श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः
सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः ।
समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ।। 4.25.1 ।।
अथ रामः सर्वसान्त्वनपूर्वकं वालिनः संस्कारं कारयति पञ्चविंशे सुग्रीवमित्यदि । साङ्गदमिति सुग्रीवविशेषणम् । समानशोकः ताराङ्गदादिभिस्तुल्यशोकः ।। 4.25.1 ।।
न शोकपरितापेन श्रेयसा युज्यते मृतः ।
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ।। 4.25.2 ।।
नेति । शोकपरितापेन शोककृतपरितापेन, युष्मदीयेनेति शेषः । मृतो वाली श्रेयसा न युज्यते । अत्र वालिनि विषये अनन्तरं मरणानन्तरम् । यत् श्रेयस्करं कार्यम् और्ध्वदैहिकरूपम्, तत्समाधातुं कर्तुम् अर्हथ ।। 4.25.2 ।।
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।
न कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम् ।। 4.25.3 ।।
लोकेति । लोकवृत्तं लोकाचारसिद्धम् । अत एव सर्वैरनुष्ठेयं बाष्पमोक्षणम् । वः युष्माभिः कृतम् । बाष्पमोक्षणादतिरिक्तं किमपि न युष्माभिः कर्तुं शक्यमित्याह कालादिति । कालादुत्तरं कालं विनेत्यर्थः । किञ्चित्कर्म उपासितुं कर्तुं न शक्यम्, देवाज्ञामुल्लङ्घ्य स्वातन्त्र्येण किञ्चिदपि कर्म कर्तुं न शक्यमित्यर्थः ।। 4.25.3 ।।
नियतिः कारणं लोके नियतिः कर्मसाधनम् ।
नियतिः सर्वभातानां नियोगेष्विह कारणम् ।। 4.25.4 ।।
तदेतुदुपपादयति नियतिरिति । नियम्यते ऽनेनेति नियतिः ईश्वरः लोके विषये कारणं सर्वलोककर्तेत्यर्थः । क्रियत इति कर्म कार्यम्, तस्य साधनं सहकारीत्यर्थः । सर्वभूतानां नियोगेषु प्रेरणेषु नियतिः कारणम्, सर्वप्रवर्तको ऽपीश्वर इत्यर्थः । “तेन विना तृणाग्रमपि न चलति” इति न्यायात् ईश्वरपरतन्त्रतया लोकः कर्म करोति न तु स्वातन्त्र्येणेत्यर्थः ।। 4.25.4 ।।
न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः ।
स्वाभावे वर्तते लोकस्तस्य कालः परायणम् ।। 4.25.5 ।।
एवमन्वयमुखेन ईश्वराधीनत्वमुक्त्वा व्यतिरेकमुखेन दर्शयति न कर्तेति । कश्चित्पुरुषः कस्यचित्कर्मणः न कर्ता न स्वातन्त्र्येण कर्ता नियोगे कस्य चित्प्रेरणे च नेश्वरः किन्तु स्वभावे वर्तते स्वभावाधीनो वर्तते लोकः । तत्र हेतुमाह तस्येति । कालः तस्य परायणं गतिः । अत्र स्वभावनियतिकालादिशब्दैरीश्वर एवाभिधीयते । अन्यथा ऽनेकराजत्वापत्तेः । श्वेताश्वतरश्रुतिश्च “स्वभावमेके कवयो वदन्ति” इत्यादिकैवमाह ।। 4.25.5 ।।
न कालः कालमत्येति न कालः परिहीयते ।
स्वभावं च समासाद्य न कश्चिदतिवर्तते ।। 4.25.6 ।।
न काल इति । कालः ईश्वरः । कालम् आत्मानम् । नात्येति नातिक्रामति । सः स्वाधीन एव न तु लोकवत् कस्यचित्परतन्त्रः । “न चास्य कश्चिज्जनिता न चाधिपः” इति श्रुतेः । न कालः परिहीयते न नश्यति । इदमुपलक्षणं षङ्भावविकाररहित इत्यर्थः । “अपक्षयविनाशाभ्यां” परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ।” इति ह्युक्तम् । स्वस्मिन् भवतीति स्वभाव ईश्वरः । वाशब्दो ऽवधारणे । स्वभावमासाद्यैव वर्तते न तु कश्चित्तमतिवर्तते । निरङ्कुशः स्वतन्त्रः । स्वकृतां व्यवस्थां स्वयमपि नातिवर्तते । तत्परतन्त्रो ऽनीशः किमुतेति भावः ।। 4.25.6 ।।
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ।
न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ।। 4.25.7 ।।
पुनरपीश्वरस्य स्वातन्त्र्यमुपपादयति न कालस्येति । कालस्येश्वरस्य । बन्धुत्वं नास्ति, पक्षपातो नास्तीर्यर्थः । हेतुश्च नास्ति, वशीकरणोपायश्च नास्ति । तत्प्रसादं विना स्वयत्नेन वशीकर्त्तुं न श्कयते इत्यर्थः । न पराक्रमः तज्जयहेतुपराक्रमो ऽपि नास्ति । पुरुषपराक्रमस्य स न बिभेति इति भावः । न मित्रज्ञातिसम्बन्धः न सुहृत्सगोत्रसम्बन्धः । अपराधिषु दण्डधरत्वमुक्तम् । “एष सेतुर्विधरण एषां लोकानामसम्भेदाय” इति श्रुतेः । अतः कारणमीश्वरः आत्मनो जीवस्य न वशः न परतन्त्रः । तत्तत्कर्मानुगुणमेव ईश्वरः सर्वं वर्तयतीत्यर्थः ।। 4.25.7 ।।
किन्तु कालपरीणामो द्रष्टव्यः साधु पश्यता ।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ।। 4.25.8 ।।
तर्ह्यनीशेन जन्तुना किं कर्तव्यं तत्राह किं त्विति । साधु सम्यक् पश्यता शास्त्रनिष्कर्षमवगच्छतेत्यर्थः । कालस्य ईश्वरस्य । परीणामः चेतनकर्मानुगुणप्रवृत्तिविशेषो द्रष्टव्यः, ईश्वरकृतव्यापारेषु न शोकः कर्तव्यः, यद्धितं तत्करिष्यतीति, स्थातव्यमिति भावः । धर्मार्थकामास्तु कालक्रमेण ईश्वरमर्यादया समाहिताः समर्पिता भवन्ति । धर्माधिषु यत् प्राप्तव्यं तत्
प्रापयतीश्वर एवेति भावः । अत्र नियतिकालस्वभावपदैः व्यामिश्रतयोक्तिस्तदानीं रहस्यं(स्य) वक्तुमनर्हत्वादिति बोध्यम् ।। 4.25.8 ।।
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् ।
धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः ।। 4.25.9 ।।
एवमर्थस्थितिमुक्त्वा तां प्रकृते सङ्गमयति इत इति । स्वां प्रकृतिं गतः मद्बाणवेधकृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सन् प्लवगेश्वरो वाली इतः अस्माल्लोकात् धर्मार्थकामसंयोगौः विहितकालानुष्ठितधर्मार्थकामसम्बन्धैः पवित्रं क्रियाफलं स्वर्गं प्राप्तः । “सामदानार्थसंयोगैः” इति पाठे नीतिशास्त्रानुष्ठानैरित्यर्थः ।। 4.25.9 ।।
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना ।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ।। 4.25.10 ।।
केन स्वां प्रकृतिं प्राप्त इत्यपेक्षायामुक्तं विशदयति स्वधर्मस्य चेति । स्वधर्मस्य संयोगात्स्वविहितधर्मानुष्ठानात् । रणे प्राणानपरिरक्षतेत्यनेन शौर्यकृतधर्मो ऽप्युक्तः । उभाभ्यां जितः पूर्वं स्ववशीकृतः स्वर्गः इदानीं परिगृहीतश्च ।। 4.25.10 ।।
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ।
तदलं परितापेन प्राप्तकालमुपास्यताम् ।। 4.25.11 ।।
एषेति । हरियूथपः वाली यां नियतिं गतः सा नियतिर्गतिः श्रेष्ठा । तत्तस्मात्कारणात् परितापेनालम् । सद्गितिं प्राप्तं प्रति शोको न कार्यः । प्राप्तकालम् एतत्कालोचितम् उपास्यताम् अनुष्ठीयताम् ।। 4.25.11 ।।
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ।। 4.25.12 ।।
गतचेतसम्, दुःखितमिति यावत् ।। 4.25.12 ।।
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ।। 4.25.13 ।।
कुरु त्वमस्येत्यर्धमेकं वाक्यम् ।। 4.25.13 ।।
ताराङ्गदाभ्यां सहितो वालनो दहनं प्रति ।
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ।। 4.25.14 ।।
चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ।
समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् ।। 4.25.15 ।।
मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ।
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ।
घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् ।। 4.25.16 ।।
तारेत्यादि । वालिनो दहनं प्रति ताराङ्गदाभ्यां सहितः सन् वालिसंस्कारकारणात् वालिसंस्कारार्थं चन्दनादीनि काष्ठानि समाज्ञापय । यच्चात्र समनन्तरं मरणानन्तरं यदानेतव्यमस्ति तत्सर्वमङ्गदः समानयेदित्यर्थः ।। 4.25.1416 ।।
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् ।
त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ।। 4.25.17 ।।
त्वमिति । त्वरा गुणवती अस्मिन्काले विशेषतो युक्ता ।। 4.25.17 ।।
सज्जीभवन्तु प्लवगाः शिबिकावहनोचिताः ।
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ।। 4.25.18 ।।
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्द्धनः ।
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ।। 4.25.19 ।।
सज्जीभवन्त्विति । ये निर्हरिष्यान्ति ते सज्जीभवन्त्विति योजना । निर्हारः शववहनम् ।। 4.25.18,19 ।।
लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः ।
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ।। 4.25.20 ।।
आदाय शिबिकां तारः स तु पर्यापतत्पुनः ।। 4.25.21 ।।
गुहां किष्किन्धाम् ।। 4.25.20,21 ।।
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः ।
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् ।। 4.25.22 ।।
पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् ।
आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः ।। 4.25.23 ।।
विमानमिव सिद्धानां जालवातायनावृताम् ।
सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ।। 4.25.24 ।।
दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् ।
वराभरणहारैश्च चित्रमाल्योपशोभिताम् ।। 4.25.25 ।।
गुहागहनसञ्छन्नां रक्तचन्दनरूषिताम् ।
पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च ।
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ।। 4.25.26 ।।
वानरैरित्यादि । भद्रासनयुतां राजासनयुक्ताम् । (राजार्होन्नतासनयुक्तामिति रामानुजार्यः) पक्षिकर्मभिराचित्रां कृत्रिमपक्षिभिः समन्तादाश्चर्यभूताम् । क्रियत इति कर्मप्रतिकृतिः । द्रुमकर्मभिः द्रुमप्रतिकृतिभिः विभूषिताम् । आचितां चित्रपत्तीभिः चित्रलेखाभिः । पदातिभिरित्येके । आर्षो दीर्घः । सुनिविष्टां शोभनसन्निवेशवतीं जालवातायनावृतां सूक्ष्मरन्ध्रसमूहो जालम्, गोनयनाकृतिरन्ध्रसमूहो गवाक्षम्, तदावृताम् । सुनियुक्तां सुश्लिष्टां सुकृतां सुष्ठुकृताम्, यत्नेन कृतामित्यर्थः । दारुपर्वतकोपेतां दारुनिर्मितक्रीडापर्वतयुक्तां, चारुकर्मणा उत्तेजनेन परिष्कृताम् अलङ्कृतां, वराभरणैः हारैश्च, युक्तामिति शेषः । गुहागहनसञ्छन्नां कृत्रिमैर्गुहागहनैः गुहाभिः काननैश्च सञ्छन्नां, पुष्पौघैः मुक्तकपुष्पनिचयैः आस्तरणार्थैः समभिच्छन्नां व्याप्तां, पद्मेति चतुर्दिक्षु पुष्पसरोपेतत्वे ऽप्यन्तरान्तरा पद्ममालाभिः पद्मपङ्क्तिभिर्युक्तामित्यर्थः ।। 4.25.2226 ।।
ईदृशीं शिबीकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् ।
क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ।। 4.25.27 ।।
ईदृशीं शिबिकामिति । पुनरुक्तिर्व्यवहितानुस्मरणार्था ।। 4.25.27 ।।
ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा ।
आरोपयत विक्रोशन्नङ्गदेन सहैव तु ।। 4.25.28 ।।
तत इति । ततः लक्ष्मणं प्रति वाली विनीयतामित्युक्तिश्रवणानन्तरमित्यर्थः । यद्वा लक्ष्मणं प्रत्युक्तिः स्वमुद्दिश्यैवेति ज्ञात्वेत्यर्थः । आरोपयत आरोपयत् ।। 4.25.28 ।।
आरोप्य शिबिकां चैव वालिनं गतजीवितम् ।
अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ।। 4.25.29 ।।
आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः ।
और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः ।। 4.25.30 ।।
विश्राणयन्तो रत्नानि विविधानि बहून्यापि ।
अग्रतः प्लवगाः यान्तु शिबिका समनन्तरम् ।। 4.25.31 ।।
आर्यस्य ज्येष्ठस्य देहादूर्ध्वं कर्तव्यम् और्ध्वदैहिकम् उत्तरक्रिया । शिबिकासमनन्तरम् आसन्दीसमीपे । अत्रेतिकरणं द्रष्टव्यम् । इत्याज्ञापयदिति पूर्वेण सम्बन्धः ।। 4.25.2931 ।।
राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः ।
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम् ।। 4.25.32 ।।
राज्ञामिति । ऋद्धिविशेषाः ऋद्धिविशेषानुरूपाः यादृशाः और्ध्वदैहिकक्रियाप्रकारा दृश्यन्ते तादृशमौर्ध्वदैहिकं क्षिप्रं प्राकुर्वन् ।। 4.25.32 ।।
अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा ।
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ।। 4.25.33 ।।
तारप्रभृतयो वानरा इति सम्यक् ।। 4.25.33 ।।
ततः प्रणिहिताः सर्वा वानर्यो ऽस्य वशानुगाः ।
चुक्रुशुर्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रियः ।। 4.25.34 ।।
ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः ।
अनुजग्मुर्हि भर्तारं क्रशन्त्यः करुणस्वनाः ।। 4.25.35 ।।
तासां रुदितशब्देन वानरीणां वनान्तरे ।
वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ।। 4.25.36 ।।
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ।
चितां चक्रुः सुबहवो वानराः शोककर्शिताः ।। 4.25.37 ।।
प्रणिहिताः आप्ताः ।। 4.25.3437 ।।
अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः ।
तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ।। 4.25.38 ।।
ततस्तारा पतिं दृष्टा शिबिकातलशायिनम् ।
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ।। 4.25.39 ।।
हा वानर महाराज हा नाथ मम वत्सल ।
हा महार्ह महाबाहो हा मम प्रिय पश्य माम् ।
जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ।। 4.25.40 ।।
प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद ।
अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ।। 4.25.41 ।।
एष त्वां रामरूपेण कालः कर्षति वानर ।
येन स्म विधवाः सर्वाः कृता एकेषुणा वने ।। 4.25.42 ।।
अरोप्येति । वहनोचिताः वाहकाः ।। 4.25.3842 ।।
इमास्तास्तव राजेन्द्र वानर्यो वल्लभाः सदा ।
पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे ।
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ।। 4.25.43 ।।
विकृष्टं विप्रकृष्टम् । अध्वानं पादैरागताः ।। 4.25.43 ।।
इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् ।
एते हि सचिवा राजन् तारप्रभृतयस्तव ।। 4.25.44 ।।
पुरवासी जनश्चायं परिवार्या ऽ ऽसते ऽनघ ।
विसर्जयैतान् प्लवगान् यथोचितमरिन्दम ।
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ।। 4.25.45 ।।
इदानीमित्यादि । मदनोत्कटाः उत्कटमदनाः ।। 4.25.44,45 ।।
एवं विलपतीं तारां पतिशोकपरिप्लुताम् ।
उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ।। 4.25.46 ।।
विलपतीं विलपन्तीम् ।। 4.25.46 ।।
सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् ।
चितामारोपयामास शोकेनाभिहतेन्द्रियः ।। 4.25.47 ।।
पितरं पितृशरीरम् ।। 4.25.47 ।।
ततो ऽग्निं विधिवद्दत्त्वा सो ऽपसव्यं चकार ह ।
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ।। 4.25.48 ।।
तत इति । अपसव्यम् अप्रदक्षिणम् ।। 4.25.48 ।।
संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः ।
आजग्मुरुदकं कर्तुं नदीं शीतजलां शिवाम् ।। 4.25.49 ।।
संस्कृत्येति । वालिनं वालिशरीरम् । उदकं कर्तुं जलतर्पणं कर्तुम् । नदीं किष्किन्धासमीपवर्तिनीम् ।। 4.25.49 ।।
ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः ।
सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ।। 4.25.50 ।।
ततस्त इति । सुग्रीवतारासहिता इति । तारयाप्युदकदानं कुलाचारः ।। 4.25.50 ।।
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः ।
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ।। 4.25.51 ।।
सुग्रीवेणेति । अनेन रामः सहैवागत इत्यवगम्यते ।। 4.25.51 ।।
ततस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम् ।
प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः ।। 4.25.52 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः ।। 25 ।।
ततस्त्विति । प्रकाशं प्रसिद्धं प्रदीप्य दग्ध्वा हरिः सुग्रीवः । अन्ये पुरं प्रविविशुरित्यर्थसिद्धम् । यद्यपि निर्यगधिकरणरीत्या तिरश्चां न शास्त्रविहितसंस्काराधिकारः, तथापि देवांशसम्भूतानां तिर्यगवस्थामात्रभाजां वेदाघ्ययनसंयोगाद्देवक्षेत्रजातत्वात् संस्कारार्हतास्तीति बोध्यम् ।। 4.25.52 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने प़ञ्चविंशः सर्गः ।। 25 ।।