[highlight_content]

102 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्युत्तरशततमः सर्गः

भरतवाक्यश्रवणतुष्टेनरामेण सौमित्रिंप्रति तत्पुत्रयोरङ्गदचन्द्र केत्वोर्निवासायदेशा -न्वेषणचोदने भरतेनरामंप्रति कारुपथदेशस्थयोरङ्गदीयचन्द्रकान्ता ख्यपुरयोर्वासार्हत्वकथनम् ॥ १ ॥ रामेणाङ्गदीय चन्द्रकान्ताख्यपुरयोः क्रमेणाङ्गदचन्द्रकेत्वोरभिषेककरणपूर्वकं -प्रस्थापने तदनुगताभ्यांसौमित्रिभरताभ्यां तत्रसंवत्सरमधिवासेन पुनरयोध्यांप्रत्यागमनम् ॥ ३ ॥

तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।

वाक्यं चाद्भुतसंकाशं तदा प्रोवाच लक्ष्मणम् ॥ १ ॥

इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।

अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ २ ॥

इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् ।

रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ ॥ ३ ॥

राज्यार्थे राज्यरक्षाविषये ॥ २-३ ॥

 

न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।

स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।। ४ ।।

नापराध्यामहे । कस्यापि भूतस्येतिशेषः ॥ ४ ॥

 

तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।

अयं कारुपथो देशो रमणीयो निरामयः ॥ ५ ॥

कारुपथः कारुपथाख्यः पाश्चात्यदेशविशेषः ॥ ५ ॥

 

निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।

चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥ ६ ॥

तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।

तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७ ॥

अङ्गदीया पुरी रम्या ह्यङ्गदस्य निवेशिता ।

रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ८ ॥

तत्र देशे अङ्गदस्य पुरं अङ्गदीयाख्यं निवेश्यतां चन्द्रकेतोः चन्द्रकान्ताख्यं ॥ ६-८ ॥

 

चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता ।

चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ ९ ॥

ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।

ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥ १० ॥

अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।

अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ ११ ॥

अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह ।

चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ १२ ॥

लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।

पुत्रे स्थिते दुराधर्षे ह्ययोध्यां पुनरागमत् ॥ १३ ॥

मल्लस्य श्रेष्ठस्य । मल्लभूम्यां मल्लदेशे उत्तरे ॥ ९-१३ ।।

 

भरतोपि तथैवोष्य संवत्सरमतोधिकम् ।

अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ १४ ॥

भरतोपि तथैवोष्येति । चन्द्रकेतुसमीप इति शेषः ॥ १४ ॥

 

उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।

कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ॥ १५ ॥

एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।

धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ १६ ॥

न जज्ञाते जानातेर्लिट्द्विवचनं । नावगतवन्तौ । संधिः छान्दसः ॥ १५-१६ ॥

 

विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।

त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयोग्नयः ॥ १७ ॥

धर्मसाधनं पुरं धर्मपुरं तस्मिन् ॥ १७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्युत्तरशततमः सर्गः ॥ १०२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्व्युत्तरशततमः सर्गः ॥ १०२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.