श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः
कदाचन भद्रासनमलंकुर्वाणेरामभद्रे सुमन्त्रेणतंप्रति च्यवनमुखमुनिगणस्य तद्दिदृक्षयाद्वारदेशावस्थाननिवेदनम् ॥ १ ॥ रामेण स्वचोदनयासुमन्त्रप्रवेशितानांमुनीनां -सत्कारपूर्वकं तान्प्रति तत्कार्यकरणप्रतिज्ञानपूर्वकं कार्यप्रश्नः ॥ २ ॥ मुनिभिस्तप्रतिज्ञामात्रा -न्निजकार्यनिष्पत्तिनिर्धारणेन हर्षाद्रामप्रशंसनम् ॥ ३ ॥
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ १ ॥
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ २ ॥
तयोरित्यादि ॥ वासन्तिकी वसन्ते भवा । एवं । प्रतिदिवसं संवदतोर्धर्मसंवादं कुर्वतोः । तत्पूर्वं प्रजारक्षणं कुर्वतोरिति शेषः । वासन्तिकी निशा प्राप्तेति । कालान्तर इति शेषः । एतेन वसन्ते समानीता देवी पुनर्वसन्ते त्यक्तेति सूचयति । इदं च कालवचनमृषिकार्योचितत्वप्रदर्शनार्थं ॥ १-२ ।।
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥ ३ ॥
द्वारि प्रतिहताः निरुद्धा इत्यर्थः ॥ ३ ॥
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ ४ ॥
भृगोर्गोत्रापत्यं भार्गवः स चासौ च्यवनश्च तं । महाराज्ञः महाराजस्य । दर्शनं प्रति अस्मदादीन चोदयन्ति प्रेरयन्ति । महाराज्ञश्चोदयन्तीति च पाठः ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥ ५ ॥
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मृर्ध्नि कृताञ्जलिः ।
प्रवेशयामास तदा तापसान्त्सुदुरासदान् ।। ६ ।।
भार्गवप्रमुखाः च्यवनप्रमुखाः ।। ५-६ ॥
शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।
प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ ७ ॥
ते द्विजा: पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ ८ ॥
प्रतिगृह्य तु तत्सर्वं रामः प्रीति पुरस्कृतः ।
तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥ ९ ॥
उवाच च महाबाहुः सर्वानेव महामुनीन् ।
इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥ १० ॥
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ ११ ॥
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमनवीत् ॥ १२ ॥
समधिकं अधिकसहितं ॥ ७-१२ ।।
किमागमन कार्यं वः किं करोमि समाहितः ।
आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ १३ ॥
इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।
सर्वमेतद्विजार्थं मे सत्यमेतद्ब्रवीमि वः ॥ १४ ॥
किं करोमि किं कुर्यां । सर्वकामकरः सर्वाभीष्टसाधकः ।। १३-१४ ॥
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ १५ ॥
साधुकारः साधु साध्विति संभाषणं ॥ १५
ऊचुश्च ते महात्मानो हर्षेण महताऽऽवृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ १६ ॥
॥ नान्यतः नान्यस्य ॥ १६ ॥
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ १७ ॥
त्वया पुनर्ब्राह्मण गौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्रातुमृषींस्त्वमर्हसि ॥ १८ ॥
कार्यस्य गौरवं मत्वा ततः पूर्वं करिष्यामीति प्रतिज्ञां नाभ्यरोचयन् न कुर्वन्ति । अशक्यनियोगापत्तिभयादिति शेषः ।। १७-१८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः ॥ ६० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥