श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः
सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान् कपिः ।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ।। 4.50.1 ।।
सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा ।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ।। 4.50.2 ।।
अथ ऋक्षबिले स्वयम्प्रभादर्शनं पञ्चाशे सहेत्यादि । नगेन्द्रस्य शार्दूलजुष्टेषु विषमेषु विषमप्रदेशु शिलाः महाप्रस्रवणेषु सरितश्च विचिनोतिस्मेति पूर्वेणान्वयः ।। 4.50.1,2 ।।
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ।। 4.50.3 ।।
कालः सुग्रीवोक्तमासः । “मासः पूर्णो बिलस्थानाम्” इत्युत्तरत्राङ्गदवचनस्यबिल एवान्यो मासो गत इत्यर्थो वक्ष्यते ।। 4.50.3 ।।
स हि देशो दुरन्वेषो गुहागहनवान् महान् ।। 4.50.4 ।।
ननु विचेतव्यप्रदेशेषु बहुषु विद्यमानेषु कथमत्रैव मासं क्षपितवन्त इत्याशङ्क्याह स हीति ।। 4.50.4 ।।
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ।
परस्परेण हनुमानन्योन्यस्याविदूरतः ।। 4.50.5 ।।
तत्रेति । सङ्गमय्येत्यध्याहार्यम् । वायुसुतः हनुमान् । अन्योन्यस्याविदूरतः परस्परेण सङ्गमय्य सर्वं पर्वतं विचिनोति स्मेति सम्बन्धः ।। 4.50.5 ।।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव सुषेणो जम्बवान्नलः ।। 4.50.6 ।।
अङ्गदो युवराजश्च तारश्च वनगोचरः ।
गिरिजालावृतान्देशान् मार्गित्वा दक्षिणां दिशम् ।
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ।। 4.50.7 ।।
गज इत्यादि । चकाराद्धनूमांश्च । गजादयः गिरिजालावृतान् देशान्मार्गित्वा ततो दक्षिणां दिशं विचिन्वन्तः तत्र विवृतं विस्तृतं बिलं ददृशुरिति सम्बन्धः ।। 4.50.6,7 ।।
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।
क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः ।
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ।। 4.50.8 ।।
दानवेन मयेन । ऋक्षविलं नाम ऋक्षबिलमिति प्रसिद्धम् । महाबिलं ददृशुरिति पुनरुक्तिर्गुणान्तरविधानाय ।। 4.50.8 ।।
ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ।
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ।। 4.50.9 ।।
निष्क्रमन् निरक्रमन् ।। 4.50.9 ।।
ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम् ।
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।। 4.50.10 ।।
दुरतिक्रमं दुष्प्रवेशम् ।। 4.50.10 ।।
सञ्जातपरिशङ्कास्ते तद्विलं प्लवगोत्तमाः ।
अभ्यपद्यन्नसंहृष्टास्तेजोवन्तो महाबलाः ।। 4.50.11 ।।
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ।
दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ।। 4.50.12 ।।
सञ्जातपरिशङ्काः किमिदं पातालम् उतान्यन्मायामयमिति सन्दिहानाः । असंहृष्टाः सन्तः अभ्यपद्यन्नभ्यपद्यन्त । नानेतिश्लोको बिलविशेषणम् ।। 4.50.11,12 ।।
ततः पर्वतकूटाभो हनुमान् पवनात्मजः ।
अब्रवीतद्वानरान् सर्वान् कान्तारवनकोविदः ।। 4.50.13 ।।
कान्तारे दुर्गमार्गे वने कोविदः समर्थः ।। 4.50.13 ।।
गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् ।
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ।। 4.50.14 ।।
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ।
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः ।। 4.50.15 ।।
गिरिजालावृतान् देशान् दक्षिणां दिशम्, तादृशदेशरूपां दक्षिणां दिशमित्यर्थः ।। 4.50.14,15 ।।
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ।
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ।। 4.50.16 ।।
नूनमिति । अस्तीति शेषः ।। 4.50.16 ।।
इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम् ।
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ।। 4.50.17 ।।
इत्युक्त्वेति । हनुमदुक्तप्रकारेण सर्वे ऽप्युक्त्वा विविशुः । तिमिरावृतं ददृशुश्च । अचन्द्रश्च । अचन्द्रसूर्यं चन्द्रसूर्यकिरणरहितम् ।। 4.50.17 ।।
निशाम्य तस्मात्सिंहांश्च तांस्तांश्च मृगपक्षिणः ।
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ।। 4.50.18 ।।
तस्मान्निर्गच्छतः सिंहान् तांस्तान् नानाप्रकारान् मृगपक्षिणश्च ।। 4.50.18 ।।
न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः ।
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ।। 4.50.19 ।।
वर्तते अयत्नपूर्वं प्रवर्तत इत्यर्थः ।। 4.50.19 ।।
ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः ।
प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ।। 4.50.20 ।।
प्रकाशं निस्तमस्कम् ।। 4.50.20 ।।
ततस्तस्मिन् बिले दुर्गे नानापादपसङ्कुले ।
अन्योन्यं सम्परष्वज्य जग्मुर्योजनमन्तरम् ।। 4.50.21 ।।
सङ्ग्रहेणोक्तं प्रपञ्चयति ततस्तस्मिन्नित्यादि । अन्योन्यं सम्परिष्वज्य हस्तावलम्बनं कृत्वा ।। 4.50.21 ।।
ते नष्टसञ्ज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः ।
परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ।। 4.50.22 ।।
परितेतुः जग्मुः । कञ्चित्कालमित्यत्यन्तसंयोगे द्वितीया ।। 4.50.22 ।।
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ।
आलोकं ददृशुर्वीरा निराशा जीविते तदा ।। 4.50.23 ।।
ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् ।
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ।। 4.50.24 ।।
सालांस्तालांश्च पुन्नागान् ककुभान् वञ्जुलान् धवान् ।
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ।। 4.50.25 ।।
आलोकं प्रकाशम् ।। 4.50.2325 ।।
स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा ।
आपीडैश्च लताभिश्च हेमाभरणभूषितान् ।। 4.50.26 ।।
तरुणादित्यसङ्काशान् वैडूर्यकृतवेदिकान् ।
विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ।। 4.50.27 ।।
आपीडैः शेखरैः लताभिश्च, उपशोभितानिति शेषः । हेमाभरणभूषितान्
फलितहेमाभरणान् । पादपांश्च हिरण्मयान् रजतमयांश्च वृक्षान् ।। 4.50.26,27 ।।
नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः ।
महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः ।। 4.50.28 ।।
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ।
नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः ।। 4.50.29 ।।
नीलवैडूर्येत्यादिश्लोकद्वयमेकान्वयम् । उक्तविशेषणविशिष्टाः पद्मिनीः उक्तविशेषणयुक्ता नलिनीश्च ददृशुरित्यन्वयः । अतो न पुनरुक्तिः ।। 4.50.28,29 ।।
काञ्चनानि विमानानि राजतानि तथैव च ।
तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।। 4.50.30 ।।
हैमराजतभौमानि वैडूर्यमणिमन्ति च ।
ददृशुस्तत्र हरयो गुहमुख्यानि सर्वशः ।। 4.50.31 ।।
पुष्पितान् फलिनो वृक्षान् प्रवालमणिसन्निभान् ।
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।। 4.50.32 ।।
मणिकाञ्चनचित्राणि शयनान्यासनानि च ।
महार्हाणि च यानानि ददृशुस्ते समन्ततः ।। 4.50.33 ।।
हैमराजतकांस्यानां भाजनानां च सञ्चयान् ।
अगरूणां च पानानि मधूनि रसवन्ति च ।। 4.50.34 ।।
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।
महार्हाणि च पानानि मधूनि रसवन्ति च । 4.50.35 ।।
दिव्यानामम्बराणां च महार्हाणां च सञ्चयान् ।
कम्बलानां च चित्राणामजिनानां च सञ्चयान् ।। 4.50.36 ।।
काञ्चनानीत्यादि । हैमराजतभौमानीति शेषः । गृहमुख्यविशेषणं वा ।। 4.50.3036 ।।
तत्र तत्र च विन्यस्तान् दीप्तान्वैश्वानरप्रभान् ।
ददृशुर्वानराः शुभ्रान् जातरूपस्य सञ्चयान् ।। 5.50.37 ।।
तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः ।
ददृशुर्वानराः शूराः स्त्रियं काञ्चिददूरतः ।। 4.50.38 ।।
तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम् ।
तापसीं नियताहारां ज्वलन्तीमिव तेजसा ।। 4.50.39 ।।
शुभ्रान् निर्मलान् ।। 4.50.3739 ।।
विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः ।
पप्रच्छ हनुमांस्तत्र का ऽसि त्वं कस्य वा बिलम् ।। 4.50.40 ।।
व्यवतिष्ठन्त दूरे स्थिता इत्यर्थः ।। 4.50.40 ।।
ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।
पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ।। 4.50.41 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः ।। 50 ।।
पप्रच्छेत्यर्धस्य विवरणम् ततो हनूमानिति । अस्मिन् सर्गे सार्धैकचत्वारिंशच्छ्लोकाः ।। 4.50.41 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चाशः सर्गः ।। 50 ।।