[highlight_content]

55 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्पञ्ाश: सर्ग:

उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ ।

महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ।। 2.55.1 ।।

उषित्वेत्यादि ।। 2.55.1 ।।

तेषां ैव स्वस्त्ययनं महर्षि: स कार ह ।

प्रस्थितांश्ैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ।। 2.55.2 ।।

तेषामिति । तेषां प्रस्थातुमुद्युक्तानाम् । अन्वगादिति पाठ: । अन्वशादिति पाठे–अनुशिष्टवान् मार्गोपदेशमकरोदित्यर्थ: ।। 2.55.2 ।।

तत: प्रक्रमे वक्तुं वनं स महामुनि: ।

भरद्वाजो महातेजा रामं सत्यपराक्रमम् ।। 2.55.3 ।।

तदेव विवृणोति–तत इति ।। 2.55.3 ।।

गङ्गायमुनयो: सन्धिमासाद्य मनुजर्षभौ ।

कालिन्दीमनुग्छेतां नदीं पश्ान्मुखाश्रिताम् ।। 2.55.4 ।।

गङ्गायमुनयोरिति । प्रथमं गङ्गायमुनयो: सन्धिमासाद्य पश्ात् पश्ान्मुखाश्रितां गङ्गाजलवेगाभिहत्या किंित्पश्ान्मुखप्रवाहं प्राप्तां कालिन्दीं नदीम् । अनुग्छेताम् अनुसृत्य ग्छेतां पश्िमाभिमुखौ भूत्वा ग्छेतां, भवन्ताविति शेष: । (पाठभेद: । अभिग्छेताम् अभिमुखं ग्छेताम्, कालिन्द्या अभिमुखीभूय ग्छेतामित्यर्थ:) ।। 2.55.4 ।।

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् ।

तस्यास्तीर्थं प्ररितं पुराणं प्रेक्ष्य राघवौ ।। 2.55.5 ।।

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।

ततो न्यग्रोधमासाद्य महान्तं हरित्छदम् ।। 2.55.6 ।।

शीघ्रस्रोतसमित्यनेन गङ्गाजलवेगप्रतिहतिस्तिमितजलव्यतिरिक्तप्रदेश उ्यते । तीर्थम् अवतरणप्रदेशम् । प्ररितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थ: । आंशुमतीम् अंशुमत: सूर्यस्यापत्यभूताम् । तत: तरणानन्तरम् । न्यग्रोधं तीरस्थम् । हरित्छदं श्यामलपत्रम् । अत एव श्यामं श्यामनामकं वृक्षै: सह विवृद्धम् । यद्वा वृक्षै: श्यामं वृक्षसहितत्वात् विशेषेण श्यामलम् । वृक्षैरित्युपलक्षणे तृतीया । आशिष: मनोरथान् । प्रयुञ्जीत प्रार्थयेत् ।। 2.55.56 ।।

विवृद्धं बहुभिर्वृक्षै: श्यामं सिद्धोपसेवितम् ।

तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषः: शिवा: ।। 2.55.7 ।।

वसेद्वा अतिक्रमेत वा सीतेति शेष: । श्रान्ता ेत् किंित्कालं वसेत्, नोेदतिक्रमेतेत्यर्थ: ।। 2.55.7 ।।

समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा ।

क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ।। 2.55.8 ।।

तत: दक्षिणतटस्थन्यग्रोधात् । यामुनै: यमुनासम्बन्धिभि:, यमुनातीरजैरित्यर्थ: ।। 2.55.8 ।।

पलाशबदरीमिश्रं रम्यं वंशैश् यामुनै: ।

स पन्थाश्ित्रकूटस्य गत: सुबहुशो मया ।

रम्यो मार्दवयुक्तश् वनदावैर्विवर्जित: ।

इति पन्थानमावेद्य महर्षि: संन्यवर्तत ।। 2.55.9 ।।

स: काननम्, पथिशब्दापेक्षया पुल्लिङ्गत्वम् । मार्दवयुक्त: सूक्ष्मसिकतावत्त्वात् । वनदावैर्वनाग्निभि: । “दवदावौ वनारण्यवह्नी” इत्यमर: । तथाप्यत्र दावशब्दो ऽग्निमात्रपर: । “विशिष्टवाकानाम्” इति न्यायात् ।। 2.55.9 ।।

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तित: ।। 2.55.10 ।।

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ।

कृतपुण्या: स्म सौमित्रे मुनिर्यन्नो ऽनुकम्पते ।। 2.55.11 ।।

अभिवाद्येत्यर्द्धेन महर्षिं विशेषयति । तथैव गमिष्याम इत्युक्त्वा अभिवाद्य त्वमाश्रमं ग्छेति रामेण विनिवर्त्तितो महर्षि: न्यवर्ततेति सम्बन्ध: ।। 2.55.1011 ।।

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ।

सीतामेवाग्रत: कृत्वा कालिन्दीं जग्मतुर्नदीम् ।। 2.55.12 ।।

अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ।

िन्तामापेदिरे सर्वे नदीजलतितीर्षव: ।। 2.55.13 ।।

इतीति । मन्त्रयित्वा पूर्वोक्तरीत्या कृतार्थतामनुसन्धाय ।। 2.55.1213 ।।

तौ काष्ठसङ्घाटमथो क्रतुस्सुमहाप्लवम् ।

शुष्कैर्वंशै: समास्तीर्णमुशीरैश् समावृतम् ।। 2.55.14 ।।

ततो वेतसशाखाश् जम्बूशाखाश् वीर्यवान् ।

कार लक्ष्मणश्छित्त्वा सीताया: सुखमासनम् ।। 2.55.15 ।।

तौ काष्ठसङ्घाटमिति । काष्ठसङ्घाट: काष्ठनिय: । उशीरै: वीरणतृणमूलै: । “मूले़ ऽस्योशीरमस्त्रियाम्” इत्यमर: ।। 2.55.1415 ।।

तत्र श्रियमिवािन्त्यां रामो दाशरथि: प्रियाम् ।

ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ।। 2.55.16 ।।

तत्रेति । अिन्त्याम् अिन्त्यसौन्दर्याम् । कान्तकरग्रहादावश्यकत्वाेषल्लज्जावतीम् ।। 2.55.16 ।।

पार्श्वे तत्र वैदेह्या वसने भूषणानि

प्लवे कठिनकाजं रामश्क्रे सहायुधै: ।। 2.55.17 ।।

पार्श्व इति । तत्रैव वैदेह्या: पार्श्वे कठिनकाजं कठिनकं कन्दमूलखननसाधनमायसाग्रं दारु, आजम् अजर्म पिनद्धं पिटकम् । द्वन्द्वैकवद्भाव: । क्रे स्थापितवानित्यर्थ: ।। 2.55.17 ।।

आरोप्य प्रथमं सीतां सङ्घाट परिगृह्य तौ ।

तत: प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ।। 2.55.18 ।।

आरोप्येति । सङ्घाटंप्लवम् । यत्तौ प्लवालने यतमानौ ।। 2.55.18 ।।

कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ।

स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम् ।। 2.55.19 ।।

यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।। 2.55.20 ।।

कालिन्दीमथ सीता तु यामाना कृताञ्जलि: ।

तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी ।। 2.55.21 ।।

कालिन्दीमध्यमित्यादि । मे पति: । व्रतं वनवाससङ्कल्पम् । पारयेत् समापयेत् । त्वामुद्दिश्य गोसहस्रेण गोसहस्रप्रदानेन सुराघटशतेन नैवेद्येन । स्वस्ति यथा भवति तथा प्रत्यागते सति गोसहस्रप्रदानेन सुराघटशतेन त्वां यक्ष्य इत्यादि यामाना तीरं प्राप्तेत्यन्वय: ।। 2.55.1921 ।।

तत: प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ।

तीरजैर्बहुभिर्वृक्षै: सन्तेरुर्यमुनां नदीम् ।। 2.55.22 ।।

तत इति । वृक्षैरिति उपलक्षणे तृतीया ।। 2.55.22 ।।

ते तीर्णा: प्लवमुत्सृज्य प्रस्थाय यमुना वनात् ।

श्यामं न्यग्रोधमासेदु: शीतलं हरित्छदम् ।। 2.55.23 ।।

न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ।। 2.55.24 ।।

ते तीर्णा इति । यमुनावनात् यमुनातीरवनात् ।। 2.55.2324 ।।

नमस्ते ऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् ।

कौसल्यां ैव पश्येयं सुमित्रां यशस्विनीम् ।

इति सीता ऽञ्जलिं कृत्वा पर्यग्छद्वनस्पतिम् ।। 2.55.25 ।।

नमस्त इत्यादि । पर्यग्छत् प्रदक्षिणं कार ।। 2.55.25 ।।

अवलोक्य तत: सीतामायान्तीमनिन्दिताम् ।

दयितां विधेयां रामो लक्ष्मणमब्रवीत् ।। 2.55.26 ।।

अवलोक्येति । अवलोक्य, सीताया: श्रान्त्यश्रान्ती परीक्ष्येत्यर्थ: । आयान्तीं मनोरथान् प्रार्थयन्तीम् ।। 2.55.26 ।।

सीतामादाय ग्छ त्वमग्रतो भरताग्रज ।

पृष्ठतो ऽहं गमिष्यामि सायुधो द्विपदां वर ।। 2.55.27 ।।

सीतामादायेति । भरताग्रजेति बहुव्रीहि: । अग्रतो ग्छेत्यनेन सीताया: पुरतो ग्छेत्युक्तम् ।। 2.55.27 ।।

यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ।

तत्तत् प्रदद्या वैदेह्या यत्रास्या रमते मन: ।। 2.55.28 ।।

्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा ।

मातङ्गयोर्मध्यगता शुभा नागवधूरिव ।। 2.55.29 ।।

अग्रतो गमनफलमाह– यद्यत्फलमित्यादिश्लोकेन ।। 2.55.2829 ।।

एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।

अदृष्टपूर्वां पश्यन्ती रामं पप्र्छ सा ऽबला ।। 2.55.30 ।।

एकैकमिति । पप्र्छ कैषां संज्ञेति पृष्टवतीत्यर्थ: ।। 2.55.30 ।।

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ।

सीतावनसंरब्ध आनयामास लक्ष्मण: ।। 2.55.31 ।।

रमणीयानिति । पादपानित्यनेन स्तबकविशिष्टा: पादपावयवा उ्यन्ते । सीतावनसंरब्ध: सीतावनेन त्वरित: ।। 2.55.31 ।।

विित्रवालुकजलां हंससारसनादिताम् ।

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।। 2.55.32 ।।

विित्रवालुकजलामिति । नदीं यमुनाम् । सुदूरं तत्तीरे गमनात्तद्दर्शनम् ।। 2.55.32 ।।

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।

बहून् मेध्यान् मृगान् हत्वा ेरतुर्यमुनावने ।। 2.55.33 ।।

क्रोशमात्रमिति । मेध्यान् शुीन् भक्ष्यानिति यावत् । ेरतु: भक्षितवन्तौ । “र गतिभक्षणयो:” ।। 2.55.33 ।।

विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते ।

समं नदीवप्रमुपेत्य सम्मतं निवासमाजग्मुरदीनदर्शना: ।। 2.55.34 ।।

विहृयेति । पूग: समूह: । समम् अनिम्नोन्नतम् । नदीवप्रं नदीतीरम् । संमतं निवासं सीताभिमतं वासस्थानम् ।। 2.55.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्पञ्ाश: सर्ग: ।। 55 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्पञ्ाश: सर्ग: ।। 55 ।।

Languages

Related Parts

error: Content is protected !!