श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवमः सर्गः
कदाचन तनययासहरसातलाद्भूतलंगतेनसुमालिनाराक्षसेन विश्रवसोदर्शनायपुष्पक -विमानेनगच्छतः कुबेरस्य दर्शनम् ॥ १ ॥ तत्तुल्यपौत्रकामेनतेन निजकन्यायाःकैकस्या विश्रवस्समीपंप्रति प्रेषणम् ॥ २ ॥ तपःप्रभावेन कैकसीभावविदातेन तांप्रति प्रदोषसमयसमा -गमनाद्धेतो रूक्षराक्षसरूपापत्यजननोक्तिः ॥ ३ ॥ ततस्तयाप्रार्थनाप्रसादितेनतेन पुनस्तांप्रति धर्मिष्ठकनिष्ठतनयजननविषयकवरदानम् ॥ ४ ॥ ततःकैकस्यां कालक्रमेणविश्रवस्सकाशा -द्रावणकुंभकर्णशूर्पणखाविभीषणानांजननम् ॥ ५ ॥ रावणेन मातृप्रेरणयाकुंभकर्णविभीषणाभ्यां -सह गोकर्णेतपश्चरणम् ॥ ६ ॥
कस्य चित्वथ कालस्य सुमाली नाम राक्षसः ।
रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ १ ॥
नीलजीमूतसंकाशस्तप्त काञ्चनकुण्डलः ।
कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ २ ॥
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ।
तदाऽपश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ३ ॥
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् ।
तं दृष्ट्वाऽमरसंकाशं स्वच्छन्दं तपनोपमम् ॥ ४ ॥
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः ।
इत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ५ ॥
विना पद्मं पद्मं त्यक्त्वा स्थितां ॥ २-५ ॥
किंकृतं श्रेय इत्येवं वर्धेमहि कथं वयम् ।
अथाब्रवीत्सुतां रक्ष: कैकसीं नाम नामतः ॥ ६ ॥
राक्षसानां श्रेयः किंकृतं स्यात् केनोपायेन कृतं स्यात् । कथं वयं वर्धेमहीत्येवं चिन्तयामासेति योजना ॥ ६ ॥
पुत्रि प्रदानकालोऽयं यौवनं तेतिवर्तते ।
प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७ ॥
प्रत्याख्यानात् भीतैरस्माभिस्त्वं वरैर्न प्रतिगृह्यसे । प्रतिग्रहं न प्राप्नोषीत्यर्थः ॥ ७ ॥
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ।
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ८ ॥
यन्त्रिताः कृतप्रयासा: । धर्मबुद्धयः विवाहधर्मनिमित्तचिन्तावन्तः ॥ ८ ॥
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ९ ॥
कन्यापितृत्वस्य दुःखत्वमेव प्रदर्शयति – न ज्ञायत इति ॥ ९ ॥
मातु: कुलं पितृकुलं यत्र चैव प्रदीयते ।
कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ १० ॥
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् ।
भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ११ ॥
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।
तेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ १२ ॥
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् ।
तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। १३ ।।
अथ वरणानन्तरमपि विशिष्य दुःखहेतुत्वं कन्याया इत्याह – मातुरिति ॥ संशये स्थाप्य तिष्ठतीति । कथमस्याश्चारित्रभ्रंशो न भविष्यतीति कुलत्रयं चिन्ताकुलमेव सदा भवतीत्यर्थः ॥ १०-१३ ॥
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।
अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ १४ ॥
उपातिष्ठत् प्रदोषे अग्निहोत्रं कृतवानित्यर्थः ॥ १४ ॥
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् ।
उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ।
विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ १५ ॥
स तु तां प्रेक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।
अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ १६ ॥
पितृगौरवात् पितरि बहुमानात् । चरणाधोमुखी चरणसमीपाधोमुखी । विलिखन्तीति चिन्तानुभावः ॥ १५-१६ ।।
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।
किं कार्यं कस्य वा हेतोस्तवतो ब्रूहि शोभने ।। १७ ।।
कुतः कस्माद्देशात् । किं कार्यं मया कर्तव्यं कस्य हेतोः कस्मै प्रयोजनाय ॥ १७ ॥
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।
आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १८ ॥
मे मतं त्वद्भर्तृकत्वाभिलाषित्वं ॥ १८ ॥
किन्तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् ।
कैकसी नाम नाम्नाऽहं शेषं त्वं ज्ञातुमर्हसि ॥ १९ ॥
तच्च वक्तुं लज्जावशादनुचितमिति सूचयित्वा वक्तुमुचितमाह – किन्त्विति ॥ १९ ॥
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।
विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ २० ॥
कारणं आगमनकारणं ॥ २० ॥
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ।
दारुणायां तु वेलायां यस्मान्वं मामुपस्थिता ॥ २१ ॥
तदेवाह – सुतेति ॥ २१ ।।
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ २२ ॥
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ।
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ २३ ॥
भगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः ।
नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ २४ ॥
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ।
उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ २५ ॥
पश्चिमो यस्तव सुतो भविष्यति शुभानने ।
मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ २६ ॥
एवमुक्ता तु सा कन्या राम कालेन केनचित् ।
जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ २७ ॥
दशग्रीवं महादंष्ट्र नीलाञ्जनचयोपमम् ।
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २८ ॥
दारुणान् क्रूरस्वभावान् । दारुणाकारान् कुरवेषान् । दारुणाभिजनप्रियान् दारुणाभिजने क्रूरबन्धौ राक्षसरूपे प्रियं येषां तान् ॥ २२-२८ ॥
तस्मिञ्जाते तु तत्काले सज्वालकबलाः शिवाः ।
क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। २९ ।।
सज्वालकबलाः ज्वालारूपास्यान्तर्गतकबलाः । शिवाः वृद्धजम्बुकाः ॥ २९ ॥
ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः ।
प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ३० ॥
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः ।
अक्षोभ्यः क्षुमितश्चैव समुद्रः सरितां पतिः ॥ ३१ ॥
अथ नामाकरोत्तस्य पितामहसमः पिता ।
दशग्रीव: प्रसूतोयं दशग्रीवो भविष्यति ॥ ३२ ॥
देवः पर्जन्यदेवः ॥ ३०-३२ ॥
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।
प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ ३३ ॥
ततः शूर्पणखा नाम संजज्ञे विकृतानना ।
विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ३४ ॥
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ ३५ ॥
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ।
वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तथा ॥ ३६ ॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते नैवास्ति । प्रमाणभूतेष्विति शेषः ॥ ३३-३६ ॥
तौ तु तत्र महारण्ये ववृधाते महौजसौ ।
कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ३७ ॥
कुम्भकर्ण: प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ।
त्रैलोक्यं भक्षयन्नित्यासंतुष्टो विचचार ह ॥ ३८ ॥
तत्र महारण्ये पितुराश्रमारण्ये ॥ ३७-३८ ।।
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।
स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ३९ ॥
अथ वैश्रवणो देवस्तत्र कालेन केनचित् ।
आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ४० ॥
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।
आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ४१ ॥
स्वाध्यायं नियतं आहारः अहरहरिति स्वाध्यायनियताहारः ॥ ३९-४१ ॥
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।
भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ४२ ॥
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।
यथा त्वमसि मे पुत्र भव वैश्रवणोपमः ॥ ४३ ॥
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ४४ ॥
सत्यं ते प्रविजानामि भ्रातृतुल्योऽधिकोपि वा ।
भविष्याम्योजसा चैव संतापं त्यज हृद्गतम् ।। ४५ ।।
ततस्तेनैव कोपेन दशग्रीवः सहानुजः ।
चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ४६ ॥
प्राप्स्यामि तपसा काममिति कृत्वाऽध्यवस्य च ।
आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ४७ ॥
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।
अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ४८ ।।
आत्मानं ईदृशं कुबेरवद्दिव्यवैभवरहितं । दरिद्रमित्यर्थः ॥ ४२-४८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवमः सर्गः ॥ ९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥