श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडशीतितमःसर्गः
ब्रह्महत्यापीडितेइन्द्रेदिगन्तंगते संक्षुभितेचसकललोके देवैरिन्द्रान्वेषणपूर्वकं तेनाश्वमेधयाजनम् ॥ १ ॥ तेनेन्द्रंत्यक्तवत्याब्रह्महत्यया देवान्प्रति स्वस्यस्थानकल्पनमार्थने देवैस्तस्यानद्यादिस्थानचतुष्टयकल्पनम् ॥ २ ॥ एवं लक्ष्मणेन रामंप्रत्यश्वमेधमहिमोक्तिः ॥ ३ ॥
तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।
कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ १ ।।
कथाशेषं वक्तुमिति शेषः ॥ १ ॥
ततो हते महावीर्ये वृत्रे देवभयंकरे ।
ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥
न संज्ञां लेभ इति । ग्रहग्रस्तवदप्रकाशोभूदित्यर्थः ॥ २ ॥
सोन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।
कालं तत्रावसत्कंचिद्वेष्टमान इवोरगः ॥ ३ ॥
कंचित्कालमित्यन्वयः ॥ ३ ॥
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।
भूमिश्च ध्वस्तसंकाशा निस्नेहा शुष्ककानना ॥ ४ ॥
नष्टे अदृष्टे । उद्विग्नमिति अराजकत्वादिति शेषः । निस्नेहा अनार्द्रा ॥ ४ ॥
निःस्रोतसश्च ते सर्वे ह्रदाश्च सरितस्तथा ।
संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥
अनावृष्टिकृत इति । इन्द्राभावमूलानावृष्टिकृत इत्यर्थः ॥ ५ ॥
क्षीयमाणे तु लोकेऽस्मिन्त्संभ्रान्तमनसः सुराः ।
यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥
ततः सर्वे सुरगणा: सोपाध्यायाः सहर्षिभिः ।
तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥
समुपानयन् संपादयन्ति स्म ॥ ६-७ ।।
ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।
तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ ८ ॥
ततोश्वमेधः सुमहान्महेन्द्रस महात्मनः ।
ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥
ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।
अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥
तं देवेशमिति । विष्णुमित्यर्थः ॥ ८-१० ॥
ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।
चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥
हे दुरासदे ब्रह्महत्ये इति शेषः ॥ ११ ॥
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।
सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥
सन्निधौ देवानां सन्निधौ । संदधाविति पाठे चतुर्धा विभागं संपादितवतीत्यर्थः । अन्यत्र महेन्द्रादन्यत्र । दुर्वसा महेन्द्रे दुर्वसा ॥ १२ ॥
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।
चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ १३ ॥
भूम्यामहं सर्वकालमेकेनांशेन दुर्वसा ।
वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ १४ ॥
चतुर इति । सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वला: इति स्मरणात् । पक्षा वै मासाः इति पक्षानुसारेण चतुष्ट्वात् । दर्पघ्नी । अपुण्यकृतामिति शेषः । कामवारिणी । स्नातुमिच्छतामिति शेषः । कामचारिणीति च पाठ: ।। १३-१४ ।।
योयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।
त्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥
हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।
तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।
तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ १७ ॥
ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे ।
विज्वरः स च पूतात्मा चासवः समपद्यत ॥ १८ ॥
प्रशान्तं च जगत्सर्व सहस्राक्षे प्रतिष्ठिते ।
यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥
ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ।
यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥
इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ।
परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ २१ ॥
दर्पघातिनी । पुरुषसंभोगसुखहारिणीति भावः ।। १५-२१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडशीतितमःसर्गः॥८६ ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ।।