श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिंशः सर्गः
गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ।। 4.30.1 ।।
पाण्डरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ।। 4.30.2 ।।
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।
बुद्ध्वा कालमतीतं च मुमोह परमातुरः ।। 4.30.3 ।।
अथ शरत्समागमे ऽपि सुग्रीवस्यानुद्योगाद्रामकोपस्त्रिंशे गुहामित्यादि । सुग्रीवे गुहां प्रविष्टे वर्षरात्रोषितो रामः कामशोकाभिपीडितः सन् क्रमेण गगने घनैर्विमुक्ते पाण्डरं निर्मलं गगनं दृष्ट्वा परमातुरः वर्षाकालिकशोकादधिकं शोकं प्राप्तः सन् मुमोह । एतावत्पर्यन्तं कस्यचिदवधेर्विद्यमानतया कथञ्चिद्धृतवान् । सम्प्रतितदभावान्मुमोहेत्यर्थः ।। 4.30.13 ।।
स तु सञ्ज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः ।
मनस्स्थामपि वैदेहीं चिन्तयामास राघवः ।। 4.30.4 ।।
स त्विति । मनःस्थामपि वैदेहीं चिन्तयामास, पुनःपुनर्विशेषतश्चिन्तितवानित्यर्थः ।। 4.30.4 ।।
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ।। 4.30.5 ।।
आसीन इति । मनसा जगाम चिन्तयामासेति यावत् ।। 4.30.5 ।।
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् ।
सारसारवसङ्घुष्टं विललापार्तया गिरा ।। 4.30.6 ।।
दृष्ट्वा च विमलमिति । गिरा स्वरेण ।। 4.30.6 ।।
सारसारवसन्नादैः सारसारवनादिनी ।
या ऽ ऽश्रमे रमते बाला सा ऽद्य मे रमते कथम् ।। 4.30.7 ।।
सारसेति । सारसारवसन्नादैः सारसारवोत्थितध्वनिभिः ।। 4.30.7 ।।
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् ।
कथं सा रमते बाला पश्यन्ती मामपश्यती ।। 4.30.8 ।।
या पुरा कलहंसानां स्वरेण कलभाषिणी ।
बुध्यते चारुसर्वाङ्गी सा ऽद्य मे बुध्यते कथम् ।। 4.30.9 ।।
पुष्पितानिति । पश्यन्ती मद्दिदृक्षया इतस्ततो दृष्टिं निक्षिपन्ती ।। 4.30.8,9 ।।
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति ।। 4.30.10 ।।
निःस्वनमिति । पुण्डरीकविशालाक्षी चक्रवाकनिनदश्रवणस्यासह्यतया नायकागमपथं सलीलमवलोकयन्तीत्यर्थः । कथं भविष्यति? कथं सत्तां धारयिष्यतीत्यर्थः ।। 4.30.10 ।।
सरांसि सरितो वापीः काननानि वनानि च ।
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ।। 4.30.11 ।।
वापीः कृत्रिमसरांसि । काननानि महावनानि ।। 4.30.11 ।।
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ।
न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ।। 4.30.12 ।।
अपि तामिति । शरद्गुणनिरन्तरः शरद्गुणैः साधनैः निरन्तरः पूर्णः कामः सौकुमार्यात्मद्वियोगाच्च हेतोः तां भामिनीं दूरम् आमरणं न पीडयेत् । अपिः सम्भावनायाम् । पीडयेदेवेत्यर्थः ।। 4.30.12 ।।
एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।
विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ।। 4.30.13 ।।
एवमादीति । त्रिदशेश्वरात् सलिलमुद्दिश्य सारङ्गश्चातक इव विललापेति सम्बन्धः ।। 4.30.13 ।।
ततश्चञ्चूर्यरम्येषु फलार्थी गिरिसानुषु ।
ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणो ऽग्रजम् ।। 4.30.14 ।।
तं चिन्तया दुस्सहया परीतं विसञ्ज्ञमेकं विजने मनस्वी ।
भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ।। 4.30.15 ।।
तत इति । चञ्चूर्य कुटिलं चरित्वा, फलाभिलाषेण कुटिलमार्गेण चरित्वा । “नित्यं कौटिल्ये गतै ” इति यङ् ।। 4.30.14,15 ।।
किमार्य कामस्य वशङ्गतेन किमात्मपौरुष्यपराभवेन ।
अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ।। 4.30.16 ।।
किमिति । वशंगतेन, मनसेति शेषः । पौरुष्यं पौरुषम् । स्वार्थे ष्यञ् । अयं वर्तमानः समाधिः चित्तसमाधानं सदा तत्र तत्र काले संह्रियते सम्पाद्यते । अत्र अस्मिन् काले । निवर्तितेन योगेन किम् । अयं यदा संह्रियते समाधिः इति पाठान्तरम् । यदा यस्मिन् काले अयं समाधिः चित्तसमाधानं संह्रियते सम्पाद्यते अत्रास्मिन् काले निवर्तितेन योगेन सन्नहनेन, उत्साहेन किमित्यर्थः ।। 4.30.16 ।।
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ।
सहायसामर्थ्यमदीनसत्त्वः स्वकर्महेतुं च कुरुष्व हेतुम् ।। 4.30.17 ।।
क्रियेति । क्रियाभियोगं कार्योद्योगं मनसः प्रसादं समाधियोगानुगतं धैर्योपायाभ्यामनुबद्धं कालं च सहायसामर्थ्यं सुग्रीवादिसहायमासर्थ्यं स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरुष्व, क्रियाभियोगादिकं सर्वं स्वकार्यसिद्धौ हेतुं कुरुष्वेत्यर्थः । अत्र प्रकरणे लक्ष्मणेन रामस्याश्रितरक्षणत्वरा सन्दीप्यत इति स्वोपदेशः सुलभः ।। 4.30.17 ।।
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण ।
न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीरवरार्ह कच्चित् ।। 4.30.18 ।।
न जानकीति । सुलभा लब्धुमर्हा । अग्निचूडाम् अग्निज्वालाम् ।। 4.30.18 ।।
सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः ।
हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च ।। 4.30.19 ।।
सलक्षणमिति । रामः अप्रधृष्यं युक्तिभिरविचाल्यं स्वभावजं स्वभावसिद्धं हितम् उदर्कसुखकरं पथ्यं तत्कालसुखकरं नयप्रसक्तं राजनीतियुक्तम् ससाम सान्त्वयुक्तं धर्मार्थसहितं च वाक्यमुक्तवन्तं सलक्षणं लक्ष्मणमुवाचेति योजना । यद्वा अप्रधृष्यत्वादिविशेषणविशिष्टं वाक्यं राम उवाच । लक्ष्मणोक्तानुवादरूपत्वाद्रामवाक्यस्यापि तथात्वमिति बोध्यम् ।। 4.30.19 ।।
निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः ।
ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं न चिन्त्यम् ।। 4.30.20 ।।
निःसंशयमिति । कार्यं सीतान्वेषणादिकम् । निःसंशयं यथा भवति तथा अवेक्षणीयम्, तदनुरूपं धैर्यं कर्तव्यमित्यर्थः । क्रियाविशेषः उत्साहादिः । अनुवर्तितव्यः अनुवर्तितव्य एव । हे कुमार प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सीताप्राप्तिरूपम् । न चिन्त्यं ननु? चिन्त्यमेव ।। 4.30.20 ।।
अथ पद्मपलाशाक्षीं मैथीलीमनुचिन्तयन् ।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ।। 4.30.21 ।।
एवं लक्ष्मणसमाश्वासनेन प्रतिष्ठापितधैर्यो ऽपि सीताविषयककामानुवृत्त्या पुनः शरदं वर्णयति अथेत्यादिना ।। 4.30.21 ।।
तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् ।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ।। 4.30.22 ।।
तर्पयित्वेति । निर्वर्तयित्वा परिपक्कानि कृत्वा । कृतकर्मा कृतकृत्यः ।। 4.30.22 ।।
स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः ।
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ।। 4.30.23 ।।
नीलोत्पलदलश्यामाः श्यामी कृत्वा दिशो दश ।
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ।। 4.30.24 ।।
स्निग्धेति । शैलद्रुमपुरोगमाः शैलद्रुमाणामग्रे गच्छन्तः । अत्र प्रकरणे सर्वत्र विषये प्रवृत्तिः रामावतारकृता सूच्यते ।। 4.30.23,24 ।।
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ।। 4.30.25 ।।
घनानां वारणानां च मयूराणां च लक्ष्मण ।
नादः प्रस्रवणानां च प्रशान्तः सहसा ऽनघ ।। 4.30.26 ।।
जलगर्भा इति । वृष्टिकरा वाता वृष्टिवाताः, पुरोवाता इत्यर्थः ।। 4.30.25,26 ।।
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।
अनुलिप्ता इवाभान्ति गिरयश्चित्रदीप्तिभिः ।। 4.30.27 ।।
चित्रदीप्तिभिः नानावर्णकान्तिभिः ।। 4.30.27 ।।
दर्शयन्ति शरन्नद्यः पुलिनानि शनैःशनैः ।
नवसङ्गमसव्रीडा जघनानीव योषितः ।। 4.30.28 ।।
दर्शयन्तीति । अनेन चिरकालानुवर्तनेन गुरूणां शिष्येभ्यो रहस्यार्थप्रकाशनं सूच्यते ।। 4.30.28 ।।
शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् ।
लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ।। 4.30.29 ।।
शाखास्विति । सप्तच्छदा नाम शरत्पुष्पा वृक्षाः । शरत्कर्त्री । श्रियं स्वसमृद्धिम् । विभज्य त्रेधा विभज्य । सप्तच्छदशाखादिषु प्रवृत्ता सप्तच्छदेषु पुष्पविकासरूपा श्रीः तारादिप्रभासु निर्मलतारूपा गजलीलासु उन्मस्तकतारूपा ।। 4.30.29 ।।
सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपनीता ।
सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ।। 4.30.30 ।।
सम्प्रतीति । अनेकाश्रयचित्रशोभा सितरक्तनीलपङ्कजादिरूपा ऽनेकाश्रयतया चित्रशोभा नानावर्णकान्तिः । शरत्कालगुणोपनीता शरत्कालोत्कर्षेण प्रापिता । लक्ष्मीः समृद्धिः । सूर्यस्याग्रहस्तैः प्राथमिककिरणैः । हस्तशब्देन करा लक्ष्यन्ते । भगवत्कटाक्षबोधितेषु पुरुषेषु नानारूपसंवित्प्रकाश उच्यते ।। 4.30.30 ।।
सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः ।
मत्तद्विपानां पवनो ऽनुसारी दर्पं वनेष्वभ्यदिकं करोति ।। 4.30.31 ।।
सप्तच्छदेति । अनुसृत्य वर्तमानः, अविच्छेदेनैव प्रवर्तमान इत्यर्थः । मत्तद्विपानां दर्पं करोति, मदवृद्धिहेतुत्वादिति भावः ।। 4.30.31 ।।
अभ्यागतैश्चारुविशालपक्षैः सरः प्रियैः पद्मरजोवकीर्णैः ।
महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ।। 4.30.32 ।।
अभ्यागतैरिति । मिथुनतया आभिमुख्येन सङ्गतैः । चारु यथा तथा विशालपक्षैः, हर्षेण विस्तृतपक्षैरित्यर्थः । क्रीडन्ति हंसाः, सह चक्रवाकैः, हंसाश्च क्रीडन्ति चक्रवाकाश्च क्रीडन्तीत्यर्थः ।। 4.30.32 ।।
मदप्रगर्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु ।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता ।। 4.30.33 ।।
नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु ।
प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ।। 4.30.34 ।।
नष्टहर्षा इत्यर्थः । बभूवुरिति शेषः ।। 4.30.34 ।।
मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः ।
सुवर्णगौरैर्नयनाभिरामैरुद्द्योतितानीव वनान्तराणि ।। 4.30.35 ।।
मनोज्ञगन्धैरिति । प्रियकैः बन्धूकैः । “सर्जकासनबन्धूकपुष्पप्रियकजीवकाः” इत्यमरः ।। 4.30.35 ।।
प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम् ।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयो ऽद्य मन्दाः ।। 4.30.36 ।।
प्रियान्वितानामिति । कुसुमोद्धतानां सप्तच्छदकुसुमाघ्राणेन मत्तानाम् । मदोत्कटानां मदेन उद्भिन्नकटानाम् ।। 4.30.36 ।।
व्यभ्रं नभः शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि ।
कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ।। 4.30.37 ।।
व्यभ्रं विगतमेघम् । शस्त्रविधौतवर्णं विधौतशस्त्रवर्णम् । कृशप्रवाहानि सङ्कुचितप्रवाहानि ।। 4.30.37 ।।
सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः ।
अन्योन्यवैरामर्षायुतानामुद्योगकालो ऽद्य नराधिपानाम् ।। 4.30.38 ।।
सूर्यातपेति । चिरोद्घाटितसान्द्ररेणुः चिरात् ईषत् उत्पादितनिबिडरेणुः । स्थूलरेणुरित्यर्थः । अन्योन्यवैरामर्षायुतानामित्यत्र वृत्तभङ्ग आर्षः । वैरं विरोधः, अमर्षः असहिष्णुता ताभ्याम् आयुतानाम् आ समन्ताद्युतानाम् । वैरामर्षपूर्णानामित्यर्थः ।। 4.30.38 ।।
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुक्षिताङ्गाः ।
मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ।। 4.30.39 ।।
रूपशोभाः शरीरशोभाः ।। 4.30.39 ।।
समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः ।
मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति ।। 4.30.40 ।।
समन्मथमिति । कुलान्विताः सजातीयसमूहेन युक्ताः ।। 4.30.40 ।।
त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् ।
निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः ।। 4.30.41 ।।
सारसौघैः हंससमूहैः ।। 4.30.41 ।।
वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः ।
सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ।। 4.30.42 ।।
महारवैः वित्रास्येति सम्बन्धः । भिन्नकटाः, मदेनेति शेषः ।। 4.30.42 ।।
व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु ।
ससारसा रावविनादितासु नदीषु हृष्टा निपनन्ति हंसाः ।। 4.30.43 ।।
व्यपेतेति । सवालुकासु ससिकतासु । ससारसाः इति पदच्छेदः । रावविनादितासु निजशब्देन सञ्जातशब्दासु ।। 4.30.43 ।।
नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् ।
प्लवङ्गमानां च गतोत्सवानां द्रुतं रवाः सम्प्रति सम्प्रनष्टाः ।। 4.30.44 ।।
नदीति । नद्यश्च घनप्रस्नवणानि च तेषाम् उदकानाम् । प्लवङ्गमानां मण्डूकानाम् ।। 4.30.44 ।।
अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः ।
क्षुधार्दिता घोरविषा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः ।। 4.30.45 ।।
अनेकवर्णाः कृष्णपीतादिवर्णः । सुविनष्टकायाः अत्यन्तकृशशरीराः । नष्टा लीनाः ।। 4.30.45 ।।
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ।। 4.30.46 ।।
चञ्चच्चन्द्रकरस्पर्शेन यो हर्षः तेन उन्मीलिततारका निर्मलनक्षत्रा रागवती आरुण्यवती सन्ध्या अम्बरम् आकाशं स्वयं जहाति । अत्र कान्तकरस्पर्शेन हर्षवस्फारितनेत्रकनीनिका उत्तेजितानुरागा स्वयमेव रतये अम्बरं त्यजन्ती कामुकी प्रतीयत इति समासोक्तिः । सन्ध्यारागः प्रायेण शरद्येव भवतीत्येवमुक्तम् ।। 4.30.46 ।।
रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा ।
ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ।। 4.30.47 ।।
शशाङ्कोदितसौम्यवक्त्रा उदितशशाङ्करम्यवक्त्रा । तारागणोन्मीलितचारुनेत्रा उन्मीलिततारागणचारुनेत्रा ।। 4.30.47 ।।
विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः ।
नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ।। 4.30.48 ।।
भुक्त्वा मुखाग्रे गृहीत्वा । माला नानावर्णपुष्पमाला ।। 4.30.48 ।।
सुप्तैकहंसं कुसुमैरुपेतं महाह्रदस्थं सलिलं विभाति ।
घनैर्विमुक्तं निशि पूर्णचन्द्रं तारा गणाकीर्णमिवान्तरिक्षम् ।। 4.30.49 ।।
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् ।
वाप्युत्तमानामधिका ऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम् ।। 4.30.50 ।।
सुप्तैकहंसमिति । इदं चन्द्रस्थाने, महाह्रदस्थमिति गाम्भीर्यकृतनैर्मल्यातिशयेन आकाशसाम्याय, घनैर्विमुक्तमिति परिपूर्णत्वायोक्तम् ।। 4.30.49,50 ।।
वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः ।
सम्मूर्च्छितो गर्गरगोवृषाणामन्योन्यमापूरयतीव शब्दः ।। 4.30.51 ।।
वेणूनां सुषिरवंशानां स्वनेन व्यञ्जितं यत्तूर्यं गीतवाद्यं तेन मिश्रः । प्रत्यूषकालानिलेन प्रातःकालवायुना सम्प्रवृद्धः अभिवृद्धः । सम्मूर्च्छितः अभिव्याप्तः । गर्गरगोवृषाणां, गर्गराणां दधिमथनभाण्डनां गवां वृषाणां च शब्दः । अन्योन्यमापूरयतीव परस्परमभिवर्धयतीव । प्रातःकालिकदधिमथनघोषः वत्सोत्सुकानां गवां पुष्ट्या कामातुराणां वृषाणां च शब्दः गोपालवेणुस्वनैः प्राभातिकवायुभिश्चापि वृद्धो जायत इत्यर्थः ।। 4.30.51 ।।
नवैर्नदीनां कुसुमप्रभासैर्व्याधूयमानैर्मृदुमारुतेन ।
धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ।। 4.30.52 ।।
नवैरिति । कुसुमैः प्रभासन्त इति कुसुमप्रभासाः तैः । पटप्रकाशैः पटतुल्यैः । काशैः शुभ्रपुष्पदर्भविशेषैः । नदीनां कूलानि तटानीत्युक्त्या स्त्रीणां जघनोपमा सूच्यते ।। 4.30.52 ।।
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः ।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ।। 4.30.53 ।।
वने प्रचण्डाः निरङ्कुशगतयः । मधुपाने शौण्डा धूर्ताः । पद्मानामसनानां च
रेणुभिः गौराः । षट्चरणाः भृङ्गाः । वनेषु पवनानुयात्रां वातानुगमनम् । कुर्वन्ति, परिमलानुसारादिति भावः ।। 4.30.53 ।।
जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवनं विपक्वम् ।
मदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम् ।। 4.30.54 ।।
जलमिति । प्रभासत इति प्रभासम् । पचाद्यच् । विकस्वरमित्यर्थः । वर्षव्यपनीतकालं वर्षात्ययकालम् । शरत्कालमिति यावत् ।। 4.30.54 ।।
मीनोपसन्दर्शितमेखलानां नदीवधूनां गतयो ऽद्य मन्दाः ।
कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ।। 4.30.55 ।।
मीनेति । कामिनीनां वारस्त्रीणामित्यर्थः ।। 4.30.55 ।।
सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि ।
सपत्त्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ।। 4.30.56 ।।
सचक्रवाकानीति । चक्रवाकशैवलकाशाः रोचनापलेखावगुण्ठनदुकूलस्थानीयाः ।। 4.30.56 ।।
प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु ।
गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारो ऽद्य वनेषु कामः ।। 4.30.57 ।।
प्रफुल्लेति । बाणाः बाणवृक्षाः । असनाः सर्जकाः । गृहगीतचापेन उद्यतः प्रयुक्तः चण्डदण्डः तीक्ष्णदण्डनं येन स तथा । यद्वा गृहीतचापश्चासौ उद्यतचण्डदण्डश्च । दण्डः शरविशेषः । “दण्डादयः काण्डभेदाः स्युः” इति हलायुधः । प्रचण्डचारः उग्रसञ्चारः ।। 4.30.57 ।।
लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा ।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः । 4.30.58 ।।
लोकं जनम् ।। 4.30.58 ।।
प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः ।
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ।। 4.30.59 ।।
कुररीभिः क्रौञ्चीभिः । सलिलाशयाः सरांसि ।। 4.30.59 ।।
असनाः सप्तवर्णाश्च कोविदाराश्च पुष्पिताः ।
दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ।। 4.30.60 ।।
हंससारसचक्राह्वैः कुररैश्च समन्ततः ।
पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ।। 4.30.61 ।।
असना इति । बन्धुजीवाः श्यामाश्च लताविशेषाः ।। 4.30.60,61 ।।
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ।। 4.30.62 ।।
अन्योन्येति । हे नृपात्मज जिगीषूणां पार्थिवानामित्यन्वयः ।। 4.30.62 ।।
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ।
न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ।। 4.30.63 ।।
इयमिति । यात्रा उपस्थितेति शेषः ।। 4.30.63 ।।
चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।
मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ।। 4.30.64 ।।
चक्रवाकीव भर्तारं पृष्ठतो ऽनुगता वनम् ।
विषमं दण्डकारण्यमुद्यानमिव या ऽ ऽगता ।। 4.30.65 ।।
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ।। 4.30.66 ।।
चत्वारः आषाढाद्याः । केचिदाहुः श्रावणाद्या इति । “पूर्वो ऽयं वार्षिकोमासः श्रावणः सलिलागमः” इत्युपक्रमोक्तेः । आश्वयुजकार्तिकयोर्वर्षानुवृत्त्या वार्षिकत्वम् । “कार्तिके समनुप्राप्ते त्वं रावणवधे यत” इति पूर्वोक्तवचने तु कार्तिके समनुप्राप्त इत्यस्य समाप्ते इत्यर्थ इत्याहुः ।। 4.30.6466 ।।
अनाथो हृतराज्यो ऽयं रावणेन च धर्षितः ।
दीनो दूरगृहः कामी मां चैव शरणं गतः ।। 4.30.67 ।।
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।
अहं वानरराजस्य परिभूतः परन्तप ।। 4.30.68 ।।
स कालं परिसङ्ख्याय सीतायाः परिमार्गणे ।
कृतार्थः समयं कृत्वा दुर्मतिर्नावबुद्ध्यते ।। 4.30.69 ।।
अनाथ इत्यादि । सुग्रीवस्य परिभूत इति “क्तस्य च वर्तमाने” इति षष्ठी । कृपां न कुरुत इत्यादिकं सुग्रीवाभिमानमनुसृत्योक्तम् ।। 4.30.6769 ।।
त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् ।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ।। 4.30.70 ।।
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ।। 4.30.71 ।।
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ।। 4.30.72 ।।
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।
तान् मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ।। 4.30.73 ।।
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ।
द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ।। 4.30.74 ।।
त्वं प्रविश्य चेत्यादि । शुभमिति, यः उदीरितं वाक्यं सत्येन परिगृह्णाति सत्यत्वेन स्वीकरोति, यथोक्तमनुतिष्ठतीत्यर्थः । मित्राणां न भवन्ति मित्राणामुपकाराय न भवन्तीत्यर्थः । अस्य श्लोकस्य अन्ते इति कारणं द्रष्टव्यम् । इति सुग्रीवं ब्रूहीति पूर्वेण सम्बन्धः ।। 4.30.7074 ।।
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ।
निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ।। 4.30.75 ।।
घोरमिति । निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छतीति पाठः ।। 4.30.75 ।।
काममेवं गतेप्यस्य परिज्ञाते पराक्रमे ।
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ।। 4.30.76 ।।
काममिति । वीर नृपात्मज । त्वत्सहायस्य मे एवं गते सालगिरिभूदलनादिषु इत्थमप्रतिहते पराक्रमे कामं परिज्ञाते सत्यपि अस्य सुग्रीवस्य चिन्ता समयव्यतिक्रमे मामपि हनिष्यतीति विचारः न स्यात्, नाभूदित्यर्थः ।। 4.30.76 ।।
यदर्थमयमारम्भः कृतः परपुरञ्जय ।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ।। 4.30.77 ।।
यदर्थमिति । अयमारम्भः सख्यकरणवालिनिरसनरूपः । यदर्थं यस्मै सीतान्वेषणप्रयोजनाय कृतः । समयं तद्विषयसङ्केतम् । प्लवगेश्वरो नाभिजानातीति सम्बन्धः ।। 4.30.77 ।।
वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।
व्यतीतांश्चतुरो मासान् विहरन्नावबुध्यते ।। 4.30.78 ।।
वर्षेति । वर्षासमयकालं वर्षा एव समयकालः सङ्केतकालः तम् । वर्षाशब्देन चत्वारो मासा उपलक्ष्यन्ते ।। 4.30.78 ।।
सामात्यपरिषत् क्रीडन् पानमेवोपसेवते ।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ।। 4.30.79 ।।
सामात्यपरिषत् सामात्यबान्धवः ।। 4.30.79 ।।
उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।
मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ।। 4.30.80 ।।
उच्यतामिति । मम रोषस्य यद्रूपं तत्सुग्रीव उच्यताम् । एनमिदं वक्ष्यमाणं वचश्च ब्रूयाः ।। 4.30.80 ।।
न च सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ।। 4.30.81 ।।
एक एव रणे वाली शरेण निहतो मया ।
त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ।। 4.30.82 ।।
न चेति । हतो वाली येन पथा गतः स पन्थाः, परलोक इत्यर्थः । न सङ्कुचितः न नष्ट इत्यर्थः । समये मर्यादायां तिष्ठ । वालिपथं वालिगतं मार्गम् ।। 4.30.81,82 ।।
तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ।
तत्तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ।। 4.30.83 ।।
तदेवमिति । कार्ये एवं विहित एवमवस्थिते सत् यद्धितं तद् ब्रूहि । कालव्यतिक्रमः, मा भूदिति शेषः । अतः त्वर त्वरस्वेति सम्बन्धः ।। 4.30.83 ।।
कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।
मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैः शरैः ।। 4.30.84 ।।
उक्तमर्थं पुनः सङ्क्षेपेण सर्गान्ते दर्शयति कुरुष्वेति । मयि विषये प्रतिश्रुतं सत्यं कुरु । शाश्वतं धर्ममवेक्ष्य प्रतिश्रुतकरणम् अक्षयो धर्म इत्यवेक्ष्य ।। 4.30.84 ।।
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् ।
चकार तीव्रं मतिमुग्रतेजा हरीश्वरे मानववंशनाथः ।। 4.30.85 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिंशः सर्गः ।। 30 ।।
स इति । सः लक्ष्मणः । हरीश्वरे सुग्रीवे । तीव्रां मतिं निग्रहबुद्धिमित्यर्थः । लालप्यमानं प्रलपन्तम् ।। 4.30.85 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिंशः सर्गः ।। 30 ।।