॥ अथाधिकपाठलोकप्रारम्भः ॥
प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
रामंप्रत्यगस्त्येन मेरुटङ्गनिवासिनोब्रह्मणोनेत्रांबुजातादृक्षरजोनामकवानरवराद्वालि -सुग्रीवजननप्रकारनिरूपणम् ॥ १ ॥
एतच्छ्रुत्वा तु निखिलं राघवोऽगस्त्यमब्रवीत् ।
य एषर्क्षरजा नाम वालिसुग्रीवयोः पिता ॥ १ ॥
जननी का च भगवन्न त्वया परिकीर्तिता ।
वालिसुग्रीवयोर्ब्रह्मन्माता मे नामतः कुतः ।
एतद्बह्मन्समाचक्ष्व कौतूहलमिदं हि नः ॥ २ ॥
स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत् ॥ ३ ॥
शृणु राम कथामेतां यथापूर्वं समासतः ।
नारदः कथयामास ममाश्रममुपागतः ॥ ४ ॥
कदाचिदटमानोसावतिथित्वमुपागतः ।
अर्चितस्तु यथान्यायं विधिदृष्टेन कर्मणा ॥ ५ ॥
सुखासीन: कथां त्वेनां मया पृष्टः स कौतुकात् ।
कथयामास धर्मात्मा महर्षे श्रूयतामिति ॥ ६ ॥
मेरुर्नगवरः श्रीमाञ्जाम्बूनदमयः शुभः ।
तस्य यन्मध्यमं शङ्गं सर्वदैवतपूजितम् ॥ ७ ॥
तस्मिन्दिव्या सभा रम्या ब्राह्मी या शतयोजना ।
तस्यामास्ते सदा देवः पद्मयोनिश्चतुर्मुखः ॥ ८ ॥
योगमभ्यसतस्तस्य नेत्राभ्यां यद्रसोस्रवत् ।
तद्गृहीतं भगवता पाणिना चर्चितं तु तत् ॥ ९ ॥
निक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्तॄणा ।
तसिन्नश्रुकणे राम वानरः संबभूव ह ॥ १० ॥
उत्पन्नमात्रस्तु तदा वानरश्च नरोत्तम ।
समाश्वास्य प्रियैर्वाक्यैरुक्तः किल महात्मना ॥ ११ ॥
पश्य शैलं सुविस्तीर्णं सुरैरध्युपितं तदा ।
तस्मिन्रम्ये गिरिवरे बहुमूलफलाशनः ॥ १२ ॥
ममान्तिकचरो नित्यं भव वानरपुङ्गव ।
कंचित्कालमिहास्स्व त्वं तव श्रेयो भविष्यति ॥ १३ ॥
एवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः ।
प्रणम्य शिरसा पादौ देवदेवस्य राघव ।
उक्तवाँल्लोककर्तारमादिदेवं जगद्गुरुम् ॥ १४ ॥
यथाऽऽज्ञापयसे देव स्थितोऽहं तव शासने ।
एवमुक्त्वा हरिर्देवं ययौ हृष्टमनास्तदा ॥ १५ ॥
स तदा द्रुमषण्डेषु फलपुष्पधनेषु च ।
ब्रह्मप्रतिबल: शैध्र्ये बने फलकृताशनः ॥ १६ ॥
क्वचिन्मधूनि मुख्यानि चिन्वन्पुष्पाण्यनेकशः ।
दिनेदिने च सायान्हे ब्रह्मणोन्तिकमागमत् ।। १७ ।।
गृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च ।
ब्रह्मणो देवदेवस्य पादमूले न्यवेदयत् ॥ १८ ॥
एवं तस्य गतः कालो बहुः पर्यटतो गिरिम् ॥ १९ ॥
कस्यचित्त्वथ कालस्य समतीतस्य राघव ।
ऋक्षराड्वानरश्रेष्ठस्तृष्णया परिपीडितः ॥ २० ॥
उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् ।
नानाविहङ्गसंघुष्टं प्रसन्नसलिलं सरः ॥ २१ ॥
चलत्केसरमात्मानं कृत्वा तस्य तटे स्थितः ।
ददर्श तस्मिन्त्सरसि वक्त्रच्छायामथात्मनः ॥ २२ ॥
कोऽयमस्मिन्मम रिपुर्वसत्यन्तर्जले महान् ।
रूपं चान्तर्गतं तत्र वीक्ष्य तत्पाथसो हरिः ॥ २३ ॥
क्रोधाविष्टमना ह्येष नियतं माऽवमन्यते ।
तदस्य दुष्टभावस्य कर्तव्यो निग्रहो मया ॥ २४ ॥
एवं संचिन्त्य मनसा स वै वानरचापलात् ।
आप्लुत्य चापतत्तस्मिन्ह्रदे वानरसत्तमः ॥ २५ ॥
उत्प्लुत्य तस्मात्सरस उत्थितः प्लवगः पुनः ।
तस्मिन्नेव क्षणे राम स्त्रीत्वं प्राप स वानरः ॥ २६ ॥
मनोज्ञरूपा सा नारी लावण्यललिता शुभा ।
विस्तीर्णजघना सुभ्रूर्नीलकुञ्चितसूर्धजा ॥ २७ ॥
मुग्धा सस्मितवक्त्रा च पीनस्तनतटा शुभा ।
ह्रदतीरस्थिता भाति ऋजुयष्टिर्लता तथा ॥ २८ ।।
त्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाधिनी ।
लक्ष्मीव पद्मरहिता चन्द्रज्योत्स्नेव निर्मला ॥ २९ ॥
रूपेणाप्यभवत्सा तु श्रीर्गीर्देवी उमा यथा ।
द्योतयन्ती दिशः सर्वास्तत्राभूत्सा वराङ्गना ॥ ३० ॥
एतस्मिन्नन्तरे देवो निवृत्तः सुरनायकः ।
पादावुपास्य देवस्य ब्रह्मणस्तेन वै पथा ॥ ३१ ॥
तस्यामेव च वेलायामादित्योपि परिभ्रमन् ।
तस्मिन्नेव वने सोभूद्यस्मिन्त्सा तनुमध्यमा ॥ ३२ ॥
युगपत्सा तदा दृष्टा देवाभ्यां सुरसुन्दरी ।
कन्दर्पवशगौ तौ तु दृष्ट्वा तां संबभूवतुः ॥ ३३ ॥
ततः क्षुभितसर्वाङ्गौ सुरेन्द्रतपनावुभौ ।
तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्यमात्मनः ॥ ३४ ॥
ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ।
अनासाद्यैव तां नारीं सन्निवृत्तमथोऽभवत् ।
ततः सा वानरपतिं प्रासूत बलशालिनम् ॥ ३५ ॥
अमोघरेतस्त्वात्तस्य वासवस्य महात्मनः ।
वालेषु पतितं बीजं वाली नाम बभूव ह ।। ३६ ।।
भास्करेणापि तस्यां वै कन्दर्पवशवर्तिना ।
बीजं तु सिक्तं ग्रीवायां विधानमनुवर्तिना ।
तेनापि सा वरतनुर्नोक्ता किंचिद्वचः शुभम् ॥ ३७ ॥
निवृत्तमदनश्चाथ सूर्योपि समपद्यत ।
ग्रीवायां पतिते बीजे सुग्रीवः समजायत ॥ ३८ ॥
एवमुत्पादितौ वीरौ वानरेन्द्रौ महाबलौ ॥ ३९ ॥
दत्वा तु काञ्चनीं मालां वानरेन्द्रस्य बालिनः ।
अक्षय्यां गुणसंपूर्णां शक्रस्तु त्रिदिवं ययौ ॥ ४० ॥
सूर्योपि स्वसुतस्यैनं निरूप्य पवनात्मजम् ।
कृत्येषु व्यवसायेषु जगाम सविताऽम्बरम् ।। ४१ ॥
तस्यां निशायां व्युष्टायामुदिते च दिवाकरे ।
स तु वानररूपं तु प्रतिपेदे पुनर्नृप ॥ ४२ ॥
स एव वानरो भूत्वा पुत्रौ स्वस्य प्लवङ्गमौ ।
पिङ्गेक्षणी हरिवरावपश्यत्कामरूपिणौ ॥ ४३ ॥
मधून्यमृतकल्पानि पायितौ तेन तौ तदा ।
गृह्य ऋक्षरजास्तौ तु ब्रह्मणोऽन्तिकमागतः ॥ ४४ ॥
दृष्ट्वार्क्षवरजसं पुत्रं ब्रह्मा लोकपितामहः ।
बहुशः सान्त्वयामास पुत्राभ्यां सहितं हरिम् ॥ ४५ ॥
सान्त्वयित्वा ततः पश्चाद्देवदूतमथादिशत् ।
गच्छ मद्वचनाद्दूत किष्किन्धां नाम वै शुभाम् ॥ ४६ ॥
सा ह्यस्य गुणसंपन्ना महती च पुरी शुभा ।
तत्र वानरयूथानि बहूनि निवसन्ति च ॥ ४७ ॥
बहुरत्नसमाकीर्णा वानरैः कामरूपिभिः ।
पण्यापणवती दुर्गा चातुर्वर्ण्ययुता सदा ।
विश्वकर्मकृता दिव्या मनियोगाच्च शोभना ॥ ४८ ॥
तत्रर्क्षरजसं पुत्रं सपुत्रं वानरर्षभम् ।
यूथपालान्समाहूय यांश्चान्यान्प्राकृतान्हरीन् ॥ ४९ ॥
तेषां संभाव्य सर्वेषां मदीयं जनसंसदि ।
अभिषेचय राजानमारोप्य महदासने ॥ ५० ॥
दृष्टमात्राश्च ते सर्वे वानरेण च धीमता ।
अस्यर्क्षरजसो नित्यं भविष्यन्ति वशानुगाः ॥ ५१ ॥
इत्येवमुक्ते वचने ब्रह्मणा तु हरीश्वरम् ।
पुरतःकृत्य दूतोसौ प्रययौ तां पुरीं शुभाम् ॥ ५२ ॥
स प्रविश्यानिलगतिस्तां गुहां वानरोत्तमम् ।
स्थापयामास राजानं पितामहनियोगतः ॥ ५३ ॥
राज्याभिषेकविधिना स्नातोथाभ्यर्चितस्तदा ।
स बद्धमुकुट श्रीमानभिषिक्तः स्वलंकृतः ॥ ५४ ॥
आज्ञापयामास हरीन्सर्वान्मुदितमानसः ।
सप्तद्वीपसमुद्रायां पृथिव्यां ये प्लवङ्गमाः ॥ ५५ ॥
वालिसुग्रीवयोरेव ह्येष त्वृक्षरजाः पिता ।
जननी चैव तु हरिरित्येतद्भद्रमस्तु ते ॥ ५६ ॥
यश्चैतच्छ्रावयेद्विद्वान्यश्चैतच्छृणुयान्नरः ।
सिद्ध्यन्ति तस कार्यार्था मनसो हर्षवर्धनाः ॥ ५७ ॥
एतच्च सर्वं कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तव ।
उत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरीश्वराणाम् ॥ ५८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥
प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
अगस्त्येनरामंप्रति रावणेनसीताहरणेकारणकथनारंभः ॥ १ ॥ कदाचन सनत्कुमारंदृष्ट -वतारावणेन तंप्रति चराचरनियन्तृप्रश्ने तेनतंप्रति नारायणस्यतन्महिमत्वोक्तिः ॥ २ ॥ तथातेन रावणंप्रति हरिकरनिहतानां शाश्वततल्लोकप्राप्तिनिवेदनम् ॥ ३ ॥
एतां श्रुत्वा कथां दिव्यां पौराणीं राघवस्ततः ।
भ्रातृभिः सहितो वीरो विस्मयं परमं ययौ ॥ १ ॥
राघवोथ ऋषेर्वाक्यं श्रुत्वा वचनमब्रवीत् ।
कथेयं महती पुण्या त्वत्प्रसादाच्छ्रुता मया ॥ २ ॥
बृहत्कौतूहलेनास्मि संवृतो मुनिपुङ्गव ।
उत्पत्तिर्यादृशी दिव्या वालिसुग्रीवयोर्द्विज ॥ ३ ॥
ब्रह्मर्षे मम किं चित्रं सुरेन्द्रतपनावुभौ ।
जातौ वानरशार्दूलौ बलेन बलिनां वरौ ॥ ४ ॥
एवमुक्ते तु रामेण कुम्भयोनिरभाषत ।
एवमेतन्महाबाहो वृत्तमासीत्पुरा किल ॥ ५ ॥
अथापरां कथां दिव्यां शृणु राजन्सनातनीम् ।
यदर्थं राम वैदेही रावणेन पुरा हृता ।
तत्तेऽहं कीर्तयिष्यामि समाधिं श्रवणे कुरु ॥ ६ ॥
पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् ।
सनत्कुमारमासीनं रावणो राक्षसाधिपः ।
ददर्श सूर्यसंकाशं ज्वलन्तमिव तेजसा ।। ७ ।।
विनयावनतो भूत्वा ह्यभिवाद्य कृताञ्जलिः ।
उक्तवान्रावणो राम तमृषिं सत्यवादिनम् ॥ ८ ॥
को ह्यस्मिन्प्रवरो लोके देवानां बलवत्तरः ।
यं समाश्रित्य विबुधा जयन्ति समरे रिपून् ॥ ९ ॥
कं यजन्ति जना नित्यं कं ध्यायन्ति च योगिनः ।
एतन्मे शंस भगवन्विस्तरेण तपोधन ॥ १० ॥
विदित्वा हृद्गतं तस्य ध्यानदृष्टिर्महायशाः ।
उवाच रावणं प्रेम्णा श्रूयतामिति पुत्रक ॥ ११ ॥
यो बिभर्ति जगत्कृत्स्नं यस्योत्पत्तिं न विद्महे ।
सुरासुरैर्नतो नित्यं हरिर्नारायणः प्रभुः ॥ १२ ॥
यस्य नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः ।
येन सर्वमिदं सृष्टं विश्वं स्थावरजङ्गमम् ॥ १३ ॥
तं समाश्रित्य विबुधा विधिना हरिमध्वरे ।
पिबन्ति ह्यमृतं चैव मानवाश्च यजन्ति तम् ॥ १४ ॥
पुराणेश्चैव वेदैश्च पाञ्चरात्रैस्तथैव च ।
ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥ १५ ॥
दैत्यदानवरक्षांसि ये चान्ये चामरद्विषः ।
सर्वाञ्जयति संग्रामे सदा सर्वैः स पूज्यते ॥ १६ ॥
श्रुत्वा महर्षेस्तद्वाक्यं रावणो राक्षसाधिपः ।
उवाच प्रणतो भूत्वा पुनरेव महामुनिम् ॥ १७ ॥
दैत्यदानवरक्षांसि ये हताः समरेऽरयः ।
कां गतिं प्रतिपद्यन्ते के च ते हरिणा हताः ॥ १८ ॥
रावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः ।
दैवतैर्निहता नित्यं प्राप्नुवन्ति दिवः स्थलम् ॥ १९ ॥
पुनस्तस्मात्परिभ्रष्टा जायन्ते वसुधातले ।
पूर्वार्जितैः सुखैर्दुःखैर्जायन्ते च म्रियन्ति च ॥ २० ॥
ये ये हताश्थक्रधरेण राजंस्त्रिलोकनाथेन जनार्दनेन ।
ते ते गंतास्तत्र लयं नरेन्द्राः क्रोधोपि देवस्य वरेण तुल्यः ॥ २१ ॥
श्रुत्वा ततस्तद्वचनं निशाचर: सनत्कुमारस्य मुखाद्विनिर्गतम् ।
तथा प्रहृष्टः स बभूव विस्मितः कथं नु यास्यामि हरिं महाहवे ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥
प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥
नारायणकरान्मरणाभिलाषिणंरावणंप्रति तन्मनोभावविदासनत्कुमारेण नारायणस्यराम -त्वेनभुव्यवतरणकथनम् ॥ १ ॥
एवं चिन्तयतस्तस्य रावणस्य दुरात्मनः ।
पुनरेवापरं वाक्यं व्याजहार महामुनिः ॥ १ ॥
मनसश्चेप्सितं यत्ते भविष्यति महाहवे ।
सुखी भव महाबाहो कंचित्कालमुदीक्षय ॥ २ ॥
एवं श्रुत्वा महाबाहुस्तमृषिं प्रत्युवाच सः ।
कीदृशं लक्षणं तस्य ब्रूहि सर्वमशेषतः ॥ ३ ॥
राक्षसस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत ।
श्रूयतां सर्वमाख्यास्ये तव राक्षसपुङ्गव ॥ ४ ॥
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ।
तेन सर्वमिदं प्रोतं त्रैलोक्यं सचराचरम् ॥ ५ ॥
स भूमौ दिवि पाताले पर्वतेषु वनेषु च ।
स्थावरेषु च सर्वेषु वनेषु नगरीषु च ॥ ६ ॥
ओंकारश्चैव सत्यं च सावित्री पृथिवी च सः ।
धराधरधरो देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥
अहश्च रात्रिश्च उभे च सन्ध्ये दिवाकश्चैव यमश्च सोमः ।
स एव कालो ह्यनलश्च वायुः स ब्रह्मरुद्रौ च स एव बालः ॥ ८ ॥
विद्योतति ज्वलति भाति च पाति लोकान्सृजत्ययं संहरति प्रशास्ति ।
क्रीडां करोत्यव्ययलोकनाथो विष्णु पुराणो भवनाशहेतुः ॥ ९ ॥
अथवा बहुना तेन किमुक्तेन दशानन ।
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ १० ॥
नीलोत्पलदलश्यामः किञ्जल्कारुणवस्त्रकः ।
प्रावृट्काले यथा व्योम्नि सतडित्तोयदस्तथा ॥ ११ ॥
श्रीमान्मेघवपुःश्यामः पङ्कजारुणलोचनः ।
श्रीवत्सेनोरसा युक्तः शशाङ्ककृतलक्षणः ॥ १२ ॥
तस्य नित्यं शरीरस्था मेघस्येव शतह्रदाः ।
संग्रामरूपिणी लक्ष्मीर्देहमावृत्य तिष्ठति ॥ १३ ॥
न स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १४ ॥
न हि यज्ञफलैस्तात न तपोभिस्तु संचितैः ।
शक्यते भगवान्द्रष्टुं न दानेन न चेज्यया ॥ १५ ॥
तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैस्तत्परायणैः ।
शक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्बिषैः ॥ १६ ॥
अथवा राक्षसेन्द्र त्वं यदि तं द्रष्टुमिच्छसि ।
कथयिष्यामि ते सर्वं श्रूयतां यदि रोचते ॥ १७ ॥
कृते युगे व्यतीते वै मुखे त्रेतायुगस्य तु ।
हितार्थं देवमर्त्यानां भविता नृपविग्रहः ॥ १८ ॥
इक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि ।
तस्य सूनुर्महातेजा रामो नाम भविष्यति ॥ १९ ॥
महातेजा महाबुद्धिर्महाबलपराक्रमः ।
महाबाहुर्महासत्त्वः क्षमया पृथिवीसमः ॥ २० ॥
आदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभिः सदा ।
भविता हि तदा रामो नरो नारायणः प्रभुः ॥ २१ ॥
पितुर्नियोगात्स विभुर्दण्डके विविधे वने ।
विचरिष्यति धर्मात्मा सह भ्रात्रा महात्मना ॥ २२ ॥
तस्य पत्नी महाभागा लक्ष्मीः सीतेति विश्रुता ।
दुहिता जनकस्यैषा उत्थिता वसुधातलात् ॥ २३ ॥
रूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता ।
छायेवानुगता रामं निशाकरमिव प्रभा ॥ २४ ॥
शीलाचारगुणोपेता साध्वी धैर्यसमन्विता ।
सहस्रांशो रश्मिरिव ह्येकमूर्तिरिव स्थिता ॥ २५ ॥
एवं ते सर्वमाख्यातं मया रावण विस्तरात् ।
महतो देवदेवस्य शाश्वतस्याव्ययस्य च ॥ २६ ॥
एवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् ।
त्वया सह विरोधेच्छुश्चिन्तयामास राघव ॥ २७ ॥
[ संनत्कुमारात्तद्वाक्यं श्रुत्वा राक्षसपुङ्गवः ।
अनुज्ञातं रिपुं प्रायात्प्रणिपत्य महामुनिम् ॥ २८ ॥ ]
वाक्यं सनत्कुमारस्य चिन्तयानो मुहुर्मुहुः ।
रावणो मुमुदे श्रीमान्युद्धार्थी विचचार ह ॥ २९ ॥
श्रुत्वा च तां कथां रामो विस्मयोत्फुल्ललोचनः ।
शिरसश्चालनं कृत्वा तमर्थं परिचिन्तयन् ।। ३० ।।
श्रुत्वा तु वाक्यं च नरेश्वरस्तदा मुदा युतो विस्मयमानचक्षुः ।
पुनश्च तं ज्ञानवतां प्रधानमुवाच वाक्यं वद मे पुरातनम् ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥
प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥
अगस्त्येनरामंप्रति तत्करान्मरणेच्छयारावणेनसीताहरणकरणोक्तिः ॥ १ ॥
ततः पुनर्महातेजाः कुम्भयोनिर्महायशाः ।
उवाच रामं प्रणतं पितामह इवेश्वरम् ॥ १ ॥
श्रूयतामिति चामन्त्र्य रामं सत्यपराक्रमम् ।
कथाशेषं महातेजाः कथयामास स प्रभुः ॥ २ ॥
यथाख्यानं श्रुतं चैव यथावृत्तं च तत्तथा ।
प्रीतात्मा कथयामास राघवाय महामतिः ॥ ३ ।।
एतदर्थं महाबाहो रावणेन दुरात्मना ।
सुता जनकराजस्य हृता राम महामते ॥ ४ ॥
एतां कथां महाबाहो नारदः सुमहायशाः ।
कथयामास मह्यं वै मेरौ गिरिवरोत्तमे ॥ ५ ॥
देवगन्धर्वसिद्धानामृषीणां च महात्मनाम् ।
कथाशेषं पुनः सोथ कथयामास राघव ।
नारदः सुमहातेजा: प्रहसन्निव मानद ।। ६ ।।
तां कथां शृणु राजेन्द्र महापापप्रणाशिनीम् ।
यां तु श्रुत्वा महाबाहो ऋषयो दैवतैः सह ।
ऊचुस्तं नारदं सर्वे हर्षपर्याकुलेक्षणाः ॥ ७ ॥
यश्चेमां श्रावयेन्नित्यं शृणुयाद्वापि भक्तितः ।
स पुत्रपौत्रवान्राम स्वर्गलोके महीयते ॥ ८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥
प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥
अगस्त्येनश्रीरामंप्रति रावणस्यश्वेतद्वीपगमनवृत्तान्तादिनिरूपणपूर्वकं तदभ्यनुज्ञयास्वा -श्रमंप्रतिगमनम् ॥ १ ॥
ततः स रावणो राम पर्यटन्पृथिवीतलम् ।
विजयार्थी महाशूरै राक्षसैः परिवारितः ॥ १ ॥
दैत्यदानवरक्षस्सु यं शृणोति बलाधिकम् ।
तमाह्वयति युद्धार्थी रावणो बलदर्पितः ॥ २ ॥
एवं स पर्यटन्सर्वां पृथिवीं पृथिवीपते ।
ब्रह्मलोकान्निवृत्तं तमाससादाथ नारदम् ॥ ३ ॥
व्रजन्तं मेघपृष्ठस्थ मंशुमन्तमिवापरम् ।
तं चाभिसृत्य प्रीतात्मा ह्यभिवाद्य कृताञ्जलिः ।
उवाच हृष्टमनसा रावणो नारदं तथा ॥ ४ ॥
आब्रह्मभवनाँल्लोकास्त्वया दृष्टा ह्यनेकशः ।
अस्मिँल्लोके महाभाग मानवा बलवत्तराः ।
योद्धुमिच्छामि तैः सार्धं यथाकामं यथासुखम् ॥ ५ ॥
तच्छ्रुत्वा नारदो वाक्यं रावणस्य दुरात्मनः ।
चिन्तयित्वा मुहूर्तं तु महात्मा प्रत्युवाच तम् ॥ ६ ॥
अस्ति राजन्महाद्वीपः क्षीरोदस्य समीपतः ।
यत्र ते चन्द्रसंकाशा मानवाः सुमहाबलाः ॥ ७ ॥
महाकाया महावीर्या मेघस्तनितनिस्वनाः ।
महामात्रा धैर्यवन्तो महापरिघबाहवः ॥ ८ ॥
श्वेतद्वीपे मया दृष्टा मानवा राक्षसाधिप ।
बलवीर्यसमायुक्तान्यादृशांस्त्वमिहेच्छसि ॥ ९ ॥
नारदस्य वचः श्रुत्वा रावणः प्रत्युवाच ह ।
कथं नारद जायन्ते तस्मिन्द्वीपे महाबलाः ॥ १० ॥
श्वेतद्वीपे कथं वासः प्राप्तस्तैः सुमहात्मभिः ।
एतन्मे सर्वमाख्याहि प्रभो नारद तत्वतः ॥ ११ ॥
त्वया दृष्टं जगत्सर्वं हस्तामलकवत्सदा ।
रावणस्य वचः श्रुत्वा नारदः प्रत्युवाच तम् ॥ १२ ॥
अनन्यमानसा नित्यं नारायणपरायणाः ।
तदाराधनसक्ताश्च तच्चित्तास्तत्परायणाः ॥ १३ ॥
एकान्तभावानुगतास्ते नरा राक्षसाधिप ।
तच्चित्तास्तद्गतप्राणा नरा नारायणं श्रिताः ।
श्वेतद्वीपे तु तैर्वास आर्जित: पुण्यकर्तृभिः ॥ १४ ॥
ये हता लोकनाथेन शार्ङ्गमानम्य संयुगे ।
चक्रायुधेन देवेन तेषां वासस्त्रिविष्टपे ॥ १५ ॥
न हि यज्ञफलैस्तात न तपोभिर्न संयमैः ।
न च दानफलैर्मुख्यैः स लोकः प्राप्यते सुखम् ।। १६ ।।
नारदस्य वचः श्रुत्वा दशग्रीवः सुविस्मितः ।
ध्यात्वा तु सुचिरं कालं तेन योत्स्यामि संयुगे ।
आपृच्छ्य नारदं प्रायाच्छ्वेतद्वीपाय रावणः ॥ १७ ॥
नारदोपि चिरं ध्यात्वा कौतूहलसमन्वितः ।
दिदृक्षुः परमाश्चर्यं तत्रैव त्वरितं ययौ ॥ १८ ॥
स हि केलिकरो विप्रो नित्यं च समरप्रियः ॥ १९ ॥
रावणोपि ययौ तत्र राक्षसैः सह राघव ।
महता सिंहनादेन नादयन्स दिशो दश ।। २० ।।
गते तु नारदे तत्र रावणोपि महायशाः ।
प्राप श्वेतं महाद्वीपं दुर्लभं यत्सुरैरपि ॥ २१ ॥
तेजसा तस्य द्वीपस्य रावणस्य बलीयसः ।
तत्तस्य पुष्पकं यानं वातवेगसमाहतम् ।
अवस्थातुं न शक्नोति वाताहत इवाम्बुदः ॥ २२ ॥
सचिवा राक्षसेन्द्रस्य द्वीपमासाद्य दुर्दृशम् ।
अब्रुवन्रावणं भीता राक्षसा जातसाध्वसाः ॥ २३ ॥
राक्षसेन्द्र वयं मूढा भ्रष्टसंज्ञा विचेतसः ।
अवस्थातुं न शक्ष्यामो युद्धं कर्तुं कथंचन ॥ २४ ॥
एवमुक्त्वा दुद्रुवुस्ते सर्व एव निशाचराः ॥ २५ ॥
रावणोपि हि तद्यानं पुष्पकं हेमभूषितम् ।
विसर्जयामास तदा सह तैः क्षणदाचरैः ॥ २६ ॥
गते तु पुष्पके राम रावणो राक्षसाधिपः ।
कृत्वा रूपं महाभीमं सर्वराक्षसवर्जितः ॥
प्रविवेश तदा तस्मिञ्छ्वेतद्वीपे स रावणः ॥ २७ ॥
प्रविशन्नेव तत्राशु नारीभिरुपलक्षितः ॥ २८ ॥
एकया सुस्मितं कृत्वा हस्ते गृह्य स रावणः ।
पृष्टश्चागमनं ब्रूहि किमर्थमिह चागतः ॥ २९ ॥
को हि त्वं कस्य वा पुत्रः केन वा प्रहितो वद ।
इत्युक्तो रावणो राजन्क्रुद्धो वचनमब्रवीत् ॥ ३० ॥
अहं विश्रवसः पुत्रो रावणो नाम राक्षसः ।
युद्धार्थमिह संप्राप्तो न च पश्यामि कंचन ॥ ३१ ॥
एवं कथयतस्तस्य रावणस्य दुरात्मनः ।
प्राहसंस्ते ततः सर्वे सस्वनं युवतीजनाः ॥ ३२ ॥
एकया क्रुद्धया तासां बालवद्गृह्य लीलया ।
भ्रामितस्तु सखीमध्ये विक्षिप्तः स दशाननः ॥ ३३ ॥
सखीमन्यां समाहूय पश्य त्वं कीटकं धृतम् ।
दशास्यं विंशतिभुजं कृष्णाञ्जनसमप्रभम् ॥ ३४ ॥
हस्ताद्धस्तं स च क्षिप्तो भ्राम्यते श्रमलालसः ॥ ३५ ॥
भ्राम्यमाणेन बलिना राक्षसेन विपश्चिता ।
पाणावेकाऽथ संदष्टा रोषेण वनिता शुभा ॥ ३६ ॥
मुक्तस्तया शुभ: कीटो धुन्वन्त्या हस्तवेदनात् ।
गृहीत्वऽन्या राक्षसेन्द्रमुत्पपात विहायसा ।। ३७ ।।
ततस्तामपि संक्रुद्धो विददार नखैर्भृशम् ।
तया स हि विनिर्धूतः सहसैव निशाचरः ॥ ३८ ॥
पपात चाम्भसो मध्ये सागरस्य भयातुरः ।
पर्वतस्येव शिखरं यथा वज्रविदारितम् ॥ ३९ ॥
प्रापतत्सागरस्यैव जले तस्थौ निपातितः ॥ ४० ॥
एवं स रावणो राम श्वेतद्वीपनिवासिभिः ।
स्त्रीजनैर्विनिगृह्याशु भ्रमितश्च ततस्ततः ॥ ४१ ॥
नारदोपि महातेजा रावणं वीक्ष्य धर्षितम् ।
विस्मयं सुचिरं गत्वा प्रजहास ननर्त च ॥ ४२ ॥
ततः स सागरजलाज्जलक्लिन्नशिरोरुहः ।
दक्षिणं तीरमासाद्य चिन्तयामास विस्मितः ॥ ४३ ॥
ये मया निर्जिता लोका न तेषु भयमीदृशम् ।
स्वभावतोल्पवीर्याणां विरुद्धं योषितामिदम् ॥ ४४ ॥
नूनमेतस्य लोकस्य मानवाः प्रभविष्णवः ।
स्त्रीरूपविग्रहधरा यान्ममाचष्ट नारदः ॥ ४५ ॥
बलवद्भिस्तु संधेयमिति संचिन्त्य निश्चितम् ।
भूयस्तासां प्रवृत्त्यर्थं तद्वनं समलोडयत् ॥ ४६ ।।
अथापश्यन्महात्मानं पितामहसुतं प्रभुम् ।
सनत्कुमारमासीनं सर्वयोगभृतां वरम् ॥ ४७ ॥
जाज्वल्यमानं तपसा समिद्भिरिव पावकम् ।
अपश्यद्दक्षिणे पार्श्वे विचरन्तं गुहाश्रयम् ॥ ४८ ॥
स तं दृष्ट्वा तपोवृद्धमभिवाद्य कृताञ्जलिः ।
व्रीडितः परिपप्रच्छ ब्रह्मर्षिं सत्यवादिनम् ॥ ४९ ॥
भगवन्केन लोकोयं कल्पितः सुमहात्मना ।
के वा लोके वसन्त्यस्मिन्सर्वज्ञानवतां वर ॥ ५० ॥
किं च त्वं ध्यायसे ब्रह्मञ्शंस मे सुसमाधिना ।
एतन्मे ब्रूहि तत्सर्वं सर्वज्ञो ह्यसि विश्रुतः ॥ ५१ ॥
एवमुक्तो महातेजा विदित्वा तस्य हृद्गतम् ।
उवाच वाक्यं प्रहसञ्श्रूयतामिति पुत्रक ॥ ५२ ॥
यो हि वै सर्वमेवेदं बिभर्ति सचराचरम् ।
त्रैलोक्यं सर्वभूतात्मा यस्योत्पत्तिं न विद्महे ॥ ५३ ॥
यमाहुर्वेदविदुषः पुरुषं तमसः परम् ।
आदित्यरूपमजरं परमात्मानमीश्वरम् ॥ ५४ ॥
यस्य नाभिभवो ब्रह्मा पिता मम पितामहः ।
कैलासनिलयः श्रीमान्भवश्च क्रोधसंभवः ॥ ५५ ॥
यं समाश्रित्य विबुधा विधिना हरिमध्वरे ।
पिबन्ति चामृतं हृष्टाः परिभूय दितेः सुतान् ॥ ५६ ॥
यस्य श्वासानिलोद्भूताः स्त्रियस्त्वामपराजितम् ।
गृहीत्वा सुमहावेगाश्चिक्षिषुः सागराम्भसि ॥ ५७ ॥
येन दैत्या महावीर्या दानवाश्च सनैर्ऋताः ।
निहता बहुरूपेण बहवो बाहुशालिना ॥ ५८ ॥
तेनायं लोकनाथेन कल्पितः सुमहात्मना ।
गोविन्देन निवासार्थं लोको वै सुमहात्मना ॥ ५९ ॥
अर्चयन्ति जगन्नाथं नारायणपरायणाः ।
अद्वेषाः सर्वभूतेषु महायोगबलाश्रयाः ॥ ६० ॥
यजन्ति पञ्चभिर्यज्ञैः सततं मधुसूदनम् ।
एकान्तिनो महासत्त्वा वसन्ति सुसमाहिताः ॥ ६१ ॥
यः पुराणे च वेदे च पाञ्चरात्रे च पठ्यते ।
सांख्ययोगे च मुनिभिर्ध्यायते चेज्यते च यः ।। ६२ ।।
मुनिभिर्देवसङ्घैश्च स्थाप्यते भगवान्हरिः ।
मधुकैटभयोर्हन्ता यस्तमन्वेष्टुमर्हति ॥ ६३ ॥
पितामहोपि तं देवं न च जानाति रावण ॥ ६४ ॥
यस्तु नित्यं विजानाति हरि नारायणं विभुम् ।
जगदाभरणं पुण्यं तस्य मोक्षो न संशयः ॥ ६५ ॥
एतच्छ्रुत्वा मुनेर्वाक्यं प्रसन्नेनान्तरात्मना ।
पुनरेव ततो रक्षः पप्रच्छ मुनिपुङ्गवम् ।। ६६ ॥
कथं च दृश्यते देव कथं च श्रूयते भुवि ।
कथं च क्रीडते लोके द्रष्टुं वा शक्यते कथम् ॥ ६७ ॥
कियत्कालेन वा ब्रह्मँल्लोकोयं तपसा मया ।
शक्यः प्रवेष्टुं तद्ब्रूहि सर्वं हि विदितं तव ॥ ६८ ॥
आकर्ण्य सस्पृहं तस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच मुनिर्धीमांस्तत्सर्वमनुपूर्वशः ॥ ६९ ॥
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ।
येन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ७० ॥
स भूमौ दिवि पाताले पर्वतेषु वनेषु च ।
सागरेषु च सर्वेषु वसतीह सरित्सु च ॥ ७१ ॥
अहश्व रात्रिश्च उभे च संध्ये दिवाकरश्चैव यमश्च सोमः ।
स एव कालो वरुणः स एव स ब्रह्मरुद्रेन्द्रमुखः स चाग्निः ॥ ७२ ॥
ओंकारी भूर्भुव: स्वश्च गायत्री सन्ध्य एव च ।
धराधरधरो देवः सोनन्त इति विश्रुतः ॥ ७३ ॥
विद्योतति ज्वलति वर्षति वाति पाति गर्जत्युपैति तपते दहते स चैव ।
लोकान्सृजत्यवति संहरते सदैव दैत्यान्स एव दहते जगति प्रसह्य ॥ ७४ ॥
स न शक्य: सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ।
प्रसादं कुरुते यस्य स वै तं द्रष्टुमर्हति ॥ ७५ ॥
तद्गतैस्तद्गतप्राणैः शुचिभिस्तत्परायणैः ।
शक्यः प्रवेष्टुं लोकोऽयं ज्ञाननिर्घृतकिल्बिषैः ॥ ७६ ॥
एवंविधैरयं लोकः प्राप्यते पुरुषोत्तमैः ।
अकामकारिभिर्देवैरक्रोधैर्दग्धतामसैः ॥ ७७ ॥
यश्चैव सुमहाकायः प्रविष्टो लोकमव्ययम् ।
आस्ते तथैव हरिणा कृता तेन महापुरी ॥ ७८ ॥
अष्टाविंशे युगे प्राप्ते मनोरस्य विवस्वतः ।
वैष्णवीं मूर्तिमाविश्य लोकमेनं प्रवेक्ष्यसि ॥ ७९ ॥
नातः परतरं श्रोतुं मत्तो वै राक्षसेश्वर ।
उत्तिष्ट गच्छ भद्रं ते प्राप्स्यसे गतिमीप्सिताम् ॥ ८० ॥
एवमुक्तस्तथेत्युक्त्वा तं प्रणम्याभिपूज्य च ।
समासाद्य महत्सैन्यं ययौ लङ्कामशङ्कितः ॥ ८१ ॥
नारदोपि प्रहृष्टात्मादृष्ट्वा सर्वमशेषतः ।
द्रुतं मेरुमुपागम्य विशते तां शुभां सभाम् ॥ ८२ ॥
तस्यां ब्रह्माणमासीनमभिवाद्य कृताञ्जलिः ।
देवान्संभावयामास समीपे पद्मजन्मनः ॥ ८३ ॥
निशम्य सुमहत्पुण्यमाख्यानं पद्मसंभवः ।
नारदं संपरिष्वज्य प्राह भूतभविष्यवित् ॥ ८४ ॥
हिरण्यकशिपुः पूर्वं बभूवैष निशाचरः ।
अवध्यो बहुभिर्योगैर्वरदानान्महाबलः ॥ ८५ ॥
स कदाचिन्महात्मानं पद्मनाभमधोक्षजम् ।
सभायां गर्हयन्दर्पानृसिंहवपुषं हरिम् ॥ ८६ ॥
समुद्गृह्य नखैस्तेन दीर्यमाणस्य संयुगे ।
रक्तसंस्पर्शजं दिव्यं चक्षुर्दैत्यपतेरभूत् ॥ ८७ ॥
स तु तद्राक्षसं जन्म तस्मान्मानुषजन्मनः ।
भाविनीं निधनप्राप्तिं पश्यन्दिव्येन चक्षुषा ॥ ८८ ॥
श्रीवत्साङ्कं तदङ्कस्थः प्राह दैत्यः शनैरिदम् ।
नखैर्विभिन्नहृदयः क्षणं दीनः कृताञ्जलिः ॥ ८९ ॥
तप्तहाटककेशान्त ज्वलत्पावकलोचन ।
वज्रायुधनखस्पर्श दिव्यसिंह नमोस्तु ते ॥ ९० ।।
कैटभारे हरे देव विष्णो विपुलविक्रम ।
त्राहि मां भूतभव्येश शरणागतवत्सल ॥ ९९ ॥
त्वद्धते राक्षसे भावे मानुषे च पदे विभो ।
प्राप्नुयां त्वन्मयो लोकं लोकनाथ प्रसीद मे ॥ ९२ ॥
एवमुक्तस्तथेत्युक्त्वा ययौ दैत्यपतिं हरिः ।
हंसयुक्तविमानेन किङ्किणीजालमालिना ॥ ९३ ॥
स एव च पुनस्तत्र राक्षसोऽभून्महासुरः ।
राक्षसेन विधानेन सदा तद्भावभावितः ॥ ९४ ॥
मानुषत्वमुपागम्य लोकान्हन्तुं कृतोद्यमम् ।
तृतीयं च हतं तेन श्वेतद्वीपं प्रवेक्ष्यति ॥ ९५ ॥
वैष्णवं तेज आविश्य यथोक्तं ब्रह्मवादिना ।
मयाऽपि चेहसंस्थेन दृष्टमेवाक्षदर्शनात् ॥ ९६ ॥
मयाऽवलम्बितं सर्वं देवस्य परमात्मनः ।
यस्त्विदं पठते नित्यं पुण्यमाख्यानमादितः ॥ ९७ ।।
नारदोक्तं मनुष्यो वै स याति परमां गतिम् ।
वैष्णवं परमाख्यानं सर्वपापप्रणाशनम् ॥ ९८ ॥
नित्यं च शृणुयाद्यश्च सोपि पापात्प्रमुच्यते ।
जातिस्मरत्वं विप्रत्वं कुले महति संभवम् ।
सर्वज्ञतां च लभते नात्र कार्या विचारणा ॥ ९९ ॥
स च संस्तूय च हरिं प्रविष्टः कमलोद्भवः ।
अनुभाव्य सुरान्सर्वान्ययौ स्वं लोकमीश्वरः ॥ १०० ॥
नारदस्तु ततस्तस्मान्मेरुपृष्ठं परिभ्रमन् ।
स तु मामाजगामाशु दिदृक्षुर्द्वादशात्मकम् ।। १०१ ॥
स मया शास्त्रतः सम्यगभिवाद्याभिपूजितः ।
आख्यानमिदमाचष्ट ममानुग्रहकाम्यया ॥ १०२ ॥
मयाप्येतत्सदस्येत्य पावनार्थं मनोहरम् ।
भक्त्या तव महाबाहो कथामृतमुदाहृतम् ।। १०३ ।।
एतदर्थं महाबाहो रावणेन दुरात्मना ।
विज्ञाय च हृता सीता त्वत्तो मरणकाङ्क्षया ॥ १०४ ॥
भवान्नारायणो देवः शङ्खचक्रगदाधरः ।
शार्ङ्गपद्मयुधधरः सर्वदेवनमस्कृतः ॥ १०५ ॥
श्रीवत्साङ्को हृषीकेशः सर्वदेवाभिपूजितः ।
पद्मनाभो महायोगी भक्तानामभयप्रदः ॥ १०६ ॥
बधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम् ।
किं न वेत्सि त्वमात्मानं राम नारायणो ह्यहम् ॥ १० ।।
मा मुह्यस्व महाभाग स्मर चात्मानमात्मना ।
गुह्याद्गुह्यतरस्त्वं हि एवमाह पितामहः ॥ १०८ ॥
त्रिगुणश्च त्रिवेदी च त्रिधामा त्रिपदात्मकः ।
त्रिकालकर्मा त्रैविद्यस्त्रिदशारिप्रमर्दनः ॥ १०९ ॥
त्वयाऽऽक्रान्तास्त्रयो लोकाः पुराणैर्विक्रमैस्त्रिभिः ।
त्वं महेन्द्रानुजः श्रीमान्बलिबन्धन कारणात् ।। ११० ।।
अदित्या गर्भसंभूतो विष्णुस्त्वं हि सनातनः ।
लोकाननुग्रहीतुं वै प्रविष्टो मानुषीं तनुम् ॥ १११ ॥
तदिदं साधितं कार्यं सुराणां सुरसत्तम ।
निहतो रावणः पापः सपुत्रगणबान्धवः ॥ ११२ ।।
प्रहृष्टाश्च सुराः सर्वे ऋषयश्च तपोधनाः ।
प्रशान्तं च जगत्सर्वं त्वत्प्रसादात्सुरेश्वर ॥ ११३ ॥
सीता लक्ष्मीर्महाभागा संभूता वसुधातले ।
स्वदर्थमियमुत्पन्ना जनकस्य गृहे शुभा ।
लङ्कामानीय यत्नेन मातेव परिरक्षिता ॥ ११४ ॥
एवमेतत्समाख्यातं तव राम महायशः ।
ममापि नारदेनोक्तमृषिणा दीर्घजीविना ॥ ११५ ॥
यथा सनत्कुमारेण व्याख्यातं तस्य रक्षसः ।
तेनापि च तदेवाशु कृतं सर्वमशेषतः ॥ ११६ ॥
यश्चैतच्छ्रावयेच्छ्राद्धे विद्वान्ब्राह्मणसन्निधौ ।
अनन्तमक्षयं दत्तं पितृणामुपतिष्ठति ॥ ११७ ॥
एतां श्रुत्वा कथां दिव्यां रामो राजीवलोचनः ।
परं विस्मयमापन्नो भ्रातुभिः सह राघवः ॥ ११८ ॥
वानराः सहसुग्रीवा राक्षसाः सविभीषणाः ।
राजानश्च महामात्या ये चान्येऽपि समागताः ॥ ११९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मसमन्विताः ।
सर्वे चोत्फुल्लनयनाः सर्वे हर्षसमन्विताः ।
राममेवानुपश्यन्ति भृशमत्यन्तहर्षिताः ॥ १२० ॥
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतच्छ्रुतं त्वया ।
दृष्टः संभाषितश्चापि राम गच्छामहे वयम् ।
[ एवमुक्त्वा गताः सर्वे पूजितास्ते यथागतम् ॥ १२१ ॥ ]
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥