श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः
त्रैलोक्यविजयप्रतिज्ञानपूर्वकं प्रहस्तादिसचिवैः सेनयाचसहनिर्गतेनरावणेन प्रथमंकुबेर -जयाय कैलासंप्रतिगमनम् ॥ १ ॥ कुबेरसेनाभिःसहयुध्यतारावणेन सूर्यभानुनामकयक्षवधे यक्षसेनाभी रावणभयात्पलायनम् ॥ २ ॥
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ १ ॥
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।
संवृतः प्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ २ ॥
पुराणि स नदी: शैलान्वनान्युपवनानि च ।
अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥ ३ ॥
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।
युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥ ४ ॥
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।
राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ५ ॥
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।
अनुज्ञाता ययुर्हृष्टा युद्धाय धनदेन ते ॥ ६ ॥
ततो बलानां संक्षोभो व्यवर्धत महोदधेः ।
तस्य नैर्ऋतराजस्य शैलं संचालयन्निव ॥ ७ ॥
ततो युद्धं समभवद्यक्षराक्षससंकुलम् ।
व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ८ ॥
न शेकुरित्यत्र हेतुमाह – राज्ञो भ्रातेति ॥ ५-८ ॥
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।
हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ९ ॥
हर्षनादं सिंहनादं ॥ ९ ॥
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।
तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥ १० ॥
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।
हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ११ ॥
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।
वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ १२ ॥
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।
महीधर इवाम्भोदैर्घाराशतसमुक्षितः ॥ १३ ॥
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ १४ ॥
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।
वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥ १५ ॥
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।
अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ १६ ॥
केचित्समाहता भग्नाः पतिताः समरक्षितौ ।
ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ १७ ॥
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिर ।
सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥ १८ ॥
सहस्राणां यक्षाणामेकैकं सहस्रं प्रत्येकमयोधयन् ॥ १०-१८ ।।
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।
प्रेक्षतामृषिसङ्घानां न बभ्रुवान्तरं दिवि ॥ १९ ॥
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।
धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। २० ।।
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।
प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥ २१ ॥
तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।
पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ २२ ॥
ससंज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।
तं यक्षं योधयामास स च ममः प्रदुद्रुवे ॥ २३ ॥
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।
मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ २४ ॥
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।
सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥ २५ ॥
स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।
यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ २६ ॥
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।
रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ २७ ॥
स शैलशिखराभेण तोरणेन समाहतः ।
जगाम न क्षतिं वीरो वरदानात्स्वयंभुवः ॥ २८ ॥
पृथिवीतले युध्यतां हतानामत एव स्वर्गस्थानां तथा व्योम्नि स्थित्वा युद्धं प्रेक्षतां प्रेक्षमाणानामृषिसंघानां च । दिवि आकाशे । अन्तरमवस्थातुमवकाशः न बभूव । व्योन्नि निबिडमभूदित्यर्थः ।। १९-२८ ॥
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।
नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ २९ ॥
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।
ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।
व्यक्तप्रहरणाः शान्ता विवर्णवदनास्तदा ।। ३० ।।
भस्मीकृततनुरिति । रावणकृततोरणदण्डसमाहननेन चूर्णित इत्यर्थः ।। २९-३० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥