे कल्पितमित्यवगम्यते ।। 2.83.3 ।।

षष्टीरथसहस्राणि धन्विनो विविधायुधा: ।

अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ।। 2.83.4 ।।

धन्विनो विविधायुधाश्ेत्यनेन योधा उक्ता: ।। 2.83.4 ।।

शतं सहस्राण्यश्वानां समारूढानि राघवम् ।

अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ।। 2.83.5 ।।

समारूढानि सादिभिरिति शेष: ।। 2.83.5 ।।

कैकेयी सुमित्रा कौसल्या यशस्विनी ।

रामानयनसंहृष्टा ययुर्यानेन भास्वता ।। 2.83.6 ।।

कैकेयीति । अग्रतो गमनं पश्ात्तापातिशयात् । यानेनेत्येकवनं प्रत्येकापेक्षया ।। 2.83.6 ।।

प्रयाताश्ार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् ।

तस्यैव कथाश्ित्रा: कुर्वाणा हृष्टमानसा: ।। 2.83.7 ।।

आर्यसङ्घाता: त्रैवर्णिकसङ्घा: । तस्यैव कथा: तत्सम्बन्धिवार्त्ता: ।। 2.83.7 ।।

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।

कदा द्रक्ष्यामहे रामं जगत: शोकनाशनम् ।। 2.83.8 ।।

ता एवाह–मेघेत्यादिना । मेघश्यामं दूरस्थितत्वेपि त्यक्तुमशक्यं सौन्दर्य्यमु्यते । धर्माभितप्ता: पर्जन्यमितिवत् । मेघश्यामं दर्शनमात्रेण सर्वसन्तापहरम् । महाबाहुम् ‘आयताश् सुवृत्ताश्’ इति ह्युक्तम् । महाबाहुं तादृशसौन्दर्य्यानुभवदानविषयौदार्ययुक्तम् । महाबाहुं तादृशसौन्दर्यभोगप्रदानसमर्थं “राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्” इतिवत् । स्थिरसत्त्वं स्थिरव्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमर: । स्थिरित्तमिति पाठ: । आश्रितप्रातिकूल्येनाप्यविकृतमनस्कम् । दृढव्रतम् अन्तरङ्गैरप्यप्रकम्प्याश्रितरक्षणदीक्षम् । कदा द्रक्ष्यामहे रामं तन्मुखावलोकनमात्रं लभ्यते ेत् कैकेयीवनजनिततापा: सर्वेपि निवर्त्तेरन् । जगत: शोकनाशनम् तस्मिन् सर्वलोकशोकनिवर्त्तके सति कथं वयं शोकाकुला: स्याम । तदीय सर्वलोकशोकनिवर्तकत्वस्य अस्म्छोकस्य क: सम्बन्ध: । मा शु इत्युक्तवतोप्यस्यातिशय उक्त: ।। 2.83.8 ।।

दृष्ट एव हि न: शोकमपनेष्यति राघव: ।

तम: सर्वस्य लोकस्य समुद्यन्निव भास्कर: ।। 2.83.9 ।।

दृष्ट इति । दृष्ट एव राम: सन्निहितश्ेत्स मन्दस्मितो माभूत् कटाक्षपूर्वकं किञ्ित् प्रियवनं मावोत् । अस्माभिश् न यत्न: कार्य: किन्तु दूरे दर्शनमात्रेणास्म्छोका: सर्वे विनश्येयु: । तम इत्यादि । यथोद्यन् आदित्यो दूरस्थितोपि सकललोकान्धकारं निवर्त्तयति ।। 2.83.9 ।।

इत्येवं कथयन्तस्ते सम्प्रहृष्टा: कथा: शुभा: ।

परिष्वजानाश्ान्योन्यं ययुर्नागरिका जना: ।। 2.83.10 ।।

इतीति । परिष्वजाना: परिष्वजमाना: । नगरे रन्तीति नागरिका: । “रति” इति ठक् ।। 2.83.10 ।।

ये तत्रापरे सर्वे सम्मता ये नैगमा: ।

रामं प्रति ययुर्हृष्टा: सर्वा: प्रकृतयस्तथा ।। 2.83.11 ।।

य इति । तत्र नगरे ये रामस्य सम्मता: ये नैगमा: वणिज: ते सर्वे सर्वा: प्रकृतय: पौरश्रेणयश् रामं प्रति ययु: ।। 2.83.11 ।।

मणिकाराश् ये केित् कुम्भकाराश् शोभना: ।

सूत्रकर्मकृतश्ैव ये शस्त्रोपजीविन: ।। 2.83.12 ।।

मायूरका: क्राकिका रोका वेधकास्तथा ।

दन्तकारा: सुधाकारास्तथा गन्धोपजीविन: ।। 2.83.13 ।।

सुवर्णकारा: प्रख्यातास्तथा कम्बलधावका: ।

स्नापको्छादका वैद्या धूपका: शौण्डिकास्तथा ।। 2.83.14 ।।

ता: प्रपञ्यति–मणीत्यादिना । अत्र य्छब्दरहितस्थले सो ऽनुषञ्जनीय: । मणिकारा: पद्मरागादिमणिसंस्कारका: । कुम्भकारा: कुलाला: । शोभना: स्वकार्यदक्षा इति यावत् । सूत्रकर्मकृत: तन्तुवायादय: । शस्त्रोपजीविन: शस्त्रकारका: । मायूरका: मयूरपि्छैश्छत्र्रव्यजनादिकारिण: । क्राकिका: क्रकै: करपत्रैश्न्दनादिदारुदलनकारिण: “क्रको़ ऽस्त्री करपत्रम्” इत्यमर: । रोका: दन्तकुड्यवेदिकादिषु कान्त्युत्पादका: । वेधका: दारुरत्नादिरन्ध्रकारिण: । दन्तकारा: दन्तै: पुत्रिकापीठशिबिकादिकारका: । सुधाकारा: प्रासादतलकुड्यादिषु सुधालेपनकर्मकरा: । गन्धोपजीविन: न्दनकस्तूरीकर्पूरकुङ्कुमादिगन्धद्रव्यविक्रयजीविन: । सुवर्णकारा: प्रसिद्धा: । कम्बलधावका: कम्बलशोधका: । स्नापको्छादका: स्नापका: तैलाभ्यङ्गादिस्नानकारिण: । उ्छादका: अङ्गमर्दका: “उ्छादनं समुल्लेखोद्वाहनोद्वर्तनेषु ” इति विश्व: । धूपका: गृहादिषु धूपवासका: । शौण्डिका: मद्यकरा: । “शुण्डाकरिकरे मद्ये” इति वैजयन्ती ।। 2.83.1214 ।।

रजकास्तुन्नवायाश् ग्रामघोषमहत्तरा: ।

शैलूषाश् सह स्त्रीभिर्ययु: कैवर्त्तकास्तथा ।। 2.83.15 ।।

रजका: निर्णेजका: “निर्णेजक: स्याद्रजक:” इत्यमर: । तुन्नवायस्तु सौिकः” इत्यमरः । ग्रामघोषमहत्तराः घोषमहत्तराश्, महत्तराः प्रधानभूताः । “घोष आभीरपल्ली स्यात्” इत्यमरः । शैलूषाः भूमिकाधारिणः, स्त्रीजिवनिनो वा । अत एव सह स्त्रीभिरित्ययुक्तम् । “शैलालिनस्तु शैलूषा जायाजीवाः” इत्यमरः । कैवर्ताः धीवराः । “कैवर्ते दाशधीवरौ” इत्यमरः । ते सर्वे ययुरित्यन्वय: ।। 2.83.15 ।।

समाहिता वेदविदो ब्राह्मणा वृत्तसम्मता: ।

गोरथैर्भरतं यान्तमनुजग्मु: सहस्रश: ।। 2.83.16 ।।

समाहिता योगिन: । गोरथैर्वृषभयुक्तरथै: शकटैरिति यावत् ।। 2.83.16 ।।

सुवेषा: शुद्धवसनास्ताम्रमृष्टानुलेपना: ।

सर्वे ते विविधैर्यानै: शनैर्भरतमन्वयु: ।। 2.83.17 ।।

ताम्रमृष्टानुलेपना: रक्तवर्णसम्पूर्णाङ्गरामा: ।। 2.83.17 ।।

प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् ।

भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ।। 2.83.18 ।।

प्रहर्ष: कायिको रोमाञ्ादि: । प्रमोदो मानसो हर्ष: । आनयने आनयननिमित्तम् ।। 2.83.18 ।।

ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरै: ।

समासेदुस्ततो गङ्गां श्रृङ्गिबेरपुरं प्रति ।। 2.83.19 ।।

त इति । श्रृङ्गिबेरपुरं प्रति दूरमध्वानं गत्वा गङ्गां समासेदुरिति सम्बन्ध: । यद्वा श्रृङ्गिबेरपुरं प्रतीति [“लक्षणेत्थंभूताख्यान–” इति] लक्षणे कर्म प्रवनीय: । श्रृङ्गिबेरपुरं इत्यर्थ: ।। 2.83.19 ।।

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृत: ।

निवसत्यप्रमादेन देशं तं परिपालयन् ।। 2.83.20 ।।

यत्रेति । अप्रमादेन सावधानतया, रामविरोध्यागमनवारणपर इत्यर्थ: । तत्र देशे विद्यमानं श्रृङ्गिबेरपुरं प्रतीति पूर्वेणान्वय: ।। 2.83.20 ।।

उपेत्य तीरं गङ्गायाश्क्रवाकैरलङ्कृतम् ।

व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ।। 2.83.21 ।।

निरीक्ष्यानुगतां सेनां तां गङ्गां शिवोदकाम् ।

भरत: सिवान् सर्वानब्रवीद्वाक्यकोविद: ।। 2.83.22 ।।

उपेत्येति । व्यवातिष्ठत व्यवस्थिता अभूत् ।। 2.83.2122 ।।

निवेशयत मे सैन्यमभिप्रायेण सर्वत: ।

विश्रान्ता: प्रतरिष्याम: श्व इदानीमिमां नदीम् ।। 2.83.23 ।।

निवेशयतेति । अभिप्रायेण तत्तदि्छया इदानीं विश्रान्ता: श्वो नदीं प्रतरिष्याम इति सम्बन्ध: ।। 2.83.23 ।।

दातुं तावदि्छामि स्वर्गतस्य महीपते: ।

और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ।। 2.83.24 ।।

दातुमिति । और्ध्वदेहनिमित्तार्थम् ऊर्ध्वदेहभवसुखप्रयोजनायेत्यर्थ: । नदीमवतीर्य पितुरौर्ध्वदेहनिमित्तार्थमुदकं दातुमि्छामीत्यन्वय: ।। 2.83.24 ।।

तस्यैवं ब्रुवतो ऽमात्यास्तथेत्युक्त्वा समाहिता: ।

न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक् ।। 2.83.25 ।।

तस्येति । छन्देन इ्छया । “छन्द: श्रुती्छापद्येषु” इति वैजयन्ती ।। 2.83.25 ।।

निवेश्य गङ्गमनु तां महानदीं मूं विधानै: परिबर्हशोभिनीम् ।

उवास रामस्य तदा महात्मनो वििन्तयानो भरतो निवर्त्तनम् ।। 2.83.26 ।।

निवेश्येति । गङ्गामनु निवेश्य गङ्गामनुसृत्य निवेश्य, गङ्गाकूलानुसारेण निवेश्येति यावत् । विधानै: तत्तज्जातिव्यवस्थाकल्पनादिभि: । परिबर्हशोभिनीं परिबर्हो यात्रोपयुक्तपटवेश्माद्युपकरणम् । “तथोपकरणं प्रोक्तं परिबर्ह: परि्छद:” इति हलायुध: ।। 2.83.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितम: सर्ग: ।। 83 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्र्यशीतितम: सर्ग: ।। 83 ।।

Languages

Related Parts

error: Content is protected !!